५४

चतुःपञ्चाशः सर्गः ५४

श्रीवसिष्ठ उवाच ।

इति निर्णीय ततया धिया धवलया मुनिः ।
बद्धपद्मासनस्तस्थावर्धोन्मीलितलोचनः ॥ १ ॥

दहनाप्लावनाद्यैः स्वां भावयन्वैष्णवीं तनुम् ।
धूत्वा विकल्पान्विश्रान्तः समाधौ स इतीर्यते ॥ १ ॥

धवलया विशुद्धया ततया अक्षुद्रया धिया इति उक्तरीत्या निर्णीय ॥ १ ॥

ओमित्येतत्परं ब्रह्म निर्णीय स मुनिस्तदा ।
ॐकारोच्चारितो येन तेनाप्तं परमं पदम् ॥ २ ॥

स मुनिरुद्दालकः । येन ॐकार उच्चारितस्तेन परमं पदमाप्तं प्राप्तमेव ।
यलोपासिद्धेः सन्धिरार्षः । यत ओमित्येतदक्षरं परस्य
ब्रह्मणोऽभिधानत्वात्प्रतीकत्वाच्च परमेव ब्रह्म इति निर्णीय तार उच्चैः स्वरो
यस्य तथाविधम् । ऊर्ध्वगतो ध्वनिर्यस्य तथाविधं ओङ्कारं अकरोत्
उच्चारितवानिति परेणान्वयः ॥ २ ॥

ॐकारमकरोत्तारस्वरमूर्ध्वगतध्वनिम् ।
सम्यगाहतलाङ्गूलं घण्टाकुण्डमिवारवम् ॥ ३ ॥

सम्यगाहतं लङ्गूलं लम्बमानजिह्वाकारं लोहं यस्मिंस्तथाविधं
घण्टायाः कुण्डं मुखाकाशमारवं नादमिव ॥ ३ ॥

ओमुच्चारयतस्तस्य संवित्तत्त्वे तदुन्मुखे ।
यावद्ॐकारमूर्धस्थे वितते विमलात्मनि ॥ ४ ॥

कियत्कालम्ॐकारमकरोत्तत्राह - ॐमिति । ॐकारं
पुनःपुनरुच्चारयतस्तस्योद्दालकस्य मूलाधारमारभ्य
ब्रह्मरन्ध्रपर्यन्तं प्रसिद्धायामस्य्ॐकारस्य मूर्धस्थे
अर्धमात्रोपरमोर्ध्वमभिव्यक्ते [अर्धे मात्रोपरमो इति पाठः] वितते
अमलात्मनि ब्रह्मणि संविद्ॐकाराकारवृत्त्युपहितं चैतन्यं तत्त्वं
कूटस्थजीवचैतन्यं च यावत्तदुन्मुखे अखण्डब्रह्मचैतन्योन्मुखे
भवतस्तावत्कालम्ॐकारमकरोदिति पूर्वेण सम्बन्धः ॥ ४ ॥

सार्धत्र्यंशात्ममात्रस्य प्रथमेंऽशे स्फुटारवे ।
प्रणवस्य समाक्षुब्धप्राणारणितदेहके ॥ ५ ॥

तत्र निर्विकल्पसमाधिप्रतिष्ठायोग्यतासिद्ध्यर्थं प्रथमं तेनैव प्रणवेन
स्थूलदेहस्य
शोषणादहनदुष्टभस्मांशनिरसनाप्लावनदिव्यदेहान्तरनिर्माणाद्यपि
प्रथमं तद्भावनया वृत्तमित्याह - सार्धत्र्यंशेत्यादिना ।
सार्धत्र्यंशा अर्धमात्रासहिता अकारोकारमकाराख्या आत्ममात्राः
स्वावयवा यस्य तथाविधस्य प्रणवस्य प्रथमेंऽशे उदात्ते अकारभागे
स्फुटारवे उच्चैःस्वरेणाभिव्यक्ततारभावे अत एव
सम्यगाक्षुब्धैर्बहिर्निर्गमनोद्युक्तैः प्राणैर्मूलाधारमारभ्य
ओष्ठपुटावधि रणितदेहके जाते सति रेचकाख्यः प्राणनिष्क्रमणक्रमोऽखिलं
कायं रिक्तीचकार रेचनेन शोषयामासेति द्वयोरर्थः ॥ ५ ॥

रेचकाख्योऽखिलं कायं प्राणनिष्क्रमणक्रमः ।
रिक्तीचकार पीताम्बुरगस्त्य इव सागरम् ॥ ६ ॥

अतिष्ठत्प्राणपवनश्चिद्रसापूरिताम्बरे ।
त्यक्तदेहः परित्यक्तनीडः खग इवाम्बरे ॥ ७ ॥

तस्य रेचितः प्राणपवनः क्वातिष्ठत्तत्राह - अतिष्ठदिति । चिद्रसेन
ब्रह्मभावनाभिव्यक्तहार्दरसेन आपूरिते अम्बरे बाह्याकाशे ॥ ७ ॥

हृदयाग्निर्ज्वलज्ज्वालो ददाह निखिलं वपुः ।
उत्पातपवनोद्भूतो दावः शुष्कमिव द्रुमम् ॥ ८ ॥

तदानीं भावनया यद्वृत्तं तदाह - हृदयाग्निरिति । प्राणानां
निष्क्रमणसङ्घर्षणाद्धृदये भावनयोद्भूतो वह्निः । दवे अरण्ये भवो
दावोऽग्निः ॥ ८ ॥

