६८

अष्टषष्टितमः सर्गः ६८

श्रीराम उवाच ।

कीदृशो भगवन्सङ्गः कथं बन्धाय वा नृणाम् ।
कश्च मोक्षाय कथितः कथं वैष चिकित्स्यते ॥ १ ॥

लक्ष्मसंसक्त्यसङ्कक्त्योश्चिकित्सोपायसंयुतैः ।
वन्द्यावन्ध्याविभागश्च फलं चात्रोपवर्ण्यते ॥ १ ॥

कथं केन प्रकारेण किम्प्रकारश्च बन्धाय कश्च कीदृशश्च मोक्षाय
कथं केनोपायेन चिकित्स्यते ॥ १ ॥

श्रीवसिष्ठ उवाच ।

देहदेहिविभागैकपरित्यागेन भावनात् ।
देहमात्रे तु विश्वासः सङ्गो बन्धार्ह उच्यते ॥ २ ॥

देहस्य क्षेत्रस्य देहिनः क्षेत्रज्ञस्य च यो जाड्यचित्स्वभावतालक्षणो विभागो
विरुद्धस्वभावता तस्य
एकपरित्यागेनात्यन्तापर्यालोचनेनान्योन्यतादात्म्यधर्मविनिमयभावनाद्देह
मात्रे आत्मताविश्वासो यः स एव बन्धार्हो बन्धहेतुः सङ्ग इत्यर्थः ॥ २ ॥

अनन्तस्यात्मतत्त्वस्य सपर्यन्तत्वनिश्चये ।
यत्सुखार्थित्वमन्त्ऽह् स सङ्गो बन्धार्ह उच्यते ॥ ३ ॥

लक्षणान्तराण्याह - अनन्तस्येत्यादिना । सपर्यन्तत्वं
त्रिविधपरिच्छेदसहितत्वं तन्निश्चये सति
स्वापरिच्छिन्नसुखस्वभावविस्मरणाद्यद्विषयेभ्यः सुखार्थित्वमित्यर्थः ॥
३ ॥

सर्वमात्मेदमखिलं किं वाञ्छामि त्यजामि किम् ।
इत्यसङ्गस्थितिं विद्धि जीवन्मुक्ततनुस्थितिम् ॥ ४ ॥

तद्विरोधिनीमसङ्गस्थितिं लक्षयति - सर्वमिति ॥ ४ ॥

नाहमस्मि न चान्योऽस्ति मा भवन्तु भवन्तु वा ।
सुखान्यसक्त इत्यन्तः कथ्यते मुक्तिभाङ्नरः ॥ ५ ॥

अहं अहङ्कारपरिच्छिन्नो नास्मि । मदन्यश्च नास्ति । अतो मिथ्याभूते देहादौ
विषयसुखानि मा भवन्तु भवन्तु वा । अहं तु देहाद्यसङ्गस्वभाव इत्येवं
दृढनिश्चयादसक्तः ॥ ५ ॥

नाभिनन्दति नैष्कर्म्यं नकर्मस्वनुषज्जते ।
सुसमो यः फलत्यागी सोऽसंसक्त इति स्मृतः ॥ ६ ॥

नैष्कर्म्य सर्वकर्मत्यागम् । फलमनुलक्ष्य सज्जते अभिनिविशते । सुसमः
सिद्ध्यसिद्ध्योरिति शेषः ॥ ६ ॥

आत्मतत्त्वैकनिष्ठस्य हर्षामर्षवशं मनः ।
यस्य नायत्यसक्तोऽसौ जीवन्मुक्तः स कथ्यते ॥ ७ ॥

सर्वकर्मफलादीनां मनसैव न कर्मणा ।
निपुणं यः परित्यागी सोऽसंसक्त इति स्मृतः ॥ ८ ॥

लोकसङ्ग्रहस्यावश्यकत्वद्योतनाय न कर्मणेति ॥ ८ ॥

असंसङ्गेन सकलाश्चेष्टा नाना विजृम्भिताः ।
चिकित्सिता भवन्तीह श्रेयः सम्पादयन्ति च ॥ ९ ॥

