५३

त्रिपञ्चाशः सर्गः ५३

उद्दालक उवाच ।

अपारपर्यन्तवपुः परमाण्वणुरेव च ।
चिदचेत्या तदाक्रान्तौ न शक्ता वासनादयः ॥ १ ॥

वासनाभिरलेपित्वमहङ्कारेण चात्मनः ।
शरीरमनसोर्वैरमित्याद्यत्रोपपाद्यते ॥ १ ॥

परिच्छिन्नस्तिलादिः कुसुमादिभिर्वास्यते आत्मपितु(?) *?
विद्यते पारं परावधिः पर्यन्ताः पूर्वपश्चिमपार्श्वावधयश्च
यस्यास्तथाविधस्वरूपा । तथा स्थूलाः पृथिव्यप्तेजोवायवः कस्तूर्यादिना
वास्यन्ते चित्तु परमाणोरपञ्चीकृताकाशादव्याकृताकाशाच्चाणुः
सूक्ष्मतमा अतस्तस्या आक्रान्तौ ईषदपि स्पर्शे वासनादयो न शक्ता इत्यर्थः ।
साक्षत्तत्स्पर्शाशक्तावपि तच्चेत्यस्पर्शद्वारा
तत्सम्बन्धप्रसक्तिशङ्कावारणाय विशिनष्टि - अचेत्येति ॥ १ ॥

मनः शेमुष्यहङ्कारप्रतिबिम्बैर्जडेन्द्रियैः ।
वासनावितताः शून्या वेतालत्रासनोद्यताः ॥ २ ॥

ननु त्वदप्रकाशितविषये वासनोदयादर्शनात्त्वयैव विततास्ताः कथं
त्वदस्पर्शिन्यस्तत्राह - मन इति । न मया ताः वितताः किन्तु
जडेन्द्रियैरुपात्तानां विषयाणां शेमुष्यां बुद्धौ अहङ्कारे च
चित्प्रतिबिम्बैर्हेतुभिस्तत्सूक्ष्मावस्थारूपा अत एव शून्या असद्रूपा अपि वेताला
इव त्रासनोद्यता वासनावितता विस्तारिता मनः अनुभवतीति परेणान्वयः ॥ २ ॥

तत्कृतेभ्यो विचारेभ्योऽनुभूतेभ्योऽपि भूरिशः ।
भूयोऽप्यनुभवत्यन्तरहं हि चिदलेपिका ॥ ३ ॥

जागरे भूरिशः कृतेभ्यो विषयविचारेभ्योऽनुभूतेभ्यश्च विषयेभ्यो
भूयोऽपि स्वप्नेऽन्तर्नाडीच्छिद्रान्तर्वासनामयानेव विषयांस्तन्मनः
अनुभवति । नच बुद्ध्यहङ्कारकृतेन मनोनुभूतेन वा मम लेपः । हि
यस्मादलेपिका चेदेवाहं न मन आदिसङ्घातात्मेत्यर्थः । तथाच श्रुतिः ##-

स्वदुर्भावोपरचितां देहः संसारसंस्थितिम् ।
गृह्णात्वथ त्यजतु वाप्यहं हि चिदलेपिका ॥ ४ ॥

एवं स्थूलदेहकृतेनापि न लेप इत्याह - स्वदुर्भावेति । दुर्भावा
दुश्चेष्टास्तैरुपरचिताम् ॥ ४ ॥

चितो न जन्ममरणे सर्वगायाश्चितः किल ।
किं नाम म्रियते जन्तुर्मार्यते केन वापि किम् ॥ ५ ॥

अत एव जन्ममरणे अपि स्वस्य न स्त इत्याह - चित इति । सर्वगत्वाच्चित्त्वाच्चेति
हेतुगर्भे विशेषणे इति द्योतनाय किलेति निपातः । अविनाश्यदिवितीयात्मदर्शने
वध्यघातकबुद्धिर्निर्विषयैव सम्पद्यत
इत्यात्यन्तिकाभयसिद्धिरित्याशयेनाह - किं नामेति ॥ ५ ॥