यावदित्थमवस्थैषा प्रणवप्रथमक्रमे ।
बभूव न हठादेव हठयोगो हि दुःखदः ॥ ९ ॥

प्रणवस्य पूर्वोक्ते प्रथमक्रमे प्रथमेंशे । इदं च सर्वं भावनया
वृत्तं न हठादेव । तत्कुतस्तत्राह - हठयोग इति । हठात्प्राणानां
निर्गमने मूर्च्छामरणादिप्रसङ्गादिति भावः ॥ ९ ॥

अथेतरांशावसरे प्रणवस्य समस्थितौ ।
निष्कम्पकुम्भको नाम प्राणानामभवत्क्रमः ॥ १० ॥

इतर्ॐश उकारभागस्तस्य अनुदात्तमन्द्रोच्चारणावसरे
कुम्भस्थजलवन्निश्चलपूर्णत्वात्कुम्भको नाम क्रमः ॥ १० ॥

न बहिर्नान्तरे नाधो नोर्ध्वे नाशासु तत्र ते ।
सङ्क्षोभमगमन्प्राणां आपः संस्तम्भिता इव ॥ ११ ॥

उक्तं कुम्भकनाम विशदयति - न बहिरिति ॥ ११ ॥

दग्धदेहपुरो वह्निः शशामाशनिवत्क्षणात् ।
अदृश्यत सितं भस्म शारीरं हिमपाण्डुरम् ॥ १२ ॥

अशनिवद्वैद्युताग्निवत् ॥ १२ ॥

यत्र कर्पूरशय्यायां सुप्तानीव सुखोचितम् ।
शरीरास्थीनि लक्ष्यन्ते निष्पन्दानि सितानि च ॥ १३ ॥

यत्र यस्यामवस्थायां शरीरास्थीनि कर्पूरधूलिरचितायां शय्यायां
सुप्तानीव भावनादृशा लक्ष्यन्ते ॥ १३ ॥

तद्भस्म पवनानीतं सास्थि वायुरयोजयत् ।
स्वदेहे भृशमुत्सन्ने त्रिनेत्रव्रतवानिव ॥ १४ ॥

वात्या पवनैरूर्ध्वमानीतं सास्थि अस्थिसहितं तद्भस्म वायुरूर्ध्वप्रवाही
चण्डपवनस्त्रिनेत्रस्य रुद्रस्य व्रतमस्थिभस्मधारणं तद्वानिव
भृशमुत्सन्ने तपःकृश इव अलक्ष्ये स्वदेहे अयोजयत् । उद्धूलयामासेति
यावत् ॥ १४ ॥

तच्चण्डपवनोद्धूतमावृत्त्य गगनं क्षणात् ।
शरदीवाभ्रमिहिका क्वापि भस्मास्थिमद्ययौ ॥ १५ ॥

तत् अस्थिमद्भस्म क्वापि ययौ ॥ १५ ॥

यावदित्थमवस्थैषा प्रणवस्यापरे क्रमे ।
बभूव न हठादेव हठयोगो हि दुःखदः ॥ १६ ॥

प्रणवस्य मध्यमभागसाध्ये कुम्भकाख्ये क्रमे इत्थमेषाप्यवस्था
भावनयैव बभूव नतु हठात् ॥ १६ ॥

ततस्तृतीयावसरे प्रणवस्योपशान्तिदे ।
पूरणात्पूरको नाम प्राणानामभवत्क्रमः ॥ १७ ॥

तृतीयावसरे तृतीयभागोच्चारणावसरे । यद्यपि रेचकपूरककुम्भकेषु
समग्रस्यैव प्रणवस्य साधनत्वं प्रसिद्धं तथापि रेचके आदिभाग एव
तायते कुम्भके मध्यमभाग एव पूरके चरमभाग एव ।
कण्ठान्निर्गच्छता प्राणेन कण्ठ्यभागस्यैवाभिव्यक्तेः
सङ्कुचद्भ्यामोष्ठाब्यामुकारभागस्यैवाभिव्यक्तेरोष्ठसम्पुटिते
मकारभागाभिव्यक्तौ पुनः प्रविशत्यपि प्राणे तत्संस्कारस्यैवानुवर्तनादिति
तत्तद्भागावसरविभागोक्तिरिति बोध्यम् ॥ १७ ॥

अस्मिन्नवसरे प्राणाश्चेतनामृतमध्यगाः ।
व्योम्नि शीतलतामीयुर्हिमसंस्पर्शसुन्दरीम् ॥ १८ ॥

चेतना जीवचित् तस्यां भावितं यदमृतं तन्मध्यगाः । व्योम्नि बहिराकाशे ॥
१८ ॥

क्रमाद्गगनमध्यस्थाश्चन्द्रमण्डलतां ययुः ।
धूमा गगनकोशस्थाः शीतलाम्बुदतामिव ॥ १९ ॥

गगनकोशस्था धूमा नीहारभागाः शीतलाम्बुदभावमिव ॥ १९ ॥

कलाकलापसम्पूर्णे ते तस्मिंश्चन्द्रमण्डले ।
पुण्यराशाविवापूर्णे रसायनमहार्णवे ॥ २० ॥

अमृतमयानां कलानां कलापैः सङ्घातैः सम्पूर्णे अत एव
रसायनमहार्णवे तस्मिंश्चन्द्रमण्डले पुण्यराशौ
धर्ममेघाख्यसमाधाविवाह्लादेनापूर्णे ते प्राणवायवो रसायनमया
अमृतमयाः किरणधाराः सम्पन्ना इति परेणान्वयः ॥ २० ॥

रसायनमया धाराः सम्पन्नाः प्राणवायवः ।
मणियष्टिसमाकारा जालेष्विन्दोरिवांशवः ॥ २१ ॥

