६६

षट्षष्तितमः सर्गः ६६

श्रीवसिष्ठ उवाच ।

अतिशोकपराभूतौ तस्थतुर्दृढतापसौ ।
तापसंशुष्कसर्वाङ्गौ तावरण्यद्रुमाविव ॥ १ ॥

अप्रबुद्धमतेरत्र दुःखाब्धौ परिवर्तनम् ।
भासस्य वचनेनात्र विस्तरेण प्रकाश्यते ॥ १ ॥

अरण्यद्रुमपक्षे तापेनातपसम्बन्धिना ग्रीष्मातपेन दावाग्निना च
संशुष्कसर्वाङ्गौ ॥ १ ॥

विरक्तौ विपिने कालं क्षेपयामासतुर्द्विजौ ।
वियूथाविव सारङ्गावनास्थामगतौ पराम् ॥ २ ॥

अनास्थां गृहक्षेत्रधनादावनासक्तिम् ॥ २ ॥

जग्मुर्दिनानि मासाश्च वर्षाण्यथ तयोस्तदा ।
क्रमाद्द्वावपि संयातौ जरां श्वभ्रद्रुमाविव ॥ ३ ॥

अप्राप्तविमलज्ञानौ चिराज्जर्जरतापसौ ।
तावेकदा सङ्घटिताविदमन्योन्यमूचतुः ॥ ४ ॥

सङ्घटितौ कञ्चित्कालं दैवाद्वियुज्य पुनर्मिलितौ ॥ ४ ॥

विलास उवाच ।

जीविताग्र्यद्रुमफल हृदावासामृताम्बुधे ।
जगत्यस्मिन्महाबन्धो भास स्वागतमस्तु ते ॥ ५ ॥

जीविताग्र्यं श्रेष्ठं जीवनं तल्लक्षणद्रुमफलभूत हृदि आवासो यस्य
तथाविधामृताम्बुधे इति मैत्र्यतिशयोद्दीपने विशेषणे ॥ ५ ॥

एतावत्यो दिनावल्ल्यो मद्वियोगवता त्वया ।
वद क्व क्षपिताः साधो कच्चित्ते सफलं तपः ॥ ६ ॥

कच्चित्ते विज्वराः बुद्धिः कच्चिज्जातस्त्वमात्मवान् ।
कच्चित्फलितविद्यस्त्वं कच्चित्कुशलवानसि ॥ ७ ॥

आत्मवान् प्रबोधलब्धात्मा अत-एव फलितविद्यः ॥ ७ ॥

श्रीवसिष्ठ उवाच ।

इत्युक्तवन्तं संसारसमुद्विग्नमलं तथा ।
प्राहाप्राप्तमहाज्ञानं सुहृत्सुहृदमादरात् ॥ ८ ॥

अलं स्पष्टं प्राह ॥ ८ ॥

भास उवाच ।

साधो स्वागतताद्यैव दिष्ट्या दृष्टोऽसि मानद ।
कुशलं तु कुतोऽस्माकं संसारे तिष्ठतामिह ॥ ९ ॥

यावन्नाधिगतं ज्ञेयं यावत्क्षीणा न चित्तभूः ।
यावत्तीर्णो न संसारस्तावन्मे कुशलं कुतः ॥ १० ॥

चित्ते भवतीति चित्तभूः कामसङ्कल्पादिः ॥ १० ॥

आशा यावदशेषेण न लूनाश्चित्तसम्भवाः ।
वीरुधो दात्रकेणेव तावन्नः कुशलं कुतः ॥ ११ ॥

वीरुधो लतापाशाः । दात्रकेण शङ्कुलादिना ॥ ११ ॥

यावन्नाधिगतं ज्ञानं यावन्न समतोदिता ।
यावन्नाभ्युदितो बोधस्तावन्नः कुशलं कुतः ॥ १२ ॥

