एकोनषष्टितमः सर्गः ५९
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा भगवानेनं सुरघुं रघुनन्दन ।
ययौ स्वमेव रुचिरं माण्डव्यो मौनमण्डलम् ॥ १ ॥
बाह्यमाभ्यन्तरं चैव दृश्यं सन्त्यजतो रहः ।
इह राज्ञो विचारेण स्वात्मलाभ उदीर्यते ॥ १ ॥
गते वरमुनौ राजा गत्वैकान्तमनिन्दितम् ।
धिया सञ्चिन्तयामास को नामाहमिति स्वयम् ॥ २ ॥
उक्त्वा उपदिश्य । स्वं स्वीयं मौनमण्डलं मुन्यावासदेशम् ॥ १ ॥
नाहं मेरुर्न मे मेरुर्जगन्नाहं न मे जगत् ।
नाहं शैला न मे शैला धरा नाहं न मे धरा ॥ ३ ॥
तत्रादौ बाह्ये दृश्ये आत्मतामात्मीयतां च विचार्य निरस्यति -
नाहमित्यादिषड्भिः । जगत्पदेन ऊर्ध्वाधोलोका गृह्यन्ते ॥ ३ ॥
किरातमण्डलं नेदं मम नाहं च मण्डलम् ।
निजसङ्केतमात्रेण केवलं देश एव मे ॥ ४ ॥
निजः सङ्केतः सर्वजनसम्मत्या पट्टाभिषेकादिना अहं राजेति कल्पना
तावन्मात्रेण ॥ ४ ॥
त्यक्तो मयैष सङ्केतो नाहं देशोन वैष मे ।
इदानीं नगरं शिष्टमेष एवात्र निश्चयः ॥ ५ ॥
अत्र एतस्मिन्नगरेऽपि सङ्केतत्यागादेष एव निश्चयः ॥ ५ ॥
पताकावनपङ्क्त्याढ्या भृत्योपवनसङ्कुला ।
गजाश्वसामन्तयुता पुरी नाहं न मे पुरी ॥ ६ ॥
तमेव निश्चयं स्फुटमाह - पताकेति ॥ ६ ॥
व्यर्थसङ्केतसम्बन्धं सङ्केतविगमे क्षतम् ।
भोगवृन्दं कलत्रं च नाहं नैतन्ममाखिलम् ॥ ७ ॥
व्यर्थेन सङ्केतेन सम्बध्यत इति सम्बन्धम् ॥ ७ ॥
एवं सभृत्यं सबलं सवाहनपुरान्तरम् ।
नाहं राज्यं न मे राज्यं सङ्केतो ह्ययमाकुलः ॥ ८ ॥
आकुलः काकिणीकार्षापणसम्बन्धवदन्धपरम्पराव्यवहारसिद्ध इति यावत् ॥
८ ॥
देहमात्रमहं मन्ये हस्तपादादिसंयुतम् ।
तदिदं तावदाश्वन्तरलमालोकयाम्यहम् ॥ ९ ॥
सङ्केतमात्रत्यागोपायेन बाह्यैः सम्बन्धं निरस्य अचेतनत्वहेतुना
देहेन्द्रियादिभिरपि तं निरसितुमारभते - देहमात्रमित्यादिना ॥ ९ ॥
तदत्र तावन्मांसास्थि नाहमेतदचेतनम् ।
न चैतन्मम संश्लेषमेत्यब्जस्य यथा जलम् ॥ १० ॥
संश्लेषं सम्बन्धमपि नैति । असङ्गत्वादित्यर्थः ॥ १० ॥
मांसं जडं न तदहं नैवाहं रक्तमप्यलम् ।
जडान्यस्थीनि नैवाहं न चैतानि मम क्वचित् ॥ ११ ॥
कर्मेन्द्रियाणि नैवाहं न च कर्मेन्द्रियाणि मे ।
जडं यत्किल देहेऽस्मिंस्तदहं नैव चेतनः ॥ १२ ॥
नाहं भोगा न मे भोगा न मे बुद्धीन्द्रियाणि च ।
जडान्यसत्स्वरूपाणि न च बुद्धीन्द्रियाण्यहम् ॥ १३ ॥
बुद्धिन्द्रियाणि ज्ञानेन्द्रियाणि ॥ १३ ॥
मूलं संसृतिदोषस्य मनो नाहं जडं हि तत् ।
अथ बुद्धिरहङ्कार इति दृष्टिर्मनोमयी ॥ १४ ॥
अथ बुद्धिरहङ्कार इति या दृश्यत इति दृष्टिः सापि नाहं न
ममेत्यनुषज्यते । यतः सा मनोमयी अन्तःकरणावस्था । भेदरूपेति यावत् ॥ १४
॥
मनोबुद्धीन्द्रियाद्यन्तो भूतकोशश्चलद्वपुः ।
नाहमेवं शरीरादि शिष्टमालोकयाम्यहम् ॥ १५ ॥
