सप्तपञ्चाशः सर्गः ५७
श्रीवसिष्ठ उवाच ।
यदात्ममरिचस्यान्तश्चित्त्वात्तीक्ष्णत्ववेदनम् ।
तदहन्तादि भेदादि देशकालादि चेत्यतः ॥ १ ॥
अज्ञातस्वस्वभावा चिद्दृक्त्वाद्दृश्यस्वभावताम् ।
यां धत्ते सा चिदेवेति चिदन्यन्नेति वर्ण्यते ॥ १ ॥
एवं सर्वजगतश्चिदभेदे परमार्थतः सिद्धे व्यवहारेऽपि जगद्वैचित्र्यं
तत्तद्रूपचित्स्वभाव एवेति फलितमित्याह - यदित्यादिना । आत्मैव
स्वप्रकाशतैक्ष्यं मरिचं तस्य चित्त्वात्तैक्ष्ण्यप्रथारूपं यद्वेदनं
तत्स्थानीयं अज्ञातब्रह्मस्वभाव एव अहन्तात्वन्तादिरूपं
घटकुड्यभेदादिरूपं तदाधारदेशकालादिरूपं च जगदिति ।
अतश्चिदभेदसाधनात्फलितमित्यर्थः ॥ १ ॥
यदात्मलवणस्यान्तश्चित्त्वाल्लवणवेदनम् ।
तदहन्तादि भेदादि देशकालादि मत्स्थितम् ॥ २ ॥
स्वतो यदन्तरात्मेक्षोश्चित्त्वान्माधुर्यवेदनम् ।
तदहन्तादि भेदादि जगत्तत्त्वादि जृम्भितम् ॥ ३ ॥
तत्त्वादिना तत्तदाकारभेदेन जृम्भितमभिव्यक्तम् ॥ ३ ॥
स्वतो यदात्मदृषदश्चित्त्वात्काठिन्यवेदनम् ।
तदहन्तादि भेदादि देशकालादितां गतम् ॥ ४ ॥
स्वतो यदात्मशैलस्य ज्ञतया जाड्यवेदनम् ।
तदहन्तादि भेदादि भुवनादीति संस्थितम् ॥ ५ ॥
जाड्यं गौरवम् ॥ ५ ॥
स्वतो यदात्मतो यस्य चिद्द्रवत्वादिवर्तनम् ।
तदावर्ताद्यहन्तादिभेदाद्याकारिता इव ॥ ६ ॥
आकारितास्तत्तदाकारवता इव स्थितमित्यनुषज्यते ॥ ६ ॥
स्वतो यदात्मवृक्षस्य शाखादिस्तस्य वेदनम् ।
तदहन्तादि भेदादि भुवनादीव सत्स्फुरत् ॥ ७ ॥
सत् वर्तमानं तथा स्फुरद्भासमानम् ॥ ७ ॥
यदात्मगगनस्यान्तश्चित्त्वाच्छून्यत्ववेदनम् ।
तदहन्तादि भेदादि भुवनादीति भावनम् ॥ ८ ॥
भावनं कल्पनम् ॥ ८ ॥
यदात्मगगनस्यान्तश्चित्त्वात्सौषिर्यवेदनम् ।
तदहन्तादि भेदादि शरीरादि च दीपितम् ॥ ९ ॥
द्रव्याद्बहिःशून्यत्वम् मूर्तद्रव्यान्तश्छिद्रता तु सौषिर्यमिति भेदः ॥ ९ ॥
स्वतो यदात्मकुड्यस्य नैरन्तर्यं निरन्तरम् ।
तदहन्तादिभेदेन चित्ताद्बहिरिव स्थितम् ॥ १० ॥
नैरन्तर्य निबिडता । बहिर्दृश्यत्वाच्चिद्व्यतिरिक्तमिवेत्यर्थः ॥ १० ॥
स्वतो यदात्मसत्तायाश्चित्त्वात्सत्त्वैकवेदनम् ।
तदहन्तादि भेदादि चेतनानीतिवत्स्थितम् ॥ ११ ॥
चेतनानि चिदाभासाः ॥ ११ ॥
अन्तरात्मप्रकाशस्य स्वतो यदवभासनम् ।
तदहन्तादि चित्त्वादि जीव इत्येव वेद सः ॥ १२ ॥
चित्त्वं वृत्तिभेदभिन्नचिदाभासेष्वनुगतं सामान्यं वेद कल्पयति स जीवः
॥ १२ ॥
अन्तरस्ति यदात्मेन्दोश्चिद्रूपं चिद्रसायनम् ।
स्वत आस्वादितं तेन तदहन्तादिनोदितम् ॥ १३ ॥
रसायनममृतम् । स्वत आस्वादितं स्वप्रकाशतया अनुभूतम् ।
उदितमाविर्भूतम् ॥ १३ ॥
