६४

चतुःषष्टितमः सर्गः ६४

श्रीवसिष्ठ उवाच ।

सुरघुः परिघश्चैव विचार्येति जगद्भ्रमम् ।
मिथः प्रपूजितौ तुष्टौ स्वय्वापारपरौ गतौ ॥ १ ॥

यैरुपायैरुपायज्ञो मनोदोषैर्न बाध्यते ।
आत्मा चोद्ध्रियते दुःखात्त उपाया इहोदिताः ॥ १ ॥

इति वर्णितप्रकारेण विचार्य ॥ १ ॥

तदेव राघव श्रुत्वा परमं बोधकारणम् ।
अनेनैव विबोधेन भव लब्धास्पदः स्फुटम् ॥ २ ॥

तत् वर्णितसंविवादरूपं बोधकारणं श्रुत्वा । एतावदेव श्रुत्वावधारितं
बोधाय पर्याप्तमिति सूचनाय प्रथम एवकारः । एतावद्बोध एव
सुप्रतिष्ठितः परमपदप्राप्तये पर्याप्त इति द्योतनाय द्वितीयः ॥ २ ॥

परया प्रज्ञया धीरविचारगततीक्ष्णया ।
गलत्यलमहङ्कारकालमेघे हृदम्बरे ॥ ३ ॥

धीरैर्विद्वद्भिः सह विचारेण धीरेण निश्चलेन स्वविचारेण च गततीक्ष्णया
प्राप्तनिशितभावया हृदम्बरे अहङ्कारलक्षणे कालमेघे गलति सति ॥ ३ ॥

समस्तलोकानुमते सफले ह्लादकारिणि ।
निर्मले वितते चेतः शरत्काल उपस्थिते ॥ ४ ॥

समस्तेत्यादिविशेषणानि शरत्कालेऽपि योज्यानि ॥ ४ ॥

ध्येये शरण्ये सुगमे सकलानन्दसम्पदि ।
सुप्रसन्ने चिदाकाशे स्थीयते परमात्मनि ॥ ५ ॥

सर्वानर्थनिवर्तकत्वाच्छरण्ये ॥ ५ ॥

यो नित्यमध्यात्ममयो नित्यमन्तर्मुखः सुखी ।
नित्यं चिदनुसन्धानो मनःशोकैर्न बाध्यते ॥ ६ ॥

अध्यात्ममय आत्मैकविचारप्रचुरः । अन्तर्मुखो बाह्यासक्तिशून्यः ।
चित्येवानुसन्धानं पुनःपुनरादरादास्वादनं यस्य ॥ ६ ॥

व्यवहारपरोऽत्युच्चै रागद्वेषमयोऽपि सन् ।
नान्तःकलङ्कमायाति पद्मो जलगतो यथा ॥ ७ ॥

रागद्वेषमयो रागद्वेषप्रचुर इव मूढैः कल्प्यमानोऽपि ॥ ७ ॥

सम्यग्विज्ञानवान्शुद्धो योऽन्तःशान्तमना मुनिः ।
न बाध्यते स मनसा करिणेव मृगाधिपः ॥ ८ ॥

भोगैकशरणं दीनं न चित्तं ज्ञस्य विद्यते ।
नन्दने दुर्द्रुम इव ज्ञचित्तं हि महावपुः ॥ ९ ॥

दुर्द्रुमो विषकण्टकवृक्षः । हि यस्माज्ज्ञस्य चित्तं महावपुः ।
क्षुद्रसुखलवनिःस्पृहमिति यावत् ॥ ९ ॥

विरक्तो जन्ममरणे यथा दुःखी न मानवः ।
परिज्ञाताखिलाविद्यं तथा चित्तं न दुःखितम् ॥ १० ॥

यथा विरक्तो मानवो जायामरणे सति कामुक इव न दुःखी तथा परितो विचार्य
ज्ञाता अखिला विषयेन्द्रियशरीरादिसर्वदृश्यरूपा अविद्या मिथ्याभ्रान्तिर्येन
तथाविधं ज्ञचित्तं न दुःखितं भवतीत्यर्थः ॥ १० ॥

परिज्ञातमनोमोहो जगद्भावोद्भवत्मना ।
स्पृश्यते नैनसा साधो रजसेव नभस्तलम् ॥ ११ ॥

तस्य भाविदुःखहेतुपापसम्बन्धोऽपि नास्तीत्याह - परिज्ञातेति । जगति
व्यवहारपदे भावः कर्तृत्वाभिमानस्तस्मादुद्भवतीति जगद्भावोद्भवं
तदात्मना एनसा पापेन ॥ ११ ॥

