त्रिषष्टितमः सर्गः ६३
परिघ उवाच ।
राजन्नूनं प्रबुद्धोऽसि प्राप्तवानसि तत्पदम् ।
संशीतलान्तःकरणः पूर्णेन्दुरिव राजसे ॥ १ ॥
परिघेण परीक्ष्यात्र स्तुतः स सुरघुर्निजाम् ।
सहजस्थितिमेवात्र वर्णयामास विस्तरात् ॥ १ ॥
नूनं निश्चयेन प्रबुद्धस्तत्त्वविदसि । परीक्षणेन मया प्रबुद्धस्त्वमसीति वा
॥ १ ॥
आनन्दमधुसम्पूर्णो [आनन्दमधुसम्पूर्णलक्ष्म्या इति
पाठः] लक्ष्म्या च परया श्रितः ।
शीतलः स्निग्धमधुरो राजीवमिव राजसे ॥ २ ॥
आनन्दलक्षणेन मधुना मकरन्देन सम्पूर्णः । राजीवं पद्ममिव राजसे ॥
२ ॥
निर्मलो विततः पूर्णो गम्भीरः प्रकटाशयः ।
वेलानिलविलासेन मुक्तोऽब्धिरिव राजसे ॥ ३ ॥
निर्मलत्वादेव प्रकटः स्पष्टदृश्य आशयोऽन्तःप्रदेशो मनश्च यस्य ॥ ३ ॥
स्वच्छ आनन्दसम्पूर्णो नष्टाहङ्कारवारिदः ।
स्फुटो विस्तीर्णगम्भीरः शरत्खमिव राजसे ॥ ४ ॥
सर्वत्र लक्ष्यसे स्वस्थः सर्वत्र परितुष्यसि ।
सर्वत्र वीतरागोऽसि राजन्सर्वत्र राजसे ॥ ५ ॥
सर्वत्र इष्टानिष्टविषये ॥ ५ ॥
सारासारपरिच्छेदपारगस्त्वं महाधिया ।
जानासि सर्वमेवेदं यथास्थितमखण्डितम् ॥ ६ ॥
परिच्छेदो विचार्य निर्णयस्तत्पारगः । अखण्डितमपरिच्छिन्नब्रह्मरूपम् ॥ ६ ॥
भावाभावपरिच्छेदतत्त्वज्ञमुदिताशयम् ।
गमागमदशालौल्यमुक्तं तव वपुः स्थितम् ॥ ७ ॥
तत्त्वज्ञेत्यन्तं सम्बोधनम् । उदिताशयमिति वा छेदः । गमागमौ
आरोहावरोहौ तत्प्रयोजिका भोगरागितादशा तया तत्प्रयुक्तलौल्येन च मुक्तम् ॥ ७
॥
वस्तुनाऽवस्तुनेवान्तरमृतेनेव सागरः ।
अपुनःप्रक्षयायैव परे तृप्तोऽसि सुन्दर ॥ ८ ॥
न विद्यते वस्तु परमार्थवस्तु यस्मात्तथाविधेन वस्तुना स्वात्मना
स्वान्तःस्थेन अमृतेन सागर इव पदे स्वे महिम्नि तृप्तोऽसि ॥ ८ ॥
सुरघुरुवाच ।
न तदस्ति मुने वस्तु यत्रोपादेयतास्ति नः ।
यावतिकिञ्चिदिदं दृश्यं तावदेतन्न किञ्चन ॥ ९ ॥
तदुक्तं सर्वं युक्तिभिः समर्थयन्ननुमोदमानः सुरघुरुवाच - न
तदित्यादिना । न किञ्चन । अनृतमित्यर्थः ॥ ९ ॥
उपादेयस्य चाभावाद्धेयमप्यस्ति किं किल ।
प्रतियोगि व्यवच्छेद्यं विना हेयं किमुच्यते ॥ १० ॥
उपात्तस्य त्यागो हि हानं तत्र प्रतियोगि हानप्रतिकूलं हानेन व्यवच्छेद्यं
विनाश्यं उपादानं विना हेयमिति किमुच्यते वक्तुं शक्यते । न किञ्चिदित्यर्थः
॥ १० ॥
तुच्छत्वात्सर्वभावानामतुच्छत्वाच्च कालतः ।
चिरं मम परिक्षीणे तुच्छातुच्छे मनःस्थिती ॥ ११ ॥
ननु तुच्छं हेयमतुच्छमुपादेयं किं न स्यात्तत्राह - तुच्छत्वादिति ।
यथाहुः बद्धमुक्तो महीपालो ग्राममात्रेण तुष्यति । स एव पूर्व सम्पूर्णो न
राज्यं बहु मन्यते ॥ इति ॥ ११ ॥
देशकालवशादेव तुच्छस्यातुच्छतामिह ।
अतुच्छस्य तु तुच्छत्वं वर्ज्ये निन्दास्तुती बुधैः ॥ १२ ॥
इह मन्यन्ते इति शेषः । अतो न किञ्चित्तुच्छातुच्छबुद्ध्या निन्द्यं स्तुत्यं
वेत्याह - वर्ज्ये इति ॥ १२ ॥
रागान्निन्दास्तुती लोके रागश्च परिवाञ्छितम् ।
वाञ्छिते च महोदारं वस्तु शोभनबुद्धिना ॥ १३ ॥
त्रैलोक्ये च स्त्रियः शैलाः समुद्रवनराजयः ।
भूतानि वस्तुशून्यानि सारो नास्त्यत्र वस्तुतः ॥ १४ ॥
वस्तुशब्दो भावप्रधानः । सत्यत्वशून्यानीत्यर्थः ॥ १४ ॥
मांसास्थिदारुमृद्रत्नमये जगति जर्जरे ।
वाञ्छनीयविहीनेऽस्मिञ्शून्ये किमिव वाञ्छ्यते ॥ १५ ॥
अध्यात्मं मांसास्थिमये अधिभूतं च दारुमृद्रत्नादिमये । रत्नशब्दः
शिलापरः ॥ १५ ॥
वाञ्छायां विनिवृत्तायां सङ्क्षयो द्वेषरागयोः ।
दिनलक्ष्म्यां व्यपेतायामालोकातपयोरिव ॥ १६ ॥
अलमतिविततैर्वचःप्रपञ्चै-
रियमुचितेह सुखाय दृष्टिरेका ।
उपशमितरसं समम्मनोऽन्त-
र्यदि मुदितं तदनुत्तमा प्रतिष्ठा ॥ १७ ॥
यदि सर्वमेवासारं किं तर्हि सारभूतं सेवितुमुचितं तदाह - अलमिति ।
यदि मन उपशमितरसं सर्वतो नीरोगं समं विक्षेपवैषम्यरहितं
सदन्तः स्वात्मन्येव मुदितं तत्तर्हि सैवोत्तमा प्रतिष्ठा
विश्रान्तिरियमेवैकदृष्टिः सुखाय सदा सेवितुमुचितेत्यर्थः ॥ १७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मो०
उपशमप्रकरणे सुरघुपरिघनिश्चयो नाम त्रिषष्ठितमः सर्गः ॥ ६३
॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
सुरघुपरिघनिश्चयो नाम त्रिषष्टितमः सर्गः ॥ ६३ ॥