षट्पञ्चाशः सर्गः ५६
श्रीवसिष्ठ उवाच ।
क्रमेणानेन विहरन्विचार्यात्मानमात्मना ।
विश्रान्तिमेहि वितते पदे पद्मदलेक्षण ॥ १ ॥
निर्मृष्टमायातिमिरः प्रबुद्धो ध्वस्तवासनः ।
व्यवहारप्रसक्तोऽपि समाधिस्थ इतीर्यते ॥ १ ॥
अनेन उक्तप्रकारेण विचारवैराग्यसमाध्यभ्यासक्रमेण विहरन् ॥ १ ॥
शास्त्रार्थगुरुचेतोभिस्तावत्तावद्विचार्यते ।
सर्वदृश्यक्षयाभ्यासाद्यावदासाद्यते पदम् ॥ २ ॥
शास्त्रश्रवणेन अर्थतत्त्वपरीक्षणेन गुरुवचनविश्वासेन स्वचित्तशोधनेन
च सर्वदृश्यबाधेन परमपदविश्रान्तिपर्यन्तमवश्यं विचारः कर्तव्य
इति तात्पर्यार्थः ॥ २ ॥
वैराग्याभ्यासशास्त्रार्थप्रज्ञागुरुमयक्रमैः
[गुरुयमक्रमैरिति पाठः । तत्र यमशब्देन मनोनिग्रहो
ज्ञेयः] ।
पदमासाद्यते पुण्यं प्रज्ञयैवैकयाथवा ॥ ३ ॥
सम्प्रबोधवती तीक्ष्णा कलङ्करहिता मतिः ।
सर्वसामग्र्यहीनापि पदं प्राप्नोति शाश्वतम् ॥ ४ ॥
प्रज्ञास्वरूपमाह - सम्प्रबोधवतीति । प्राप्नोति प्रापयति ॥ ४ ॥
श्रीराम उवाच ।
भगवन्भूतभव्येश कश्चिज्जातसमाधिकः ।
प्रबुद्ध इव विश्रान्तो व्यवहारपरोऽपि सन् ॥ ५ ॥
कश्चित्प्रबुद्धो व्यवहारपरोऽपि सन् जातसमाधिक इव विश्रान्त इत्यन्वयः ॥ ५ ॥
कश्चिदेकान्तमाश्रित्य समाधिनियतः स्थितः ।
तयोस्तु कतरः श्रेयानिति मे भगवन्वद ॥ ६ ॥
श्रीवसिष्ठ उवाच ।
इमं गुणसमाहारमनात्मत्वेन पश्यतः ।
अन्तःशीतलता यासौ समाधिरिति कथ्यते ॥ ७ ॥
अन्तःशीतलता पूर्णकामता ज्ञानप्रतिष्ठाफलं तल्लाभे
विक्षेपप्रसक्त्यभावात्सैव समाधिरभिधीयत इत्यर्थः । मनसि सति
दृश्यैर्विक्षेपहेतुः सम्बन्धः स्यान्नतु मम तदस्तीति निश्चित्येत्यर्थः ॥ ७ ॥
दृश्यैर्मनसि सम्बन्ध इति निश्चित्य शीतलः ।
कश्चित्संव्यवहारस्थः कश्चिद्ध्याने व्यवस्थितः ॥ ८ ॥
दृश्यैर्मननसम्बन्धः इति पाठस्तु स्पष्ट एव ॥ ८ ॥
द्वावेतौ राम सुखितावन्तश्चेत्परिशीतलौ [सम्पन्नाविति पाठः] ।
अन्तःशीतलता या स्यात्तदनन्ततपःफलम् ॥ ९ ॥
समाधिस्थानकस्थस्य चेतश्चेद्वृत्तिचञ्चलम् ।
तत्तस्य [तत्तर्हीत्यर्थः] तत्समाधानं सममुन्मत्तताण्डवैः ॥
१० ॥
उन्मत्तताण्डवस्थस्य चेतश्चेत्क्षीणवासनम् ।
तदस्योन्मत्तवृत्तं तत्समं बुद्धसमाधिना ॥ ११ ॥
व्यवहारी प्रबुद्धो यः प्रबुद्धो यो वने स्थितः ।
द्वावेतौ सुसमौ नूनमसन्देहं पदं गतौ ॥ १२ ॥