चितो न जीवितेनार्थः सर्वात्मा सर्वजीवितम् ।
किं प्राप्स्यति कदात्मैषा प्रायता यदि जीवितम् ॥ ६ ॥

यस्य हि जीवितेनार्थास्तस्य मरणाद्भयं स्यान्न त्वसौ चित इत्याह - चित इति ।
यतः सर्वात्मा चिदेव सर्ववस्तूनां जीवितम् । एवमस्याः सर्वदेशकालवस्तुषु
प्रायता विस्तृता स्वरूपचिदेव यदि जीवितं तदा तेन जीवितेन कदा
किमन्यदप्राप्तं प्राप्स्यति यदर्थं तदिच्छेत्यर्थः ॥ ६ ॥

जीव्यते म्रियते चेति कुविकल्पकमालिनी ।
कलना मनसामेव नात्मनो विमलात्मनः ॥ ७ ॥

मरणजीवनयोर्मनःकल्पनामात्रत्वादपि न तद्द्वेषवाञ्छाप्रसक्तिरित्याह

  • जीव्यत इति ॥ ७ ॥

यो ह्यहम्भावतां प्राप्तो भावाभावैः स गृह्यते ।
आत्मनो नास्त्यहम्भावो भावाभावाः कुतोऽस्य ते ॥ ८ ॥

यो हि देहाहम्भावतां प्राप्तः स
देहभावाभावरूपैर्जन्ममरणैर्गृह्यते ॥ ८ ॥

अहम्भावो मुधा मोहो मनश्च मृगतृष्णिका ।
जडः पदार्थसम्भारः कस्याहङ्कारभावना ॥ ९ ॥

देहाहम्भावना किमहङ्कारस्य उत मनस उत पदार्थवर्गस्य । तत्राद्यौ न
प्रमाणवेद्यावित्यसद्रूपौ । पदार्थास्त्वत्यन्तजडा नाभिमानयोग्या इति
निर्विषया निराश्रया च सेत्याह - अहम्भाव इति । अहम्भावोऽहङ्कारः ॥ ९ ॥

रक्तमांसमयो देहो मनो नष्टं विचारणात् ।
जडाश्चित्तादयः सर्वे कुतोऽहम्भावभावना ॥ १० ॥

उक्तमेवार्थं भङ्ग्यन्तरेण विस्तरेणाह - रक्तेत्यादिना ॥ १० ॥

आत्मम्भरितया नित्यमिन्द्रियाणि स्थितान्यलम् ।
पदार्थाश्च पदार्थत्वे कुतोऽहम्भावभावना ॥ ११ ॥

आत्मम्भरितया स्वस्वविषयमात्रव्यापृततालक्षणस्वोदरमात्रपूरकतया
नाहङ्कारपुष्टिलक्षणपरोपकारितयेत्यर्थः । पदार्थत्वे पदार्थस्वरूपे ॥ ११

गुणा गुणार्थे वर्तन्ते प्रकृतौ प्रकृतिः स्थिता ।
सदेव सति विश्रान्तं कुतोऽहम्भावभावना ॥ १२ ॥

गुणाः सत्त्वादयो गुणानामर्थे प्रकाशप्रवृत्तिमोहलक्षणे स्वव्यापारे ।
प्रकृतौ गुणसाम्यावस्थालक्षणे स्वभावे । प्रकृतिः प्रधानाख्या माया ।
सद्ब्रह्म सति स्वात्मभूते सत्स्वभावे एव विश्रान्तम् ॥ १२ ॥

सर्वगं सर्वदेहस्थं सर्वकालमयं महत् ।
केवलं परमात्मानं चिदात्मैवेह संस्थितः ॥ १३ ॥

इहास्मिन्देहे यश्चिदात्मा सोऽपि सर्वगत्वादिविशेषणं परमात्मानमेवाहमिति
सन्धाय स्थितः । सोऽपि नाहङ्कारास्पदमित्यर्थः ॥ १३ ॥

एवं किमाकृतिः को वा किमादेशश्च किङ्कृतः ।
किंरूपः किम्मयः कोहं किं गृह्णामि त्यजामि किम् ॥ १४ ॥

