द्विषष्टितमः सर्गः ६२
श्रीवसिष्ठ उवाच ।
अथैवम्प्रायया तत्र विश्रम्भकथया चिरम् ।
प्राक्तनस्नेहगर्भिण्या स्थित्वोवाचायुधाभिधः ॥ १ ॥
अज्ञानावरणे ध्वस्ते नित्यचित्शुरणस्थितेः ।
सदैवैकसमाधानं विदुषामत्र वर्ण्यते ॥ १ ॥
आयुधस्याभिधेव अभिधा नाम यस्य स आयुधाभिधः परिघः ॥ १ ॥
परिघ उवाच ।
यद्यत्संसारजालेऽस्मिन्क्रियते कर्म भूमिप ।
तत्समाहितचित्तस्य सुखायान्यस्य नानघ ॥ २ ॥
किमयं तत्त्वविदो व्यवहारसमाध्योः सुखतारतम्यं वक्ष्यत्युत नेति
परीक्षणाय प्रथमं स्वानुभवमुद्घाटयति - यद्यदिति । अन्यस्य अज्ञस्य
॥ २ ॥
कच्चित्सङ्कल्परहितं परं विश्रमणास्पदम् ।
परमोपशमं श्रेयः समाधिमनुतिष्ठसि ॥ ३ ॥
एवं स्वानुभवमुद्घाट्य तत्सवाद्यसवादी वेति परानुभवं जिज्ञासमानः
समाधौ विश्रान्त्याधिक्यमिव दर्शयन्पृच्छति - कच्चिदिति ।
विक्षेपदुःखानां परममुपशमं सांसारिकसुखेभ्यश्च श्रेयः
प्रशस्यतरम् । सामान्ये व्यत्ययेन वा क्लीबता ॥ ३ ॥
सुरघुरुवाच ।
एतन्मे ब्रूहि भगवन्सर्वसङ्कल्पवर्जितम् ।
परमोपशमं श्रेयः समाधिर्हि किमुच्यते ॥ ४ ॥
समाहितचित्तस्य सर्वं कर्म सुखायेति पश्यतस्ते समाधौ
विश्रान्त्याधिक्यदर्शनं व्यवहारसमाधिभेदाभ्युपगमेन
प्रश्नश्चानुपपन्न एवेति एवदनुभवसंवाद्येव ममाप्यनुभव
इत्याशयेन सुरघुः सङ्कल्परहितं परमोपशमं श्रेय इति
तदुक्तांशस्यात्मस्वरूपेऽपि सम्भवात्तावदभ्युपगच्छन् विश्रमणास्पदं
समाधिमनुतिष्ठसीत्यंशस्य समाधेयस्याविश्रमहेतोर्मनसो
बाधितत्वादेवासम्भवं मन्यमान आक्स्।इपति - एतदिति ।
सर्वसङ्कल्पवर्जितं परमोपशमं श्रेय इत्येतन्मे मह्यं युक्तत्वाद्ब्रूहि ।
समाधिरनुष्ठेय इति किमर्थं त्वयोच्यत इत्यर्थः ॥ ४ ॥
यो ज्ञो महात्मन्सततं तिष्ठन्व्यवहरंश्च वा ।
असमाहितचित्तोऽसौ कदा भवति कः किल ॥ ५ ॥
यो ज्ञस्तत्त्ववित् स व्यवहरन्नपि कः किंस्वरूपः किल । यतः
सदैवानावृताद्वयचित्स्वभावोऽसौ कदा असमाहितचित्तो भवति । न
कदाचिदपीत्यर्थः ॥ ५ ॥
नित्यं प्रबुद्धचित्तास्तु कुर्वन्तोऽपि जगत्क्रियाः ।
आत्मैकतत्त्वसन्निष्ठाः सदैव सुसमाधयः ॥ ६ ॥
यदि तु निश्चलात्मस्वरूपावस्थितिरेव समाधिस्तेऽभिमतः स्यात्तर्हि स सदैवास्तीति
नानुष्ठेयं किञ्चिदस्तीत्याह - नित्यमिति ॥ ६ ॥
बद्धपद्मासनस्यापि कृतब्रह्माञ्जलेरपि ।