अविद्यासम्परिज्ञातमिदमेव महौषधम् ।
अविद्याविततव्याधेस्तिमिरस्येव दीपकम् ॥ १२ ॥

अविद्यालक्षणजगदाकारविस्तीर्णव्याधेरविद्यामात्रं जगदिति
सम्यक्परिज्ञातं विचारजन्यं ज्ञानमेव महौषधमित्यर्थः ॥ १२ ॥

अविद्या सम्परिज्ञाता यदैव हि तदैव हि ।
सा परिक्षीयते भूयः स्वप्नेनेव हि भोगभूः ॥ १३ ॥

यथा स्वप्नोऽयमिति परिज्ञातेन स्वप्नेन तद्भोगभूः परिक्षीयते तद्वत् ॥ १३ ॥

व्यवहारपरोऽप्यन्तरसक्तमतिरेकधीः ।
स्पृश्यते नैनसा साधुर्मत्स्येक्षणमिवाम्भसा ॥ १४ ॥

मत्स्यानामीक्षणं चक्षुरम्भसा न स्पृश्यते तद्वत् । तत्स्पर्शे
पिहिताक्षाणां तेषां जले दर्शनादिव्यवहारो न स्यादिति भावः ॥ १४ ॥

प्राप्ते चिद्भासुरालोके प्रक्षीणाऽज्ञानयामिनी ।
शेमुषी परमानन्दमागता ज्ञस्य राजते ॥ १५ ॥

शेमुषी प्रज्ञा ॥ १५ ॥

अज्ञाननिद्रोपशमे जनो ज्ञानार्कबोधितः ।
तत्प्रबोधमवाप्नोति पुनर्येन न मुह्यति ॥ १६ ॥

ज्ञायतेऽनेनेति ज्ञानं शास्त्रं तद्रूपेणार्केण बोधितः । तत्तादृशं
प्रबोधम् ॥ १६ ॥

दिनानि जीव्यते तानि सानन्दास्ते क्रियाक्रमाः ।
आत्मचन्द्रोदिता येषु चिज्ज्योत्स्ना हृदयाम्बरे ॥ १७ ॥

इदानीं विद्यां स्तौति - दिनानीत्यादिना । जीव्यते इति भावे लः । दिनानीति
कालाध्वनोरत्यन्तसंयोगे द्वितीया नतु कर्मणि । येषु दिनेषु चिज्ज्योत्स्ना
हृदयाम्बरे आह्लादयति विराजतेवेति शेषः ॥ १७ ॥

नरो मोहसमुत्तीर्णः सततं स्वात्मचिन्तया ।
अन्तःशीतलतामेति स्वामृतेनेव चन्द्रमाः ॥ १८ ॥

तानि मित्राणि शास्त्राणि तानि तानि दिनानि च ।
विरागोल्लासवान्येभ्य आत्मचित्तोदयः स्फुटम् ॥ १९ ॥

येभ्यो मित्रादिभ्यो निमित्तेभ्यो विरागोल्लासवान्
आत्माकारवृत्तिलक्षणश्चित्ताभ्युदयः स्फुटं सिद्ध्यतीति शेषः ॥ १९ ॥

चिरं शोचन्ति ते दीना जन्मजङ्गलवीरुधः ।
आत्मावलोकने हेला येषामविगतैनसाम् ॥ २० ॥

हेला अवहेलनम् । उपेक्षेति यावत् । अविगतैनसामक्षीणपापानाम् ॥ २० ॥

आशापाशशतैर्बद्धं भोगोलपसुलालसम् ।
जराजर्जरिताकारं शोकोच्छ्वासकदर्थितम् ॥ २१ ॥

इत आरभ्य सर्वेषां द्वितीयान्तपदानां नवमश्लोकस्थे जीवबलीवर्द
उत्तारयेदित्यत्र सम्बन्धः । उलपास्तृणविशेषाः ॥ २१ ॥

व्यूढदुःखमहाभारं जन्मजङ्गलजीवितम् ।
कुकर्मकर्दमालिप्तं मोहपल्वलशायिनम् ॥ २२ ॥

विशेषेण ऊढो दुःखमहाभारो येन ॥ २२ ॥

रागदंशावलीदष्टं कृष्टं तृष्णावरत्रया ।
मनोवणिङ्निकेतस्थं बन्धुबन्धननिश्चलम् ॥ २३ ॥