मणियष्ठिः स्फटिकदण्डस्तत्समाकाराः ॥ २१ ॥

सा पपाताम्बराद्धारा शेषे शारीरभस्मनि ।
रसायनी हरशिरःपतितेव सुरापगा ॥ २२ ॥

शेषे पवनावधूतावशिष्टे । रसानामयनी प्रवहणी ॥ २२ ॥

उदभूदिन्दुबिम्बाभं चतुर्बाहुवपुस्तया ।
प्रस्फुरन्मन्दरादब्धेः पारिजात इव द्रुमः ॥ २३ ॥

तया धारया । मथनेन प्रस्फुरन्मन्दरो यस्मिंस्तथाविधादब्धेः पारिजातो
द्रुम इव ॥ २३ ॥

उद्दालकशरीरं तन्नारायणतयोदितम् ।
प्रफुल्लनेत्रवक्त्राब्जमाबभौ दीप्तिसुन्दरम् ॥ २४ ॥

नारायणतया नारायणशरीरतया ॥ २४ ॥

रसायनमयाः प्राणास्तच्छरीरमपूरयन् ।
सलिलौघा इव सरो वृक्षं मधुरसा इव ॥ २५ ॥

मधौ वसन्ते पल्लवोद्गमहेतवो भौमा रसाः वृक्षमिव चेति परमोपमा ॥
२५ ॥

अन्तःकुण्डलिनीं प्राणाः पूरयामासुरादृताः ।
चक्रानुवर्तप्रसृतां पयांसीव सरिद्वराम् ॥ २६ ॥

चक्राकारैरनुवृत्तैरावर्तैः प्रसृतां प्रवहन्तीं सरिद्वरां गङ्गाम् ।
सरित्पतिम् इति पाठे प्रसृतमिति पाठ्यम् ॥ २६ ॥

प्रकृतस्थं बभूवास्य तच्छरीरं द्विजन्मनः ।
प्रावृट्शरीरविगमे धौतं तलमिवावनेः ॥ २७ ॥

दहनप्लावनादिना विष्णुशरीरात्मनोत्पत्तिकथनस्य प्रयोजनमाह -
प्रकृतस्थमिति । यथा अवनेस्तलं शरदि चरमवृष्ट्या धौतं
सद्यःशोषितं च सत् प्रावृट्कालप्रसिद्धस्य पङ्कशैवलादिदूषितस्य
शरीरस्य स्वाकारस्य विगमे प्रसन्नं निर्मलं च सद्व्यवहारिणां
प्रकृतयात्रादिकार्ययोग्यं भवति तथा अस्य तत् शरीरमपि
दहनप्लावनादिभावनाधौतं विकलुषं सत्प्रकृतसमाधिकार्यस्थं
बभूवेत्यर्थः ॥ २७ ॥

अथ पद्मासनगतः कृत्वा देहे स्थितिं दृढम् ।
आलान इव मातङ्गं निबद्ध्येन्द्रियपञ्चकम् ॥ २८ ॥

पद्मासनबन्धेन स्थितिं कृत्वा देहे इन्द्रियपञ्चकं बद्ध्वा ॥ २८ ॥

निर्विकल्पसमाध्यर्थंव्यवसायमुपाददे ।
स्वभावं स्वच्छतां नेतुं शरत्काल इवामलम् ॥ २९ ॥

स्वभावं स्वात्मानं स्वमनो वा ॥ २९ ॥

प्रशान्तवातहरिणमाशादिगणगामिनम् ।
चिन्तया हृदयं निन्ये दूराद्रज्ज्वेव कीलकम् ॥ ३० ॥

स्वभावमेव विशिनष्टि - प्रशान्तेति । प्राणायामाभ्यासात्प्रशान्ताः
प्राणादिवातहरिणा यस्मिन् । आशा तृष्णालोभ उत्कलिका
प्रतीक्षेत्यादिभेदप्रसिद्धेन गणेन बहिर्गमनशीलं स्वभावं
प्रशान्तवातहरिणं कृत्वा स्वच्छतां नेतुं व्यवसायमुपाददे इति
पूर्वेणान्वयः । एवं कुर्वतो यद्वृत्तं तदाह - चिन्तयेति । तस्य हृदयं
मनः पूर्वानुभूतगृहक्षेत्रपुत्रमित्रादिचिन्तया निन्ये । यथा
अदृढनिखातमश्वादिबन्धनकीलकं तदाकृष्टया रज्ज्वा उत्खायापनीयते
तद्वत् ॥ ३० ॥

धावमानमधो मत्तं चित्तं विमलमाकुलम् ।
बलात्संरोधयामास सेतुर्जलमिव द्रुतम् ॥ ३१ ॥

तदा स यच्चकार तदाह - धावमानमिति । धावमानं चित्तं
विवेकबलाद्विमलं कृत्वा संरोधयामासेत्यर्थः । द्रुतं द्रवणोन्मुखं
जलं सेतुरालिरिव । द्रुतं शीघ्रमिति वा ॥ ३१ ॥

निमिमील दृशावर्धं परिपक्ष्मलपक्ष्मके ।
निस्पन्दतारामधुरे सन्ध्याकाल इवाम्बुजे ॥ ३२ ॥

ततः स किं चकार तदाह - निमिमीलेति । परस्पराग्रग्रथनात्परित उभयतः
पक्ष्मलानि पक्ष्मवन्तीव पक्ष्माणि ययोस्तथाविधे । निस्पन्दाभ्यां
ताराभ्यां कनीनिकाभ्यां मधुरे सुन्दरे दृशौ अर्धं निमिमील निमीलितवान्
। अम्बुजपक्षे निस्पन्दौ तारे कनीनिके इव मधु रातः पिबत इति मधुरौ भ्रमरौ
ययोस्ते ॥ ३२ ॥