अविश्रान्तस्वभावस्य कः समाधिः कथं च वा ॥ ७ ॥
यदि त्वं मामज्ञं मन्यसे तदापि समाध्युपदेशोऽनुपपन्न इत्याशयेनाह
- बद्धेति । कथं केनोपायेन वा । यत्र चित्तं समाधेयं
तस्यैवापरिचयादित्यर्थः ॥ ७ ॥
तत्त्वावबोधो भगवन्सर्वाशातृणपावकः ।
प्रोक्तः समाधिशब्देन नतु तूष्णीमवस्थितिः ॥ ८ ॥
तत्त्वावबोध इति सम्यक् समूलसर्वाशाविषयबाधेन आत्मनः
परमार्थस्वरूपे आधानं समाधिरिति व्युत्पत्तेरिति भावः ॥ ८ ॥
समाहिता नित्यतृप्ता यथाभूतार्थदर्शिनी ।
साधो समाधिशब्देन परा प्रज्ञोच्यते बुधैः ॥ ९ ॥
अबाधितात्मदर्शनरूपा परा प्रज्ञा ॥ ९ ॥
अक्षुब्धा निरहङ्कार द्वन्द्वेष्वननुपातिनी ।
प्रोक्ता समाधिशब्देन मेरोः स्थिरतराकृतिः ॥ १० ॥
तामेव फलतो वर्णयति - अक्षुब्धेति द्वाभ्याम् ॥ १० ॥
निश्चिन्ताधिगताभीष्टा हेयोपादेयवर्जिता ।
प्रोक्ता समाधिशब्देन परिपूर्णा मनोगतिः ॥ ११ ॥
यतःप्रभृति बोधेन युक्तमात्यन्तिकं मनः ।
तदारभ्य समाधानमव्युच्छिन्नं महात्मनः ॥ १२ ॥
सा तु मम पूर्वमेव सिद्धेति नानुष्ठेयेत्याशयेनाह - यत इत्यादिना ॥ १२ ॥
नहि प्रबुद्धमनसो भूत्वा विच्छिद्यते पुनः ।
समाधिर्दूरमाकृष्टो बिसतन्तुः शिशोरिव ॥ १३ ॥
यथा दूरमाकृष्टो बिसतन्तुः क्रीडतः शिशोर्हस्ताद्विच्छिद्यते तद्वदिति
व्यतिरेके दृष्टान्तः ॥ १३ ॥
समग्रं दिनमालोकाद्विरमत्यक्षयो यथा ।
आजीवितान्तं नो प्रज्ञा तथा तत्त्वावलोकनात् ॥ १४ ॥
ननु ब्रह्माकारवृत्तिविच्छेदे व्युत्थानात्समाधिविच्छेदस्तस्य स्यात्तत्राह ##-
विरमतीति सम्बध्यते । तथा प्रज्ञा ब्रह्माकारवृत्तिरपि आजीवितान्तं
विदेहकैवल्यपर्यन्तं तत्त्वालोकनान्नो विरमति ।
दृढसंस्कारबलादनुवर्तत एवेत्यर्थः ॥ १४ ॥
अजस्रमम्बुवहनाद्यथा नद्या न रुद्ध्यते ।
तथा विज्ञानदृग्बोधात्क्षणमात्रं न रुद्ध्यते ॥ १५ ॥
स्वरूपाच्छादकस्याज्ञानस्य सकृदुदितया वृत्त्या निःशेषनाशे
पुनरावरकाभावाद्वा तस्य न
स्वरूपनिरोधलक्षणसमाधिभङ्गप्रसक्तिरित्याशयेनाह - अजस्रमिति । न
रुद्ध्यते आवरणेन न प्रतिबध्यते ॥ १५ ॥
न विस्मरत्यविरतं यथा कालः कलागतिम् ।
न विस्मरत्यविरतं स्वात्मानं प्राज्ञधीस्तथा ॥ १६ ॥
परमप्रेमास्पदत्वाद्वा सकृल्लभस्य तस्य न विस्मरणप्रसक्तिरित्याशयेनाह