ज्ञानं शोधिततत्त्वं पदार्थज्ञानम् बोधोऽखण्डवाक्यार्थ इति भेदः ॥ १२

आत्मलाभं विना साधो विना ज्ञानमहौषधम् ।
उदेति पुनरेवेयं दुःसंसृतिविषूचिका ॥ १३ ॥

शैशवाङ्कुरितोज्जृम्भान्नवयौवनपल्लवः ।
जराकुसुमितोऽभ्येति पुनः संसारदुर्द्रुमः ॥ १४ ॥

शैशवलक्षणमङ्कुरितस्योज्जृम्भणमुज्जृम्भस्तमतीत्येति ल्यब्लोपे हेतौ
वा पञ्चमी ॥ १४ ॥

कायजीर्णतरोरस्माद्बान्धवाक्रन्दषट्पदा ।
जराकुसुमितोदेति [पुष्पसितेति पाठः] पुनर्मरणमञ्जरी ॥ १५ ॥

बान्धवानामाक्रन्दा एव षट्पदा लक्षणया तद्गुञ्जारवा यस्याम् । जरया
कुसुमिता सञ्जातकुसुमा ॥ १५ ॥

भुक्तकर्मर्तुविरसा पुराणदिवसोम्भिता ।
नीयते नीरसप्राया पुनः संवत्सरावली ॥ १६ ॥

मरणोत्तरं दैवान्नरकस्थावरतिर्यग्जन्मप्राप्तौ भुक्तानि दुष्कृतकर्माणि
येषु तथाविधैः शीतोष्णवातवर्षादंशमशकादिसङ्कुलैर्वसन्तादि##-
पुण्यसञ्चयानधिकारात्पूर्वसञ्चितपुण्यव्ययाद्धर्षामर्षासूयाकामादिदो
षबहुलत्वाच्च शमदमाद्यसम्भवेन ज्ञानस्यापि
दौर्लभ्यात्केवलभोगैकलम्पटतया पुराणैः
प्राग्बहुशोऽनुभूतत्वादभिनवविसयाभावात्पुरातनप्रायैरेव दिवसैः
उम्भिता पूरिता अत-एव नीरसप्राया संवत्सरावली पुनर्वृथैव नीयते
इत्यर्थः ॥ १६ ॥

महादरीषु देहाद्रेस्तृष्णाकण्टकितास्वपि ।
फलव्यालासु च पुनः क्रियासु परिलुठ्यते ॥ १७ ॥

दैवात्पुनर्मानुष्ये तत्रापि दुर्लभतमे ब्राह्मणादिशरीरे प्राप्तेऽपि साम्प्रतिके
देह इव भोगलम्पटतयैव भ्रमणं दुर्वारमित्याशयेनाह -
महादरीष्विति । विषयभोगलक्षणानि फलान्येव व्याला यासु ।
तत्तृष्णासहस्रैः सञ्जातकण्टकासु
देहलक्षणस्याद्रेर्महाभीषणदरीप्रायच्छिद्रस्थेन्द्रियासक्तिषु
ऐहिकामुष्मिकभोगोपायलौकिकवैदिकक्रियासु च परिलुठ्यते न
तत्राप्यात्मविवेकसम्भावनास्तीत्यर्थः ॥ १७ ॥

दुःखैः सुखलवाकारैर्दीर्घादीर्घैः शुभाशुभैः ।
अपर्याप्तागमापायाः प्रयान्त्यायान्ति रात्रयः ॥ १८ ॥

चिराल्पकालभोग्यत्वाभ्यां दीर्घादीर्घैर्दुःखैः अपर्याप्ता असमाप्ता
आगमापाया यासु । रात्रिग्रहणं कालमात्रोपलक्षणम् । प्रयान्ति सर्वजन्मस्विति
शेषः ॥ १८ ॥

अयथार्थक्रियारम्भैः कदाशावेशपल्लवैः ।
क्षीयते कर्मभिस्तुच्छैरायुराहतकर्मभिः ॥ १९ ॥

उक्तमेव तत्कारणमुखेनाह - अयथाअर्थेति । अयथार्था मिथ्याभूताः
क्रियाभिरारभ्यन्त इति क्रियारम्भाः फलानि येषां तथाविधैः कर्मभिः
आहतानि मृषाभूतानि कर्माणि येषां तथाविधैर्जन्तुभिरायुः क्षीयते
विनाश्यते ॥ १९ ॥