त्रीन्प्रश्नान्समाधाय चतुर्थप्रश्नं समाधत्ते - असंसङ्गेनेति । चेष्टा
दुश्चेष्टाः नानाविधैः फलरागैर्विजृम्भिताः । श्रवणादिचेष्टाश्च
निर्विघ्नतया श्रेयः सम्पादयन्ति ॥ ९ ॥

संसक्तिवशतः सर्वे वितता दुःखराशयः ।
प्रयान्ति शतशाखत्वं श्वभ्रकण्टकवृक्षवत् ॥ १० ॥

इदानीं संसक्तिफलानि प्रपञ्चयति - संसक्तिवशत इत्यादिना ॥ १० ॥

रज्जुकृष्टघनघ्राणो यद्गत्या पथि गर्दभः ।
भारं वहति भीतात्मा तत्संसक्तिविजृम्भितम् ॥ ११ ॥

गर्दभानामपि नासारज्जुर्देशभेदे प्रसिद्धा ।
ग्राम्यपशुजन्ममात्रोपलक्षणमेतत् । एवमग्रेऽपि । संसक्तेर्विजृम्भितं
फलविस्तारः ॥ ११ ॥

शीतवातातपक्लेशमेकदेशनिषण्णया ।
तरुर्वहति यत्तन्वा तत्संसक्तिविजृम्भितम् ॥ १२ ॥

एकदेशे निषण्णया तन्वा स्थावरदेहेन वहति । अनुभवतीति यावत् ॥ १२ ॥

धराविवरनिर्मग्नो यत्कीटः पीडिताङ्गकः ।
क्षिणोति विकलः कालं तत्संसक्तिविजृम्भितम् ॥ १३ ॥

क्षुत्क्षामकुक्षिः क्षपयत्यायुर्व्याघातभीरुधिः ।
पक्षी वृक्षशिखाशायी तत्संसक्तिविजृम्भितम् ॥ १४ ॥

व्याघातः शरपाषाणमृद्गुटिकाद्यभिघातस्तस्मात्प्रतिक्षणं
भीरुर्भयवती धीर्यस्य ॥ १४ ॥

दूर्वाङ्कुरतृणाहारः किरातशरपीडया ।
जहाति यन्मृगो देहं तत्संसक्तिविजृम्भितम् ॥ १५ ॥

कृमिकीटत्वमायान्ति जायमानाः पुनः पुनः ।
यदिमा जनता जीर्णास्तत्संसक्तिविजृम्भितम् ॥ १६ ॥

जनताः पुण्यपापाधिकारिजनसमूहाः ॥ १६ ॥

उत्पत्त्योत्पत्त्य लीयन्ते तरङ्गिणि तरङ्गवत् ।
भूतानि यदनन्तानि तत्संसक्तिविजृम्भितम् ॥ १७ ॥

तरङ्गिणि तरङ्गवति जलाशये तरङ्गवत् ॥ १७ ॥

वीरुत्तृणदशां याता म्रियन्ते यत्पुनःपुनः ।
नरा विगतसञ्चारास्तत्संसक्तिविजृम्भितम् ॥ १८ ॥

वीरुत् लता ॥ १८ ॥

रसातलरसायोगात्तृणगुल्मलतादयः ।
जनयन्ति यदाकारं तत्संसक्तिविजृम्भितम् ॥ १९ ॥

रसाया भूमेस्तले निपतितस्य रसस्य जलस्य आयोगादुपयोगान्मूलैः पानात् ।
जनयन्तीति यत्तदिति सम्बन्धः ॥ १९ ॥

स्वानर्थान्तरसङ्काशपदार्थशतसङ्कुला ।
यत्संसारनदी मत्ता तत्संसक्तिविजृम्भितम् ॥ २० ॥

स्वस्याः
अनर्थान्तराण्यनर्थादनर्थान्तराण्यनर्थपरम्परास्तत्सङ्काशैर्विच्छेदभ्
रान्तिनिपातादिविक्षेपसहस्रहेतुभिर्बाह्याभ्यन्तरपदार्थशतैः सङ्कुला ।
मत्ता प्रवृद्धा ॥ २० ॥

संसक्तिर्द्विविधा प्रोक्ता वन्द्या वन्ध्या च राघव ।
वन्ध्या सर्वत्र मूढानां वन्द्या तत्त्वविदां निजा ॥ २१ ॥

