अष्टपञ्चाशः सर्गः ५८
श्रीवसिष्ठ उवाच ।
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
किरातेशस्य सुरघोर्वृत्तान्तं विस्मयास्पदम् ॥ १ ॥
किरारेशस्य सुरघोर्निर्वेदोऽत्रोपवर्ण्यते ।
माण्डव्येनोपदेशश्च सर्वत्यागाद्युपायतः ॥ १ ॥
अत्रास्मिन् शब्दमयी दृष्टिर्बोधार्थमेवेत्युक्तेऽर्थे ॥ १ ॥
उत्तरस्या दिशो मेदः कर्पूरपटलं भुवः ।
सम्भूतं हसनं शार्वं शुक्लो वा चान्द्र आतपः ॥ २ ॥
सुरघोर्निवासदेशं वक्तुं तत्सन्निहितं हिमवच्छृङ्गं वर्णयति -
उत्तरस्या इत्यादिना । मेदः सार इति यावत् । भुवः सम्भूतं निर्गतं
कर्पूराणां पटलं राशिः । शार्व हसनं चान्द्र आतपो वेति
प्रत्येकमुत्प्रेक्षा । अथवा दिशो मेदः हसनं चान्द्र आतपो वा भुवः भूमिं
प्राप्य कर्पूरपटलं सम्भूतमित्यौत्प्रेक्षिकवैकल्पिकनानाहेतूपपाद्या
एकैव विशिष्टोत्प्रेक्षा ॥ २ ॥
हिमाद्रेः शृङ्गमस्तीह कैलासो नाम पर्वतः ।
शैलकुञ्जरनिर्मुक्तकलापस्येव नायकः ॥ ३ ॥
हिमाद्रेः शृङ्गमिति विशेषणान्मेरुसन्निहितप्रसिद्धरजतादेरयमन्य इति
गम्यते । शैलकुञ्जरेण पर्वतश्रेष्ठेन हिमवता निर्मुक्तस्य धृतस्य
शृङ्गपरम्परालक्षणस्य मुक्ताकलापस्य नायको मणिरिव स्थित इत्यर्थः ।
शैलस्थकुञ्जरेभ्यो निर्गलितस्य मुक्ताकलापस्य नायकः सङ्ग्राहको राशिरिवेति
वा ॥ ३ ॥
विष्णोः क्षीरोदक इव स्वर्गः सुरपतेरिव ।
अब्जजस्येव नाभ्यब्जं गृहं यः शशिमौलिनः ॥ ४ ॥
नाभ्यब्जं विष्णुनाभिकमलम् । गृहं श्वशुरकल्पितमित्यर्थाद्गम्यते ॥ ४ ॥
रुद्राक्षवृक्षदोलाभिः साप्सरोभिर्विभाति यः ।
लोलरत्नशलाकाभिर्लहरीभिरिवार्णवः ॥ ५ ॥
रुद्राक्षवृक्षेषु लम्बमानाभिर्दिलाभिः प्रेङ्क्षोलिकाभिः ।
लोलरत्नशलाकाभिरिति लहरीणामपि विशेषणम् ॥ ५ ॥
गणाङ्गनानामनिशं मत्तानां चरणैर्हताः ।
अशोका इव राजन्ते यत्राशोका विलासिनः ॥ ६ ॥
गणाङ्गनानां प्रमथस्त्रीणाम् ॥ ६ ॥
सञ्चरञ्शङ्करो दिक्षु भृगुष्विन्दुमणिद्रवैः ।
निवर्तन्ते प्रवर्तन्ते यत्राजस्रं च निर्झराः ॥ ७ ॥
यत्र यासु दिक्षु सञ्चरन् भवति तत्र भृगुषु प्रपातस्थलेषु प्रवर्तन्ते अन्यासु
निवर्तन्ते ॥ ७ ॥
यो लतावृक्षगुल्मौघवापीह्रदनदीनदैः ।
मृगैर्मृगगणैर्भूतैर्ब्रह्माण्डवदिवावृतः ॥ ८ ॥
ब्रह्माण्डवदिवेति । उक्तार्थानामपि प्रयोगो दृश्यते । यथा
