सप्तषष्टितमः सर्गः ६७
श्रीवसिष्ठ उवाच ।
एवं तौ कुशलप्रश्नं कृतवन्तौ परस्परम् ।
कालेनासाद्य विमलं ज्ञानं मोक्षं ततो गतौ ॥ १ ॥
देहात्मनोरसम्बन्धं समर्थयितुमीर्यते ।
अन्तःसक्तिकृतो बन्धस्तत्त्यागाच्च निवार्यते ॥ १ ॥
एवमुक्तप्रकारसंसारासारताविचारबहुलं कुशलप्रश्रम् ॥ १ ॥
ततो वच्मि महाबाहो यथा ज्ञानेतरा गतिः ।
नास्ति संसारतरणे पाशबन्धस्य चेतसः ॥ २ ॥
पाशा इव बन्धा बन्धनहेतवो यस्मिंस्तथाविधस्य चेतसः संसरणं
संसारस्तस्य तरणे गतिरुपायः ॥ २ ॥
इदं भव्यमतेर्दुःखमनन्तमपि पेलवम् ।
कुखगस्याऽतरोऽम्भोधिः सर्पारेर्गोष्पदायते ॥ ३ ॥
इदं वर्णितप्रकारं दुःखं भव्यमतेर्विवेकिनः पेलवं कोमलम् ।
सुखोच्छेद्यमिति यावत् । अतरो दुस्तरः । सर्पारेर्गरुडस्य ॥ ३ ॥
देहातीता महात्मानश्चिन्मात्रस्वात्मनि स्थिताः ।
दूराद्देहं समीक्षन्ते प्रेक्षको जनतामिव ॥ ४ ॥
देहद्वयाभिमानत्याय एव तदुच्छेदोपाय इत्याशयेनाह - देहातीता
इत्यादिना ॥ ४ ॥
देहे दुःखातिसङ्क्षुब्धे का नः क्षतिरुपस्थिता ।
रथे विधुरिते भग्ने सारथेः केव खण्डना ॥ ५ ॥
दुःस्थितिः इति पाठे दुःस्थितिः क्षतिरित्यर्थः ॥ ५ ॥
मनसि क्षुब्धतां याते चित्त्वस्याङ्ग किमागतम् ।
तरङ्गजलसन्ताने वैपरीत्यं किमम्बुधेः ॥ ६ ॥
चित्त्वस्य चित्स्वभावस्यात्मनः । वैपरीत्यं पूर्णतास्वरूपप्रच्युतिः ॥ ६ ॥
केऽभवन्पयसां हंसाः पयसामुपलाश्च के ।
काः शिलाः किल दारूणां के भोगाः परमात्मनः ॥ ७ ॥
अहन्तात्यागे कस्यापि क्वापि ममताप्रसक्तिरेव नास्तीत्याशयेनाह -
केऽभवन्नित्यादिना । नह्यचेतनानामसङ्गचितो वा ममताप्रसक्तिरस्तीति भवः ॥
७ ॥
सम्बन्धः क इव श्रीमन् शैलापरसमुद्रयोः ।
अन्तरे गिरिसम्बाधे कश्च चित्तत्त्वबन्धयोः ॥ ८ ॥
अन्तरे मध्ये । गिरिभिः सम्बाधे सङ्कुलत्वेऽपि । चित्तत्त्वं परमात्मा बन्धः
संसारस्तयोः कः सम्बन्धः । नह्याकाशः पाशैर्बध्यत इति भावः ॥ ८ ॥
अप्युत्सङ्गोह्यमानानि पद्मानि सरिदम्भसाम् ।
कानि नाम भवन्तीह शरीराणि तथात्मनः ॥ ९ ॥
उत्सङ्गे अङ्के इव उह्यमानानि धार्यमाणान्यपि पद्मानि ॥ ९ ॥
सङ्घट्टात्काष्ठपयसोर्यथोत्तुङ्गाः कणादयः ।
देहात्मनोः समायोगात्तथैताश्चित्तवृत्तयः ॥ १० ॥
सङ्घट्टादभिघातात् । समायोगादन्योन्यतादात्म्याध्यासात्
सुखदुःखादिचित्तवृत्तयः ॥ १० ॥
सम्बन्धाद्दारुपयसां प्रतिबिम्बानि दारुणः ।
यथा पयसि लक्ष्यन्ते शरीराणि तथात्मनि ॥ ११ ॥
देहसम्बन्धस्याध्यासिकत्वे दृष्टान्तमाह - सम्बन्धादिति ।