एवं सति अहमित्येतद्देहमात्राभिमानी किमाकृतिः किञ्जातीयः
कीदृशसंस्थानो वा तत्त्वतः को वा किमादेशः क इति निर्देशार्हः केन हेतुना
वा कृतः किंवर्णः कस्य विकारः । तद्भावेन किं वा गृह्णामि अतद्भावेन
किं वा त्यजामि ॥ १४ ॥

तेनाहं नाम नेहास्ति भावाभावोपपत्तिमान् ।
अनहङ्काररूपस्य सम्बन्धः केन मे कथम् ॥ १५ ॥

अतो निर्वक्तुमयोग्यत्वान्मिथ्यैवाहङ्कार इति नात्मनस्तत्सम्बन्ध इत्याह -
तेनेति । भावत्वे अभावत्वे वा उपपत्तिमान् ॥ १५ ॥

असत्यलमहङ्कारे सम्बन्धः कस्य केन कः ।
सम्बन्धाभावसंसिद्धौ विलीना द्वित्वकल्पना ॥ १६ ॥

द्वित्वकल्पना त्वमहमिति द्वैविध्यकल्पना ॥ १६ ॥

एवं ब्रह्मात्मकमिदं यत्किञ्चिज्जगति स्थितम् ।
सदेवास्मि तदेवास्मि परिशोचामि किं मुधा ॥ १७ ॥

एवं सद्वस्तुव्यतिरिक्तेदम्पदार्थपरिमार्गणेऽपि तस्य मिथयत्वमेव
पर्यवस्यतीति सद्ब्रह्माद्वैतसाम्राज्यं प्रतिष्ठितमिति न शोकस्यावकाश
इत्याह - एवमिति ॥ १७ ॥

एकस्मिन्नेव विमले पदे सर्वगते स्थिते ।
अहङ्कारकलङ्कस्य कथं नामोदयः कुतः ॥ १८ ॥

सदद्वैतसिद्धिबलादप्यहङ्कारो निरसितुं शक्य इत्याशयेनाह -
एकस्मिन्निति ॥ १८ ॥

नास्त्येव हि पदार्थश्रीरात्मैवास्तीह सर्वगः ।
पदार्थलक्ष्म्यां सत्यां च सम्बन्धोस्ति न कस्यचित् ॥ १९ ॥

अस्तु वा पदार्थलक्ष्मीस्तथापि सम्बन्धो दुर्वच इति न
तत्साधकप्रमाणादिप्रसरात्तत्सिद्धिरिति प्रौढिं निदर्शयन्नाह -
पदार्थलक्ष्म्यामिति ॥ १९ ॥

इन्द्रियैरिन्द्रियैरङ्गैर्मनो मनसि वल्गति ।
चिदलिप्तवपुः केन सम्बन्धः कस्य किं कथम् ॥ २० ॥

असम्बन्धमेवोपपादयति - इन्द्रियैरिति । अङ्गैः स्वावयवत्वेन
कल्पितैरिन्द्रियैरिन्द्रियैः सर्वेन्द्रियैर्मनो मनस्येव स्वप्नवद्वल्गति न
बाह्यार्थान्स्प्रष्टुं क्षमते । चित्तु इन्द्रियैर्बाह्यार्थैश्च
अलिप्ततनुरसङ्गस्वभावा । एवञ्च कस्य केन सह सम्बन्धः कथं वा केन
वा सिद्ध्यतीत्यर्थः ॥ २० ॥

उपलायःशलाकानां सम्बन्धो न यथा मिथः ।
तथैकत्रापि दृष्टानां देहेन्द्रियमनश्चिताम् ॥ २१ ॥

असम्बन्धे दृष्टान्तमाह - उपलेति ॥ २१ ॥

असदभ्युत्थिते व्यर्थमहङ्कारमहाभ्रमे ।
ममेदमिदमस्येति विपर्यस्तमिदं जगत् ॥ २२ ॥

कुतस्तर्हि लौकिकानां ममेदं धनमित्यादिव्यवहारस्तत्राह - असदिति ।
विपर्यस्तं भ्रान्तम् ॥ २२ ॥