उन्मूलिताश्रयालानो मनोमत्तमतङ्गजः ।
तृष्णाकरेणुकोन्निद्रो दूरं विपरिधावति ॥ २० ॥

जन्मनि जन्मनि विवेकविरोधि प्राबल्यं तत्सहायदौर्बल्यं च प्रपञ्चयति ##-
तदुन्मूलितं येन । तृष्णापदेन तद्विषयो लक्ष्यते । तल्लक्षणायां
करेणुकायां सकामत्वादुन्निद्रो निर्निद्रः ॥ २० ॥

जिह्वाचपलतालग्नः कायद्रुममहालये ।
पतच्चिन्तामणौ वृद्धो गर्द्धगृध्रो विवर्धते ॥ २१ ॥

व्यर्थ पतन् परमपुरुषार्थोपयोगी आयुर्लक्षणो विवेकलक्षणश्च
चिन्तामणिर्यस्मात्तथाविधे कायलक्षणद्रुमस्थे महति हृदयलक्षणे आलये
नीडे गर्द्धः स्वाद्वन्नाद्यभिलाषः स एव गृध्रः ॥ २१ ॥

नीरसा निःसुखा लघ्वी पतत्पेलवगात्रिका ।
जीर्णपर्णसवर्णेयं क्षीयते दिवसावली ॥ २२ ॥

श्रमदौर्बल्यामयादिना पतन्ति पेलवानि कार्याक्षमाणि भवन्ति गात्राणि
यस्याम् । दिवसावलीपदेन तत्परिच्छिन्ना कायलता गृह्यते ॥ २२ ॥

अवमानरजोध्वस्तमस्तङ्गतवपुःश्रियम् ।
मुखं धूसरतामेति हिमैः पद्ममिवाहतम् ॥ २३ ॥

वार्धक्ये पुत्रभृत्यावमानैः रजोभिश्च ध्वस्तम् । अस्तं गता
वपुःश्रीर्यस्य तथाविधम् । क्लीबे अमोऽलुक् छान्दसः ॥ २३ ॥

शुष्यतः कायसरसः प्रगलद्यौवनाम्भसः ।
राजहंसः क्षणादायुरनिवर्ति पलायते ॥ २४ ॥

राजहम्स इवेति शेषः ॥ २४ ॥

कालानिलबलोद्धूताज्जर्जराज्जीवितद्रुमात् ।
भोगपुष्पाणि दिवसपर्णानि निपतन्त्यधः ॥ २५ ॥

भोगलक्षणानि पुष्पाणि दिवसरूपाणि पर्णानि च अधो निपतन्ति । अपयान्तीति यावत्
॥ २५ ॥

भोगभोगिश्रितेष्वन्तर्दुःखदर्दुरधारिषु ।
मनोमोहान्धकूपेषु पूरेषु विनिमज्जति ॥ २६ ॥

भोगेषु निवृत्तेष्वपि भोगाशा तदशक्तिदुःखं
तत्प्रयुक्तचिन्ताशोकमोहाधिश्च वर्धत एवेत्याशयेनाह - भोगेत्यादिना ॥
२६ ॥

नानानुरञ्जनास्पृष्टा तृष्णा तरलपेलवा ।
चैत्यमग्रपताकेव दूरं समधिरोहति ॥ २७ ॥

चैत्यं देवाद्यायतनम् । अग्रे बद्धा पताकेव दूरमुच्छ्रितं यथा स्यात्तथा ॥
२७ ॥

अस्य संसारतन्त्रस्य बृहत्कालबिलास्पदः ।
जीविताशामयं तन्तुमन्तकाखुर्निकृन्तति ॥ २८ ॥

संसारलक्षणस्य तन्त्रस्य प्रवाण्याः जीविताशाप्रचुरमायुस्तन्तुम् ॥ २८ ॥

यौवनोत्कटकल्लोला वहल्लोलासिफेनिला ।
परावर्तमहावर्ता याति जीवितदुर्नदी ॥ २९ ॥

वहल्लोलासिसदृशक्रोधद्वेषभयादिना फेनिला । परावर्ता लोभतृष्णादिना
भ्रमणान्येव महान्त आवर्ता यस्याः ॥ २९ ॥

