६१

एकषष्टितमः सर्गः ६१

श्रीवसिष्ठ उवाच ।

एवमुत्पलपत्राक्ष राघवाघविपर्यये ।
पदमासादयाद्वन्द्वं विशोको भव भूतये ॥ १ ॥

सहजैकसमाधानलक्षणप्रतिपत्तये ।
परिघेणात्र संवादः सुरघोरुपवर्ण्यते ॥ १ ॥

हे राघव एव सुरघुवत्त्वमपि अघस्य हर्षशोकादिनिमित्तस्य पापस्य विपर्यये
तत्त्वबोधेन समूलमुच्छेदे सति ॥ १ ॥

एतां दृष्टिमवष्टभ्य न मनः परितप्यते ।
घोरे तमसि निर्मग्नं लब्धदीपं शिशुर्यथा ॥ २ ॥

शिशुर्बाल इव घोरे अज्ञानतमसि निर्मग्नं मन एतां दृष्टिमवष्टभ्य
लब्धदीपं प्राप्तप्रकाशं सन्न परितप्यते ॥ २ ॥

विवेकावस्थया चेतस्तथैवायाति निर्वृतिम् ।
पतच्छ्वभ्रे दृढतृणप्रचयालम्बनादिव ॥ ३ ॥

श्वभ्रे मोहान्धकूपे पतन्मनस्तथा तादृश्या सुरघूपवर्णितप्रकारयैव
विवेकावस्थया दृढस्य तृणप्रचयस्य कक्षस्य आलम्बनादिव निर्वृतिं
विश्रान्तिसुखम् ॥ ३ ॥

अथैतां पावनीं दृष्टिं भावयित्वाप्युदाहरन् ।
नित्यमेकसमाधानो भव भूषितभूतलः ॥ ४ ॥

भावयित्वा पुनःपुनः परिशीलनेन स्वयं
दृढीकृत्यान्येभ्योऽप्युदाहरन्नुपदिशन् ॥ ४ ॥

श्रीराम उवाच ।

कथमेकसमाधानं कीदृशं वा मुनीश्वर ।
वाताहतमयूराङ्गरुहलोलं मनो भवेत् ॥ ५ ॥

वातैराहतं मयूराङ्गरुहं बर्हमिव लोल चपलं मन एकसमाधानं
कथं केन प्रकारेण भवेत् ॥ ५ ॥

श्रीवसिष्ठ उवाच ।

शृणु तस्यैव सुरघोः प्रबुद्धस्य सतस्तदा ।
पर्णादस्य [परिघस्य नामान्तरमेतत्] च राजर्षे
संवादमिममद्भुतम् ॥ ६ ॥

राघवैकसमाधानबोधितायोजितात्मनोः ।
परस्परं समालापमिमं प्रकथयामि ते ॥ ७ ॥

हे राघव एकसमाधाने बोधित आयोजित आत्मा ययोः ॥ ७ ॥

बभूव पारसीकानां पार्थिवः परवीरहा ।
परिघो नाम विख्यातः परिघः स्यन्दने यथा ॥ ८ ॥

पारसीका देशविशेषाः । पार्थिवो राजा । स्यन्दने रथे परिघोऽक्षदण्ड
इवाधारभूतः ॥ ८ ॥

स बभूव परं मित्रं सुरघो रघुनन्दन ।
नन्दनोद्यानसंस्थस्य मदनस्येव माधवः ॥ ९ ॥

माधवो वसन्तः ॥ ९ ॥

कदाचित्परिघस्याभूदवर्षं मण्डले महत् ।
कल्पान्त इव संसारे प्रजादुष्कृतदोषजम् ॥ १० ॥

अवर्षमनावृष्टिः । किं राजदोषान्नेत्याह - प्रजेति ॥ १० ॥

विनेशुर्जनतास्तत्र बह्व्यः क्षुत्क्षामजीविताः ।
ज्वलिते विपिने वह्नौ यथा भूतपरम्पराः ॥ ११ ॥

तद्दुःखं परिघो दृष्ट्वा विषादमतुलं ययौ ।
तत्याजाश्वखिलं राज्यं दग्धं ग्राममिवाध्वगः ॥ १२ ॥