अतत्त्वालोकजातेयमहङ्कारचमत्कृतिः ।
तापेन हिमलेखेव तत्त्वालोके विलीयते ॥ २३ ॥

आत्मनो व्यतिरेकेण न किञ्चिदपि विद्यते ।
सर्वं ब्रह्मेति मे तत्त्वमेतत्तद्भावयाम्यहम् ॥ २४ ॥

इति मे मम प्रतीचस्तत्त्वं यदनुभवसिद्धं वा तत्त्वम् ॥ २४ ॥

अहङ्कारभ्रमस्यास्य जातस्याकाशवर्णवत् ।
अपुनःस्मरणं मन्ये नूनं विस्मरणं वरम् ॥ २५ ॥

इदानीमहङ्कारमार्जनोपायमाह - अहङ्कारेति । प्राग्व्याख्यातम् ॥ २५ ॥

समूलं सम्परित्यज्य चिरायाहङ्कृतिभ्रमम् ।
तिष्ठाम्यात्मनि शान्तात्मा शरत्खं शरदीव खे ॥ २६ ॥

शरत्खं शरदि खे निर्मले स्वस्वभाव इव ॥ २६ ॥

ददात्यनर्थनिचयं विस्तारयति दुष्कृतम् ।
विस्तारयति सन्तापमहम्भावोनुसंहितः ॥ २७ ॥

सति तस्मिन्का क्षतिस्तामाह - ददातीत्यादिना ॥ २७ ॥

स्फुरत्यहङ्कारघने हृद्व्योम्नि सलिलात्मनि ।
विकसत्यभितः कायकदम्बे दोषमञ्जरी ॥ २८ ॥

सलिलात्मनि दुर्वासनासलिलगर्भे ॥ २८ ॥

मरणं जीवितोपान्तं जीवितं मरणान्तगम् ।
भावोऽभावाद्व्यवच्छिन्नः कष्टेयं दुःखवेदना ॥ २९ ॥

मरणं मरणादिपारलौकिकदुःखम् । जीवितं पुनर्जन्म तदुपान्तं
तदवधिकम् । एवं जीवितमैहिकदुःखं मरणान्तगं मरणावधिकम् ।
भावो भोग्यवर्गः अभावान्नाशाद्व्यवच्छिन्नः खण्डितः ॥ २९ ॥

इदं लब्धमिदं प्राप्स्यामीत्यार्तिर्दाहकारिणी ।
न शाम्यत्यर्करत्नानां ग्रीष्मेऽग्निरिव दुर्धियाम् ॥ ३० ॥

अर्करत्नानां सूर्यकान्तमणीनां ग्रीष्मकाले अग्निरिव न शाम्यति
नित्यमुद्भवत्येवेत्यर्थः ॥ ३० ॥

नास्तीदमिदमस्तीति चिन्ता धावत्यहङ्कृतिम् ।
जडाशया जडामभ्रमाला शैलावलीमिव ॥ ३१ ॥

जडाशया जडाश्रया जलाश्रया च । धावत्यनुसरति । शैलावलीपक्षे जडां
गुरुतराम् ॥ ३१ ॥

अहम्भावे परिक्षीणे शुष्कः संसारपादपः ।
भूयः प्रयच्छत्यरसो न पाषाणवदङ्कुरम् ॥ ३२ ॥

न प्रयच्छति न जनयति । यतः अरसः रागलक्षणाङ्गरजननशक्तिशन्यः अत
एव पाषाण तुल्यः ॥ ३२ ॥

स्वतृष्णाकृष्णभोगिन्यो देहद्रुमकृतालयाः ।
क्वापि यान्ति विचारात्मन्यागते विनतासुते ॥ ३३ ॥

विचारात्मनि विचाररूपे । विनतासुते गरुडे ॥ ३३ ॥

असदभ्युत्थिते विश्वे तज्जाते भ्रमसन्मये ।
असन्मयपरिस्पन्दे त्वहं त्वं चेति कः क्रमः ॥ ३४ ॥

असतो मिथ्याभूतादज्ञानादभ्युत्थिते अत एव भ्रमादध्यासादेव सन्मये ।
विश्वस्यासत्त्वेपि तत्प्रयुक्तो व्यवहारः सत्यः स्यादित्यत आह -
असन्मयपरिस्पन्दे इति । भेदव्यवहारमात्रस्यासन्मयत्वे त्वमहमिति क्रमो
भेदव्यवहारोऽपि कः ॥ ३४ ॥