वरत्रया चर्ममय्या नासारज्ज्वा । मनोलक्षणस्य वणिजो निकेते आज्ञालक्षणे
सङ्केते निवासे च स्थितम् । बन्धुजनलक्षणैर्बन्धनैर्निश्चलं चलितुमशक्तम्
॥ २३ ॥

पुत्रदारजराजीर्णे मग्नोन्मग्नं कुकर्दमे ।
श्रान्तं विगतविश्रामं भग्नमादीर्घवर्त्मनि ॥ २४ ॥

कुकर्दमे गोमयपङ्के ॥ २४ ॥

गमागमपरिक्षीणं संसारारण्यचारिणम् ।
अलब्धशीतलच्छायं तीव्रतापोपतापितम् ॥ २५ ॥

आकारभासुरं दीनं बाह्यैराक्रान्तमिन्द्रियैः ।
कर्मघण्टारवाक्रान्तं क्रान्तं दुष्कृतताडनैः ॥ २६ ॥

बहिराकारमात्रेण भासुरमन्तस्तु दीनम् ।
बाह्यैरिन्द्रियैश्चक्षुरादिभिराक्रान्तमारूढम् । कर्मपदेन
काम्यकर्मप्ररोचकार्थवादा लक्ष्यन्ते । तल्लक्षणेन घण्टारवेणाक्रान्तं
भ्रमितम् ॥ २६ ॥

आविर्भावतिरोभावचक्रावर्तधुरोद्वहम् ।
अज्ञानविकटाटव्यां लुठितं सन्नगात्रकम् ॥ २७ ॥

चक्रावर्तधुरा शकटभारः । सा हि शकटचक्रैरावर्तते तदुद्वहम् ॥ २७ ॥

निजानर्थसदामग्नं सीदमानमकिञ्चनम् ।
सन्नाङ्गं कर्मभारेण करुणाक्रन्दकारिणम् ॥ २८ ॥

करुणं यथा स्यात्तथा आक्रन्दकारिणम् ॥ २८ ॥

राम जीवबलीवर्दमिमं संसारपल्वलात् ।
परमं यत्नमास्थाय चिरमुत्तारयेद्बलात् ॥ २९ ॥

चिरं परमं यत्नमास्थाय ज्ञानबलादुत्तारयेदित्यर्थः ॥ २९ ॥

तत्त्वावलोकनात्क्षीणे चित्ते नो जायते पुनः ।
जीवः कदाचन तदा भवेत्तीर्णभवार्णवः ॥ ३० ॥

उत्तारितस्य पुनः पङ्कमज्जनशङ्कां वारयति - तत्त्वेति ॥ ३० ॥

महानुभावसम्पर्कात्संसारार्णवलङ्घने ।
युक्तिः सम्प्राप्यते राम स्फुटा नौरिव नाविकात् ॥ ३१ ॥

उत्तारणोपायज्ञानलाभस्तु सद्गुरोरभिगमनात्सिद्ध्यतीत्याशयेनाह -
महानुभावेति ॥ ३१ ॥

यस्मिन्देशमरौ तज्ज्ञो नास्ति सज्जनपादपः ।
सफलः शीतलच्छायो न तत्र निवसेद्बुधः ॥ ३२ ॥

देशो मरुरिव देशमरुस्तस्मिन् ॥ ३२ ॥

स्निग्धशीतवचःपत्रे सच्छाये स्मितपुष्पके ।
क्षणाद्विश्रम्यते राम भृशं सुजनचम्पके ॥ ३३ ॥

सुजनलक्षणे चम्पकवृक्षे । विशेषणान्युभयसाधारण्येन योज्यानि ॥ ३३ ॥

तदभावे महामोहतापसम्पत्तिदायिनि ।
किञ्चिज्जातविवेकेन स्वप्तव्यं नेह धीमता ॥ ३४ ॥

तदभावे स्वात्मलाभविश्रान्त्यभावे इह संसारे न स्वप्तव्यम् ॥ ३४ ॥

आत्मैव ह्यात्मनो बन्धुरात्मनात्मैवमुद्धरेत् ।
नात्मानमवलेपेन जन्मपङ्कार्णवे क्षिपेत् ॥ ३५ ॥

