७०

सप्ततितमः सर्गः ७०

श्रीवसिष्ठ उवाच ।

असंसङ्गसुखाभ्याससंस्थितैर्विततात्मभिः ।
व्यवहारिभिरप्यन्तर्वीतशोकभयैः स्थितम् ॥ १ ॥

असङ्गसुखविश्रान्तो व्यवहारसमुद्भवैः ।
यथा न दूयते दोषैस्तथा युक्त्योपपाद्यते ॥ १ ॥

असंसङ्गसुखस्याभ्यासो निरन्तरमास्वादनं तत्र स्थितैर्विश्रान्तैः ॥ १ ॥

प्रक्षुब्धाक्षुब्धदेहस्याविसंवादेन संविदः ।
अन्तःपूर्णस्य वदने श्रीरिन्दोरिव लक्ष्यते ॥ २ ॥

तेषां तथा स्थितिः केन लिङ्गेन ज्ञाता तदाह - प्रक्षुब्धेति । यतः
प्रक्षोभनिमित्तैः पुत्रधननाशबन्धनापमानादिभिः
प्रक्षुब्धदेहवल्लक्ष्यमाणस्यापि वस्तुतस्तद्रहितस्य संविदश्चित्तवृत्तेः ।
परमार्थसुखे अविसंवादेन अविप्रलम्भेन हेतुना अन्तःपूर्णस्य । इन्दुपक्षे
ज्योतिश्चक्ररथादिगत्या प्रक्षुब्धदेहस्यापि स्वासने स्थिरत्वादक्षुब्धदेहस्य ।
संवेदयतीति संवित्सूर्यस्तस्य अविसंवादेन
पौर्णमास्यामत्यन्तसाम्मुख्यादवैषम्येणान्तरमृतैः पूर्णस्य
वदनसदृशे बिम्बे ॥ २ ॥

चेत्यहीनं चिदालम्बं मनो यस्य गतज्वरम् ।
तेनाम्बु कतकेनेव जनता सम्प्रसीदति ॥ ३ ॥

यदनुग्रहादन्येऽपि क्षोभमालिन्यान्मुच्यन्ते तस्य निर्विक्षोभत्वं किं
वाच्यमित्याशयेनाह - चेत्येति ॥ ३ ॥

नित्यमात्मदृशा लीनो ज्ञः स्वस्थश्चञ्चलोऽपि सन् ।
क्षुब्धो दृश्यत एवासौ प्रतिबिम्बार्कवन्मुधा ॥ ४ ॥

आत्मारामा महात्मानः प्रबुद्धः परमोदयाः ।
बहिः पिच्छाग्रतरला अन्तर्मेरुरिवाचलाः ॥ ५ ॥

चित्तमात्मत्वमायातं सुखदुःखानुरञ्जनम् ।
नोपैति रङ्गसंयुक्तो मसृणः स्फटिको यथा ॥ ६ ॥

विक्षोभदर्शनेऽपि तदभावे दृष्टान्तमाह - चित्तमिति । रङ्गो
रञ्जकोपाधिर्जपाकुसुमादिः । मसृणः स्निग्धः ॥ ६ ॥

संसारदृष्टिरुदितं ज्ञातलोकपरावरम् ।
न रञ्जयति सच्चित्तं जललेखा यथाम्बुजम् ॥ ७ ॥

उदितं निरतिशयानन्दाभ्युदयं प्राप्तवन्तम् । ज्ञातं लोकानां परं
ईश्वरतत्त्वमवरं जीवतत्त्वं च येन ॥ ७ ॥

आत्मध्यानमयोऽध्याने प्रबोधं परमात्मनः ।
कलनामलनिर्मुक्तः स्वसक्त इति कथ्यते ॥ ८ ॥

यावदयमन्तः स्वसक्तो न भवति तावद्बाह्येषु असंसक्तिर्दुर्लभेत्याशयेन
स्वसंसक्तलक्षणमाह - आत्मेति । यदा अयं परमात्मनः प्रबोधं
प्राप्य कलनाहेतुभिर्मलैर्निर्मुक्तः सन् अध्यानेऽपि निरतिशयानन्दातमनः
स्वतःस्फुरणान्निर्विकल्पसमाधाविव सदैव आत्मध्यानमय इव सुखमग्नो
भवति तदा स्वसक्त इति कथ्यत इत्यर्थः ॥ ८ ॥

आत्मारामतया जीवो यात्यसंसङ्गतामिह ।
आत्मज्ञानेन संसङ्गस्तनुतामेति नान्यथा ॥ ९ ॥

ज्ञानपरिपाकोत्कर्षादात्मसक्त्युत्कर्षक्रमेण संसङ्गः क्षीयत इत्याह -
आत्मारामतयेति ॥ ९ ॥

जाग्रत्येव सुषुप्तस्थो जीवो भवति राघव ।
अस्यां दिशि गतोऽद्वन्द्वो नित्यानस्तमयोदयः ॥ १० ॥