सम्बन्धात्सन्निधिमात्रान्निमित्तात् ॥ ११ ॥
यथा दर्पणवीच्यादौ प्रतिबिम्बानि वस्तुतः ।
नासत्यानि च सत्यानि शरीराणि तथात्मनः ॥ १२ ॥
दारुवार्युपलास्फोटे दुःखिता न यथा क्वचित् ।
संयुक्तेषु वियुक्तेषु न तथा पञ्चसु क्षतिः ॥ १३ ॥
पञ्चसु देहाद्याकारपरिणतेषु भूतेषु कशाचन्दनादिसंयुक्तेषु
स्त्रीपुत्रादिवियुक्तेषु च क्षतिर्दुःखदिप्रसक्तिः ॥ १३ ॥
दारुसंश्लेषितात्तोयात्कम्पशब्दादयो यथा ।
प्रजायन्ते तथैवास्माद्देहाच्चित्परिबोधितात् ॥ १४ ॥
चिता सन्निधिमात्रेणाधिष्ठाय परितो बोधितात् ॥ १४ ॥
न शुद्धजडयोरेताः संविदश्चिच्छरीरयोः ।
एता ह्यज्ञानमात्रस्य तस्मिन्नष्टे चिदेव नः ॥ १५ ॥
भासमानाः सुखदुःखादिसंविदः कस्य तर्हीति चेन्न कस्यापीत्याह - नेति ॥
१५ ॥
यथा न कस्यचिद्वारिदारुश्लेषेऽनुभूतयः ।
तथा न कस्यचिद्देहदेहिसङ्गेऽनुभूतयः ॥ १६ ॥
अनुभूतयः सुखदुःखानुभवाः । देहदेहिनोर्देहतदभिमानिनोः सङ्गे ॥ १६
॥
अज्ञस्यायं यथा दृष्टः संसारः सत्यतां गतः ।
न ज्ञस्यायं यथाभूतः संसारः सत्यतां गतः ॥ १७ ॥
तर्हि ज्ञाज्ञयोरविशेषः किं न स्यात्तत्राह - अज्ञस्येति ॥ १७ ॥
अन्तःसङ्गविहीनास्तु यथा स्नेहा दृषज्जले ।
तथासक्तमनोवृत्तौ बाह्यभोगानुभूतयः ॥ १८ ॥
कीदृश्यस्तर्हि ज्ञस्य प्रारब्धभोगानुभूतयस्तत्राह - अन्तरिति ।
अन्तःसङ्गोऽभिमानोऽन्तरनुप्रवेशश्च । स्नेहाः सम्बन्धाः । दृषदां
जलानां च समाहारे ॥ १८ ॥
अन्तःसङ्गेन रहितो यद्वत्सलिलकाष्ठयोः ।
सम्बन्धस्तद्वदेवान्तरसङ्गो देहदेहिनोः ॥ १९ ॥
असङ्गः परमार्थसङ्गशून्यः ॥ १९ ॥
अन्तःसङ्गेन रहितः सम्बन्धो जलकाष्ठयोः ।
स देहदेहिनोश्चैवं प्रतिबिम्बाम्भसोस्तथा ॥ २० ॥
जलकाष्ठयोर्यद्वदिति शेषः । स सम्बन्धः । चकारोऽप्यर्थः । पूर्वं
सलिलकाष्ठोपन्यासः संसर्गाभावे दृष्टान्तार्थ इह तादात्म्याभावे
इत्यपौनरुक्त्यम् ॥ २० ॥
स्थिता सर्वत्र संवित्तिः शुद्धा संवेद्यवर्जिता ।
द्वित्वोपलाञ्छिता त्वन्या दुःसंवित्तिर्न विद्यते ॥ २१ ॥
ननु सुखदुःखादिसंवित्तिनिषेधे संवित्त्यन्तराप्रसिद्धेः शून्यता
स्यादित्याशङ्क्याह - स्थितेति । न विद्यते तद्विषयानिरूपणादित्यर्थः ॥ २१ ॥
अदुःखमेति दुःखित्वमन्तःसंवेदना स्फुटम् ।
स्फारो भवति वेतालो वेतालत्वेन भावितः ॥ २२ ॥
असतोऽप्यज्ञानाद्भ्रान्त्या अस्तीति भानं प्रसिद्धमित्याह - अदुःखमिति ॥ २२ ॥
असम्बन्धोऽपि सम्बन्धो भवत्यन्तर्विनिश्चयात् ।
स्वप्नाङ्गनासुरतवत्स्थाणुवेतालसङ्गवत् ॥ २३ ॥