वन्द्या प्रशस्या । वन्ध्या पुरुषार्थफलशून्या ॥ २१ ॥

आत्मतत्त्वावबोधेन हीना देहादिवस्तुजा ।
भूयः संसारसक्तिर्या दृढा वन्ध्येति कथ्यते ॥ २२ ॥

या दृढा संसारे सक्तिः सा वन्ध्या ॥ २२ ॥

आत्मतत्त्वावबोधेन सत्यभूतविवेकजा ।
वन्द्या हि कथ्यते सक्तिर्भूयः संसारवर्जिता ॥ २३ ॥

शङ्खचक्रगदाहस्तो देवो विविधयेहया ।
वन्द्यसंसक्तिवशतः परिपाति जगत्त्रयम् ॥ २४ ॥

वन्द्यसंसक्तेर्जीवन्मुक्तव्यवहारादिसर्वोत्कर्स्ऽनिर्वाहकत्वं प्रपञ्चयति ##-

अनारतनिरालम्बं व्योम वर्त्मनि पान्थताम् ।
वन्द्यसंसक्तिवशतः करोति रविरन्वहम् ॥ २५ ॥

अनारतं सन्ततम् । रविः पान्थतां करोति । सञ्चरतीति यावत् ॥ २५ ॥

महाकल्पसमाधानचिरकल्पितकल्पनम् ।
वन्द्यसंसक्तिवशतो ब्राह्मं स्फुरति वै वपुः ॥ २६ ॥

महाकल्पः प्राकृतप्रलयस्तत्र समाधानं विदेहकैवल्यविश्रान्तिस्तदर्थ
चिरं द्विपरार्धकालं कल्पिताः सर्गादिकल्पना येन । ब्राह्मं हैरण्यगर्भं
वपुः स्फुरति व्यवहरति ॥ २६ ॥

लीलया ललनालानलीनं भूतिविभूषितम् ।
वन्द्यसंसक्तिवशतः शरीरं शाङ्करं स्थितम् ॥ २७ ॥

ललना गौरी तल्लक्षणे आलाने बन्धनस्तम्भे लीलयैव लीनं सक्तम् ॥ २७ ॥

विज्ञानगतयः सिद्धा लोकपालास्तथेतरे ।
वन्द्यसंसक्तिवशतस्तिष्ठन्ति जगतोऽङ्गणे ॥ २८ ॥

विज्ञाने ब्रह्मतत्त्वबोधे गतिर्दृढप्रतिष्ठा येषाम् ॥ २८ ॥

धत्ते शारिरयन्त्रौघमन्या भुवनसन्ततिः ।
वन्द्यसंसक्तिवशतो जरामृतिविवर्जितम् ॥ २९ ॥

लोकत्रयादन्या । भुवनसन्ततिपदेन महर्जनस्तपःसत्यादिलोकस्थास्तत्त्वविदो
लक्षणयोच्यन्ते ॥ २९ ॥

मनः पतति भोगेषु गृध्रो मांसलवेष्विव ।
वन्द्यसंसक्तिवशतो व्यर्थया रम्यशङ्कया ॥ ३० ॥

वन्ध्यसंसक्तेर्वन्ध्यात्वमुपपादयति - मन इति ॥ ३० ॥

संसक्तिवशतो वाति वायुर्भुवनकोटरे ।
पञ्चभूतानि तिष्ठन्ति वहतीर्यं जगत्स्थितिः ॥ ३१ ॥

मुक्तामुक्तसाधारणं व्यवहारमात्रं संसक्तिनिर्वाह्यमिति प्रपञ्चयन्
दर्शयति - संसक्तिवशत इत्यादिना ॥ ३१ ॥

दिवि देवा भुवि नराः पाताले भोगिनोऽसुराः ।
ब्रह्माण्डोदुम्बरफले स्फुरन्मशकवत्स्थिताः ॥ ३२ ॥

जायन्ते च म्रियन्ते च निपतन्त्यत्पतन्ति च ।
भूतानि यदनन्तानि तरङ्गिणि तरङ्गवत् ॥ ३३ ॥

उत्पत्त्योत्पत्त्य लीयन्ते तत्संसक्तिविजृम्भितम् ।
भूतानि विरसं भूयो निर्झराम्बुकणा इव ॥ ३४ ॥