द्वावपूपावानयेति महाभाष्योक्तिदर्शनात् । द्योतकानां बहूनामपि
उद्यन्तं वा आदित्यमग्निरनुसमारोहति इतिवत्सहप्रयोगसम्भवाद्वतिनोक्तेऽपि
सादृश्ये इवशब्दप्रयोगः । अण्डवद्विराडाकारविशिष्टं ब्रह्मेवेति
मतुबन्तं वा योज्यम् ॥ ८ ॥
तस्य हेमजटा नाम किराताः संस्थिताः स्थले ।
पिपीलिका वटतरोर्मूलकोशगता इव ॥ ९ ॥
तस्य हिमवच्छृङ्गस्य । स्थले मूलदेशे ॥ ९ ॥
कैलासपादारण्यानां रुद्राक्षैस्तरुगुल्मकैः ।
वसन्ति धूकवत्क्षुद्रास्ते वै निकटजीविनः ॥ १० ॥
तेषां जीवनोपायमाह - कैलासेति । कैलासाख्यशृङ्गस्य पादाः
प्रत्यन्तपर्वतास्तदीयानामरण्यानां सम्बन्धिभि रुद्राक्षैरन्यैश्च
तरुगुल्मकैः फलपुष्पकाष्ठमूलाद्युपजीवनेन निकटजीविनः ॥ १० ॥
आसीत्तेषामुदारात्मा राजा परपुरञ्जयः ।
जयलक्ष्म्या भुज इव यः प्रजायाश्च दक्षिणः ॥ ११ ॥
जयलक्ष्म्या भुज इव परपुरञ्जयः प्रजायाः पालने च दक्षिणो राजा
वक्ष्यमाणविशेषणैर्ब्रह्मविद्याधिकारदर्शनाच्चासौ क्षत्रिय इति गम्यते ॥
११ ॥
सुरघुर्नाम बलवान्सुरघोरारिदर्पहा ।
अर्कः पराक्रम इव मूर्तिमानिव मारुतः ॥ १२ ॥
पराक्रमे अर्क इवेति योजना ॥ १२ ॥
जितो वै राज्यविभवैर्धनैर्गुह्यकनायकः ।
शतक्रतुगुरुर्बोधैः काव्यैरसुरदेशिकः ॥ १३ ॥
राज्यविभवैर्धनैश्च गुह्यकनायको राजराजो धनेश्वरोऽपि जितस्तेनेति शेषः ।
काव्यै रसालङ्कारादिशालिप्रबन्धरचनैरसुरदेशिकः शुक्रः ॥ १३ ॥
स चक्रे राजकार्याणि निग्रहानुग्रहक्रमैः ।
यथाप्राप्तान्यखिन्नाङ्गो दिनानीव दिवाकरः ॥ १४ ॥
तज्जाभ्यां सुखदुःखाभ्यामथ तस्याभ्यभूयत ।
स्वगतिर्वागुराबन्धैः श्लिष्टाङ्गस्येव पक्षिणः ॥ १५ ॥
किमार्तं पीडयाम्येनं तिलान्यन्त्रमिवौजसा ।
सर्वेषामेव भूतानां ममेवार्तिः प्रजायते ॥ १६ ॥
दुःखवशाच्चिन्ताशोकाद्युद्भवं दर्शयति - किमार्तमिति । एनं
प्रजाजनम् ॥ १६ ॥
धनमस्मै प्रयच्छामि धनेनानन्दवाञ्जनः ।
भवत्यहमिवाशेषस्तदलं मेऽतिनिग्रहैः ॥ १७ ॥
कर्तव्यसंशये प्रथमां कोटिं दर्शयति - धनमिति । तत्तस्माद्धेतोः ।
आर्तायास्मै जनाय धनं प्रयच्छामि । अतिनिग्रहैश्च अलं । प्रयोजनं
नास्तीत्यर्थः ॥ १७ ॥
अथवा निग्रहं प्राप्तं करोम्येतेन वै विना ।
वर्तते न प्रजैवेयं विना वारि सरिद्यथा ॥ १८ ॥
द्वितीयां दर्शयति - अथवेति । एतेन निग्रहेण विना प्रजा न वर्तत एव ।