सम्बन्ध आध्यासिकयोगः । आद्यः संसर्गाध्यासे द्वितीयस्तादात्म्याध्यासे
दृष्टान्तः ॥ २३ ॥
असत्प्रायो हि सम्बन्धो यथा सलिलकाष्ठयोः ।
तथैव मिथ्यासम्बन्धः शरीरपरमात्मनोः ॥ २४ ॥
अन्तःसङ्गं विना नाम्बु काष्ठपातैः प्रगृह्यते ।
आत्माऽङ्गसङ्गरहितो देहदुःखैर्न दह्यते ॥ २५ ॥
अन्तःसङ्गं विना अहन्ताध्यासाभावात् । न प्रगृह्यते न पीड्यते
यथेत्यर्थः । अङ्गसङ्गरहितो देहाध्यासशून्यः ॥ २५ ॥
देहभावनयैवात्मा देहदुःखवशे स्थितः ।
तत्त्यागेन ततो मुक्तो भवतीति विदुर्बुधाः ॥ २६ ॥
अन्तःसङ्गविहीनत्वाद्दुःखवन्त्यङ्ग नो यथा ।
पत्राम्बुमलदारूणि श्लिष्टान्यपि परस्परम् ॥ २७ ॥
दार्वन्तान्यर्थात्पल्वलपतितानि ॥ २७ ॥
अन्तःसङ्गेन रहिता यान्ति निर्दुःखतां पराम् ।
श्लिष्टान्यपि तथैवात्मदेहेन्द्रियमनांस्यलम् ॥ २८ ॥
रहिता रहितानि । शसश्छान्दसो डादेश। ता ता पिण्डानां प्रजुहोमीतिवत् ॥ २८ ॥
अन्तःसङ्गो हि संसारे [संसारः इत्यपि पाठः] सर्वेषां राम
देहिनाम् ।
जरामरणमोहानां तरूणां बीजकारणम् ॥ २९ ॥
अन्तःसंसङ्गवाञ्जन्तुर्मग्नः संसारसागरे ।
अन्तःसंसक्तिमुक्तस्तु तीर्णः संसारसागरात् ॥ ३० ॥
अन्तःसंसङ्गवच्चित्तं शतशाखमिवोच्यते ।
अन्तःसंसङ्गरहितं विलीनं चित्तमुच्यते ॥ ३१ ॥
शतशाखमनन्तशाखम् । कामवृत्तीनामानन्त्यात् ॥ ३१ ॥
भग्नस्फटिकवद्विद्धि मनः सक्तमपावनम् ।
अभग्नस्फटिकाभासमसक्तं विद्धि मे मनः ॥ ३२ ॥
यथा भग्नमन्तर्विदीर्णं स्फटिकलिङ्गादि अपावनं पूजाद्ययोग्यं तद्वत् ॥
३२ ॥
असक्तं निर्मलं चित्तं मुक्तं संसार्यपि स्फुटम् ।
सक्तं तु दीर्घतपसा युक्तमप्यतिबन्धवत् ॥ ३३ ॥
अन्तःसक्तं मनो बद्धं मुक्तं सक्तिविवर्जितम् ।
अन्तःसंसक्तिरेवैकं कारणं बन्धमोक्षयोः ॥ ३४ ॥
अन्तःसंसक्तिमुक्तस्य कुर्वतोऽपि न कर्तृता ।
गुणदोषवती तोये दारुवाहननौर्यथा ॥ ३५ ॥
दारूणि काष्ठभारा वाह्यन्ते उत्तार्यन्ते यया तथाविधा नौर्यथा स्वयं
दारुभूतापि
दारुगतैश्छेदभेददाहादिगुणदोषैर्जलगतैश्चलनपरिवर्तननैर्मल्यपङ्क्
इलत्वादिगुणदोषैश्च न तद्वती तथेत्यर्थः ॥ ३५ ॥
अन्तःसंसक्तितो जन्तोरकर्तुरपि कर्तृता ।
सुखदुःखवति स्वप्ने सम्भ्रमोन्मुखता यथा ॥ ३६ ॥
सम्भ्रमोन्मुखता व्याघ्रादिभयपलायनादिव्याकुलता ॥ ३६ ॥
चित्ते कर्तरि कर्तृत्वमदेहस्यापि [कर्तृत्वं देहस्यापि हि इति
पाठश्चिन्त्यः] विद्यते ।
स्वप्नादाविव विक्षुब्धसुखदुःखदृशोपमम् ॥ ३७ ॥
अदेहस्य देहचेष्टाशून्यस्यापि स्वपुत्रमृत्ययुद्धादि पश्यतो जाग्रतोऽपि