विरसं यथा स्यात्तथा उत्पत्त्योत्पत्त्य ॥ ३४ ॥

परस्परनिगीर्णाङ्गा जनता जाड्यजर्जरा ।
सम्भ्रान्ता प्रभ्रमत्यङ्ग शीर्णपर्णमिवाम्बरे ॥ ३५ ॥

मात्स्यन्यायेन परस्परनिगीर्णाङ्गा ॥ ३५ ॥

नक्षत्रचक्रं गगने द्रुमे मशकसन्ततिः ।
स्फुरत्यावर्तवृत्त्यैव पातालेऽङ्ग जलौघवत् ॥ ३६ ॥

मशकसन्ततिरिवेति शेषः । अङ्गेत्यामन्त्रणे ॥ ३६ ॥

पातोत्पातदशाजीर्णं कालबालककन्दुकम् ।
अद्यापि न जहातीन्दुर्जलमामलिनं वपुः ॥ ३७ ॥

पातोत्पातौ उदयास्तमयौ वृद्धिक्षयौ पतनोत्पतने च सदैव तद्दशया
जीर्णं शिथिलं अत-एव कालरूपबालकस्य कन्दुकभूतं जलं जलमयं
लडयोरभेदाज्जडं च आमलिनं कलङ्कम्लानं चेति बहुदोषत्वाद्धातुं
योग्यमपि वपुः संसक्तिवशादेवाद्यापि न जहाति ॥ ३७ ॥

नानापारयुगावर्तदुःखालोकनकर्कशम् ।
न लुनाति मनःखण्डं दुःखिगीर्वाणमण्डलम् ॥ ३८ ॥

नानाविधानामपाराणां युगावर्तदुःखानामालोकनेन
पुनःपुनरनुभवेन कर्कशं कठोरं मनोलक्षणं खण्डकं
छेदनचिकित्स्यं व्रणविशेषं तद्दुःखेन सदा दुःख्यपि
गीर्वाणमण्डलमिन्द्रादिदेवसमूहः संसक्तिवशादेव न लुनाति च्छेदनेन न
चिकित्सते ॥ ३८ ॥

वासनामात्रवशतः परे व्योमनि केनचित् ।
इदमारचितं चित्रं विचित्रं पश्य राघव ॥ ३९ ॥

संसक्तिश्च विवेकमात्रजन्यबोधेनोच्छेत्तुं शक्येति दर्शयितुं तद्विषयस्य
जगतो वासनामात्रकल्पितत्वमाह - वासनेति ॥ ३९ ॥

मनःसङ्गैकरङ्गेण शून्ये व्योम्नि जगन्मयम् ।
यदिदं रचितं चित्रं तत्सत्यं न कदाचन ॥ ४० ॥

मनसः सङ्गः संसक्तिस्तल्लक्षणेनैकेनैव रङ्गेण रञ्जकद्रव्येण ॥ ४० ॥

संसक्तमनसामस्मिन्संसारे व्यवहारिणाम् ।
अत्ति तृष्णा शरीराणि तृणान्यग्निशिखा यथा ॥ ४१ ॥

तृष्णा शरीराण्यत्ति भक्षयति ॥ ४१ ॥

परिसक्तमतेर्देहान्सिकताः पत्युरम्भसाम् ।
कः शक्तः परिसङ्ख्यातुं त्रसरेणुगणं यथा ॥ ४२ ॥

संसक्तिदोषात्प्राप्तानां तृष्णया भक्षितानां देहानामानन्त्यमाह -
परिसक्तेति । परितो विषयेषु सक्तमतेर्जीवस्य । अम्भसां पत्युः समुद्रस्य सिकताः
परिसङ्ख्यातुं गणयितुम् ॥ ४२ ॥

मुक्तालताया गङ्गाया मेरोरापादमस्तकम् ।
तरङ्गमुक्ता गण्यन्ते न देहाः सक्तचेतसाम् ॥ ४३ ॥

मेरोरापादमस्तकं लम्बिन्या अत-एव मुक्तालतात्वेनोत्प्रेक्ष्याया
गङ्गायास्तरङ्गलक्षणा मुक्ता गण्यन्ते कदाचिद्गणयितुं शक्यन्ते
सक्तचेतसां देहास्तु नेत्यर्थः ॥ ४३ ॥