अस्यां उक्तलक्षणायां स्वसंसक्तिदृशि गतः परिणतः । अद्वन्द्वः
प्रियाप्रियरहितः ॥ १० ॥

अत्र प्रौढिमुपायातः सूर्यतामेति पावनीम् ।
परिणामवशादिन्दुरमावास्यार्कतामिव ॥ ११ ॥

प्रौढिं अभ्यसक्रमात्प्ररूढताम् । परिणामः
क्रमात्कलापचयस्तद्वशाज्जलमये मण्डले सूर्यप्रतिबिम्बात्मा इन्दुर्यथा
अमावास्यायां स्वबिम्बभूतार्कतामेति तद्वदित्यर्थः ॥ ११ ॥

चित्ते चित्तदशाहीने या स्थितिः क्षीणचेतसाम् ।
सोच्यते शान्तकलना जाग्रत्येव सुषुप्तता ॥ १२ ॥

जाग्रत्येव सुषुप्तस्थ इति यदुक्तं तद्विशदयति - चित्ते इति ॥ १२ ॥

तां सुषुप्तदशामेत्य जीवन्व्यवहरन्नरः ।
सुखदुःखवरत्राभिर्न कदाचन कृष्यते ॥ १३ ॥

जाग्रत्येव सुषुप्तस्थो यः करोति जगत्क्रियाम् ।
तं यन्त्रपुत्रकमिव नायाति सुखदुःखदृक् ॥ १४ ॥

निरहम्भावसाम्याद्यन्त्रपुत्रको नर्तकप्रतिमा तत्तुल्यदेहम् ॥ १४ ॥

चित्तस्य बाधिका शक्तिर्भावाभावोपतापदा ।
आत्मतामागते चित्ते तस्य किं बाधते कथम् ॥ १५ ॥

चित्तस्य बाधिका पीडाकरी अहम्भावलक्षणैव शक्तिः सा हि
अनिष्टानामिष्टानां च भावाभावभ्यामागमापायाभ्यामुपतापदा ॥ १५ ॥

सुषुप्तबुद्धिः कर्माणि पूर्वमेवावहेलया ।
कुर्वन्न बध्यते जीवो जीवन्मुक्ततया स्थितः ॥ १६ ॥

पूर्वं साधनदशामारभ्यैवावहेलया अभिनिवेशत्यागेन ॥ १६ ॥

सौषुप्तीं वृत्तिमाश्रित्य कुरु मा कुरु वानघ ।
कर्म प्रकृतिजं पाकवशादुपगतं स्थितम् ॥ १७ ॥

प्रकृतिर्वर्णाश्रमस्वभावस्तज्जं तदुचितं प्रारब्धपाकवशादुपगतं
प्राप्तं लोकशास्त्रस्थितम् ॥ १७ ॥

नादानं न परित्यागः कर्मणोऽज्ञाय रोचते ।
तिष्ठन्त्यवगतात्मानो यथाप्राप्तानुवर्तिनः ॥ १८ ॥

ये त्वाश्रमोचितमपि कर्म त्याज्यएम्वेति मन्यन्ते तान्प्रत्याह - नादानमिति ॥
१८ ॥

कुर्वन्नपि न कर्तासि सुषुप्त्यैकस्थया धिअया ।
अकर्तापि च कर्तासि यथेच्छसि तथा कुरु ॥ १९ ॥

यदि तत्त्वशो यदि वा अतत्त्वज्ञ इति पूर्वोत्तरवाक्ययोः शेषः ॥ १९ ॥

यथा न किञ्चित्कलयन्मञ्चके स्पन्दते शिशुः ।
तथा फलान्यकलयन्कुरु कर्माणि राघव ॥ २० ॥

न किञ्चित्प्रयोजनं कलयन्सङ्कल्पयन् । सहजानन्दलीलयैव स्पन्दते ॥ २० ॥

अचेत्यचित्पदस्वस्थो [स्वच्छ इति पाठः] जाग्रत्यपि सुषुप्तधीः ।
यद्यत्करोति लब्धात्मा तस्मिंस्तस्य न कर्तृता ॥ २१ ॥

तच्छब्दो वीप्सितो बोध्यः ॥ २१ ॥

दशामासाद्य सौषुप्तीं स्वचित्ते च विवासनः ।
अन्तः शीतलतामेति ज्ञो रसेन यथा शशी ॥ २२ ॥

सुषुप्तस्थो महातेजाः पूर्णः पूर्णेन्दुबिम्बवत् ।
समः सर्वास्ववस्थासु भवत्यद्रिर्यथर्तुषु ॥ २३ ॥

यथा अद्रिः षट्स्वपि ऋतुषु अविकृतत्वात्समस्तद्वत्सर्वासु
आपत्सम्पदवस्थासु समो भवतीत्यर्थः ॥ २३ ॥

