षष्टितमः सर्गः ६०
श्रीवसिष्ठ उवाच ।
इति हेमजटाधीशो लेभे पदमनुत्तमम् ।
विवेकाध्यवसायेन ब्राह्मण्यमिव गाधिजः ॥ १ ॥
आदेहपातं सुरघोरसङ्गाचार उच्यते ।
जीवन्मुक्तस्य तस्याथ देहशान्तौ खवस्थितिः ॥ १ ॥
गाधिजो विश्वमित्रः ॥ १ ॥
अनर्थाकारकार्यासु नासीच्चेष्टासु खेदवान् ।
भूयोभूयः प्रयुक्तासु दिनमालास्विवेश्वरः ॥ २ ॥
भूयोभूयः पुनःपुनः प्रयुक्तासु अनुष्ठितासु
धर्मार्थप्राप्त्युपायचेष्टासु परिचेष्टितैर्दैवादनर्थाकाराणि विफलानि
दुःखपर्यवसितानि वा कार्याणि फलानि यासां तथाविधासु सतीषु
खेदवान्नासीत् । ईश्वरो दिनेश्वरः सूर्यः ॥ २ ॥
ततःप्रभृति सोऽतिष्ठत्सर्वदा विगतज्वरः ।
समासमे स्वके कार्ये जलौघाग्र इवाचलः ॥ ३ ॥
समासमे अनुग्रहनिग्रहरूपे निजे राजोचिते कार्ये यथा नदीमध्यगत्ऽह् पर्वतो
निष्कम्पस्तिष्ठति तद्वत् ॥ ३ ॥
हर्षामऋसविनिर्मुक्तः प्रत्यहं कार्यमाहरन् ।
उदारगम्भीरवपुर्जहाराम्बुनिधेः श्रियम् ॥ ४ ॥
कार्यमायव्ययादि । आहरन् कुर्वन् ॥ ४ ॥
सुषुप्तपदधर्मिण्या चित्तवृत्त्या व्यराजत ।
निष्कम्पया प्रकाशिन्या दीपः स्वशिखयेव सः ॥ ५ ॥
सुषुप्ताविव निश्चलयेति यावत् ॥ ५ ॥
न निर्घृणो दयावान्नो न द्वन्द्वी नाथ मत्सरी ।
न सुधीर्नासुधीर्नार्थी नानर्थी स बभूव ह ॥ ६ ॥
अमत्सरी इति पाठे अत्यन्तनिर्मत्सरवत्परदोषोपेक्षकः ॥ ६ ॥
समदर्शनया नित्यं वृत्त्याऽचापलधीरया ।
अन्तःशीतलया रेजे परिपूर्णार्णवेन्दुवत् ॥ ७ ॥
अचापलधीरयेति च्छेदः । परिपूर्णौ यौ अर्णवेन्दू तद्वत् ॥ ७ ॥
सर्वं चित्तत्त्वकलनं जगदित्यवलोक्य सः ।
प्रशान्तसुखदुःखश्रीस्तस्य पूर्णा मतिर्बभौ ॥ ८ ॥
स इत्यस्य समसमाधिस्थोऽभूदिति परेणान्वयः । तत्र हेतुर्यतस्तस्य परिपूर्णा
मतिर्बभाविटि ॥ ८ ॥
उल्लसन्विकसन्पूर्णस्तिष्ठन्गच्छन्विशन्स्वपन् ।
अभूतसमसमाधिस्थः प्रबुद्धश्चिल्लयं गतः ॥ ९ ॥
उल्लसन्वपुषा । विकसंश्चेतसा ॥ ९ ॥
स कुर्वन्विगतासङ्गं राज्यं राजीवलोचनः ।
अतिष्ठदक्षताकारो भूरिवर्षशतान्यथ ॥ १० ॥
सन्निवेशमिमं देहनामकं तदनु स्वयम् ।
स जहौ तेजसाक्रान्तो रूपं हिमकणो यथा ॥ ११ ॥
आक्रान्तः शोषितः । रूपं मूर्ताकारम् ॥ ११ ॥
विवेश परमाद्यन्तकारणं कारणेश्वरम् ।
प्रज्ञया सरितां वारि परिपूर्णमिवाम्बुधिम् ॥ १२ ॥
सर्वेषामेवान्तःकारणानां हिरण्यगर्भादीनामीश्वरं नियन्तारम् ।
सर्वजगतामाद्यन्तयोः सृष्टिप्रलययोः कारणं परं ब्रह प्रज्ञया
साक्षात्कारवृत्त्या जन्मादिहेतुबीजमर्णवमिव विवेशेत्यर्थः ॥ १२ ॥
अधिगतविमलैकरूपतेजा
विजनदशां समुपेत्य शान्तशोकः ।
अलमभवदसौ परस्वरूपं
घटखमिवाम्बरसंयुतं महात्मा ॥ १३ ॥
तत्प्रविश्यासौ कीदृगभूत्तदाह - अधिगतेति । असौ सुरघुः प्रज्ञया
अधिगतं स्वात्मतया प्राप्तं विमलमेकरूपमानन्दैकरसं तेजः
स्वप्रकाशात्मरूपं येन तथाविधः सन् विजनां जन्मादिविक्रियाहीनां
दशां समुपेत्य शान्तसर्वशोकः सन् घटभङ्गे घटखमम्बरेण
महाकाशेन संयुतमेकीभूतमिव परस्वरूपएम्व अभवत् । तदेवास्य
निर्वाणमित्यर्थः ॥ १३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे सुरघुवृत्तान्ते सुरघुनिर्वाणं नाम
षष्टितमः सर्गः ॥ ६० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
सुरघनिर्वाणं नाम सष्टितमः सर्गः ॥ ६० ॥