संसक्तमनसामेता रम्यान्तःपुरपङ्क्तयः ।
रचिता रौरवा वीचिकालसूत्रादिनामिकाः ॥ ४४ ॥

अग्निशस्त्रादिप्रदीप्तत्वाद्गम्याः यातनाख्यनायिकाः
सम्भोगस्थानत्वादन्तःपुरपङ्क्तयो रचिताः कर्मशिल्पिनेत्यर्थः ॥ ४४ ॥

सक्तचित्तं जनं दुःखशुष्कमिन्धनसञ्चयम् ।
ज्वलतां नरकाग्नीनां विद्धि तेन ज्वलन्ति ते ॥ ४५ ॥

दुःखजालमिदं नाम यत्किञ्चिज्जगतीगतम् ।
संसक्तमनसामर्थे तत्सर्वं परिकल्पितम् ॥ ४६ ॥

संसक्तचित्तमायान्ति सर्वा दुःखपरम्पराः ।
जलकल्लोलवलिता महानद्य इवाम्बुधिम् ॥ ४७ ॥

संसक्तचित्तं प्रति आयान्ति ॥ ४७ ॥

मनःसंसर्गरूपिण्या भारभूतशरीरया ।
क्षयोदयदशार्थिन्या सर्वं ततमविद्यया ॥ ४८ ॥

संसर्गः संसक्तिस्तद्विषयः अत-एव स्वयं शिरसि गृहीतः शिलादिभार
इव अवश्यवोढव्यत्वेन भारभूतं शरीरं यया । क्षयो मरणं उदयो
जन्म तदुभयदुर्दशां जीवस्य प्रार्थयन्त्येव स्थितया अविद्यया सर्वं
दुःखजालं ततमित्यर्थः ॥ ४८ ॥

असंसङ्गेन भोगानां सर्वा राम विभूतयः ।
परं विस्तारमायान्ति प्रावृषीव महापगाः ॥ ४९ ॥

संसक्तित्यागस्तु सर्वसुखावह इत्याह - असंसङ्गेनेत्यादिना ॥ ४९ ॥

अन्तःसंसङ्गमङ्गानामङ्गारं विद्धि राघव ।
अनन्तःसङ्गमङ्गानां विद्धि राम रसायनम् ॥ ५० ॥

अनन्तःसङ्गमन्तःसङ्गपरित्यागम् ॥ ५० ॥

संसङ्गेनान्तरस्थेन दह्यते प्रकृतिः स्वयम् ।
स्वकलोत्थे नैरकाङ्क्षी पावकेन यथौषधिः ॥ ५१ ॥

एरा एरकास्तृणविशेषास्तानवलम्बनाय काङ्क्षते इति एरकाङ्क्षी । कर्मण्यण् ।
ओषधिर्लता यथा स्वं कलयन्ति मिश्रयन्ति यानि तृणानि तदुत्थेन पावकेन
दह्यते तथा प्रकृतिकार्यदेहादिसंसङ्गात्प्रकृतिभूतः स्वयं जीवोऽपि
दह्यत इत्यर्थः ॥ ५१ ॥

सर्वत्रासक्तमाशान्तमनन्तमिव संस्थितम् ।
असत्कल्पं सदाभासं सुखायैव मनो भवेत् ॥ ५२ ।

असक्तं मनः सर्वत्र सुखायैव । अनन्तमाकाशमिव संस्थितम् ॥ ५२ ॥

विद्यादृशि प्रोदयमागतेन
क्षयं त्वविद्याविषये गतेन ।
सर्वत्र संसक्तिविवर्जितेन
स्वचेतसा तिष्ठति यः स मुक्तः ॥ ५३ ॥

असत्कल्पतां सदाभासतां च विषयविभागेन विवृण्वन्नुपसंरति -
विद्यादृशीति । प्रकृष्टमुदयं सूर्यादिवदविर्भावम् ॥ ५३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे सङ्गविचारयोगोपदेशो
नामाष्टषष्टितमः सर्गः ॥ ६८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
सङ्गविचारयोगोपदेशो नामाष्टषष्टितमः सर्गः ॥ ६८ ॥