सौम्यतामनयन्मौनी [क्षोभवैषम्यादिरहितताम्]
प्राणापानजवं मुखे ।
श्वसनं श्रेयसे देशे प्रशस्तः समयो यथा ॥ ३३ ॥

तस्य प्रथमं राजयोगानुकूलं वाक्प्राणापाननिरोधमाह -
सौम्यतामिति । यथा चक्रवर्तिनां जन्मादिनिमित्तभूतः प्रशस्तः समयो
जगच्छ्रेयसे शुभसूचनाय शैत्यमान्द्यादिगुणं श्वसनं वायुं
तज्जन्मदेशे समं स्तिमितं नयति तद्वत् । तथाचोक्तं भगवता -
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ इति ॥ ३३ ॥

तिलेभ्य इव तैलानि पृथक् चक्रे प्रयत्नतः ।
इन्द्रियाणीन्द्रियार्थेभ्यः कूर्मोऽङ्गानीव गोपयन् ॥ ३४ ॥

तस्य प्रत्याहारक्रममाह - तिलेभ्य इत्यादिना ।
इन्द्रियाणीत्येतद्रोपयन्नित्यत्रापि सम्बध्यते ॥ ३४ ॥

बाह्यस्पर्शानशेषेण जहौ दूरे स धीरधीः ।
सहसा कुण्डकच्छन्नो मणिर्दूरत्विषो यथा ॥ ३५ ॥

बाह्येति । कुण्डकेन अल्पपिठरेणाच्छन्नः पिहितो मणिर्दूरप्रसृतास्त्विषो
रश्मीन् ॥ ३५ ॥

विलीनानान्तरांश्चक्रे स्पर्शानुज्झितदर्शनात् ।
रसान्विटपकोशस्थान्मार्गशीर्ष इव द्रुमः ॥ ३६ ॥

आन्तरान्मनोवासनारूपान् स्पर्शान्विषयानधिष्ठानतत्त्वे आकर्षणेन
बाधाद्विलीनांश्चक्रे ॥ ३६ ॥

रुरोध गुदसङ्कोचान्नवद्वारानिलानथ ।
मुखसंस्थगितः कुम्भो रन्ध्रकोशनिवेतरान् ॥ ३७ ॥

पार्ष्णिना मूलाधारावष्टम्भेन गुदसङ्कोचान्नवद्वारानिलान् हृदये
रुरोध । यथा अधोमुखपूर्णकुम्भो मुखे दृढं संस्थगितः
पिहितोऽन्तर्वायुप्रवेशमन्तरेण च्छिद्रान्तरेभ्यो जलक्षरणायोगादितरान्
रन्ध्रकोशान् रुणद्धि तद्वत् ॥ ३७ ॥

स्वात्मरत्नप्रकाशाढ्यां स्पष्टां कुसुमलाञ्छिताम् ।
दधार कन्धरां धीरो मेरुः शृङ्गशिखामिव ॥ ३८ ॥

स्वात्मैव रत्नं तत्प्रकाशेन स्वात्मनो रत्नानां प्रकाशैश्च आढ्याम् ।
रजस्तमोभ्यामनावरणात्स्पष्टाम् । प्रसन्नमुखपद्मकुसुमेन
कल्पद्रुमकुसुमैश्च लाञ्छिताम् । यथा मेरुस्तथाविधां
स्वशृङ्गलक्षणां शिखां धारयति तद्वत् ॥ ३८ ॥

बभार हृदयाकाशे मनः संयममागतम् ।
विन्ध्यखात इवोन्मत्तं गजं युक्तिवशीकृतम् ॥ ३९ ॥

धारणामाह - बभारेति । एकविषये धारणाध्यानसमाधयः
संयमस्तं प्रति आगतमुन्मुखम् । युक्तिभिः प्रत्याहारोपायेर्वशीकृतम् ॥ ३९

शरन्नभोवदासाद्य निर्मलामतिसौम्यताम् ।
जहार परिपूर्णाब्धेर्निर्वातस्याचलां श्रियम् ॥ ४० ॥

धारणया चित्तप्रसादात्परिपूर्णात्मध्यानविश्रान्तिमाह -
शरन्नभोवदिति ॥ ४० ॥

दुधावातिविकल्पौघान्प्रतिभासमुपेयुषः ।
पुरः परिस्फुरद्रूपान्मशकानिव मारुतः ॥ ४१ ॥

ब्रह्माकारकतिपयचित्तवृत्तिधाराविच्छेदिनो मध्ये मध्ये
प्रतिभासमुपेयुषो विपरीतभावनाविकल्पौघान् दुधाव निरस्तवान् ॥ ४१ ॥

आगच्छतो यथाकामं प्रतिभासान्पुनः पुनः ।
अच्छिनन्मनसा शूरः खड्गेनेव रणे रिपून् ॥ ४२ ॥

विकल्पौघे परालूने सोऽपश्यद्धृदयाम्बरे ।
तमच्छन्नविवेकार्कं लोलकज्जलमेचकम् ॥ ४३ ॥

तमस्तमोगुणोद्रेकप्रयुक्तमन्धकारम् ॥ ४३ ॥

तमप्युन्मार्जयामास सम्यक्स्वान्तविवस्वता ।
सम्यग्ज्ञानोदितेनाशु पवनेनेव कज्जलम् ॥ ४४ ॥

सत्त्वगुणोद्भावनप्रदीप्तसम्यग्ज्ञानोदितेन स्वान्तं मनस्तद्रूपेण
विवस्वता सूर्येण ॥ ४४ ॥

तमस्युपरते कान्तं तेजःपुञ्जं ददर्श सः ।
शार्वरे तिमिरे शान्ते प्रातःसन्ध्यामिवाम्बुजम् ॥ ४५ ॥