असन्देहं सर्वसंएधोच्छेदि परमपदं गतौ तत्र प्रतिष्ठितौ चेत्यर्थः ॥ १२
॥
अकर्तृ कुर्वदप्येतच्चेतः प्रतनुवासनम् ।
दूरं गतमना जन्तुः कथासंश्रवणे यथा ॥ १३ ॥
व्यवहारिणः कर्तृत्वप्रयुक्तो बन्धः किं न स्यात्तत्राह - अकर्त्रिति ।
प्रतनुवासनं निर्वासनम् । यथा कान्तादिकथासंश्रवणे अन्यत्र
प्रसक्तमनाः कुर्वन्नपि रागादिविकारानुदयात्तत्प्रयुक्तैर्दोषैर्न बध्यते
तद्वदित्यर्थः ॥ १३ ॥
अकुर्वदपि कर्तेव चेतः प्रघनवासनम् ।
निस्पन्दाङ्गमपि स्वप्ने श्वभ्रपातस्थिताविव ॥ १४ ॥
निस्पन्दान्यङ्गानि देहावयवा यस्य तथाविधमपि सुप्तस्य मनः
श्वभ्रपातं तत्र स्थितौ च यथा कर्तृ तद्वत् ॥ १४ ॥
चेतसो यदकर्तृत्वं तत्समाधानमुत्तमम् ।
तं विद्धि केवलीभावं सा शुभा निर्वृतिः परा ॥ १५ ॥
निर्वृतिः सुखविश्रान्तिः ॥ १५ ॥
चेतश्चलाचलत्वेन परमं कारणं स्मृतम् ।
ध्यानाध्यानदृशोस्तेन तदेवानङ्कुरं कुरु ॥ १६ ॥
ध्यानाध्याने समाध्यसमाधी तद्दृष्ट्योः । अनङ्कुरं
अङ्कुरबीजवासनाशून्यमिति यावत् ॥ १६ ॥
अवासनं स्थिरं प्रोक्तं मनोध्यानं तदेव तु ।
स एव केवलीभावः शान्ततैव च सा सदा ॥ १७ ॥
तनुवासनमत्युच्चैः पदायोद्यतमुच्यते ।
अवासनं मनो कर्तृपदं तस्मादवाप्यते ॥ १८ ॥
तनुवासनं चतुर्थादिभूमिकासु क्षीयमाणवासनम् । अवासनं क्षीणवासनं
पदं सप्तमभूमिकाप्रतिष्ठा ॥ १८ ॥
घनवासनमेतत्तु चेतः कर्तृत्वभाजनम् ।
सर्वदुःखप्रदं तस्माद्वासनां तनुतां नयेत् ॥ १९ ॥
प्रशान्तजगदास्थोऽन्तर्वीतशोकभयैषणः ।
स्वस्थो भवति येनात्मा स समाधिरिति स्मृतः ॥ २० ॥
प्रशान्ता जगति देहादिदृश्ये आस्था अहम्ममताभिनिवेशो यस्य । स्वस्थः
स्वरूपप्रतिष्ठो येनोपायेन भवति ॥ २० ॥
चेतसा सम्परित्यज्य सर्वभावात्मभावनाम् ।
यथा तिष्ठसि तिष्ठ त्वं तथा शैले गृहेऽथवा ॥ २१ ॥
सर्वेषु भावेषु आत्मभावनां अहम्ममताध्यासम् । शैले समाहितो गृहे
व्यवहरन्वा ॥ २१ ॥
गृहमेव गृहस्थानां सुसमाहितचेतसाम् ।
शान्ताहङ्कृतिदोषाणां विजनावनभूमयः ॥ २२ ॥
अरण्यसदने तुल्ये समाहितमनोदृशाम् ।
भवतामिह भूतानां भूतानां महतामिव ॥ २३ ॥
इह नित्यापरोक्षे प्रत्यगात्मनि भूतानां स्थितानाम् । महतां
भूतानामाकाशादीनामिव ॥ २३ ॥
शान्तचित्तमहाभ्रस्य जनज्वालोज्ज्वलान्यपि ।
नगराण्यपि शून्यानि वनान्यवनिपात्मज ॥ २४ ॥