- न विस्मरतीति द्वाभ्याम् ॥ १६ ॥
न विस्मरति सर्वत्र यथा सततगो गतिम् ।
न विस्मरति निश्चेयं चिन्मात्रं प्राज्ञ धीस्तथा ॥ १७ ॥
गतिं कालकला यद्वच्चिन्वाना समवस्थिता ।
चिच्चितिश्चेत्यरहिता चिन्वाना गतयस्तथा ॥ १८ ॥
भग्नावरण आत्मैव यावज्जिवं स्वाकारवृत्तिपरम्परां जनयन्नेवास्ते
इत्याशयेनाह - गतिमिति । कालस्य कला मूर्तिः सूर्यादिः ।
चिच्चितिश्चैतन्यस्फूर्तिः । राहोः शिर इतिवदुपचारः । गतयः स्वाकारवृत्तिः ।
छान्दसो विभक्तिव्यत्ययः ॥ १८ ॥
यथा सत्ताविहीनात्मा पदार्थो नोपलभ्यते ।
तथात्मज्ञानहीनात्मा कालो ज्ञस्य न लभ्यते ॥ १९ ॥
बोधस्य तज्जिवनकालधर्मत्वाद्वा न विच्छेदप्रसक्तिरित्याशयेनाह -
यथेति ॥ १९ ॥
न सम्भवति संसारे गुणहीनो गुणी यथा ।
न सम्भवत्यात्मसंविद्वर्जितो ह्यात्मवांस्तथा ॥ २० ॥
अग्न्यौष्ण्यवत्तत्स्वभावत्वाद्वा न विच्छेदप्रसक्तिरित्याशयेनाह - न
सम्भवतीति ॥ २० ॥
सर्वदैवास्मि सम्बुद्धः सर्वदैवास्मि निर्मलः ।
सर्वदैवास्मि शान्तात्मा सर्वदास्मि समाहितः ॥ २१ ॥
भेदः केन समाधेर्मे जन्यते कथमेव वा ।
आत्मनोऽव्यतिरेकेण नित्यमेव सदात्मता ॥ २२ ॥
भेदो विच्छेदः । मत्समाधेरात्मस्वरूपादव्यतिरेकेण हेतुनेत्यर्थः ।
सदात्मता सत्ता सिद्धेत्यर्थः ॥ २२ ॥
तस्मात्कदाचिदपि मे नासमाधिमयं मनः ।
न वा समाहितं नित्यमात्मतत्त्वैकसम्भवात् ॥ २३ ॥
यदि मनोऽस्तीति मन्यसे तर्हि सदा समाहितमेव यदि तु नास्तीति तदा समाधिरपि
मास्तु विक्षेपहेतोरेवाप्रसक्तेरित्याशयेनोपसंहरति - तस्मादिति ॥ २३ ॥
सर्वगः सर्वदैवात्मा सर्वमेव च सर्वथा ।
असमाधिर्हि कोऽसौ स्यात्समाधिरपि कः स्मृतः ॥ २४ ॥
नित्यं समाहितधियः सुसमा महान्त-
स्तिष्ठन्ति कार्यपरिणामविभागमुक्ताः ।
तेनासमाहितसमाहितभेदभङ्ग्या
नित्योदितः क्व नु स उत्तमवाक्प्रपञ्चः ॥ २५ ॥
सम्यक् पृथक्त्वबाधेनाहिता धीर्यैः । तेन हेतुना
असमाहितसमाहितभेदभङ्ग्या प्रवृत्तस्त्वद्वाक्यप्रपञ्चः क्व नु
कस्मिन्नर्थे व्यवतिष्ठेत । अतो मिथ्यैवोदित इत्यर्थः ॥ २५ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे समाधिनिश्चयो नाम द्विषष्टितमः
सर्गः ॥ ६१ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरने
समाधिनिश्चयो नाम द्विषष्टितमः सर्गः ॥ ६२ ॥