पञ्चषष्टितमः सर्गः ६५
श्रीवसिष्ठ उवाच ।
मनसैव मनश्छित्त्वा यद्यात्मा नावलोक्यते ।
ममेत्यहमिति त्यक्त्वा तत्तामरसलोचन ॥ १ ॥
सह्याख्यशैलस्तत्रात्रेराश्रमस्तत्र वर्ण्यते ।
विलासभासयोर्जन्मकर्मशोकोदयक्रमः ॥ १ ॥
आत्मदर्शनोपायोपेक्षणे शोकमोहादिदुःखपरम्परा दुर्वारेत्यर्थे
भासविलासाख्यायिकामवतारयिष्यन्नाह - मनसैवेति । यदि नावलोक्यते
तत्तर्हि जगद्दुःखं यथा चित्रगतो रविर्नास्तमेति तथा नास्तमेतीति परेणान्वयः
॥ १ ॥
नास्तमेति जगद्दुःखं यथा चित्रगतो रविः ।
आयात्यापदनन्तत्वं महार्णववदातता ॥ २ ॥
आपदनन्तत्वमपरिच्छेद्यत्वमायाति ॥ २ ॥
पुनःपुनरुपायाति जलकल्लोलकारणम् ।
मेघनीलतमःश्यामा संसृतिप्रावृडाकुला ॥ ३ ॥
मेघैर्नीलतमोभिश्च श्यामा संसृतिलक्षणा प्रावृट् वर्षर्तुः ॥ ३ ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
संवादं सुहृदोः सह्यसानौ भासविलासयोः ॥ ४ ॥
सुहृदोर्मित्रयोः शुद्धचित्तयोश्च ॥ ४ ॥
अस्त्युत्सेधजिताकाशः पीठेन जितभूतलः ।
तलेन जितपातालस्त्रिलोकविजयो गिरिः ॥ ५ ॥
पीठेन उपत्यकाभागेन तलेन भूम्यन्तः प्रविष्टमूलभागेन । जितशब्द
आक्रान्तपरः ॥ ५ ॥
असङ्ख्यकुसुमापूरोऽसङ्ख्यनिर्मलनिर्झरः ।
गुह्यकारक्षितनिधिः सह्यनामाऽविषह्यभाः ॥ ६ ॥
अविषह्या दृक्प्रसरप्रतिघातिनी भा रत्नादिदीप्तिर्यस्मिन् ॥ ६ ॥
मुक्तापटलसम्पूर्णैर्भानुभासुरभित्तिभिः ।
भासुरः काञ्चनतटैः कटैरिव सुरद्विपः ॥ ७ ॥
भानुभिः सूर्यरत्नादिकिरणैर्भासुरभित्तिभिर्दीप्तवप्रैः । पाटलभित्तिभिः इति
पाठेऽप्येवम् । काञ्चनैस्तटैर्नितम्बैः कटैर्गण्डैः । जात्याख्यायां इति
बहुवचनम् ॥ ७ ॥
क्वचित्पुष्पभरासारो धातुसाराततः क्वचित् ।
क्वचित्फुल्लसरःसारो रत्नशालिशिलः क्वचित् ॥ ८ ॥
धातुसारैर्हरितालमनःशिलागैरिकादिभिराततः ॥ ८ ॥
इति रटन्निर्झरवानितः क्वणितकीचकः ।
इतो रटद्गुहावात इतः षट्पदघुङ्घुमः ॥ ९ ॥
इत इत इति प्रदेशभेदोक्तिः ॥ ९ ॥
सानौ गीतोऽप्सरोवृन्दैर्वने मृगखगारवः ।
अधित्यकायां मत्ताभ्रो गगनेषु खगारवः ॥ १० ॥
सानौ प्रस्थे । मत्तानीव गर्जन्त्यभ्राणि यस्मिन् ॥ १० ॥
विद्याधराश्रितगुहो भृङ्गगीताम्बुजाकरः ।
किरातगीतपर्यन्तः खगगीतवनद्रुमः ॥ ११ ॥
स्कन्धेषु देवैर्वलितः पादेषु वलितो नरैः ।
पाताले वलितो नागैर्जगद्गृहमिवापरम् ॥ १२ ॥
जगत्पदेन लोकत्रयवासिनो लक्ष्यन्ते । तेषां गृहमिव त्रैलोक्यलक्षणं
ब्रह्माण्डगृहमिवेति वा स्थित इति शेषः ॥ १२ ॥
कन्दरेषु श्रितः सिद्धैर्निधानैरन्तराश्रितः ।
चन्दनेषु श्रितो नागैः सिंहैः शृङ्गशिखासु च ॥ १३ ॥
निधानैर्निखातधनैः ॥ १३ ॥
पुष्पाभ्रसंवीतवपुः पुष्परेण्वभ्रपांसुलः ।
पुष्पवात्याभ्रहृद्भ्रान्तः पुष्पपादपपाण्डुरः ॥ १४ ॥
अधःपतितपुष्पाणि सद्यःपतितपुष्पाणामन्तरिक्षस्था रेणवः
पतमानपुष्पाणि वृक्षस्थपुष्पाणि चाभ्रत्वेन क्रमाद्वर्ण्यन्ते ॥ १४ ॥
धातुधूल्यभ्रकपिलो रत्नोपलतलस्थितैः ।
मन्दारगैरिव पुरस्त्रीगणैरलमाश्रितः ॥ १५ ॥
मन्दारः कल्पवृक्षमेदस्तद्रैस्तदारूढैरिव ॥ १५ ॥
अभ्रनीलांशुकच्छन्ना मूकरत्नविभूषणाः ।
शिलाः कनकसुन्दर्यो यत्र शृङ्गाभिसारिकाः ॥ १६ ॥