कलाकुलजगत्कार्यकल्लोलाकुलसङ्कुला ।
क्रियासरिदपर्यन्ता वहत्याकुलकोटरा ॥ ३० ॥

शिल्पतर्कनीतिशास्त्रादिभिः कलाकुलैः
कौशलवृन्दैर्जगद्व्यवहारकार्यलक्षणैश्च कल्लोलैराकुला सङ्कुला च क्रिया
प्रवृत्तिस्तल्लक्षणा सरित् प्रतिजन्म एवमेव वहतीत्यर्थः ॥ ३० ॥

अनन्ता बन्धुजनतानद्यो गम्भीरकोटरे ।
अजस्रं निपतन्त्येता वितते कालसागरे ॥ ३१ ॥

देहरत्नशलाकेयं नाशपङ्कार्णवोदरे ।
न ज्ञायते क्व मग्नेति तात जन्मनि जन्मनि ॥ ३२ ॥

देह एव परमपुरुषार्थसाधनत्वाद्रत्नशलाका ॥ ३२ ॥

चिन्ताचक्रे चिरं बद्धं कुक्रियाचारचञ्चुरम् ।
चेतो भ्रमति सामुद्रे गर्तावर्ते तृणं यथा ॥ ३३ ॥

गर्तावर्ते सच्छिद्रावर्ते ॥ ३३ ॥

उह्यमानमनन्तेषु चेतः कार्यमहोर्मिषु ।
क्षणमेति न विश्रान्तिं चिन्ताताण्डविताशयम् ॥ ३४ ॥

इदं कृतं करोमीदं करिष्यामीदमित्यलम् ।
कलनाजालवलिता मूर्च्छिता मतिपक्षिणी ॥ ३५ ॥

कलनाजाले वलिता बद्धा सती मूर्च्छिता मोहितः ॥ ३५ ॥

अयं सुहृदयं शत्रुरिति द्वन्द्वमहाद्विपः ।
विनिकृन्तति मर्माणि यथा नीलोत्पलानि मे ॥ ३६ ॥

नीलोत्पलानि यथा विनिकृन्तति तथा मे मम मर्माण्यपि ॥ ३६ ॥

चिन्तानद्या महावर्ते वीचिकानिचये चिरम् ।
क्षणादुच्छूनतामेति मनोमीनः क्षणाद्गतिः ॥ ३७ ॥

उच्छूनतां विवृद्धिम् । क्षणान् अतन्ति गतयो यस्य स क्षणाद्गतिश्चपल
इत्यर्थः ॥ ३७ ॥

अनात्मीयानि दुःखानि भून्येवंविधान्ययम् ।
आत्मबुद्ध्या विचिन्वानो जनो गच्छति दीनताम् ॥ ३८ ॥

अनात्मीयान्यात्मासंस्पर्शीनि अनात्मदेहादिनिमित्तानि च । देहादावात्मबुद्ध्या ॥
३८ ॥

बहुविधसुखदुःखमध्यपाती
विततजरामरणप्रवातभग्नः ।
जगदुदरगिरौ लुठञ्जनोऽयं
गतरसपर्णवदेति जर्जरत्वम् ॥ ३९ ॥

सर्वजन्मसु दुःखस्थानानामानन्त्यं दर्शयन्नुपसंहरति -
बहुविधेति । जरामरणलक्षणेन प्रवातेन चण्डवायुना भग्नः
पुनःपुनरामर्दितो जगल्लक्षणे उदयगिरौ लुठन्नयं जनो गतरसपर्णवत्
शुष्कपर्णवत् ॥ ३९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० उपशमप्रकरणे
भासविलासवृत्तान्ते अनित्यताप्रतिपादनं नाम षट्षष्टितमः सर्गः ॥
६६ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
अनित्यताप्रतिपादनं नाम षट्षष्टितमः सर्गः ॥ ६६ ॥