५५

पञ्चपञ्चाशः सर्गः ५५

श्रीराम उवाच ।

आत्मज्ञानदिनैकार्क मत्संशयतृणानल ।
अज्ञानदाहशीतांशो सत्तासामान्यमीश किम् ॥ १ ॥

सत्तासामान्यलक्ष्मास्य युक्त्या देहोज्ज्ञा(?)नक्रमः ।
त्यक्तदेहेन खिङ्खिन्या भूषाकॢप्तिश्च वर्ण्यते ॥ १ ॥

गुरुं स्तुतिभिः प्रसाद्य रामश्चरमपर्यायोक्तसत्तासामान्यं
लक्षणैर्जिज्ञासमानः पृच्छति - आत्मज्ञानेति ।
अज्ञानप्रयुक्ततापत्रयलक्षणस्य दाहस्य सन्तापस्य शीतांशोः ।
अज्ञानान्धकारोच्छेदे तत्प्रयुक्तसंशयविपर्ययाद्युच्छेदे
तत्प्रयुक्तसर्वदुःखोच्छेदे च त्वमेव समर्थ इति विशेषणत्रयतात्पर्यार्थः ।
ईशेत्युक्तिर्गुरावीश्वरदृष्टिरेव सदा कार्या न साधारणबुद्धिरिति द्योतनाय ॥
१ ॥

श्रीवसिष्ठ उवाच ।

यदा सङ्क्षीयते चित्तमभावात्यन्तभावनात् ।
चित्सामान्यस्वरूपस्य सत्तासामान्यता तदा ॥ २ ॥

षष्ठभूमिकायां चिदवान्तरभेदान्परिमृज्य चित्सामान्यस्वरूपभूतस्य
चेत्याभावस्यात्यन्तभावनाच्चेत्यसंस्काराणामात्यन्तिकोच्छेदे सति यदा
चित्तं सङ्क्षीयते तदा स्वमात्रसत्तया स्वतः सिद्ध्यन्ती परिशिष्टा
चिदचिदुभयानुगतसत्तैव सत्तासामान्यमित्यर्थः ॥ २ ॥

नूनं चेत्यांशरहिता चिद्यदात्मनि लीयते ।
असद्रूपवदत्यच्छा सत्तासामान्यता तदा ॥ ३ ॥

सर्ववृत्तिप्रतिबिम्बिता चित् सर्वदृश्यबाधे चेत्यांशैर्वृत्तितद्विषयै रहिता
सती यदा स्वात्मनि बिम्बचैतन्ये लीयते तदा तस्य बिम्बस्य असद्रूपं
यस्मिंस्तदसद्रूपमाकाशस्तद्वदत्यच्छा सत्तासामान्यता बोध्येत्यर्थः ॥ ३ ॥

यदा सर्वमिदं किञ्चित्सबाह्याभ्यन्तरात्मकम् ।
अपलप्य वसेच्चेतः सत्तासामान्यता तदा ॥ ४ ॥

चेतश्चित्तवृत्त्यभिव्यक्ताखण्डचैतन्यम् ॥ ४ ॥

यदा सर्वाणि दृश्यानि सत्तासामान्यवेदनम् ।
स्वरूपेण स्वरूपाभं सत्तासामान्यता तदा ॥ ५ ॥

यदा सर्वाणि भूतानि स्वपारमार्थिकरूपेण स्वरूपमेव आभा स्वप्रथा यस्य
नान्या तथाविधं सत्तासामान्यात्मकं वेदनं चिन्मात्रं भवतीति शेषः ॥ ५

कूर्मोऽङ्गानीव दृश्यानि लीयन्ते स्वात्मनात्मनि ।
अभावितान्येव यदा सत्तासामान्यता तदा ॥ ६ ॥

अभावितानि भावनयत्नं विनैव सहजदृशेत्यर्थः ॥ ६ ॥

दृष्टिरेषा हि परमा सदेहादेहयोः सदा ।
मुक्तयोः सम्भवत्येव तुर्यातीतपदोपमा ॥ ७ ॥

एषा सप्तमभूमिकारूढदृष्टिर्यतस्तुर्यातीतपदोपमा अतः
सदेहादेहमुक्तयोः समानस्वरूपस्थितौ विशेषोऽस्तीत्यर्थः ॥ ७ ॥