परमात्मगुडस्यान्तर्यच्चित्स्वादूदयात्मकम् ।
तदेवास्वाद्यते तेन स्वतोऽहन्तादि नान्तरे ॥ १४ ॥
आन्तरे स्वात्मन्येव ॥ १४ ॥
परमात्ममणेश्चित्त्वाद्यदन्तः कचनं स्वयम् ।
चेतनात्मपदे चान्तरहमित्यादि वेत्त्यसौ ॥ १५ ॥
चेतनारूपे आत्मपदे स्वरूपे ॥ १५ ॥
न च किञ्चन वेत्त्यन्तर्वेद्यस्यासम्भवादिह ।
न चास्वादयति स्वादु स्वाद्यस्यासम्भवादयम् ॥ १६ ॥
मायिकजगदाकारानुभवस्य स्वप्रकाशस्वात्मानुभवमात्रत्वव्युत्पादनाय
पश्यति वेत्त्यास्वादयत्यास्वाद्यते इति कर्मकर्तृभावव्यपदेशो न
तद्भेदसाधनाशयेनेत्याह - न चेति ॥ १६ ॥
न च किञ्चिच्चिनोत्यन्तश्चेत्यस्यासम्भवे सति ।
विन्दते न च वा किञ्चिद्वेद्यस्यासम्भवादसौ ॥ १७ ॥
चिनोति चैतन्यान्तरात्मना विकरोति । वेद्यस्य लभ्यस्य ॥ १७ ॥
असदाभास एवात्मा अनन्तो भरिताकृतिः ।
स्थितः सदैवैकघनो महाशैल इवात्मनि ॥ १८ ॥
असन् आभासत इत्याभासो जगदाकारो यस्मिंस्तथाविध एव ॥ १८ ॥
अनया तु वचोभङ्ग्या मया ते रघुनन्दन ।
नाहन्तादिजगत्तादिभेदोस्तीति निदर्शितम् ॥ १९ ॥
तर्हि यदात्ममरिचस्येत्याद्युक्तेः कोऽभिप्रायस्तमाह - अनयेति ॥ १९ ॥
न चित्तमस्ति नो चेता न जगत्तादिविभ्रमः ।
वृष्टमूकाम्बुदसितं शान्तं शाम्यति केवलम् ॥ २० ॥
पूर्वं वृष्टो वृष्टवान्पश्चाच्छरदि मूकस्तूष्णीम्भूतोऽम्बुद इव सितं
शुद्धमधिष्ठानसन्मात्रतया परिशिष्टं बाधितं जगत् शान्तमेव
शाम्यतीत्यर्थः ॥ २० ॥
यथावर्तादितामेति द्रवत्वाद्वारि वारिणि ।
तदाहन्तादितामेति ज्ञप्ता ज्ञप्तौ ज्ञ आत्मनि ॥ २१ ॥
ज्ञप्ता मायावी ज्ञः सर्वज्ञः स्वमायावृते ज्ञप्तिरूपे आत्मनि
अहन्तादिरूपतां जीवजगद्भावमिति यावत् ॥ २१ ॥
यथा द्रवत्वं पयसि यथा स्पन्दः सदागतौ ।
अहन्तादेशकालादि तथा ज्ञे ज्ञप्तिमात्रके ॥ २२ ॥
सदागतौ वायौ । परमार्थतो ज्ञप्तिमात्ररूपे ज्ञे सर्वज्ञेश्वरे ॥ २२ ॥
ज्ञो ज्ञतायां शिव ज्ञानं जानाति ज्ञानबृंहया ।
ज्ञायतेऽहन्तदि ज्ञेन जीवादीत्यभिजीवनैः ॥ २३ ॥
यदि जीवजगद्रूपे ज्ञप्तेरनन्ये तर्हि ज्ञप्ते जीवेश्वरभावयोः को
विशेषस्तमाह - ज्ञ इति । ज्ञ ईश्वरो ज्ञतायामीश्वरभावे शिवं
निरतिशयानन्दरूपं स्वरूपज्ञानं [स्वरूपज्ञानबृंहया इति
मुद्रितपुस्तके पाठः] ज्ञानबृंहया अनावरणापरिच्छेदलक्षणया
ज्ञानाभिवृद्ध्या सदैव जानाति । अहन्तादि अहङ्कारस्थूलदेहरूपजीवभावे
तु ज्ञेन चेतनभूतेनापि अभिजीवनैर्जीवनहेतुभिः
प्राणकरणविषयसम्बन्धाद्यासैर्जीवादिरूप एवात्मेति ज्ञायते न तत्त्वत इति
विशेष इत्यर्थः ॥ २३ ॥
यथोदेति ययाऽज्ञस्य तृप्तिर्ज्ञानेन यादृशी ।