इदं जगदुदेत्यादावकारणमकारणात् ।
यदकारणमुद्भूतं [कारणमुच्छूनमित्यपि पाठः]
तत्सदित्युच्यते कथम् ॥ ३५ ॥

अत एवाकारणं सत्यप्रयोजनशून्यमेव अकारणत्वानर्हादेवाज्ञानादुदेति ।
ततः किं तत्राह - यदिति ॥ ३५ ॥

अपर्यन्तपुराकाले मृदि कुम्भ इवाकृतिः ।
देहोऽभवदिदानीं तु तथैवास्ति भविष्यति ॥ ३६ ॥

एवञ्चोत्पत्तेः पुरो देहादेर्यादृशी स्थितिस्तादृश्येव सर्वदेति सिद्धमित्याह

  • अपर्यन्तेति । मृदि कुम्भरूपा आकृतिः संस्थानमिव । तुशब्दोऽप्यर्थे ॥
    ३६ ॥

मध्येतरपयोमात्रं कञ्चित्कालं चलाचलम् ।
आद्यन्तसौम्यते त्यक्त्वा वारि वीचितया यथा ॥ ३७ ॥

उक्तेऽर्थे दृष्टान्तमाह - मध्येति । यथा वारि मध्येतरयोः
पूर्वोत्तरकालयोरविकृतपयोमात्रं मध्ये तु कञ्चित्कालं चलाचलं
चञ्चलं सदाद्यन्तयोः पूर्वोत्तरकालयोः प्रसिद्धे सौम्यते त्यक्त्वा वीचितया
स्थितं वार्येव न वस्त्वन्तरं तद्वद्देहाद्यपि कालत्रयेऽपि ब्रह्मैव न
वस्त्वन्तरमस्तीत्यर्थः ॥ ३७ ॥

अस्मिन्क्षणपरिस्पन्दे देहे विसरणोन्मुखे ।
तरङ्गे च निबद्धास्था ये हतास्ते कुबुद्धयः ॥ ३८ ॥

क्षणपरिस्पन्दे अस्मिन्देहे विसरणोन्मुखे तरङ्गे च ये अहन्त्वेन
निबद्धास्थास्ते कुबुद्धयस्तन्नाशेनैव हता इत्यर्थः ॥ ३८ ॥

प्राक्पुरस्ताच्च सर्वाणि सन्ति वस्तूनि नाभितः ।
मध्ये स्फुटत्वमेतेषां कैवास्था हतरूपिणी ॥ ३९ ॥

देशतः परिच्छिन्नत्वादपि देहादिवस्तुषु नास्था युक्तेत्याह - प्रागिति ।
मध्ये स्वाधिकरणवितस्त्यादिमितदेशमात्रे स्फुटत्वं विद्यमानतया
प्रतीयमानत्वं तदपि कार्त्स्न्यैकदेशाभ्यां विकल्प्य विमर्शे दुर्वचमेवेति
तत्रापि निर्विषयत्वाद्धतरूपिणी आस्था कैव । अनुचितैवेति भावः ॥ ३९ ॥

चित्तं पूर्वं पुरस्ताच्च चिद्देशं शान्तमित्यपि ।
सदसद्वा स्वसंलीनं मध्येऽस्मिन्किं तवोदितम् ॥ ४० ॥

उक्तं न्यायं लिङ्गेपि दर्शयंस्तस्यापि तथात्वमाह - चित्तमिति । चित्तं
चित्तोपलक्षितं लिङ्गं स्वोत्पत्तेः पूर्वं पूर्वकाले पुरस्तात्पुरोदेशे च
चिद्देहं स्वसाक्षिचिन्मात्रस्वभावम् । एवं उत्तरकाले देशान्तरे च शान्तं
नष्टं इति अनयैव [अनयैवेत्यादिर्विचार्योशः] देशतः परिच्छिन्नमपि
खे संलीनमिवात्यन्ततिरोहितं सदसद्वेति दुर्वचम् । एवंविधं चित्तं मध्ये
साम्प्रतमेतद्देशे सद्व्यतिरिक्तं किमुदितम् । न किञ्चिदित्यर्थः ॥ ४० ॥