शान्तचित्तमहाभ्रस्य शरदकाशकल्पस्येत्यर्थः ॥ २४ ॥
वृत्तिमच्चित्तमत्तस्य विजनानि वनान्यपि ।
नगराणि महालोकपूर्णानि परवीरहन् ॥ २५ ॥
रागादिवृत्तिमता चितेन मत्तस्य ॥ २५ ॥
व्युत्थितं चित्तमभ्येति भ्रमस्यान्तः सुषुप्तताम् ।
निर्वाणमेति निर्वाणं यथेच्छसि तथा कुरु ॥ २६ ॥
व्युत्थितं रागादिविक्षिप्तं चित्तं नानाविधविषयभ्रमस्यान्तर्लयेन
पुनर्व्युत्थानसहस्रबीजभूतां सुषुप्ततामेति । निर्वाणं शान्तरागादिवासनं
तु चित्तं निर्वाणं मोक्षमेति ॥ २६ ॥
सर्वभावपदातीतं सर्वभावात्मकं च वा ।
यः पश्यति सदात्मानं स समाहित उच्यते ॥ २७ ॥
तर्हि प्राक्कथं व्यवहार्यव्यवहारिणोस्तत्त्वविदोस्तुल्यः समाधिरुक्तस्तत्राह
- सर्वेति । तत्त्ववित्समाधौ सर्वभावपदातीतं पश्यति व्यवहारे तु
सर्वभावात्मकं पश्यतीत्येकपिण्डमात्राहम्मानाभावान्न तस्य रागादिरिति
न विक्षेपप्रसक्तिरिति भावः ॥ २७ ॥
ईहितानीहिते क्षीणे यस्यान्तर्वितताकृतेः ।
सर्वे भावाः समा यस्य स समाहित उच्यते ॥ २८ ॥
उक्तमेवार्थ फलत आह - ईहितेति । ईहितानीहिते रागद्वेषौ ॥ २८ ॥
सदात्मना सदेवेदं जगत्पश्यति नो मनः ।
यथा स्वप्ने तथैवास्मिञ्जाग्रत्यपि जनेश्वर ॥ २९ ॥
कथं सर्वे भावाः समास्तद्दर्शयति - सदात्मनेति । तस्य मनो यथा
स्वप्ने तथा जाग्रत्यपि इदं दृश्यं सदात्मना सदेव पश्यति । जगत्
सद्व्यतिरिक्तरूपं नो पश्यतीत्यर्थः ॥ २९ ॥
यथा विपणिकालोका विहरन्तोऽप्यसत्समाः ।
असम्बन्धात्तथा ज्ञस्य ग्रामोपि विपिनोपमः ॥ ३० ॥
नगराण्यपि शून्यानीति यदुक्तं तदुपपादयति - यथेति । विपणिका
पण्यवीथिका तत्र समवेता अपि बहवो जनाः स्वस्वकार्ये
व्यवहरन्तोऽप्युदासीनस्यानुपकारित्वादसत्प्रायास्तद्वत् ॥ ३० ॥
अन्तर्मुखमना नित्यं सुप्तो बुद्धो व्रजन्नपि ।
पुरं जनपदं ग्राममरण्यमिव पश्यति ॥ ३१ ॥
सर्वमाकाशतामेति नित्यमन्तर्मुखस्थितेः ।
सर्वथानुपयोग्यत्वाद्भूताकुलमिदं जगत् ॥ ३२ ॥
भूतैः प्राणिभिः पृथिव्यादिभिश्चाकुलमपि बाधितत्वादाकाशतां
शून्यताम् ॥ ३२ ॥
अन्तःशीतलतायां तु लब्धायां शीतलं जगत् ।
विज्वराणामिव नृणां भवत्याजीवितस्थितेः ॥ ३३ ॥
आजीवितस्थितेः यावज्जीवम् ॥ ३३ ॥
अन्तस्तृष्णोपतप्तानां दावदाहमयं जगत् ।
भवत्यखिलजन्तूनां यदन्तस्तद्बहिः स्थितम् ॥ ३४ ॥
यस्मादन्तर्यद्यादृशं तप्तं शीतलं वा चित्तं तदेव बहिर्जगदाकारेण