अनन्ये वान्यता बुद्धा स तथा जृम्भते तया ॥ २४ ॥
अत-एव जीवस्य यथा यथा भ्रान्तिस्तथा तथेश्वरो विवर्तत इत्याह -
यथेति । यया यया कामकर्मवासनया यादृशविषयज्ञानेन अज्ञस्य यथा
येन येन दर्शनलाभोपभोगवैचित्र्यप्रकारेण यादृशी
प्रियओदप्रमोदादिनानाप्रकारा तृप्तिरुपभोग उदेति अनन्ये स्वरूपे
भोक्तृभोग्य्भोगवैचित्र्यरूपा अन्यता वा ज्ञेन बुद्धा स परमेश्वरस्तया
तया तदीयकामादिवासनया तथा तथा जृम्भते स्वगात्राणि विनामयति
विवर्तते । वैचित्र्यं धत्ते इति यावत् ॥ २४ ॥
जीवनं ज्ञातता ज्ञाता जीवनं जीवजीवनम् ।
अत्यन्तमस्ति नो भेदश्चिद्रूपत्वे ज्ञजीवयोः ॥ २५ ॥
यदा त्वनेन सच्छास्त्रसद्रूपदेशाद्भोग्यस्य जगतो ज्ञातता
अधिष्ठानसन्मात्ररूपा स्फूर्तिरेव जीवनं सारः परमार्थस्थितिर्ज्ञाता
जीवानां सर्वेषां यदधीनं जीवनं तादृशानन्दरूपमेव जीवनं
भोक्तुः सारो ज्ञातस्तदा भोग्यभोक्रधिष्ठानयोर्द्वयोरपि चिद्रूपत्वे
परिशिष्टे ज्ञजीवयोर्जीवेश्वर्योर्भेदोऽस्त्यन्तं नास्ति । सर्वथैव निवर्तत
इत्यर्थः ॥ २५ ॥
यथा ज्ञजीवयोर्नास्ति भेदो नाम तथैतयोः ।
भेदोऽस्ति न ज्ञशिवयोर्विद्धि शान्तमखण्डितम् ॥ २६ ॥
जीवेश्वरभेदकाज्ञाने नष्टे प्राज्ञतुरीयभेदोऽपि निवृत्त
इत्यखण्डपूर्णानन्दैकरसचिन्मात्रसाम्राज्यं सिद्धमित्याह - यथेति ॥ २६
॥
सर्वं प्रशान्तमजमेकमनादिमध्य-
माभास्वरं स्वदनमात्रमचेत्यचिह्नम् ।
सर्वं प्रशान्तमिति शब्दमयी तु दृष्टि-
र्बोधार्थमेव हि मुधैव तदोमितीदम् ॥ २७ ॥
निष्कृष्टार्थमनूद्योपसंहरति - सर्वमिति । सर्वं जगत् आसमन्तात्
भास्वरं पूर्णस्वप्रकाशरूपं स्वदनमात्रमानन्दैकरसं
चेत्यैर्विषयैश्चिह्नेन स्वव्यावर्तकधर्मेण च रहितं प्रशान्तं ब्रह्म
तदेव सर्वं प्रशान्तमिति तात्कालिकशब्दमयी
पदवाच्यार्थाभेदसंसर्गगोचरा आहार्या भेददृष्टिः
साक्षात्प्रयोजनशून्यत्वान्मुधैव । हि यस्मात्कारणाद्विरोधप्रतिसन्धाने
भागस्त्यागलक्षणाश्रयद्वारा लक्ष्यार्थाखण्डबोधार्थमेव ।
तद्वाक्यबोधमखण्डार्थरूपं तु ओमिति ॐकार्ऽम् जगद्ब्रह्म चैकीकृत्य
विराठिरण्यगर्भाव्याकृततुरीयात्मकान्
अकासेकारमकारार्धमात्रापादांश्चतुर्धा विभज्य
पूर्वपूर्वपादानुत्तरोत्तरेषु प्रविलाप्यार्धमात्रया यदद्वयं
पूर्णानन्दैकरसं नित्यापरोक्षप्रत्यक्चिन्मात्ररूपं लक्ष्यते इदमेव न
संसृष्टरूपमित्यर्थः ॥ २७ ॥
इत्यार्षे श्रीवासिष्ठमहारमायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमपकरणे भेदनिरासो नाम सप्तपञ्चाशः सर्गः ॥
५७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे भेदनिरासो
नाम सप्तपञ्चाशः सर्गः ॥ ५७ ॥