यथा स्वप्नविकारेषु यथा सम्भ्रमदृष्टिषु ।
यथा वा मदलीलासु यथा नौयानसम्भ्रमे ॥ ४१ ॥

यदि स्थूलसूक्ष्मदेहाद्यसदेव कीदृशस्तर्हि तत्प्रतिभासस्तत्राह -
यथेत्यादिना । सम्भ्रमाव्याघ्रचोरादिभयानि तद्दृष्टिषु असत्स्वपि
व्याघ्रादिषु सर्वत्र व्याघ्रादिशङ्का भवति तद्वत् ॥ ४१ ॥

यथा धातुविकारेषु यथा चेन्द्रियविक्लवे ।
यथातिसम्भ्रमानन्दे दोषावेशदशासु च ॥ ४२ ॥

धातुविकारेषु वातपित्तादिसन्निपातेषु । चक्षुरादीन्द्रियस्य तिमिरादौ विक्लवे दोषे
द्विचन्द्रादिभ्रमे । अतिसम्भ्रमहेतौ अतिप्रियतमलाभादिप्रयुक्ते आनन्दे ।
विधुरादीनां कामादिसोषावेशदशासु च यथा सदसतोर्भावाभावयो रूपं
चलं प्रतीतिकालमात्रस्थायि किञ्चित्कामिन्यादिरूपं दृश्यते झटित्येव
बाधात्क्षीयते च तथैव एषा भ्रान्तिरिति प्रेणान्वयः ॥ ४२ ॥

दृश्यते क्षीयते चैव रूपं सदसतोश्चलम् ।
तथैवेयमिह त्वेषा काले न्यूनातिरिक्तता ॥ ४३ ॥

यो विशेषस्तमाह - इह त्विति । स्वप्नादयोऽल्पकालाः जगद्भ्रमस्तु
यावन्मोक्षमिति काले न्यूनातिरिक्ततैव विशेष इत्यर्थः ॥ ४३ ॥

सा च त्वया कृता नित्यं चित्त दुःखसुखोदये ।
यथा वियोगयामिन्यो मतयो हन्ति रागिणम् ॥ ४४ ॥

हे चित्त सा काले न्यूनातिरिक्तता त्वया व्यावहारिकवस्तुषु सत्यताभ्रान्त्या
वियोगसंयोगाभ्यां नित्यं दुःखसुखयोरुदये निमित्ततया कृता सती त्वां
हन्ति पीडयति । यथा असत्यपि भार्यापुत्रादिमरणे
प्रतारकवाक्यादुत्पन्नास्तन्मरणमतयस्तत्कल्पितवियोगयामिन्यश्च रागिणं
घ्नन्ति तद्वदित्यर्थः ॥ ४४ ॥

मयैवेहासदभ्यासान्मिथ्या सदिव लक्ष्यसे ।
मृगतृष्णेव तेनैतत्त्वत्कृतं मत्कृतं भवेत् ॥ ४५ ॥

अथवा नायं तवापराधः किन्तु त्वय्यहम्भावाभ्यासिनो ममैवापराधो
येन मिथ्याभूतमपि त्वं सदिव लक्ष्यसे । त्वत्कृतं च सर्वं मत्कृतं
सम्पन्नमित्यर्थः ॥ ४५ ॥

यदिदं किञ्चिदाभोगि तत्सर्वं दृश्यमण्डलम् ।
अवस्त्विति विनिर्णीय मनो यात्यमनःपदम् ॥ ४६ ॥

अत एव त्वदीयविवेकज्ञानादेव मदपराधरूपस्य तव शान्तिरित्याह -
यदिदमिति ॥ ४६ ॥

अवस्त्विदमिति स्फारे रूढे मनसि निश्चये ।
हेमन्त इव मञ्जर्यः क्षीयन्ते भोगवासनाः ॥ ४७ ॥