सत्त्वगुणोद्भावनव्यग्रस्य तदनुरूपस्तेजःपुञ्जभ्रमस्तस्याभूदित्याह ##-

तल्लुलाव स्थलाब्जानां वनं बाल इव द्विपः ।
अपिबच्चाप्यसृक्पूरं वेताल इव वेगतः ॥ ४६ ॥

तत्किं तद्विरोधिरजोगुणाद्युद्भवेन लुलाव नेत्याह - अपिबदिति ।
अधिष्ठानतत्त्वदर्शनेन बाधादग्रसदित्यर्थः । असृक्पूरं रक्तप्रवाहम् ।
तेजसो लोहितवर्णत्वादसृगुपमा ॥ ४६ ॥

तेजस्युपरते तस्य घूर्णमानं मनो मुनेः ।
निशाब्जवदगान्निद्रां लोलं क्षीबवदेव वा ॥ ४७ ॥

रजसा समाधानाच्चालितस्य चित्तस्य विषयालाभेन विलयान्निद्रामज्जनमाह ##-
मदिरामत्तस्तद्वदेव वा ॥ ४७ ॥

मेघमालामिव मरुद्व्यालो नीलाब्जिनीमिव ।
यामिनीमिव तीक्ष्णांशुस्तामप्याशु लुलाव सः ॥ ४८ ॥

व्यालशब्देन भुजङ्गनागपर्यायेण षिङ्गो गजो वा लक्ष्यते । लुलाव
विवेकप्रबोधेनेति भावः ॥ ४८ ॥

निद्राव्यपगमे तस्य भावयामास तन्मनः ।
व्योमश्यामलदृग्जन्तुर्नभसीव शिखण्डकान् ॥ ४९ ॥

व्योम श्यामलं पश्यतीति व्योमश्यामलदृक् । यदा सूर्यातपसम्मुखे
व्योम्नि प्रसारितदृष्टिर्जन्तुः
केशोण्ड्रवटरकाभासमयूरशिखण्डकाकारान् विभावयति तद्वन्मनो
नानावासनापरिकल्पितरूपवद्व्योम भावयामासेत्यर्थः ॥ ४९ ॥

पयोद इव तापिच्छं नीहारमिव मारुतः ।
दीपस्तम इवाच्छात्म तदप्याशु ममार्ज सः ॥ ५० ॥

तापिच्छं तमालपुष्पं तद्धि वृष्ट्या शीर्यते श्यामतां च जहातीति ।
अच्छात्म स्वच्छस्वभावं तद्व्योमापि ममार्ज ॥ ५० ॥

व्योमसंविदि [संविद्विनष्टायां इत्यपि पाठः] नष्टायां
मूढं तस्याभवन्मनः ।
निद्रायां तु विलीनायां मैरेयमदवानिव ॥ ५१ ॥

मूढं कश्मलोपहतम् ॥ ५१ ॥

मोहमप्येष मनसस्तं ममार्ज महाशयः ।
यामिनीजनितं जाड्यं भुवनादिव भास्करः ॥ ५२ ॥

ममार्ज विशोध्यापनिन्ये ॥ ५२ ॥

ततस्तेजस्तमोनिद्रामोहादिपरिवर्जितम् ।
कामप्यवस्थामासाद्य विशश्राम मनः क्षणम् ॥ ५३ ॥

कामपि वाचामगोचरां निर्विकल्पसमाध्यवस्थाम् । विशश्राम विश्रान्तिं
प्राप । क्षणमल्पकालम् ॥ ५३ ॥

विश्रम्याशु पपाताङ्ग संविदं विश्वरूपिणीम् ।
सेतुरुद्धं सरोवारि प्रतीपं स्वमिवास्पदम् ॥ ५४ ॥

विक्षेपसंस्कारप्राबल्यात्तत्र स्थैर्य न प्रापेत्याह - विश्रम्येति । अङ्गेति
सम्बोधनम् । विश्वरूपिणीं बाह्यप्रपञ्चसमाकारां वृत्तिसंविदं
पपात प्रापेति यावत् । प्राग्बाह्याकारादाकृष्य पूर्णात्मनि निरुद्धस्य
परावृत्त्य पुनर्बाह्याकारापत्तावनुरूपं दृष्टान्तमाह - सेत्विति ।
यथा सरोवारि कुल्याद्वारा केदारे प्रवेशितं केदारमापूर्य तत्सेतुरुद्धं
सत्कुल्याद्वारा परावृत्य प्रतीपं प्रतिकूलप्रवाहं सत्पुनः स्वास्पदं सर
एव प्रविशति तद्वदित्यर्थः ॥ ५४ ॥

चिरानुसन्धानवशात्स्वदनाच्च स्वसंविदः ।
ततश्चिन्मयतामागाद्धेम नूपुरतामिव ॥ ५५ ॥

बाह्यसंविदः परावृत्य पुनः स्वसंविदं प्रति नीयमानस्य अन्तराले
सविकल्पकसमाधिप्राप्तिमाह - चिरेति । प्राग्ध्यानादिना
चिरानुसन्धानवशात्समाधावानन्दानुभवेन स्वदनाच्च हेतोस्तत्संस्कारेण
पुनस्तत्राकृष्यमाणं मनस्ततोऽन्तराले चिन्मयतां
चित्प्रचुरसविकल्पसमाधिरूपतामागात् । यथा हेम चरणवलयतानुरूपां
नूपुरतां याति तद्वदित्यर्थः ॥ ५५ ॥

चित्तत्वमथ सन्त्यज्य चित्तं चित्तत्त्वतां गतम् ।
अन्यदेव बभूवाशु पङ्कः कुम्भस्थितो यथा ॥ ५६ ॥