स्वप्नादाविव कर्तृत्वं विद्यते । यतो विक्षुब्धसुखदुःखदर्शनेन
मुख्यकर्त्रुपममेव तदपीत्यर्थः ॥ ३७ ॥
अकर्तरि मनस्यन्तरकर्तृत्वं स्फुटं भवेत् ।
शून्यचित्तो हि पुरुषः कुर्वन्नपि न चेतति ॥ ३८ ॥
न चेतति नाभिमन्यते । नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् इति
भगवद्वचनात् ॥ ३८ ॥
चेतसा कृतमाप्नोषि चेतसा न कृतं तु न ।
न क्वचित्कारणं देहो न च चित्तेन कर्तृता ॥ ३९ ॥
न चेति । हेतौ चकारः । नहि चित्ते कर्तृताशक्तिर्नास्ति येन देहः कर्ता
कल्प्येतेत्यर्थः ॥ ३९ ॥
असंसक्तमकर्तेव कुर्वदेव मनो विदुः ।
न कर्मफलभोक्तृत्वमसक्तं प्रतिपद्यते ॥ ४० ॥
अप्यर्थे द्वितीय एवकारः ॥ ४० ॥
ब्रह्महत्याश्वमेधाभ्यामसंसक्तो न लिप्यते ।
दूरस्थकान्तासंलीनमनाः कार्यैरिवाग्रगैः ॥ ४१ ॥
अग्रगैः पुरोगतैः शीतोष्णानुभवादिकार्यैः । तच्चोर्वश्यासक्तस्य पुरूरवसः
प्रसिद्धमिन्द्राहल्याख्याने च प्राक्प्रपञ्चितमिति भावः ॥ ४१ ॥
अन्तःसंसक्तिनिर्मुक्तो जीवो मधुरवृत्तिमान् ।
बहिःकुर्वन्नकुर्वन्वा कर्ता भोक्ता न हि क्वचित् ॥ ४२ ॥
मधुरवृत्तिर्निर्विक्षेपसौख्यं तद्वान् ॥ ४२ ॥
अन्तःसंसक्तिमुक्तं यन्मनः स्यात्तदकर्तृकम् ।
तद्विमुक्तं प्रशान्तं तत्तद्युक्तं तदलेपकम् ॥ ४३ ॥
संसक्तित्यागमात्रेण सर्वे जीवन्मुक्तगुणा मनसि सिद्ध्यन्तीत्याशयेनाह -
अन्तरिति ॥ ४३ ॥
तस्मात्सर्वपदार्थानां श्लिष्टानां निश्चितं बहिः ।
सर्वदुःखकरीं क्रूरामन्तःसक्तिं विवर्जयेत् ॥ ४४ ॥
उपसंहरति - तस्मादिति । सर्वान्तरस्यात्मनो बहिर्बहिःश्लिष्ठानां
पञ्चकोशलक्षणानां भोग्यवर्गलक्षणानां च बन्धभूतानां
सर्वपदार्थानां निरासे इदमेवैकं मुख्योपायतया निश्चितं
यत्सर्वदुःखकरीमन्तःसक्तिं विवर्जयेत् । विवर्जनमित्यर्थः ॥ ४४ ॥
विरहितमलमन्तःसङ्गदोषेण चेतः
शममुपगतमाद्यं व्योमवन्निर्मलाभम् ।
सकलमलविमुक्तेनात्मनैकत्वमेति
स्थिरमणिनिभमम्भोवारिणी वारिनीले ॥ ४५ ॥
अन्तःसङ्गः संसक्तिस्तद्दोषेणालमत्यन्तं विरहितमत##-
प्रत्यक्तत्त्वमुपगतं चेत्परात्मना एकत्वमैकरस्यमेति । यथा स्थिरमणिः
स्फटिकस्तन्निभमम्भः अरा निशितधारा येषां सन्ति ते अरिणः खड्गादय
नीले यमुनादिवारिणि मिलितमेकत्वमेति तद्वदित्यर्थः ॥ ४५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे अन्तःसंसङ्गविचारो नाम
सप्तषष्टितमः सर्गः ॥ ६७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
अन्तःसंसङ्गविचारो नाम सप्तषष्टितमः सर्गः ॥ ६७ ॥