प्रजानाशप्रतीकारेष्वसमर्थो विरागवान् ।
जगाम विपिने कर्तुं तपोऽजिनमुनीन्द्रवत् ॥ १३ ॥

अजिनप्रधाना मुनीन्द्रा अजिनमुनीन्द्रास्तद्वत् ॥ १३ ॥

पौराणामपरिज्ञाते कस्मिंश्चिद्दूरकानने ।
समुवास विरक्तात्मा लोकान्तर इवापरे ॥ १४ ॥

अपरे द्वितीये लोकान्तरे परलोक इवेत्युत्प्रेक्षा ॥ १४ ॥

तपश्चरञ्छान्तमतिर्दान्तः कन्दरमन्दिरे ।
स्वयं शीर्णानि शुष्काणि तत्र पर्णान्यभक्षयत् ॥ १५ ॥

अतिविरक्तत्वात्पर्णकुट्यादिपरिग्रहोऽप्यस्य नाभूदिति सूचनाय कन्दरमन्दिरे
इत्युक्तम् ॥ १५ ॥

चिरं हुताशवच्छुष्कपर्णान्येवाथ भक्षयन् ।
पर्णाद इति नामासौ प्राप मध्ये तपस्विनाम् ॥ १६ ॥

असौ परिघः ॥ १६ ॥

ततःप्रभृति पर्णादनामा राजर्षिसत्तमः ।
जम्बूद्वीपे बभूवासौ विख्यातो मुनिसद्मसु ॥ १७ ॥

ततो वर्षसहस्रेण तपसा दारुणात्मना ।
प्रापदभ्यासवशतो ज्ञानमात्मप्रसादजम् ॥ १८ ॥

आत्मप्रसादश्चित्तशुद्धिरीश्वरानुग्रहश्च तस्माज्जातं तत्त्वज्ञानं
प्रापत्प्राप्तवान् ॥ १८ ॥

बभूव विगतद्वन्द्वो निराशः शान्तमानसः ।
नीरागो निरनुक्रोशो जीवन्मुक्तः प्रबुद्धधीः ॥ १९ ॥

विजहार यथाकामं त्रिलोकीमठिकामिमाम् ।
सिद्धसाध्यैः समं साधो सहंसालिरिवाब्जिनीम् ॥ २० ॥

सिद्धैरारूढैः साध्यैरारूरुक्षुभिश्च कदाचित्परिवृतः । हंसैः सहितः
सहंसोऽलिर्भ्रमरोऽब्जिनीं कमलिनीमिव ॥ २० ॥

एकदा तस्य सदनं हेमचूडमहीपतेः ।
प्राप रत्नविनिर्माणं मेरोः शृङ्गमिवापरम् ॥ २१ ॥

हेमचूडः स्वर्णजटाख्यो देशस्तन्महीपतेः सुरघोः ॥ २१ ॥

ते तत्र प्राक्तने मित्रे पूजामकुरुतां मिथः ।
पूर्णौ विज्ञातविज्ञेयौ मौर्ख्यगर्भाद्विनिर्गतौ ॥ २२ ॥

मौर्ख्यगर्भः संसारस्तस्माद्विनिर्गतौ जीवन्मुक्तावित्यर्थः ॥ २२ ॥

अहो नु बत कल्याणैः फलितं मम पावनैः ।
सम्प्राप्तवानहं यत्त्वामित्यन्योन्यमथोचतुः ॥ २३ ॥

कल्याणैः सुकृतैः । फलितमिति भावे क्तः ॥ २३ ॥

आलिङ्गितशरीरौ तावन्योन्यानन्दिताकृती ।
एकासने विविशतुश्चन्द्रार्काविव भूधरे ॥ २४ ॥

परिघ उवाच ।

परमानन्दमायातं चेतस्त्वद्दर्शनेन मे ।
इन्दुबिम्ब इवोन्मग्नं मनः शीतलतां गतम् ॥ २५ ॥

चितिशक्तिप्रधाने आनन्दाविर्भावो मननशक्तिप्रधाने तापोपशम इति
विशेषद्योतनाय चेतो मन इति भेकोक्तिः ॥ २५ ॥