स्वस्वमर्यादायामिति शेषः ॥ १८ ॥
हा कष्टमेव [कष्टमेव इत्यपि क्वचित्पाठः] निग्राह्यो
नित्यानुग्राह्य एष मे ।
दिष्ट्याद्य सुखवानस्मि कष्टमद्यास्मि दुःखवान् ॥ १९ ॥
निग्राह्यो वधबन्धादिना दण्ड्य ॥ १९ ॥
इति दोलायितं [लोलायितं इति पाठः] चेतो न विशश्राम भूपतेः ।
एकत्राम्बुमहावर्ते चिरतृष्णमिव भ्रमत् ॥ २० ॥
एकत्र न विशश्राम । यथा तृषितनिद्राणस्य चिरतृष्णं मनः
अम्बुमहावर्ते भ्रमति तद्वत् ॥ २० ॥
अथैकदा गृहं तस्य माण्डव्यो मुनिराययौ ।
भ्रान्ताशेषककुप्कुञ्जो वासवस्येव नारदः ॥ २१ ॥
भ्रान्तान्यशेषाणि ककुप्कुञ्जानि दिङ्मण्डलानि येन ॥ २१ ॥
तमसौ पूजयामास पप्रच्छ च महामुनिम् ।
सन्देहदुर्द्रुमस्तम्भपरशुं सर्वकोविदम् ॥ २२ ॥
सुरघुरुवाच ।
भवदागमनेनास्मि मुने निर्वृतिमागतः ।
परमां वसुधापीठं सम्प्राप्त इव माधवे ॥ २३ ॥
परमां निर्वृतिं सुखम् । माधवे वसन्ते विष्णौ वा ॥ २३ ॥
अद्य तिष्ठाम्यहं नाथ धन्यानां धुरि धर्मतः ।
विकासि रविणेवाब्जं यत्त्वयास्म्यवलोकितः ॥ २४ ॥
भगवन्सर्वधर्मज्ञ चिरं विश्रान्तवानसि ।
तदमुं संशयं छिन्धि ममार्कस्तिमिरं यथा ॥ २५ ॥
यदि विश्रान्तवान् गतश्रमोऽसि तत्तर्हि । अथवा परमपदे चिरं विश्रान्तवानसि
तत्तस्माद्धेतोः ॥ २५ ॥
महतां सङ्गमेनार्तिः कस्य नाम न नश्यति ।
सन्देहं तु परामार्तिमाहुरार्तिविदो जनाः ॥ २६ ॥
मन्निग्रहानुग्रहजा मद्भृत्यवपुषि स्थिताः ।
कषन्ति मामलं चिन्ता गजं हरिनखा इव ॥ २७ ॥
भृत्यग्रहणं शत्रुमित्रादिसर्वोपलक्षणम् । वपुषि विषये स्थिता निरूढाः ।
कषन्ति पीडयन्ति ॥ २७ ॥
तद्यथा समतोदेति सूर्यांशुरिव सर्वदा ।
मतौ मम मुने नान्या तथा करुणया कुरु ॥ २८ ॥
समता समदृष्टिः । अन्या विषमदृष्टिर्यथा नोदेति तथा ॥ २८ ॥
माण्डव्य उवाच ।
स्वयत्नेन स्वसंस्थेन स्वेनोपायेन भूपते ।
एषा मनःपेलवता हिमवत्प्रविलीयते ॥ २९ ॥
वैराग्यत्यागादिरूपेण स्वयत्नेन श्रवणमननादिना स्वव्यञ्जकोपायेन ।
स्वसंस्थेन स्वात्मबोधपर्यवसितेन । पेलवता मृदुता ।
हर्षविषादस्थानकण्टकसहस्रवेधार्हतेति यावत् ॥ २९ ॥
स्वविचारणयैवाशु शाम्यत्यन्तर्मनोज्वरः ।
शरदागममात्रेण मिहिका महती यथा ॥ ३० ॥
स्वेनैव मनसा स्वानि स्वशरीरगतानि च ।
विचारयेन्द्रियाण्यन्तः कीदृशान्यथ कानि च ॥ ३१ ॥