स्थितमित्यर्थः ॥ ३४ ॥
दयुः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
अन्तःकरणतत्त्वस्य भागा बहिरिव स्थिताः ॥ ३५ ॥
तदेवाह - द्यौरिति ॥ ३५ ॥
वटधाना वट इव यदन्तःस्थं सदात्मनः ।
तद्बहिर्भासते भास्वद्विकासे पुष्पगन्धवत् ॥ ३६ ॥
न बहिष्ठं न [न वान्तस्थं इत्यपि क्वचित्पठ्यते] चान्तःस्थं
क्वचित्किञ्चन विद्यते ।
यद्यथा कचितं चित्त्वात्तत्तथा तत्त्वमुत्थितम् ॥ ३७ ॥
अध्यारोपदृष्ट्योक्त्वा अपवाददृष्ट्या आह - न बहिष्ठमिति । कथं तर्हि
तत्र जगदाकारभानं तत्राह - यदिति । यद्वस्तु प्राग्वासनाबलाद्यथा
कचितं तथा तद्वेषेण परमार्थतत्त्वमेवोत्थितमित्यर्थः ॥ ३७ ॥
आत्मतत्त्वान्तरं भाति बहिष्ट्वेन जगत्तया ।
कर्पूरमिव गन्धेन सङ्कोचे प्रविकासि च ॥ ३८ ॥
आत्मतत्त्वरूपं यदान्तरं वस्तु तदेव बहिष्ट्वेन जगत्तया भाति ।
तत्तदुपाध्यनुसारिसङ्कोचेऽपि सति प्रविकासि च भवति । यथा सम्पुटान्तःस्थं
कर्पूरं गन्धरूपेण तथा भाति भवति चेत्यर्थः ॥ ३८ ॥
आत्मैव स्फुरति स्फारं जगत्त्वेनाप्यहन्तया ।
बाह्यत्वेनान्तरत्वेन स च नासन्न सन्विभुः ॥ ३९ ॥
न असन् चक्षुराद्यदृश्याहङ्कारादिरूपः । नापि सन्
तद्दृश्यबाह्यस्थूलरूपः । किन्तु विभुरुभयानुस्यूतसन्मात्ररूप इत्यर्थः
॥ ३९ ॥
बहिष्ठेनान्तरं बाह्यमन्तःस्थेनान्तरस्थितम् ।
यथाविदितमात्मायं स्वचित्तमनुपश्यति ॥ ४० ॥
अत एवायमात्मा आन्तरं स्वचित्तमेव यथा विदितं पूर्वपूर्ववेदनानुसारेण
बहिष्ठेन बहिर्मुखेन चक्षुरादिना बाह्यं जगदाकारमनुपश्यति ।
अन्तःस्थेन जाग्रद्वासनादिना आन्तरे हृदि स्थितं
स्वप्नराज्याद्यनुपश्यतीत्यर्थः ॥ ४० ॥
सबाह्याभ्यन्तरं शान्तमात्मनो भेदितं जगत् ।
अहन्त्वादिस्थिते भेदे भूरिभङ्गभयं तु तत् ॥ ४१ ॥
न बहिष्ठं न चान्तःस्थमिति यदुक्तं तद्युक्त्यानुभावयति - सबाह्येति ।
सबाह्याभ्यन्तरं द्विविधमपि जगदुभयानुस्यूतसदात्मनः
सकाशाद्भेदितं पृथक्कृतं सदसदेवेति शान्तं मृतमेवेत्यर्थः ।
तत्पृथक्करणाभावे तु तत्सत्तयैव बाह्याभ्यन्तरभेदे स्थिते सति
तदहम्ममताध्यासात्तत्तद्भङ्गे भूरिभङ्गभयं भवेदित्यर्थः ॥ ४१ ॥
द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
कल्पादिरेव ज्वलितं सर्वमाधिहतात्मनः ॥ ४२ ॥
भूरिभङ्गभयमुपपादयति - द्यौरिति । तत्तदाधिभिर्हतात्मनो