एवं सविकल्पकसमाधिना क्रमेण निरिन्धनाग्निवत् प्रक्षीयमाणं
क्षीरोदकवच्चिदैकरस्यं जगामेत्याह - चित्तत्वमिति । चित्तं स्वीयं चित्तत्वं
सन्त्यज्य चिदेव यत्तत्त्वं तद्भावं गतं सत् पूर्वावस्थातोऽन्यदेव बभूव ।
यथा कुम्भस्थितपङ्किलजलपङ्को जलशोषे कुम्भमालिप्य कुम्भभावमेव
गच्छति तद्वदित्यर्थः ॥ ५६ ॥

चेत्यं सन्त्यज्य चिच्छुद्धा चित्सामान्यमथाययौ ।
त्यक्तवीच्यादिभेदोऽब्धिर्वाःसामान्यमिवैकधीः ॥ ५७ ॥

चित्तस्य चित्तभावापगमे तत्प्रतिबिम्बचितन्यस्य बिम्बचित्सामान्यैक्यं
वृत्तमित्याह - चेत्यमिति । चेत्यं स्वावभास्यं वृत्त्याकारं सन्त्यज्य
प्रतिबिम्बचिच्छुद्धा सती
सर्ववृत्तिसाधारणसाक्षिचित्सामान्यभावमुपाययौ यतः सा एकधीः
एकरसीभूता स्वोपाधिबुद्धिर्यस्यास्तथाविधेत्यर्थः ॥ ५७ ॥

त्यक्तभूतौघमननं ततो विश्वम्भरं महत् ।
चिदाकाशं ततः शुद्धं सोऽभवद्बोधमागतः ॥ ५८ ॥

एवं निर्विकल्पसमाधिप्रतिष्ठितस्योद्दलकस्य तत्परिपाकात्तत्त्वसाक्षात्कारं
तत्फलं ब्रह्म वेद ब्रह्मैव भवति इति श्रुतिदर्शितं ब्रह्मभावं च
दर्शयति - त्यक्तेति । ततस्तदनन्तरं उद्दालकस्ततस्तादृशस्य
समाधेर्बोधं तत्त्वसाक्षात्कारमागतः सन् विश्वम्भरं
सर्वजगदधिष्ठानं त्यक्तभूतौघमननं द्वैतप्रतिभासरहितं
शुद्धं महच्चिदाकाशमभवत् ॥ ५८ ॥

तत्र प्रापदथानन्दं दृश्यदर्शनवर्जितम् ।
अनन्तमुत्तमास्वादं रसायनमिवार्णव ॥ ५९ ॥

तद्भाव एव निरतिशयानन्दावाप्तिरिति दर्शयति - तत्रेति ।
उत्तमैर्ब्रह्मादिभिरास्वाद्यत इत्युत्तमास्वादम् । रसानां
सर्वविषयसुखकणानामयनमाधारभूतमर्णवमिव स्थितम् ॥ ५९ ॥

शरीरात्समवेतोऽसौ कामप्यवनिमागतः ।
सत्तासामान्यरूपात्मा बभूवानन्दसागरः ॥ ६० ॥

तामेव दशां वर्णयति - शरीरादित्यादिना । शरीरात्सम्यगवमत्य इतो
निर्गत इव शोधित इति यावत् ॥ ६० ॥

द्विजचेतनहंसोऽसावानन्दसरसि स्थितः ।
अतिष्ठच्छरदच्छे खे कलापूर्ण इवोडुपः ॥ ६१ ॥

उडुपश्चन्द्रः ॥ ६१ ॥

बभूवावातदीपाभो लिपिकर्मार्पितोपमः ।
वीतवीच्यम्बुधिप्रख्यो वृष्टमूकाम्बुदस्थितिः ॥ ६२ ॥

पूर्व वृष्टः पश्चाच्छरदि मूको निर्गतजलश्च योऽम्बुदस्तत्सदृशस्थितिः ॥
६२ ॥

अथैतस्मिन्महालोके तिष्ठन्नुद्दालकश्चिरम् ।
अपश्यद्व्योमगान्सिद्धानमरानपि भूरिशः ॥ ६३ ॥

तत्पदारूढो ब्रह्मलोकान्तसिद्धिगणान् पादपातेन प्रार्थयतोऽपि कटाक्षेणापि
न पश्यतीत्येतद्दर्शयति - अथेत्यादिना ॥ ६३ ॥

आगतानि विचित्राणि सिद्धिजालानि चाभितः ।
शक्रार्कपददातॄणि नीरन्ध्राण्यप्सरोगणैः ॥ ६४ ॥

तानि नादरयाञ्चक्रे सिद्धिवृन्दानि स द्विजः ।
गम्भीरमतिरक्षुब्धो विलासानिव शैशवान् ॥ ६५ ॥

सिद्धिसार्थमनादृत्य तस्मिन्नानन्दमन्दिरे ।
अतिष्ठदथ षण्मासान्दिक्तटेऽर्क इवोत्तरे ॥ ६६ ॥

आनन्दस्य मन्दिरे । तस्मिंस्तादृशसमाधौ । उत्तरे उतरायणाधारे दिक्तटेऽर्क
इव षण्मासम् ॥ ६६ ॥

जीवन्मुक्तपदं तत्तद्यावत्सम्प्राप्तवान्द्विजः ।
तत्र सिद्धाः सुराः साध्याः स्थिता ब्रह्महरादयः ॥ ६७ ॥

तत्तदुत्तरोत्कृष्टं सप्तमभूमिकाप्रतिष्ठम् । सुरा देवाः सिद्धा
देवयोनिभेदाः साध्या गणदेवताः । सुरेभ्यस्तेषां पृथग्ग्रहणं
गोबलीवर्दन्यायेन ॥ ६७ ॥