व्युत्थितस्य भवत्येषा समाधिस्थस्य चानघ ।
ज्ञस्य केवलमज्ञस्य न भवत्येष बोधजा ॥ ८ ॥

सेयं दृष्टिः पञ्चमादिभूमिकास्वपि समाधिस्थस्य भवति
सप्तमभूमिकारूढस्य तु व्युत्थितस्यापि । केवलमज्ञस्य न भवत्येवेत्यर्थः
॥ ८ ॥

अस्यां दृशि स्थिताः सर्वे जीवन्मुक्ता महाशयाः ।
सिद्धा रसा इव भुवि व्योमवीथ्यामिवानिलाः ॥ ९ ॥

सर्वेऽपि जीवन्मुक्ता अस्यां दृशि स्थिताः सन्तो भुवि सिद्धा रसाः पारदादय इव
व्योमवीथ्यामनिला इव च
ऐहिकामुष्मिकभोगतृष्णारजोभिरस्पृष्टास्तिष्ठन्तीत्यर्थः ॥ ९ ॥

अस्मत्प्रभृतयः सर्वे नारदाद्याश्च राघव ।
ब्रह्मविष्ण्वीश्वराद्याश्च दृष्टावस्यां व्यवस्थिताः ॥ १० ॥

तानेवोदाहरति - अस्मत्प्रभृतय इति । अस्मत्प्रभृतयो भुवि नारदाद्या
व्योमवीथ्यां ब्रह्माद्यास्तदूर्ध्वलोकेष्वित्यर्थः ॥ १० ॥

एतामालम्ब्य पदवीं समस्तभयनाशिनीम् ।
उद्दालकोऽसाववसद्यावदिच्छं जगद्गृहे ॥ ११ ॥

यावदिच्छमाप्रारब्धक्षयम् ॥ ११ ॥

अथ कालेन बहुना बुद्धिस्तस्य बभूव ह ।
विदेहमुक्तस्तिष्ठामि देहं त्यक्त्वेति निश्चलाः ॥ १२ ॥

निश्चला दृढा ॥ १२ ॥

एवं चिन्तितवानद्रेर्गुहायां पल्लवासने ।
बद्धपद्मासनस्तस्थावर्धोन्मीलितलोचनः ॥ १३ ॥

चिन्तितवान् चिन्तितार्थदृढनिश्चयवान्सन् ॥ १३ ॥

संयम्य गुदसंरोधाद्द्वाराणि नव चेतसः ।
मात्रास्पर्शान्विचिन्वानो भावितस्वाङ्गचिद्धनः ॥ १४ ॥

मात्रास्पर्शान्शब्दस्पर्शादिगोचरवृत्तिर्विचिन्वानो बदराणीवैकैकश
उपसंहृत्य हृदि निवेशयन् हृदि निविष्ठानां च तेषां परमार्थरूपो
भावितः स्वाङ्गमिव स्वात्मनैकीकृतश्चिद्रूपो घनः
सैन्धवधनवदेकरसो येन ॥ १४ ॥

संरुद्धप्राणपवनः समसंस्थानकन्धरः ।
तालुमूलतलालग्नजिह्वामूलो लसन्मुखः ॥ १५ ॥

समसंस्थाना कन्धरा कण्ठो यस्य । तालुमूलतले आलग्नेन कण्ठच्छिद्रे
कवाटवन्निवेशितेन जिह्वामूलेनोन्नतमिव लसन्मुखं यस्य ॥ १५ ॥

न बहिर्नान्तरे नाधो नोर्ध्वे नार्थे न शून्यके ।
संयोजितमनोदृष्टिर्दन्तैर्दन्तानसंस्पृशन् ॥ १६ ॥

अर्थे रूपादिविषये । न संयोजिते मनोदृष्टी येन ॥ १६ ॥

प्राणप्रवाहसंरोधसमः स्वच्छाननच्छविः ।
अङ्ग चित्संविदुत्तानरोमकण्टकिताङ्गभूः ॥ १७ ॥

प्राणादिप्रवाहाणां संरोधेन
समस्तक्रियाकृतदेहमनःकरणचाञ्चल्यशून्यः स्वच्छाननच्छविः
प्रसन्नवदनः । अङ्गेति सम्बोधने । चित्संविदा चिद्रूपाब्रह्मानन्दानुभवेन
उत्तानैरूर्ध्वर्जुभी रोमभिः कण्टकिता सञ्जातकण्टका अङ्गभूर्यस्य ॥ १७ ॥