शिला एवाभिसारिकात्वेनोत्प्रेक्षते - अभ्रेति ।
क्वणन्मञ्जीरादिखचितरत्नानामभिसारविरोधित्वान्मूकरत्नविभूषिताः ।
शृङ्गैरभिसारिका इवाश्लिष्टत्वात् शृङ्गाभिसारिकाः ॥ १६ ॥
तत्रोत्तरतटे सानौ विनम्रफलपादपे ।
रत्नपुष्करिणीजालवहन्निर्झरवारिणि ॥ १७ ॥
तत्र उत्तरतटे अत्रेराश्रमोऽस्तीति चतुर्थेन सम्बन्धः ॥ १७ ॥
चूतद्रुमलतोन्मुक्तपुष्पस्तबकदन्तुरे ।
विफुल्लाङ्कोलपुन्नागनीलनीरजदिक्तटे ॥ १८ ॥
चूतद्रुमाणां लताभिः शाखाभिरुन्मुक्तैरूर्ध्वभागे प्रसारितैः
पुष्पस्तबकैर्दन्तुरे उन्नतदन्तवत्स्थिते । नीलनीरजानि नीलोत्पलानि ॥ १८ ॥
लतावितानच्छन्नार्के रत्नांशुभग्भास्वरे ।
स्रवज्जम्बूरसस्यूते स्वलोकाह्लादकारिणि ॥ १९ ॥
स्वर्लोकः स्वर्गस्थानमिवाह्लादकारिणि ॥ १९ ॥
ब्रह्मलोकसमः स्वर्गरम्यः शिवपुरोपमः ।
अत्रेरस्त्याश्रमः श्रीमान्सिद्धश्रमहरो महान् ॥ २० ॥
महत्यत्राश्रमे तस्मिंस्तापसौ द्वौ बभूवतुः ।
कोविदौ तु नभोमार्ग इव शुक्रबृहस्पती ॥ २१ ॥
महति विस्तीर्णे । कोविदौ विद्वांसौ । शुक्रबृहस्पती इति तयोर्नामनिर्देशोऽपि ॥ २१
॥
तयोरथैकास्पदयोस्तत्राभूतां सुतावुभौ ।
फुल्लाङ्कुरौ शुद्धतनू सरस्यम्बुजयोरिव ॥ २२ ॥
अम्बुजयोः पद्मगुल्मयोः फुल्लारौ पुष्पप्रकृतिभूते कलिके इव ॥ २२ ॥
विलासभासनामानौ वृद्धिमाययतुः क्रमात् ।
तौ पित्रोः पल्लवे दीर्घे लतापादपयोरिव ॥ २३ ॥
लतापादपयोः पल्लवे इव वृद्धिमाययतुः ॥ २३ ॥
आस्तामन्योन्यसुस्निग्धौ सुहृदौ वल्लभौ मिथः ।
तिलतैलवदाश्लिष्टौ तौ पुष्पामोदवत्स्थितौ ॥ २४ ॥
नाऽयुक्तौ पुत्रयुक्तौ तु सुरक्ताविव दम्पती ।
एकं द्वित्वमिवापन्नां सममासीत्तयोर्मनः ॥ २५ ॥
नायुक्तौ न वियुक्तौ । पुत्रार्थ युक्तौ परस्परं च सुरक्तौ दम्पती इव ॥ २५ ॥
तौ तथान्योन्यमुदितौ मनोहरतराकृती ।
तस्थतुः स्वाश्रमे मौने सरोज इव षट्पदौ ॥ २६ ॥
मौने मुद्रिते मुनियुक्ते च ॥ २६ ॥
प्रापतुर्यौवनं बाल्यमुत्सृज्य नववल्लभौ ।
कालेनाल्पतरेणैव चन्द्रसूर्याविवोदितौ ॥ २७ ॥
जग्मतुर्देहमुत्सृज्य ततस्तौ पितरौ तयोः ।
स्वर्गं जरार्तावुड्डीय नीडादिव विहङ्गमौ ॥ २८ ॥
पञ्चत्वं गतयोः पित्रोर्दीनवक्रौ बभूवतुः ।
तप्ताङ्गौ विगतोत्साहौ पद्माविव जलोद्धृतौ ॥ २९ ॥
पञ्चत्वं मरणं गतयोः सतोः ॥ २९ ॥
तत्रौर्ध्वदैहिकं कृत्वा चक्राते परिदेवनम् ।
लोकस्थितिरलङ्घ्या हि महतामपि मानद ॥ ३० ॥
और्ध्वदैहिकमित्यनुशतिकादित्वादुभयपदवृद्धिः । परिदेवनं विलापम् ॥
३० ॥
कृत्वौर्ध्वदैहिकमथो व्यथयाभिभूतौ
शोकोत्थया करुणयार्तगिरा विलप्य ।
चित्रार्पिताविव निरस्तसमस्तचेष्टौ
तौ संस्थितौ सुखमशून्यहृदौ विवृत्तौ ॥ ३१ ॥
निरस्तसमस्तचेष्टौ चेत्किं मृतौ नेत्याह - अशून्यहृदाविति । तथाच
मूर्च्छितौ विवृतौ विवृत्तौ सम्पन्नावित्यर्थः ॥ ३१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे०
मोक्षोपायेषूपशमप्रकरणे भासविलासवृत्तान्ते सह्यगिरिवर्णनं
नाम पञ्चषष्टितमः सर्गः ॥ ६५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे सह्य
गिरिवर्णनं नाम पञ्चषष्ठितमः सर्गः ॥ ६५ ॥