सुषुप्तसंस्थो धीरात्मा बहिरायाति लोलताम् ।
क्रियासु नो भवत्कम्पः प्रस्पन्दित इवाचलः ॥ २४ ॥

धीरात्मा लौकिकवैदिकक्रियासु बहिरेवमेव लोलतामिवायाति नोऽन्तर्भवन् कम्पो
यस्य तथाविधो भवति तथा वायुना बहिर्वृक्षतृणादौ प्रस्पन्दितोऽचलः
पर्वतस्तद्वदित्यर्थः ॥ २४ ॥

सुषुप्तावस्थितो भूत्वा देहं विगतकल्मषः ।
पातयाश्वथा वा दीर्घं कालं धारय शैलवत् ॥ २५ ॥

क्रियास्विव तस्य मरणजीवनयोरप्यविकारिता तुल्येत्याशयेनाह - सुषुप्तेति ॥
२५ ॥

एषैव राम सौषुप्ती स्थितिरभ्यासयोगतः ।
प्रौढा सती तुर्यमिति कथिता तत्त्वकोविदैः ॥ २६ ॥

ननु विदुषां सदैव तुर्यस्थितिर्युक्ता न सौषुप्ते सेति शङ्कामालक्ष्याह -
एषैवेति ॥ २६ ॥

आनन्दमय एवान्तः प्रक्षीणसकलामयः ।
अत्यन्तास्तं गतमना भवति ज्ञो महोदयः ॥ २७ ॥

तर्हि सौषुप्ती स्थितिरित्युक्तेः कोऽभिप्रायस्तमाह - आनन्दमय इति । निर्दुःखत्वे
सति निरतिशयसुखसमृद्धता सौषुप्ते आनन्द *? ये
सत्त्वात्तद्विवक्षया तथोक्तिरित्यर्थः ॥ २७ ॥

तत्रस्थो ज्ञः प्रमुदितः परमानन्दघूर्णितः ।
लीलामिवेमां रचनां सदा समनुपश्यति ॥ २८ ॥

तत्स्थस्य कीदृशं जगद्दर्शनं तदाह - तत्रेति ॥ २८ ॥

वीतशोकभयायासो गतसंसारसम्भ्रमः ।
तुर्यावस्थामुपारूढो भूयः पतति नात्मवान् ॥ २९ ॥

ननु तां लीलां पश्यंस्तत्र स पुनः पतेदपि नेत्याह - वीतेति ॥ २९ ॥

प्राप्य स्वां पदवीं पुण्यां यथेदं भ्रमितं जगत् ।
शैलसंस्थ इवाधःस्थं हसन्पश्यति धीरधीः ॥ ३० ॥

कुतो न पतति तत्राह - प्राप्येति । यतो दोषदृष्ट्या हसन्पश्यति न
पुरुषार्थबुद्ध्येत्यर्थः ॥ ३० ॥

अस्यां तु तुर्यावस्थायां स्थितिं प्राप्याविनाशिनीम् ।
आनन्दैकान्तलीनत्वादनानन्दपदं गतः ॥ ३१ ॥

अनानन्दमहानन्दकलातीतस्ततोऽपि हि ।
मुक्त इत्युच्यते योगी तुर्यातीतं पदं गतः ॥ ३२ ॥

इत्थं यावज्जीवं तस्य तुरीयस्थितिमुक्त्वान्ते विदेहस्य तुर्यातीतस्थितिमाह -
अनानन्देति । अनानन्दमवस्थात्रयपदं तदपेक्ष्य तुर्यपदं महानन्दमिति
तज्जिवन्मुक्तस्य सदा भवति । विदेहमुक्तौ तु अनानन्दस्मरणायोगात्तदपेक्षया
महत्त्वकलनायोगात्तदतीतस्ततोऽपि मुक्तस्तुर्यातीतपदं गत इत्युच्यत इत्यर्थः ॥
३२ ॥

परिगलितसमस्तजन्मपाशः
सकलविलीनतमोमयाभिमानः ।
परमरसमयीं प्रयाति सत्तां
जलगतसैन्धवखण्डवन्महात्मा ॥ ३३ ॥

तामेव स्थितिं वर्णयन्नुपसंहरति - परिगलितेति । यतः सकला
विलीनास्तमोमया अभिमाना यस्य अत-एव
परिगलितसमस्तजन्महेतुकामकर्मवासनापाशो महात्मा
जलगतसैन्धवखण्डवत्खिल्यभावविलयात्परमो रस्यत इति रस आनन्दो
रसनैकवेद्यांशश्च तन्मयीं सत्तां परमार्थस्थितिं प्रयातीत्यर्थः ॥ ३३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे असंसङ्गविकल्पोपदेशो नाम
सप्ततितमः सर्गः ॥ ७० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
असंसङ्गसविकल्पोपदेशो नाम सप्ततितमः सर्गः ॥ ७० ॥