६९

एकोनसप्ततितमः सर्गः ६९

श्रीवसिष्ठ उवाच ।

सर्वदा सर्वसंस्थेन सर्वेण सह तिष्ठता ।
सर्वकर्मरतेनापि मनः कार्यं विजानता ॥ १ ॥

मनः सर्वार्थसंसक्तित्यागाच्चिन्मात्रसुस्थिरम् ।
चिन्मात्रशेषं येन स्यात्स क्रमोऽत्र निगद्यते ॥ १ ॥

विजानता विवेकिना सर्वदा तत्तत्कालोचितसर्वव्यवहारसंस्थेन
तत्तद्व्यवहारोचितेष्टमित्रभृत्यपुत्रदारादिना सर्वेण सह तिष्ठता
अनिषिद्धलौकिकशास्त्रीयसर्वकर्मरतेनापि मनो वक्ष्यमाणलक्षणं
कार्यमित्यर्थः । अथवा एकैककालदेशमित्रभृत्यादिसाह्येन
कतिपयकर्मरतत्वापादकपरिच्छिन्नसंसक्तिनिवारणाय प्रथमं
सर्वदेशकालादिसर्वोपकरणसम्पत्त्या सर्वजगद्व्यवहारकर्मरतेनापि स्वेन
भूत्वा पश्चाद्वक्ष्यमाणप्रकारं मनः कार्यमित्यर्थः ॥ १ ॥

न सक्तमिह चेष्टासु न चिन्तासु न वस्तुषु ।
नाकाशे नाप्यधो नाग्रे न दिक्षु न लतासु च ॥ २ ॥

चेष्टादिकालकलनान्तेषु मनः सक्तं न कार्यमिति सम्बन्धः । साध्यविषयासु
चेष्टासु । अतीतविषयासु चिन्तासु । वर्तमानेषु वस्तुषु । अग्रे मध्ये । लतासु
दिक्शाखाप्रायासु विदिक्षु ॥ २ ॥

न बहिर्विपुलाभोगे न चैवेन्द्रियवृत्तिषु ।
नाभ्यन्तरे न च प्राणे न मूर्धनि न तालुनि ॥ ३ ॥

बहिराधिभौतिके । विपुले३ आभुज्यत इत्याभोगे कलत्रभृत्यादिविषये ।
तद्भोगलक्षणास्विन्द्रियवृत्तिषु । आभ्यन्तरे आध्यात्मिके । प्राणमूर्धादीनि
योगशास्त्रोक्तानि तत्तत्काम्यसिद्ध्यनुकूलानि धारणास्थानानि तेष्वपि ॥ ३ ॥

न भ्रूमध्ये न नासान्ते न मुखे न च तारके ।
नान्धकारे न चाभासे न चास्मिन्हृदयाम्बरे ॥ ४ ॥

तारके दक्षिणाक्षिकनीनिकायाम् ॥ ४ ॥

न जाग्रति न च स्वप्ने न सुषुप्ते न निर्मले ।
नासिते न च वा पीतरक्तादौ शबले न च ॥ ५ ॥

निर्मले शुद्धसत्त्वगुणे । असिते तमसि । पीतरक्तादौ रजसि । शबले गुणसमाहारे
॥ ५ ॥

न चले न स्थिरे नादौ न मध्ये नेतरत्र च ।
न दूरे नान्तिके नाग्रे न पदार्थे न चात्मनि ॥ ६ ॥

चले कार्यवर्गे । स्थिरे कारणे अव्यक्ते । आदिमध्येतराः सर्गादिकालास्तेषु ।
दूरादिषु दिक्परिच्छेदेषु । पदार्थे नामरूपसमाहारे । आत्मनि जीवे ॥ ६ ॥

न शब्दस्पर्शरूपेषु न मोहानन्दवृत्तिषु ।
न गमागमचेष्टासु न कालकलनासु च ॥ ७ ॥

रूपान्तग्रहणं रसगन्धयोरप्युपलक्षणम् । मोहो विषयाभिलाषपारवश्यम्
। आनन्दवृत्तयोविषयोपभोगफलानि तेष्वपि । गमागमचेष्टासु
खेचरत्वादिसिद्धिषु । कालकलनासु अतीतानागतज्ञताचिरजीवनादिसिद्धिषु ॥ ७ ॥

केवलं चिति विश्रम्य किञ्चिच्चेत्यावलम्बिनि ।
सर्वत्र नीरसमिव तिष्ठत्वात्मरसं मनः ॥ ८ ॥

किञ्चिच्चेत्यं निश्चला बुद्धिस्तदवलम्बिनि तत्साक्षिणि । आत्मरसं
भूमानन्दप्रवणमत-एव सर्वत्र नीरसम् ॥ रसोऽप्यस्य परं दृष्ट्वा
निवर्तते इति भगवद्वचनात् । इवकारस्तादृशमनःस्थितेरपि
मिथ्यात्वद्योतनार्थः ॥ ८ ॥

तत्रस्थो विगतासङ्गो जीवोऽजीवत्वमागतः ।
व्यवहारमिमं सर्वं मा करोतु करोतु वा ॥ ९ ॥

अजीवत्वं ब्रह्मताम् ॥ ९ ॥

अकुर्वन्नपि कुर्वाणो जीवः स्वात्मरतिः क्रियाः ।
क्रियाफलैर्न सम्बन्धमायाति खमिवाम्बुदैः ॥ १० ॥

स्वात्मरतिः स्वात्मैकप्रियः ॥ १० ॥

अथवा तमपि त्यक्त्वा चेत्यांशं शान्तचिद्धनः ।
जीवस्तिष्ठतु संशान्तो ज्वलन्मणिरिवात्मनि ॥ ११ ॥

चेत्याशं प्रागुक्तं बुद्धिसाक्षित्वम् ॥ ११ ॥

निर्वाणमात्मनि गतः सततोदितात्मा
जीवोऽरुचिर्व्यवहरन्नपि रामभद्र ।
नो सङ्गमेति गतसङ्गतया फलेन
कर्मोद्भवेन सहतीव च देहभारम् ॥ १२ ॥

अरुचिर्व्यवहारफलेच्छाशून्यो जीवो गतसङ्गतया
सङ्गनिमित्ताविद्याकामकर्मवासनाशून्यतया हेतुना कर्मोद्भवेन फलेन
सङ्गं नो एति किन्तु यावत्प्रारब्धक्षयं देहभारमात्रं सहतीव । तस्य
तावदेव चिरं यावन्न विमोक्ष्ये इत्यादिश्रुतेरिति भावः ॥ १२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे शान्तिसमायातयोगोपदेशो
नामैकोनसप्ततितमः सर्गः ॥ ६९ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
शान्तिसमायातयोगोपदेशो नामैकोनसप्ततितमः सर्गः ॥ ६९ ॥