द्युक्षमादि सर्वं वस्तु तापत्रयज्वालाज्वलितं सत् तथाविधः कल्पादिः
प्रलयारम्भसमय एव सदा सम्पद्यत इत्यर्थः ॥ ४२ ॥
यस्त्वात्मरतिरेवान्तः कुर्वन्कर्मेन्द्रियैः क्रियाः ।
न वशो हर्षशोकाभ्यां स समाहित उच्यते ॥ ४३ ॥
सन्मात्रात्मदर्शने तु कर्मेन्द्रियैर्व्यवहारेऽपि अभिमानाभावान्न
हर्षशोकादिविक्षेपलेशस्यापि प्रसक्तिरिति सदासमाधिस्थतुल्यतैव
फलतीत्याशयेनाह - यस्त्वित्यादिना ॥ ४३ ॥
यः सर्वगतमात्मानं पश्यन्समुपशान्तधीः ।
न शोचति ध्यायति वा स समाहित उच्यते ॥ ४४ ॥
स पूर्वापरपर्यन्तां यः पश्यञ्जागतीं गतिम् ।
दृष्टिष्वेतासु हसति स समाहित उच्यते ॥ ४५ ॥
पूर्वपर्यन्त उत्पत्तिः अपरपर्यन्तो नाशः तत्सहिताम् । एतासु
मूढजनप्रसिद्धास्वहम्ममतादृष्टिषु ॥ ४५ ॥
समे परेऽपि नाहन्ता न जगज्जन्मनो मयि ।
वीचिवृन्देष्विवातप्ता नाकाशे फलधातवः ॥ ४६ ॥
किमर्थं हसतीति चेदहम्ममेति
दृष्टिगोचरयोरभिमानाभिमन्तव्यलक्षणयोरहन्ताजगतोराश्रयस्यैवासिद्द्
ह्या मिथ्यात्वादित्याह - समे इति । ते हि सर्वानुभवसिद्धप्रत्यक्स्वभावे
मयि वा स्यातां श्रुतिसिद्धब्रह्मस्वभावे वा । न तावन्मयि । दृशो
दृश्याश्रयत्वायोगान्नापि परे ब्रह्मणि । असङ्गाद्वयकूटस्थस्वरूपे समे
तस्मिन्नहन्ताजगज्जन्मादिवैषम्याधारत्वायोगात् । यथा
शरदातपसम्भिन्नेषु दूराद्दृश्यमानेषु वीचिवृन्देषु दृश्यमाना
आतप्ता प्रतप्तद्रुतरजतप्राया विस्फुरन्ती पुञ्जीभूता कान्तिर्न
वीचिवृन्देष्वन्तरस्ति समीपोपसर्पणे तेषु निमज्ज्यान्वेषणे चादर्शनात् । नापि
तदन्तर्बहिष्ठे आकाशे असङ्गकूटस्थे चतुर्विधक्रियाफलधात्वदर्शनेन
वीचिक्रियाजन्यफलाश्रयत्वस्य दूरनिरस्तत्वात् । अतः सा कान्तिरिवाहन्ताजगतो अपि
निराश्रयत्वान्मिथ्यैवेत्यर्थः ॥ ४६ ॥
यस्यान्तरस्थिताहन्त्वं न विभागादि नो मनः ।
न चेतनाचेतनत्वे सोऽस्ति नास्तीतरो जनः ॥ ४७ ॥
अहन्ताजगद्भेदं निरस्य तद्द्रष्टृभेदं निरस्यति - यस्येति । यस्य
ज्ञस्य अन्तः आन्तरं प्रत्यगात्मरूपं न स्थितं अहन्त्वं यस्मिंस्तथाविधं
सम्पन्नं दृश्यजगद्विभागादिकं मनश्च नास्ति तस्य तदधीनकल्पने
चेतनाचेतने अपि न स्तः । अतः स एक एव सर्वात्मास्ति तदितरो
जनश्चेतनधातुर्नास्ति । नान्योऽतोऽष्ति द्रष्टा इत्यादिश्रुतेरित्यर्थः ॥ ४७ ॥