अङ्गचित्संविदाभ्यासाच्चित्सामान्यमुपाददे ।
तदभ्यासादवापान्तरानन्दस्पन्दमुत्तमम् ॥ १८ ॥

तस्यानन्दाविर्भावे पूर्वोक्तमेव क्रममाह - अङ्गेति ।
अङ्गेष्वन्तःकरणैकदेशभूतवृत्तिभेदेषु प्रतिबिम्बिता चित् अवच्छिन्ना
संविदा च स्वोपाधिभूतवृत्तिभेदानां
विलयाभ्यासाद्बिम्बभूतचित्सामान्यमुपाददे प्रविवेश ।
बिम्बभूतचिन्मात्रानुसन्धानाभ्यासाच्च अन्तर्हृदि उत्तमं
सर्वोत्कृष्टमानन्दस्पन्दं अवाप अन्वभूदित्यर्थः ॥ १८ ॥

तदास्वादनतो लीनचित्सामान्यदशाक्रमम् ।
विश्वम्भरमनन्तात्म सत्तासामान्यमाययौ ॥ १९ ॥

तस्य पूर्ववत् सत्तासामान्यानुप्रवेशमाह - तदास्वादनत इति । यावन्न
निरतिशयानन्दास्वादनं तावदेव चित्तं निरोधक्लेशासहिष्णुतया बहिः
प्रवर्तते । आस्वादिते त्वानन्दे तत्रैव गुडपिपीलिकान्यायेनासक्तं स्वरूपमपि
विस्मृत्य स्वानुगतं चित्सामान्यं निरतिशयस्वप्रकाशसत्तासामान्यभावं
नयति स एव चित्सामान्यदशाक्रमस्य लयस्तस्य सत्तासामान्यप्राप्तिश्चेति
भावः ॥ १९ ॥

तस्थौ समसमाभोगः परां विश्रान्तिमागतः ।
अनानन्दसमानन्दमुग्धमुग्धमुखद्युतिः ॥ २० ॥

तत्रैव तस्यापुनरावर्तिनीं स्थितिमाह - तस्थाविति । समेभ्योऽपि सम
आत्यन्तिकविक्षेपवैषम्यशून्य आभोगः स्वरूपं यस्य । न विद्यन्ते आनन्दाः
समा यस्य तथाविधानन्देन प्रसन्नतमत्वान्मुग्धेभ्यः सुन्दरेभ्योऽपि
मुग्धा मुखद्युतिर्यस्य तथाविधः सन् ॥ २० ॥

संशान्तानन्दपुलकः पदं प्राप्यामलं गतः ।
चिरकालपरिक्षीणमननादिभवभ्रमः ॥ २१ ॥

आनन्दाविर्भावलिङ्गरोमाञ्चादीनामपि क्रमादुपरममाह - संशान्तेति
। जीवन्नेव पदं प्राप्य प्रारब्धभोगहेतुमलशेषक्षयादमलं गतः सन् ॥
२१ ॥

बभूव स महासत्त्वो लिपिकर्मार्पितोपमः ।
समः कलावपूर्णेन शरदच्छाम्बरेन्दुना ॥ २२ ॥

कलाभिरवपूर्णेन ॥ २२ ॥

उपशशाम शनैर्दिवसैरसौ
कतिपयैः स्वपदे विमलात्मनि ।
तरुरसः शरदन्त इवामले
रविकरौजसि जन्मदशातिगः ॥ २३ ॥

न तस्य प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते इति श्रुत्युक्तरीत्या तत्रैव
तत्प्राणानां तप्तोदकौष्ण्यवत्क्रमादुपशममभिप्रेत्याह -
उपशशामेति । शरदन्ते हेमन्ते तरूणां रसो रविकरौजसीव विमले स्वपदे
उपशशाम ॥ २३ ॥

गतसकलविकल्पो निर्विकारोऽभिरामः
सकलमलविलासोपाधिनिर्मुक्तमूर्तिः ।
विगलितसुखमाद्यं तत्सुखं प्राप यस्मिम्-
स्तृणमिव जलराशावूह्यते शक्रलक्ष्मीः ॥ २४ ॥