एवमनेनोपायेन उद्धरेदात्मानमित्यर्थः । अवलेपेन देहाभिमानगर्वेण ॥ ३५

किमिदं कथमायातं किम्मूलमिति किङ्क्षयम् ।
देहदुःखमिति प्राज्ञैः प्रेक्षणीयं प्रयत्नतः ॥ ३६ ॥

कस्मात्क्षयो यस्य किङ्क्षयम् । देहाधीनं दुःखं प्रेक्षणीयं स्वबुद्ध्या
शास्त्रसज्जनसहायेन च विचारणीयम् । द्वावितिशब्दौ
विचार्यविचारप्रकारबाहुल्यद्योतनार्थौ ॥ ३६ ॥

न धनानि न मित्राणि न शास्त्राणि न बान्धवाः ।
नराणामुपकुर्वन्ति मग्नस्वात्मसमुद्धृतौ ॥ ३७ ॥

शास्त्राण्यनात्मशास्त्राणि ॥ ३७ ॥

मनोमात्रेण सुहृदा सदैव सहवासिना ।
सह किञ्चित्परामृश्य भवत्यात्मा समृद्धृतः ॥ ३८ ॥

किं तर्ह्युपकरोति तदाह - मनोमात्रेणेति । सुहृदा परिशुद्धेनेति यावत् ॥
३८ ॥

वैराग्याभ्यासयत्नाभ्यां स्वपरामर्शजन्मना ।
तत्त्वालोकनपोतेन तीर्यते भवसागरः ॥ ३९ ॥

शोच्यमानं जनैर्नित्यं दह्यमानं दुराशया ।
नात्मानमवमन्येत प्रोद्धरेदेनमादरात् ॥ ४० ॥

नावमन्येत नोपेक्षेत ॥ ४० ॥

अहङ्कारमहालानं तृष्णारज्जुं मनोमदम् ।
जन्मजम्बालनिर्मग्नं जीवदन्तिनमुद्धरेत् ॥ ४१ ॥

आलानं गजबन्धनस्तम्भः । जम्बाले पङ्के निर्मग्नम् ॥ ४१ ॥

अयमेतावतैवात्मा त्रातो भवति राघव ।
यदपास्य विमूढत्वमहङ्कारः प्रमार्ज्यते ॥ ४२ ॥

विमूढत्वं स्वात्माज्ञानम् ॥ ४२ ॥

एतावतैव सन्मार्गे याति प्रकटतामलम् ।
यदपास्य मनोजालमहम्भावो विलूयते ॥ ४३ ॥

सतः परमात्मनो मार्गणं मार्गो बोधपर्यन्तो विचारस्तस्मिन् प्रकटतां
स्फुटावलोकनताम् । मनोरचितं बाह्याध्यात्मिकासक्तिजालम् ॥ ४३ ॥

एतावतैव देवेशः परमात्मावगम्यते ।
काष्ठलोष्टसमत्वेन देहो यदवलोक्यते ॥ ४४ ॥

तत्रापि दुस्त्यजदेहाभिमानत्याग एव मुख्य इत्याशयेनाह - एतावतैवेति ॥ ४४

अहङ्काराम्बुदे क्षीणे दृश्यते चिद्दिवाकरः ।
ततस्तत्परिणामेन तत्पदं समवाप्यते ॥ ४५ ॥

तस्य दर्शनस्य परिणामेन भूमिकापरिपाकेन चिद्दिवाकरभावापत्त्या वा ॥ ४५

यथा ध्वान्तसमुच्छेदे स्वयमालोकवेदनम् ।
तथाहङ्कारविच्छेदे स्वयमात्मावलोकनम् ॥ ४६ ॥

अवलोकनं सिद्ध्यतीति शेषः ॥ ४६ ॥

अहङ्कारे परिक्षीणे यावस्था सुखमोदजा ।
सावस्था भरिताकारा सा सेव्या सम्प्रयत्नतः ॥ ४७ ॥

सुखमोदो निरतिशयानन्दविश्रान्तिस्तज्जा ताद्रूप्येणाविर्भूता निर्विकल्पावस्था ॥
४७ ॥

परिपूर्णार्णवप्रख्या न वा गोचरमेति नः ।
नोपमानमुपादत्ते नानुधावति रञ्जनम् ॥ ४८ ॥

तामेव वर्णयति - परुपूर्णेत्यादिना । रञ्जनं दृश्योपरागम् ॥ ४८ ॥

केवलं चित्प्रकाशांशकलिका स्थिरतां गता ।
तुर्या चेत्प्राप्यते दृष्टिस्तत्तया सोपमीयते ॥ ४९ ॥