स्वानि स्वीयानि पुत्रमित्रादीनि स्वशरीरगतानीन्द्रियाणि चादन्यानि च तत्त्वतः कानि
युक्तितः कीदृशानि चेति विचारयेत्यर्थः ॥ ३१ ॥
कोऽहं कथमिदं किंवा कथं मरणजन्मनी ।
विचारयान्तरेवं त्वं महत्तामलमेष्यसि ॥ ३२ ॥
अविचाराध्यस्तपरिच्छिन्नतापगमान्महत्ताम् ॥ ३२ ॥
विचारणा परिज्ञातस्वभावस्य सतस्तव ।
हर्षामर्षदशाश्चेतस्तोलयिष्यन्ति नाचलम् ॥ ३३ ॥
स्रतः परमार्थवस्तुभूतस्य तव अचलं चेतो न तोलयिष्यन्ति । तुलायामिव
नोन्नमनानमनाभ्यामनियतस्थितिं करिष्यन्तीत्यर्थः ॥ ३३ ॥
मनः स्वरूपमुत्सृज्य शममेष्यति विज्वरम् ।
भूतपूर्ववपुर्भूत्वा तरङ्गः पयसीव ते ॥ ३४ ॥
विज्वरं ते मनः स्वं मनोरूपमुत्सृज्य भूतपूर्ववपुः
पूर्वसिद्धब्रह्मस्वभावं भूत्वा शमं निर्विक्षेपतामेष्यति ॥ ३४ ॥
तिष्ठदेव मनोरूपं परित्यक्ष्यति तेऽनघ ।
कलङ्कविकलं कालं मन्वन्तरगताविव ॥ ३५ ॥
तर्हि किं मनसः सत्तैव नङ्क्ष्यति नेत्याह - तिष्ठदेवेति । यथा
पूर्वमनोरन्ते कलिकालं प्राप्य कलङ्कैः पापैर्विकलं भुवनं
पुनर्मन्वन्तरगतौ सत्यां तिष्ठदेव कलङ्कं त्यजति तद्वन्मनोऽपि
जीवन्मुक्तव्यवहारक्षमतया तिष्ठदेव पूर्वतनं मनोरूपं त्यजतीत्यर्थः
॥ ३५ ॥
अनुकम्प्या भविष्यन्ति श्रीमन्तः सर्व एव ते ।
दृष्टतत्त्वस्य तुष्टस्य जनाः पितुरिवावनौ ॥ ३६ ॥
न केवलं दुःखनिवृत्तिरेव ज्ञानफलं किन्तु निरतिशयानन्दसाम्राज्यमपि
यत्र ब्रह्मादयोऽप्यनुकम्प्या इत्याह - अनुकल्प्या इति ॥ ३६ ॥
विवेकदीपदृष्टात्मा मेर्वब्धिनभसामपि ।
अधो [अथो इति पाठः] करिष्यसि नृप महत्तामुत्तमार्थदाम् ॥ ३७
॥
यदा आकाशादीनामपि महत्ता तत्सत्ताधीना तदा तस्य निरतिशयं महत्त्वं
किं वाच्यमित्याशयेनाह - विवेकेति । विवेकजन्येन ज्ञानदीपेन दृष्ट
आत्मा येन ॥ ३७ ॥
महत्तामागते चेतस्तव संसारवृत्तिषु ।
न निमज्जति हे साधो गोष्पदेष्विव वारणः ॥ ३८ ॥
कृपणं तु मनो राजन्पेलवेऽपि निमज्जति ।
कार्ये गोष्पदतोयेऽपि जीर्णाङ्गो मशको यथा ॥ ३९ ॥
कृपणं कामकार्पण्यदूषितम् । पेलवे क्षुद्रेऽपि कार्ये । निमज्जति मुह्यति ॥ ३९ ॥
चेतोवासनया पङ्के कीटवत्परिमज्जसि ।
दृश्यमात्रावलम्बिन्या स्वया दीनतया तया ॥ ४० ॥
तया प्रसिद्धया ॥ ४० ॥
तावत्तावन्महाबाहो स्वयं सन्त्यज्यतेऽखिलम् ।
यावद्यावत्परालोकः परमात्मैव शिष्यते ॥ ४१ ॥
तर्हि कियत्सु विषयेषु कियत्कालं वा वैराग्यं कर्तव्यमिति चेत्तत्राह -