प्राणाद्युपशमे परिशिष्टं तत्स्वरूपं वर्णयति - गतेत्यादिना ।
अग्निविस्फुलिङ्गवत्प्रागुपाधिभिर्विगलितानि निःसृतानि
हैरण्यगर्भान्तविषयसुखानि यस्मात्तथाविधं आद्यं तद्वाचामगोचरं
सुखं स प्राप । यस्मिन्सुखे शक्रलक्ष्मीरप्यब्धौ तृणमिव ऊह्यते
[आद्ये स उह्यत इति च्छेदः] प्रवाह्यते तर्क्यते वा तद्दर्शिभिरित्यर्थः ॥
२४ ॥

अपरिमितनभोन्तर्व्यापिदिग्व्यापि पूर्णं
भुवनभरणशीलं भूरिभव्योपसेव्यम् ।
कथनगुणमतीतं सत्यमानन्दमाद्यं
परमसुखमनन्तं ब्राह्मणोऽसौ बभूव ॥ २५ ॥

असौ ब्राह्मण उद्दालकः प्रतिब्रह्माण्डं भेदादपरिमितान्यनन्तानि
नभांसि अन्तः स्वोदरे व्याप्नुवन्ति या दिशस्ता अपि व्याप्तुं शीलमस्य । अनेन
देशकृतपरिच्छेदनिरासः । सर्वदा सर्ववस्तुषु पूर्णम् ।
सर्ववस्त्वाधारभुवनानां भरणं धारणं पोषणं च शीलं यस्य ।
अनेन सर्वाधिष्ठानतोक्त्या वस्तुकृतभेदनिरासः ।
भूरिभिर्भव्यैर्भाग्यैरुत्तमजनैश्चोपसेव्यम् । कथनगुणं
वाक्प्रवृत्तिनिमित्तधर्मान् अतीतं अनन्तमाद्यं कालकृतपरिच्छेदहीनमत
एव सत्यादिलक्षणम् । आनन्दयति सुखैकरसीकरोत्यखिलमित्यानन्दं
भूमाख्यं परमसुखं बभूवेत्यर्थः ॥ २५ ॥

गतवति पदमाद्यं चेतसि स्वच्छभावं
द्विजतनुरथ मासैः सोपविष्टैव षड्भिः ।
रविकरपरितप्ता वातभाङ्काररम्या
तनुतरुभुजतन्त्री शैलवीणा बभूव ॥ २६ ॥

अथ तच्चेतसि जीवे स्वच्छभावं निर्मलस्वरूपमाद्यं पदं गतवति सति तस्य
द्विजस्य तनुः शरीरं तत्रोपविष्टैव सती षड्भिर्मासै रविकरैः परितप्ता
शुष्का सती प्रवहद्वातघट्टनजैर्भाकारैः क्वणितै रम्या तनुतरूणां
बालवृक्षलक्षणानां भुजानां वादनयोग्याभिः शिरातन्त्रीभिः शैलस्य
पर्वतस्य वीणेव विलासहेतुर्बभूवेत्युत्प्रेक्षा ॥ २६ ॥

अथ बहुतरकालेनैतदद्रेर्भुवं ता-
मुपययुरगकन्यासंयुता मातरः खात् ।
अभिमतफलसिद्ध्यै संयुता एव सर्वा
अनलमिव शिखानां पङ्क्तयः पिङ्गकेश्यः ॥ २७ ॥

अथ बहुतरकालेन । षण्मासेनेति यावत् । एतत् वृत्तम् । किम् ।
खान्नभस्तलादगकन्यासंयुताः परस्परसहचारितानियमात्सर्वाः संयुताः
सदा मिलिता एव स्थिता ब्राह्म्याद्या मातरः
कस्यचिद्भक्तस्याभिमतफलसिद्ध्यै शिखानां ज्वालानां पङ्क्तयः
अनलमिव तामद्रेर्भुवमुपययुः ॥ २७ ॥

दिनकरकरशुष्कं विप्रकङ्कालकं त-
ज्झटिति मुकुटकोटौ खड्गखट्वाङ्गमध्ये ।
सकलविबुधवन्द्या खिङ्खिनी देवदेवी
निशि नवतरवृत्ता कान्तकान्तिं चकार ॥ २८ ॥