व्योमस्वच्छो बहिष्ठेहां सम्यगाचरतीह यः ।
हर्षामर्षविकारेषु काष्ठलोष्टसमः शमः ॥ ४८ ॥
तस्य लक्षणान्याह - व्योमेति द्वाभ्याम् । सम्यक्
शास्त्रशिष्टाचाराविरोधेन । शमः शान्तिस्वभावः ॥ ४८ ॥
आत्मवत्सर्वभूतानि परद्रव्याणि लोष्टवत् ।
स्वभावादेव न भयाद्यः पश्यति स पश्यति ॥ ४९ ॥
अर्थोऽतनुस्तनुर्वापि नासद्रूपेण चेत्यते ।
सद्रूपो नानुभूतोऽज्ञे न ज्ञेनैव न तत्तया ॥ ५० ॥
तत्त्वज्ञस्यैव समदर्शित्वे उपपत्तिमाह - अर्थ इति । अज्ञेन मूढेन
अतनुर्महान् हिरण्यगर्भैश्वर्यान्तस्तनुरल्पः काकिणीमात्रोपि वा
कनककामिन्यादिरर्थो विषयः असद्रूपेण मिथ्यात्वेन न चेत्यते न दृश्यते
तदधिष्ठानसद्रूपश्च नानुभूत इति न तत्तयासन्मात्रस्वभावेनापि चेत्यते ।
ज्ञेन तत्त्वविदैव तथा दृश्यत इति तस्यैवोभयथापि समदर्शित्वमुपपद्यत
इत्यर्थः ॥ ५० ॥
ईदृशाशयसम्पन्नो महासत्त्वपदं गतः ।
तिष्ठतूदेतु वा यातु मृतिमेतु न तत्स्थितिम् ॥ ५१ ॥
यस्याशये समदर्शनं निरूढं स सर्वत्र सर्वास्वप्यवस्थासु न
हर्षविषादादिना लिप्यत इत्याह - ईदृशेत्यादिना । तिष्ठत्वकिञ्चनः । उदेतु
ऐश्वर्याद्यभ्युदयं प्राप्नोतु वा । मृतिं पुत्रबान्धवादिमरणम् ।
तत्स्थितिं अभ्युदयस्थितिं नैतु ॥ ५१ ॥
वसतूत्तमभोगाढ्ये स्वगृहे वा जनाकुले ।
सर्वभोगोज्झिताभोगे सुमहत्यथवा वने ॥ ५२ ॥
उद्दाममन्मथं पानतत्परो वापि नृत्यतु ।
सर्वसङ्गपरित्यागी सममायातु वा गिरौ ॥ ५३ ॥
उद्दाममन्मथमिति क्रियाविशेषणम् । समं निर्विकारम् ॥ ५३ ॥
चन्दनागुरुकर्पूरैर्वपुर्वा परिलिम्पतु ।
ज्वालाजटिलविस्तारे निपतत्वथवाऽनले ॥ ५४ ॥
पापं करोतु सुमहद्वहुलं पुण्यमेव च ।
अद्य वा मृतिमायातु कल्पान्तनिचयेन वा ॥ ५५ ॥
नासौ किञ्चिन्न तत्किञ्चित्कृतं तेन महात्मना ।
नासौ कलङ्कमाप्नोति हेम पङ्कगतं यथा ॥ ५६ ॥
असौ समदर्शी । किञ्चिन्मरणदुःखादिविकारिदेहमन-आदिरहन्ताश्रयः ।
अत-एव तेन न किञ्चित्कृतम् ॥ ५६ ॥
संवित्पुरुषशब्दार्थैः स कलङ्कैः कलङ्क्यते ।
अहन्त्वंवासनारूपैः शुक्तिकारजतोपमैः ॥ ५७ ॥
अज्ञेषु तर्हि कस्य कलङ्कस्तं दर्शयति - संविदिति । सकलङ्कैः
शास्त्रानभ्यनुज्ञातसेवनदूषितैर्वासनारूपैरैन्द्रियकसंविद्भिस्तदायतनेन्
अ पुरुषेण देहेन तद्भोग्यैः शब्दार्थरूपैर्विषयैश्च
अहन्त्वमहङ्कारप्रधानलिङ्गात्मा ॥ ५७ ॥