आनन्दे परिणामित्वादनानन्दपदं गतः ।
नानन्दे न निरानन्दे ततस्तत्संविदाबभौ ॥ ६८ ॥

तस्मिंश्चानन्दे रसास्वादलक्षणचित्तपरिणामशून्यत्वान्न विद्यते
आनन्दोऽस्येति व्युत्पन्नमनानन्दपदं गतः प्राप्तः । ततस्तस्माद्धेतोस्तस्य
संविदात्मचैतन्यं न विषयिणामिव क्षुद्रानन्दे बभौ नापि निरानन्दे दुःखे
किन्तु स्वप्रकाशैकरसपूर्णमवतस्थे इत्यर्थः ॥ ६८ ॥

क्षणं वर्षसहस्रं वा तत्र लब्ध्वा स्थितिं मनः ।
रतिमेति न भोगौघे दृष्टस्वर्ग इवावनौ ॥ ६९ ॥

तत्प्राप्तौ न पुनः क्षुद्रानन्दस्पृहोद्भव इत्याह - क्षणमिति ।
दृष्टस्वर्गोऽनुभूतस्वर्गविभवः पुरुषः । अवनौ भूलोकसुखे ॥ ६९ ॥

तत्पदं सा गतिः शान्ता तच्छ्रेयः शाश्वतं शिवम् ।
तत्र विश्रान्तिमाप्तस्य भूयो नो भाधते भ्रमः ॥ ७० ॥

तदेव सर्वोत्कृष्टमिति वर्णयति - तदित्यादिना ॥ ७० ॥

तत्पदं साधवः प्राप्य दृश्यदृष्टिमिमां पुनः ।
नायान्ति खदिरोद्यानं लब्धचैत्ररथा इव ॥ ७१ ॥

तां महानन्दपदवीं चित्तादासाद्य देहिनः ।
दृश्यं न बहु मन्यन्ते राजानो दीनतामिव ॥ ७२ ॥

श्रवणमननसमाध्परिष्कृताच्चित्तादासाद्य अपरोक्षतया प्राप्य । वित्तात् इति
पाठे विचारितशास्त्रात् ॥ ७२ ॥

चेतस्तत्पदविश्रान्तं बुद्धं दृश्यदशां प्रति ।
कदर्थाद्बोधमायाति नायात्येवाथवानघ ॥ ७३ ॥

बुद्धं चित्तं दृश्यदशां समाधिव्युत्थानदशां प्रति कदर्थात्
परेषां महतः प्रयत्नाद्बोधमायाति षष्ठभूमिकायाम् । नायात्येव
सप्तमभूमिकायाम् ॥ ७३ ॥

उद्दालकोऽत्र षण्मासान्दूरोत्सारितसिद्धिभूः ।
उषित्वोन्मिषितोम्भोदकोशादर्को मधाविव ॥ ७४ ॥

अम्भोदकोशान्नीहारपटलात् । मधौ चैत्रे ॥ ७४ ॥

ददर्श सम्प्रबुद्धात्मा पुनः परमतेजसः ।
प्रणामलालसाः स्निग्धाश्चन्द्रबिम्बवपुर्धराः ॥ ७५ ॥

प्राग्दृष्टा एव रमणीर्द्युविमानपरम्पराश्च पुनर्ददर्शेति परेणान्वयः ॥
७५ ॥

रमणीर्गौरमन्दाररेणुभ्रमरचामराः ।
स्फुरत्पताकापटला द्युविमानपरम्पराः ॥ ७६ ॥

गौरमन्दाररेणच्छन्ना भ्रमराश्चामराणि च यासाम् । स्फुरन्ति
पताकापटलानि यास्विति च साधारणे विशेषणे ॥ ७६ ॥

अस्मदादीन्मुनीन्दर्भपवित्राङ्ककराम्बुजान् ।
विद्याधरीभिर्वलितान्विद्याधरपतीनपि ॥ ७७ ॥

विद्याधरपतीनपि ददर्शेत्यनुकृष्यते ॥ ७७ ॥

ते तमूचुर्महात्मानमुद्दालकमुनिं तथा ।
प्रसादेन प्रणामान्नो भगवन्नवलोकय ॥ ७८ ॥

ते वैमानिका मुनयश्च तमुद्दलकमूचुर्हे भगवन् नः अस्मान्
प्रणामात्प्रसादेनानुग्रहदृशा अवलोकय ॥ ७८ ॥

आरुह्येदं विमानं त्वमेहि त्रैविष्टपं पुरम् ।
स्वर्ग एव हि सीमान्तो जगत्सम्भोगसम्पदाम् ॥ ७९ ॥

एहि आगच्छ । स्वर्गस्यानुपेक्षायां हेतुमाहः - स्वर्ग एवेति ॥ ७९ ॥

आकल्पमुचितान्भुङ्क्ष्व भोगानभिमतान्विभो ।
स्वर्गादिफलभोगार्थमेवाशेषतपःक्रियाः ॥ ८० ॥

आकल्पं द्विपरार्धावसानान्तकालम् । अनेनैव सर्वेषां
तपःक्लेशादिसार्थक्यमित्याहुः - स्वर्गादीति ॥ ८० ॥

हारचामरधारिण्यो विद्याधरवराङ्गनाः ।
पश्येमास्त्वामुपासीनाः करिण्यः करिणं यथा ॥ ८१ ॥

कामो धर्मार्थयोः सारः कामसाराः सुयोषितः ।
वसन्त इव मञ्जर्यः स्वर्ग एव भवन्ति ताः ॥ ८२ ॥