तासां मातॄणां मध्ये निशि रात्रौ नवनवभूषावैचित्र्यान्नवतराणि
लास्यादिवृत्तानि यस्यास्तथाविधा । सकलैर्ब्रह्मादिभिर्विबुधैर्वन्द्या ।
देवानामपि देवी पूज्या । खिङ्खिनी चामुण्डा । दिनकरस्य करैः शुष्कं
तद्विप्रस्योद्दालकस्य कङ्कालकं शवं झटिति उद्यतयोः
खड्गखट्वाङ्गयोर्मध्ये अन्तरालस्थायां स्वमुकुटस्य किरीटस्य कोटौ
कान्तकान्तिं भूषणं भूषणं चकारेत्यर्थः ॥ २८ ॥

इत्युद्दालकदेहकं सुविलसन्मायूरबर्हव्रज-
व्यालोलाब्दलवे नवैर्विवलिते मन्दारमालागणैः ।
शेते खिङ्खिनिका महाभगवती लीलाललामे लता-
जाले भृङ्ग इवान्तपुष्पपटले पश्चादुपागच्छति ॥ २९ ॥

यस्य मूढदृष्टिकल्पितो मलमांसादिमयः स्थूलदेहोऽपि त्रिजगद्वन्द्याया
देव्याः शिरोभूषणतया सर्वोत्कर्ष प्राप्तस्तेन सर्वोत्कृष्टं पदं
प्राप्तमिति किं वाच्यमिति ज्ञानमाहात्म्योत्कर्ष दर्शयन्नाह - इतीति । इति
उक्तरीत्या उद्दालकस्य कुत्सितो देहो देहकं सुष्ठु विलसति विराजमाने
मायूरबर्हाणां व्रजः समूहस्तल्लक्षणा व्यालोलाः कम्पमाना अब्दलवा
मेघखण्डा यस्मिन् । नवैः प्रत्यग्रैर्मन्दारमालागणैर्विवलिते वेष्टिते
खिङ्खिनिकाख्याया महत्या भगवत्या लीलार्थे ललामे शिरोभूषणमाल्ये
अन्तेषु अग्रभागेषु पुष्पपटलानि यस्य तथाविधे वेणीच्छलात्पश्चात्पृष्ठत
उपागच्छति लताजाले भृङ्ग इव शेते सुखविश्रान्तिं भजते इत्युत्प्रेक्षा ॥ २९ ॥

एषोद्दालकचित्तवृत्तिकलनावल्ली विवेकस्फुर-
त्स्वानन्दप्रविकासभासिकुसुमा हृत्कानने विस्तृता ॥
रूढा यस्य कदाचिदेव विहरन्नप्येव सच्छायया
नासावेति वियोगमेति सफलेनोच्चैस्तरां सङ्गमम् ॥ ३० ॥

उक्तमुद्दालकाख्यानमुपसंहरंस्तत्परिशीलनपराणां
संसारतापोपशमं परमपुरुषार्थफललाभं च दर्शयति - एषेति ।
सर्वदृश्यविवेके स्फुरन्यः स्वानन्दः स एव प्रविकासैर्भासीनि कुसुमानि
यस्यास्तथाविधा एषा दर्शितप्रकारा
उद्दालकचित्तवृत्तेर्विदेहकैवल्यप्राप्त्यन्तसकलचरित्रस्य [उद्दालके
चित्तवृत्तेः इति पाठः] कलना आदरनैरन्तर्याभ्यां शिक्षा तल्लक्षणा
कल्पवल्ली यस्य हृत्कानने रूढा प्रादुर्भूता सती
उत्तरोत्तरभूमिकाधिरोहणक्रमेण विस्तृता असौ पुरुषस्तापत्रयार्कसङ्कुले
व्यवहारकान्तारे विहरन्सञ्चरन्नपि सत्यशान्तिदान्त्यादिगुणसुरभिशीतलया
सहजसन्तोषलक्षणया छायया । अप्यर्थे एवकारः । कदाचिदपि वियोगं नैति न
प्राप्नोत्येव । किञ्च स उच्चैस्तरां सर्वोत्कृष्टतमेन मोक्षफलेन सङ्गमं
पुनरावृत्तिरहितं स्वात्मभावेन सम्बन्धमेति प्राप्नोतीत्यवश्यं सा वल्ली
हृदि संरोप्य विस्तारणीयेत्यर्थः ॥ ३० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मो०
उपशमप्रकरणे उद्दालकनिर्वाणं नाम पञ्चपञ्चाशः सर्गः ॥ ५५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
उद्दालकनिर्वाणं नाम पञ्चपञ्चाशः सर्गः ॥ ५५ ॥