अकृत्रिमसुखं प्रेम वियोगे शतशाखताम् ।
प्रयाति पल्वलतटेऽच्छिन्नमूल इव द्रुमः ॥ २६ ॥

अच्छिन्नमूलश्छिन्नशाखो द्रुमः इवेति योज्यम् ॥ २६ ॥

विश्रब्धास्तान्कथालापांस्ता लीलास्तच्च चेष्टितम् ।
संस्मृत्य प्राक्तनं साधो हृष्यामि च पुनःपुनः ॥ २७ ॥

विश्रब्धान् विश्वासगर्भान् । तान् प्राक्तनान्सुखदुःखकथालापान् ॥ २७ ॥

ज्ञानमेतन्मया प्राप्तं त्वया ज्ञातं यथाऽनघ ।
माण्डव्यस्य प्रसादेन परमात्मप्रसादजम् ॥ २८ ॥

त्वया यथा माण्डव्यस्य प्रसादेन ज्ञातं तथैव मया परमात्मन
ईश्वरस्य तपसाऽराधितस्य प्रसादजमेतज्ज्ञानं प्राप्तम् ॥ २८ ॥

अद्य कच्चिददुःखस्त्वं कच्चिद्विश्रान्तवानसि ।
परमे कारणे मेराविव भूमण्डलाधिपः ॥ २९ ॥

परमे कारणे विवर्तोपादानत्वोपलक्षिते ब्रह्मणि
कच्चिदुत्तरोत्तरभूमिकापरिपाकेन विश्रान्तवानसि ॥ २९ ॥

कच्चित्परमकल्याण आत्मारामतया तव ।
प्रसादो जायते चित्ते शरदीव सरोम्भसि ॥ ३० ॥

प्रसादो रजस्तमोभ्यामनावरणम् ॥ ३० ॥

कच्चित्करोषि समया सुप्रसन्नगभीरया ।
दृष्ट्या सुभग कार्याणि कार्याण्येव नराधिप ॥ ३१ ॥

कार्याणि सर्वजनहितत्वादवश्यकर्तव्यान्येव कार्याणि कर्माणि करोषि ॥ ३१ ॥

निराधिव्याधयो धीराः कच्चित्सम्पन्नशालयः ।
जनतास्तव देशेषु तिष्ठन्ति विगतज्वरम् ॥ ३२ ॥

जनताः प्रजासमूहाः ॥ ३२ ॥

कच्चिदुद्दामफलिनी फलिनीव फलानता ।
धरा तव फलापूरैर्भृशं धारयति प्रजाः ॥ ३३ ॥

धरा पृथ्वी उद्दामफलिनी उत्कृष्टसस्यादिफलवती फलैरानता फलिनी
कल्पलतेव तव प्रजाः फलापूरैः काले काले
तत्तदभिलषितफलपूरणैर्भृशमतिशयेन धारयति बिभर्ति पोषयति कच्चित् ॥
३३ ॥

कच्चित्तव दिगन्तेषु चन्द्रस्येवांशुपञ्जरम् ।
तुषारनिकराकारं प्रसृतं पावनं यशः ॥ ३४ ॥

चन्द्रस्य अंशुपञ्जरं किरणजालमिव ॥ ३४ ॥

कच्चिद्गुणगणैरेता दिशो निर्विवरीकृताः ।
त्वया सरोम्भसाऽबाह्या बिसानामिव भूमयः ॥ ३५ ॥

सरोम्भसा तडागोदकेन अवाह्याः स्वान्तर्गता बिसानां मृणालानां
भूमय इव त्वया दिशो गुणगणैर्यशोभिर्निर्विवरीकृताः पूरिताः कच्चित् ॥ ३५ ॥

कच्चित्कलमकेदारकोणस्थानेषु हृष्यतीः ।
प्रतिग्रामं कुमार्यस्ते गायन्त्यानन्दनं यशः ॥ ३६ ॥

कलमकेदाराणां कोणाश्चतुष्कसन्धयस्तत्रत्येष्वासन्दीस्थानेषु ।
हृष्यतीर्हृष्यन्त्यः । छान्दसो विभक्तिव्यत्ययः ॥ ३६ ॥