तयैव सोपमीयते नान्यत्तदुपमानमस्तीत्यर्थः ॥ ४९ ॥

अदूरगतसादृश्यात्सुषुप्तस्योपलक्ष्यते ।
सावस्था भरिताकारा गगनश्रीरिवातता ॥ ५० ॥

केन तर्हि निदर्शनेन तत्सम्भावना स्यात्तदाह - अदूरेति । निर्विक्षेपत्वांशे
सन्निहितात्सादृश्यादित्यर्थः । उप समीपे लक्ष्यते । अज्ञानावरणं चेत्तदा न
स्यात्तर्हि तुर्यावस्थैव स्यादित्यनया रीत्येत्यर्थः ॥ ५० ॥

मनोहङ्कारविलये सर्वभावान्तरस्थिता ।
समुदेति परानन्दा या तनुः पारमेश्वरी ॥ ५१ ॥

घटविलये तदाकाशस्य महाकाशत्वमिव मनोहङ्कारोपाधिविलये
त्वम्पदलक्ष्यस्य तत्पदलक्ष्यात्मस्वभावता सिद्ध्यतीत्याह - मन इति ॥ ५१ ॥

सा स्वयं योगसंसिद्धा सुषुप्तादूरभाविनी ।
न गम्या वचसां राम हृद्येवेहानुभूयते ॥ ५२ ॥

सुषुप्त अदूरभाविनी सन्निहिता हृद्येवानुभूयते स्वानुभवतिरिक्तं
तत्परिचायकं नास्तीत्यर्थः ॥ ५२ ॥

अनुभूतिं विना तत्त्वं खण्डादेर्नानुभूयते ।
अनुभूतिं विना रूपं नात्मनश्चानुभूयते ॥ ५३ ॥

यथा खण्डाद्यसाधारणगवादिस्वरूपपरिचये नानुभवादन्यन्मानं
तथा आत्मन्यपीत्याह - अनुभूतिमिति । आत्मनो रूपं परमार्थस्वरूपम् ।
चोऽप्यर्थः ॥ ५३ ॥

अखिलमिदमनन्तमात्मतत्त्वं
दृढपरिणामिनि चेतसि स्थितेऽन्तः ।
बहिरुपशमिते चराचरात्मा
स्वयमनुभूयत एव देवदेवः ॥ ५४ ॥

इदमखिलमात्मतत्त्वमेव तर्हि तत्कथमनुभूयते तत्राह - दृढेति ।
चेतसि बहिर्विषयेषूपशमिते अन्तः प्रत्यगात्मनि क्षीरोदकवदैकरस्येन
दृढं परिणामिनि स्थिते निश्चले सति चराचराणामात्मा प्रत्यग्भृतो
देवानां चक्षुरादीनां देवः साक्षितया प्रकाशयिता स्वयं
साक्षादनुभूयत एव नात्र संशयः कार्य इत्यर्थः ॥ ५४ ॥

तदनु विषयवासनाविनाश-
स्तदनु शुभः परमः स्फुटप्रकाशः ।
तदनु च समतावशात्स्वरूपे
परिणमनं महतामचिन्त्यरूपम् ॥ ५५ ॥

एवं चतुर्थभूमिकायामात्मानुभवे तदनु
पञ्चमभूमिकायामात्यन्तिकविषयवासनाविनाशास्तदनु
षष्ठभूमिकायां विनैव यत्नं शुभः परमपुरुषार्थरूपः स्वात्मनः
स्फुटः प्रकाशः सदैव पूर्णभावानुभवः सिद्ध्यति । तदनु
सप्तमभूमिकायां समाध्यसमाध्योः
समतावशादात्यन्तिकवैषम्यनिवृत्तेः
समुद्रान्तर्विलीनसैन्धवघनवत्सुखैकरसतया परिणमनं सिद्ध्यति तत्तु
महतां ब्रह्मादीनामपि इयत्तयाऽचिन्त्यरूपम् । यतो वाचो निवर्तन्ते अप्राप्य
मनसा सह इति श्रुतेरित्यर्थः ॥ ५५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देव०
मोक्षोपायेषूपशमप्रकरणे उपदेशो नाम चतुःषष्टितमः सर्गः ॥ ६४

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे उपदेशो
नाम चतुःषष्टितमः सर्गः ॥ ६४ ॥