तावदिति । स्वयञ्ज्योतिरात्ममात्रपरिशेषानुभवपर्यन्तमित्यर्थः ॥ ४१ ॥
तावत्प्रक्षाल्यते धातुर्यावद्धेमैव शिष्यते ।
तावदालोक्यते सर्वं यावदात्मैव लभ्यते ॥ ४२ ॥
नानाश्रुतिशास्त्रपर्यालोचनमप्यात्मदर्शनपर्यन्तमेवेत्याह - तावदिति ।
धातुः स्वर्णाकरधातुः । सर्वमध्यात्मशास्त्रम् ॥ ४२ ॥
सर्वः सार्विकया बुद्ध्या सर्वं सर्वत्र सर्वदा ।
सर्वथा सम्परित्यज्य स्वात्मनात्मोपलभ्यते ॥ ४३ ॥
सार्विकया सर्ववस्तुभूतया बुद्ध्या सर्वदा सर्वत्र देशे सर्वं दृश्यं
सर्वथा परित्यज्य सर्वः पूर्णात्मा स्वात्मनैवोपलभ्यते न
कदाचित्कुत्रचित्कथञ्चित्कतिपयविषयत्यागमात्रेणेत्यर्थः ॥ ४३ ॥
यावत्सर्वं न सन्त्यक्तं तावदात्मा न लभ्यते ।
सर्वावस्थापरित्यागे शेष आत्मेति कथ्यते ॥ ४४ ॥
उक्तमेवार्थं व्यतिरेकमुखेनापि द्रढयति - यावदिति । तत्कुतस्तत्राह -
सर्वेति ॥ ४४ ॥
यावदन्यन्न सन्त्यक्तं तावत्सामान्यमेव हि ।
वस्तु नासाद्यते साधो स्वात्मलाभे तु का कथा ॥ ४५ ॥
सामान्यं लोकव्यवहारसाधारणं गोधनादि । अप्यर्थे एवकारः ।
यावदन्यत्तद्विरोधि वस्तु न सन्त्यक्तं तावन्नासाद्यते ॥ ४५ ॥
यत्र सर्वात्मनैवात्मा लाभाय यतति स्वयम् ।
त्यक्तान्यकार्यं प्राप्नोति तन्नाम नृप नेतरत् ॥ ४६ ॥
यत्र यस्मिन्विषये । तत् तं विषयम् ॥ ४६ ॥
स्वात्मावलोकनार्थं तु तस्मात्सर्वं परित्यजेत् ।
सर्वं किञ्चित्परित्यज्य यद्दृष्टं तत्परं पदम् ॥ ४७ ॥
सर्वं दृश्यं परित्यज्य यत्किञ्चित्सर्वथा परित्यक्तुमशक्यं दृष्टं
तदेव परं पदमित्यर्थः ॥ ४७ ॥
सकलकारणकार्यपरम्परा-
मयजगद्गतवस्तुविजृम्भितम् ।
अलमपास्य मनः स्ववपुस्ततः
परिविलाप्य यदेति तदेव तत् ॥ ४८ ॥
मनः सकलकारणकार्यपरम्परामये जगति मणिषु सूत्रमिवानुगते सन्मात्रे
स्वकल्पनया विजृम्भितं सद्व्यतिरिक्तं सर्वं रूपं अलं निःशेषमपास्य
ततस्तदनन्तरं स्ववपुर्मनोरूपमपि मूलाज्ञाननाशाद्बाधेन परिविलाप्य
यत्सच्चिन्मात्रैकरसं वस्तु एति प्राप्नोति तदेव तद्ब्रह्मरूपमित्यर्थः ॥ ४८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे सुरघुवृत्तान्ते माण्डव्योपदेशो
नामाष्टपञ्चाशः सर्गः ॥ ५८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
माण्डव्योपदेशो नामाष्टपञ्चाशः सर्गः ॥ ५८ ॥