कुशलं तव धान्येषु धनेषु विभवेषु च ।
भृत्येषु च कलत्रेषु पुत्रेषु नगरेषु च ॥ ३७ ॥

आधिव्याधिविहीनेयं कच्चित्कायलता तव ।
फलं फलति पुण्याख्यं यदिहामुत्र चोदितम् ॥ ३८ ॥

इह ऐहिकफलत्वेन चोदितं कारीर्यादि । अमुत्र पारलौकिकफलत्वेन चोदितं
ज्योतिष्टोमादि ॥ ३८ ॥

आपातरमणीयेषु वर्तेतात्यन्तवैरिषु ।
कच्चिद्विषयसर्पेषु सविरागं मनस्तव ॥ ३९ ॥

तव मनो विषयसर्पेषु कच्चित्सविरागं वर्तेत वर्तते ॥ ३९ ॥

अहो बत चिरं कालमावां विश्लेषमागतौ ।
कालेन श्लेषितौ भूयो वसन्ताद्रितटाविव ॥ ४० ॥

न ता जगति विद्यन्ते सुखदुःखदशाः सखे ।
जीवद्भिर्या न दृश्यन्ते संयोगजवियोगजाः ॥ ४१ ॥

इष्टानिष्टजनस्ऽम्योगजास्तद्वियोगजाश्च सुखदुःखदशाः ॥ ४१ ॥

तथैतास्वतिदीर्घासु दशास्वन्यत्वमागताः ।
भूयो वयमपि श्लिष्टाश्चित्रो हि नियतेर्विधिः ॥ ४२ ॥

अन्यत्वं वियोगमागताः प्राप्ताः । नियतेः प्राणिकर्मानुसारिण्या
ईश्वरेच्छाया विधिर्विलासश्चित्रः अद्भुतः ॥ ४२ ॥

सुरघुरुवाच ।

भगवन्नियतेरस्या गतिं सर्पगतेरिव ।
दैविक्याः को हि जानाति गम्भीरां विस्मयप्रदाम् ॥ ४३ ॥

परिघोक्तमर्थमनुमोदमानः सुरघुरपि तमेवाह - भगवन्नित्यादिना ।
दैविक्याः देव ईश्वरस्तदिच्छारूपायाः ॥ ४३ ॥

त्वमहं च व्यपोह्येति दूरे दूरदशासु च ।
अद्य सङ्घटितौ भूयः किमसाध्यमहो विधेः ॥ ४४ ॥

देशतो दूरे कालतश्च दूरदशासु इति एवं व्यपोह्य वियोज्य ॥ ४४ ॥

वयं त्वद्य महासत्त्व भृशं कुशलिनः स्थिताः ।
त्वदागमनपुण्येन परां पावनतां गताः ॥ ४५ ॥

पश्य त्वदागमक्षीणपापानां पुण्यपादपैः ।
तथा फलितमस्माकं न यथा वयमाकुलाः ॥ ४६ ॥

तथा तादृशचित्तसमाधानात्मना फलितं यथा वयं न व्याकुलाः
सर्वव्याकुलतानिर्मुक्ताः कृतकृत्याः सम्पन्नाः ॥ ४६ ॥

सर्वाः सम्पत्तयोऽस्माकं राजर्षे संस्थिताः पुरे ।
भवदागमनेनाद्य प्रयाताः शतशाखताम् ॥ ४७ ॥

शतशाखतां । सर्वतः फलोन्मुखतामिति यावत् ॥ ४७ ॥

विकिरति परितो रसायनाना-
मिव निकरं मधुरं महानुभाव ।
तव वचनमवेक्षणं च पुण्यं
परमपदप्रतिमो हि साधुसङ्गः ॥ ४८ ॥

हे महानुभाव पुण्यं तव वचनमवेक्षणं दर्शनं च परितो
रसायनानाममृतानां निकरं विकिरति वर्षतीव । हि यस्मात्साधूनां
सङ्गः समागमः परमपदप्रतिमः । मोक्षसुखप्राप्तितुल्य इत्यर्थः ॥ ४८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये
मोक्षोपायेषूपशमप्रकरणे सुरघुवृ० सुरघुपरिघसमागमो
नामैकषष्टितमः सर्गः ॥ ६१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
सुरघुपरिघसमागमो नामैकषष्टितमः सर्गः ॥ ६१ ॥