शरीरादिमनोबुद्धिन्द्रियाद्यन्तो भूतकोशः स्थूलसूक्ष्मभूतसङ्घात
एवमुक्तरीत्या नाहम् । शिष्टमवशिष्टमालोकयामि । दृष्ट्वा विचारयामीति
यावत् ॥ १५ ॥
शेषस्तु चेतनो जीवः स चेच्चेत्येन चेतति ।
अन्येन बोध्यमानोऽसौ नात्मतत्त्ववपुर्भवेत् ॥ १६ ॥
चेतनः प्रमाता चेत्येन प्रमेयेण सह चेतति । तथाच अहमिदं चेत्यामीति
त्रिपुटीसाक्षिणा बोध्यमानोऽसौ प्रमाता नात्मनस्तत्त्ववपुस्तात्त्विकं रूपमिति
सम्भाव्यत इत्यर्थः ॥ १६ ॥
एवं त्यजामि संवेद्यं चेत्यं नाहं हि तत्किल ।
शेषो विकल्परहितो विशुद्धचिदहंस्थितः ॥ १७ ॥
एवमनयैव युक्त्या साक्षिसंवेद्यं प्रमितिं प्रमेयं च त्यजामि । हि
यस्माच्चेत्यं नाहं किलेति प्रसिद्धम् । विशुद्धचित् शुद्धसाक्षी अहमात्मेति
स्थितः । निश्चये प्रतिष्ठित इत्यर्थः ॥ १७ ॥
चित्रमेषोऽस्मि लब्धात्मा जातः कालेन कार्यवान् ।
एष सोऽहमनन्तात्मा नातोऽस्य परमात्मनः ॥ १८ ॥
तद्दर्शनमात्रेण कण्ठचामीकरवत्तल्लाभमाश्चर्यभूतं दर्शयति -
चित्रमिति । कालेनानादिकालादारभ्य यतमानोऽप्यद्य कार्यवान्
परमपुरुषार्थफलवान् जातोऽस्मीत्यर्थः ॥ १८ ॥
ब्रह्मणीन्द्रे यमे वायौ सर्वभूतगणे तथा ।
स एष भगवानात्मा तन्तुर्मुक्तास्विव स्थितः ॥ १९ ॥
एष ब्रह्मैष इन्द्रः इत्यादिश्रुतिगणाननुभवेन संवादयति - ब्रह्मणीति ॥
१९ ॥
चिच्छक्तिरमला सैषा चेत्यामयविवर्जिता ।
भरिताशेषदिक्कुञ्जा भैरवाकारधारिणी ॥ २० ॥
अज्ञानां भयहेतुत्वाद्भैरवाकारधारिणी ॥ २० ॥
सर्वभावगता सूक्ष्मा भावाभावविवर्जिता ।
आब्रह्मभुवनान्तःस्था सर्वशक्तिसमुद्गिका ॥ २१ ॥
सर्वेषु भावेषु मनोवृत्तिषु गता । प्रतिबोधविदितं मतम् इति श्रुतेः ॥ २१ ॥
सर्वसौन्दर्यसुभगा सर्वप्राकाश्यदीपिका ।
सर्वसंसारमुक्तानां तन्तुराततरूपिणी ॥ २२ ॥
सर्वसौन्दर्यं निरतिशयानन्दस्तेन सुभगा पूर्णा । संसारलक्षणानां
मुक्तानां मुक्ताफलानाम् ॥ २२ ॥
सर्वाकारविकाराढ्या सर्वाकारविवर्जिता ।
सर्वभूतौघतां याता सर्वदा सर्वतां गता ॥ २३ ॥
चतुर्दशविधान्येषा भूतानि भुवनोदरे ।
एतन्मयीयं कलना जागती वेदनात्मिका ॥ २४ ॥
भुवनसङ्ख्यया चतुर्दशविधानि भूतानि धत्ते इति शेषः ॥ २४ ॥
मिथ्यावभासमात्रं तु सुखदुःखदशागतिः ।
नानाकारमयाभासः सर्वमात्मैव चित्परा ॥ २५ ॥
सोऽयमात्मा मम व्यापी सेयं यदवबोधनम् ।
सेयमाकलिताङ्गाभा करोति नृपविभ्रमम् ॥ २६ ॥
व्यापी जगदनुगतः । अवबोधनं मद्रुद्धिसाक्षी । सेयं
चिद्द्रष्टृदृश्यमेदनाकलितशरीरा सती नृपोऽहमिति विभ्रमं करोति ।
प्राक्कृतवतीत्यर्थः ॥ २६ ॥
अस्या एव प्रसादेन मनो देहरथे स्थितम् ।
संसारजाललीलासु याति वल्गति नृत्यति ॥ २७ ॥
इदं मनःशरीरादि न किञ्चिदपि वस्तुतः ।
नष्टे न किञ्चिदप्यस्मिन्परिनश्यति पेलवे ॥ २८ ॥
जगज्जालमयं नृत्तमिदं चित्तनटैस्ततम् ।