धर्मार्थयोः फलत्वात्सारः ॥ ८२ ॥

एवं कथयतः सर्वानतिथीनित्यसौ मुनिः ।
परिपूज्य यथान्यायमतिष्ठद्गतसम्भ्रमम् ॥ ८३ ॥

गतसम्भ्रमं मिथ्यात्वादिनिश्चयाद्विगतकुतुहलं यथा स्यात्तथा अतिष्ठत् ॥
८३ ॥

नाभ्यनन्दन्न तत्याज तां विभूतिं स धीरधीः ।
भो सिद्धा व्रजतेत्युक्त्वा स्वव्यापारपरोऽभवत् ॥ ८४ ॥

स्वव्यापारः समाधिस्तत्परोऽभवत् ॥ ८४ ॥

अथ स्वधर्मनिरतं भोगेष्वरतिमागतम् ।
तमुपास्य ययुः सिद्धा दिनैः कतिपयैः स्वयम् ॥ ८५ ॥

उपास्य चिरप्रतीक्षाप्रणामप्रशंसादिनोपचर्यं ॥ ८५ ॥

जीवन्मुक्तः स च मुनिर्विजहार यथासुखम् ।
यावदिच्छं वनान्तेषु मुनीनामाश्रमेषु च ॥ ८६ ॥

मेरुमन्दरकैलासहिमवद्विन्ध्यसानुषु ।
द्वीपोपवनदिक्कुञ्जजङ्गलारण्यभूमिषु ॥ ८७ ॥

ततःप्रभृति सम्प्राप्तपदमुद्दालको द्विजः ।
गुहासु गिरिकुक्षीणामवसद्व्यानलीलया ॥ ८८ ॥

सम्प्राप्तपदं यथा स्यात्तथा अवसत् । ध्यानलीलयेत्यनेन ध्यानमपि तस्य
लीलैव न तेनापि तस्य साध्यमस्तीति सूचितम् ॥ ८८ ॥

कदाचिदह्ना मासेन कदाचिद्वत्सरेण च ।
कदाचिद्वत्सरौघेण ध्यानासक्तो व्यबुध्यत ॥ ८९ ॥

ध्यानासक्तः समाधिमारूढः ॥ ८९ ॥

उद्दालकस्तदारभ्य व्यवहारपरोऽपि सन् ।
सुसमाहित एवासौ चित्तत्त्वैकत्वमागतः ॥ ९० ॥

व्यवहारकालेऽपि सुसमाहित एव नाज्ञवद्विक्षेप वानित्यर्थः ॥ ९० ॥

चित्तत्त्वैकघनाभ्यासान्महाचित्त्वमुपेत्य सः ।
बभूव सर्वत्र समस्तेजः सौरमिवावनौ ॥ ९१ ॥

चित्तत्त्वमन्तःकरणतद्वृत्त्यनुगततत्साक्षिचिन्मात्रं तस्यैव विविच्य
दर्शनधारालक्षणात्समाधिरूढाभ्यासान्महाचित्त्वमपरिच्छिन्न##-
स्नेहद्वेषवर्जनात्कारुण्यादविषमब्रह्मभावदर्शनाच्च समः । अनेन तस्य
क्रमात्पञ्चमभूमेः षष्ठभूमिकाप्राप्तिरुक्ता ॥ ९१ ॥

चित्सामान्यचिराभ्यासात्सत्तासामान्यमेत्य सः ।
दृश्येऽस्मिंश्चित्ररविवन्नास्तमायान्न चोदयम् ॥ ९२ ॥

अथास्य सप्तमभूमिकाविश्रान्तिं दर्शयति - चित्सामान्येति । सर्वथा
दृश्यस्य तत्संस्कारस्य चोच्छेदे
तत्प्रथारूपत्वलक्षणचित्त्वव्यवहारस्याप्युपरमात्स्वप्रकाशनिरति##-
दृश्ये एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति न प्रेत्य सञ्ज्ञास्ति
इत्यादिश्रुतिदर्शितमाविर्भावतिरोभावलक्षणमस्तमयमुदयं च नायात् ।
तद्बीजाविद्याकामकर्मवासनानामत्यन्तोच्छेदादिति भावः ॥ ९२ ॥

शमपरपदलाभप्राप्तिसंशान्तचेता
गलितजननपाशः [नाश इत्यपि पाठः] क्षीणसन्देहदोलः ।
शरदि खमिव शान्तं व्याततं चोर्जितं च
स्फुटममलमचेतस्तद्वपुः सम्बभार ॥ ९३ ॥

एतामेव स्थितिं प्रपञ्चयन्नुपसंहरति - शमेति ।
सर्वविक्षेपोपशमनान्निरतिशयानन्दरूपपरपदलाभप्राप्तेश्च सम्यक्
शान्तं गलितं मनो यस्य । अत एव सर्वकर्मबीजक्षयाद्गलितजननपाशः
क्षीणाः सन्देहदोलावस्थाश्च [सन्देहाः दोला इत्यपि पाठः] यस्य
तथाविधः सन् शरदि खमिव शान्तं प्रशान्ताविद्यामेघडम्बरम् ।
व्याततमपरिच्छिन्नमत एव
निरङ्कुशबृहत्त्वान्निरतिशयसत्तास्फूर्तिसुखोत्कर्षादूर्जितं निरावरणत्वात्
स्फुटं प्राक्तनदशाया अत्यन्तविस्मरणादचेतस्तद्ब्रह्मस्वभावापन्नं
वपुः स्वरूपं सम्बभार न प्रागिवोद्दालकवपुरित्यर्थः ॥ ९३ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे उद्दालकविश्रान्तिर्नाम चतुःपञ्चाशः
सर्गः ॥ ५४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
उद्दालकविश्रान्तिर्नाम चतुःपञ्चाशः सर्गः ॥ ५४ ॥