समस्तवस्तुप्रशमात्सम्यग्ज्ञानाद्यथास्थितेः ।
स्वभावस्योपशान्तोन्तःकलङ्कोऽसत्तया स्वतः ॥ ५८ ॥
कस्मादुपायादन्तःकलङ्कोपशमस्तमाह - समस्तेति । स्वभावस्य चित्तस्य
कलङ्को बाधादसत्तया स्वतः प्रशान्तो भवतीति शेषः ॥ ५८ ॥
अहन्त्ववासनानर्थप्रसूतेः संविदात्मनः ।
पुरुषस्य विचित्राणि सुखदुःखानि जन्मनि ॥ ५९ ॥
संसारदुःखप्राप्तेस्तर्हि किं कारणं तदाह - अहन्त्वेति ।
अहन्त्वाध्यासाद्वासनालक्षणानामनर्थानां प्रसूतेरुद्बोधात्पुरुषस्य
जन्मनि सन्तीत्यर्थः ॥ ५९ ॥
रज्ज्वां सर्पभ्रमे शान्तेऽहिर्नेति निर्वृतिर्यथा ।
अहन्त्वभावसंशान्तौ तथान्तः समता मता ॥ ६० ॥
अत-एवाहन्त्वशान्त्या संसारदुःखनिवृत्तिरित्याह - रज्ज्वामिति । समता
सर्वदुःखवैषम्यशून्यता ॥ ६० ॥
यत्करोति यदश्नाति यद्ददाति जुहोति वा ।
न तज्ज्ञस्य न तत्र ज्ञो मा करोतु करोतु वा ॥ ६१ ॥
दुष्कृतफलमिव सुकृतफलमपि ज्ञस्य नास्तीति तस्य सर्वकर्तव्यहानिरित्याह
- यदित्यादिना ॥ ६१ ॥
कर्मणास्ति न तस्यार्थो नार्थस्तस्यास्त्यकर्मणा ।
यथास्वभावावगमात्स आत्मन्येव संस्थितः ॥ ६२ ॥
अकर्मणा कर्मत्यागेन ॥ ६२ ॥
इच्छास्ततः समुद्यन्ति न मञ्जर्य इवोपलात् ।
याश्चोद्यन्ति च ताः सर्वाः स एवाप्स्विव वीचयः ॥ ६३ ॥
फलेच्छया हि तदुपाये कर्मणि प्रवृत्तिः स्यात्सैव तस्य पूर्णत्वान्नोदेतीत्याह
- इच्छा इति । कदाचिद्वासनाभ्यासादुदिता अपीच्छाः परमार्थदृशा तस्य
स्वात्मभूता एवेत्याह - याश्चेति ॥ ६३ ॥
सकलमिदमसावसौ च सर्वं
जगदखिलं न विभागितात्र काचित् ।
परमपुरुषपावनैकरूपी
स सदिति तत्सदकिञ्चिदेव नासौ ॥ ६४ ॥
तस्य सर्वात्मतां सर्वस्य तदात्मतां च
द्रढयन्नुभयोर्निष्प्रपञ्चचिन्मात्रतैव परमार्थतः फलितेति दर्शयति ##-
काचिन्नास्ति । एवं भेदकानां कार्यकारणोपाधीनां तत्तत्साक्षीचिन्मात्रत्वे स
तत्त्ववित् सर्वजगदधिष्ठानसन्मात्रमेव । यतोऽसौ परमः पूर्णत्वात्पुरुषः
सर्वदोषास्पर्शाच्च पवनो यः परमात्मा तदेकरूपीति अनया रीत्या
अकिञ्चित्सर्वद्वैतबन्धनिर्मुक्तसत्स्वरूपमात्रपरिशिष्टोऽसौ नित्यमुक्तः
सम्पन्न इत्यर्थः ॥ ६४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे ध्यानविचारो नाम षट्पञ्चाशः सर्गः ॥
५६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे ध्यानविचारो
नाम षट्पञ्चाशः सर्गः ॥ ५६ ॥