एतयैवैकया बुद्ध्या दृश्यते दीपलेखया ॥ २९ ॥
एतया उक्तया साक्षीरूपया ॥ २९ ॥
कष्टं मुधैव मे चिन्ता निग्रहानुग्रहस्थितौ ।
बभूव देहनिष्ठेह न किञ्चिदपि देहकम् ॥ ३० ॥
अहो त्वहं प्रबुद्धोऽस्मि गतं दुर्दर्शनं मम ।
दृष्टं द्रष्टव्यमखिलं प्राप्तं प्राप्यमिदं मया ॥ ३१ ॥
सर्वं किञ्चिदिदं दृश्यं दृश्यते यज्जगद्गतम् ।
चिन्निष्पन्दांशमात्रांशान्नान्यत्किञ्चन शाश्वतम् ॥ ३२ ॥
चितो यो निष्पन्दो मायया जीवभावभ्रमस्तदंशः
सप्तदशकलिङ्गभ्रमस्तस्य मात्रा बाह्यान्तःकरणभेदभ्रमास्तदंशो
जाग्रत्स्वप्नदृश्यभ्रमस्तस्मादन्यत्किञ्चिच्छाश्वतं कालत्रयाबाध्यं
दृश्यं न विद्यत इत्यर्थः ॥ ३२ ॥
क्व तौ कीदृग्विधौ वापि किन्निष्ठौ वा किमात्मकौ ।
निग्रहानुग्रहौ लोके हर्षामर्षक्रमौ तथा ॥ ३३ ॥
एवं जगतो मृषात्वे निग्रहानुग्रहक्रमौ तत्प्रयोजकहर्षामर्षक्रमौ च
निराश्रयौ निष्प्रकारौ निर्विषयौ निःस्वरूपौ च सम्पन्नावित्याह - क्वेति ॥
३३ ॥
किं सुखं किं नु वा दुःखं सर्वं ब्रह्मेदमाततम् ।
अहमासं मुधा मूढ दिष्ट्या मूढोऽस्म्यहं स्थितः ॥ ३४ ॥
स्वमोहेऽपगते सुखदुःखादिप्रसक्तिरेव नास्तीत्याह - किमिति ।
साम्प्रतममूढः स्वरूपे स्थितोऽस्मीत्यर्थः ॥ ३४ ॥
किमस्मिन्नेवमालोके शोच्यते किं विमुह्यते ।
किं प्रेक्ष्यते किं क्रियते स्थीयते वाथ गम्यते ॥ ३५ ॥
एवमानन्दैकरसपूर्णस्वभावेनालोक्यते अनुभूयत इत्येवमालोकस्तस्मिन् ।
किंशब्दा आक्षेपे । शोकादिसम्भावनैव नास्तीत्यर्थः ॥ ३५ ॥
किञ्चिदेवमिदं नाम चिदाकाशं विराजते ।
नमो नमस्ते निस्तत्त्व दिष्ट्या दृष्टोऽसि सुन्दर ॥ ३६ ॥
किञ्चिदलौकिकचमत्कारम् । इदं चिदाकाशम् ॥ ३६ ॥
अहो नु सम्प्रबुद्धोऽस्मि सम्यग्ज्ञातमलं मया ।
नमो मह्यमनन्ताय सम्यग्ज्ञानोदयाय च ॥ ३७ ॥
सम्यग्ज्ञाने उदय आविर्भावो यस्य तथाविधाय । चकारः
पूर्वश्लोकनमस्कार्यसमुच्चयार्थः । सम्यग्ज्ञानलक्षणायाभ्युदयाय चेति
वा ॥ ३७ ॥
विगतरञ्जननिर्विषयस्थिति-
र्गतभवभ्रमरञ्जितवर्जिते ।
स्थिरसुषुप्तकलाभिगतस्ततः
समसमं निवसाम्यहमात्मनि ॥ ३८ ॥
विगतरञ्जनत्वादेव निर्मृष्टावस्थात्रयविषयस्थितिरिति
शोधितत्वम्पदार्थनिर्देशः । गतभवभ्रमत्वादेव
वियदाद्यध्यारोपरञ्जितवर्जिते इति शोधिततत्पदार्थनिर्देशः । भावे क्तः ।
स्थिरया सुषुप्तिकलया स्वाप्यययुक्त्येव उपाधिविगमादभिगत एकीभूत
इत्यखण्डैक्यनिर्देशः । ततस्तस्मादहमात्मनि प्रत्यग्ब्रह्मणि
समसममात्यन्तिकाभेदलक्षणपरमसाम्येन निवसामि न कदाचिदपि मे
पुनर्वैषम्यप्रसक्तिरिति फलावस्थानिर्देशः ॥ ३८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे सुरघुवृ०
सुरघुविश्रान्तिर्नामैकोनषष्टितमः सर्गः ॥ ५९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
सुरघुविश्रान्तिर्नामैकोनषष्टितमः सर्गः ॥ ५९ ॥