त्वद्धेतुभोगवासनानामपि तत एव क्षय इत्याह - अवस्त्विति ॥ ४७ ॥

चित्त्वाद्दृष्टात्मना नूनं सन्त्यक्तमननौजसा ।
मनसा वीतरागेण स्वयं स्वस्थेन भूयते ॥ ४८ ॥

अथवा चित्प्रतिबिम्बग्रहणेन चित्त्वाद्वीतरागेण अत एव सन्त्यक्तमननव्यसनेन
चरमसाक्षात्कारवृत्त्या दृष्टात्मना मनसा स्वयमेव स्वस्थेन
मोक्षविश्रान्तिमता भूयते न मया सदैकरूपत्वादित्याशयेनाह -
चित्त्वादित्यादिना ॥ ४८ ॥

परमात्मानले क्षिप्तं संवृत्त्यावयवं स्वयम् ।
दग्ध्वात्मानमलं चित्तं शुद्धतामेति शाश्वतीम् ॥ ४९ ॥

चित्तं स्वयमेव बहिः प्रवृत्तं स्वावयवमिन्द्रियादि संवृत्त्य तत्त्वबोधेन
परमात्मानलक्षिप्तं सदात्मानं चित्तस्वरूपं दग्ध्वा अलमत्यन्तं
शाश्वतीं नित्यां शुद्धतामेतीत्यर्थः ॥ ४९ ॥

देहमन्यतया दृष्ट्वा त्यक्त्वा विषयवासनाम् ।
विनाशमुररीकृत्य मनो जयति वीरवत् ॥ ५० ॥

यथा वीरः पुरुषो युद्धे स्वदेहं स्वर्गगामिस्वान्यतया दृष्ट्वा
तद्देहसम्बन्धिगृहक्षेत्रधनादिविषयवासनां च त्यक्त्वा
मरणमप्यङ्गीकृत्य ब्रह्मलोकं जयति तद्वन्मनोऽपीत्यर्थः ॥ ५० ॥

मनः शत्रुः शरीरस्य शरीरं मनसो रिपुः ।
एकाभावेन नश्येते आधाराधेयकार्यवत् ॥ ५१ ॥

इदानीं देहमनसोः परस्परतप्यतापकतया विरोधं
परस्परतादात्म्याभिमानात्परस्पराभिवृद्ध्या
परस्परोपजीव्यतामेकतराभिमानोच्छेदेनोभयोच्छेदं च विस्तरेण
दर्शयितुमुपक्रमते - मन इति । शत्रुरिपुशब्दौ तापकपरौ । एकाभावेन
एकतरवासनोच्छेदेन । यथा आधाराधेययोर्जलघटयोः कार्यभूतः संयोग
एकतरनाशेन नश्यति तद्वत् ॥ ५१ ॥

रागद्वेषवतोर्नित्यमन्योन्यातिविरुद्धयोः ।
एतयोर्मूलकाषेण विनाशः परमं सुखम् ॥ ५२ ॥

तथाच परस्परोपजीवित्वाद्रागवतोः परस्परोपतापकत्वाद्द्वेषवतोर्व्याघ्रयोः
सतोर्वनहरिणस्येव एतयोः सतोर्न जीवस्य सुखं किन्त्वेतयोर्मूलकाषेण
मूलाज्ञाननाशेन विनाश एव परमं सुखमित्यर्थः ॥ ५२ ॥

एतयोरेकसंस्थाने मृतिरित्येव या कथा ।
सा व्योम्न्यया स्त्रिया भुक्ता धरेति कथया समा ॥ ५३ ॥

ननु मरणेन भोगायतनदेहनाशादेव सर्वदुःखपरिहारः किं न
स्यात्तत्राह - एतयोरिति । देहनाशेऽप्येकस्य मनसः संस्थाने देहकल्पनाया
अनिवारणान्मृतिरिति कथा व्योम्नि अया गच्छन्त्या स्त्रिया धरा भूमिर्भुक्ता
ग्रस्ता इति कथया समा । असम्भावितार्थेत्यर्थः । अयतेः क्विपि यलोपे टापि
सवर्णदीर्घे आ तया अया । अयःस्त्रिया इति पाठे तु अयोविकारभूतया स्त्रीप्रतिमया
व्योम्नि धरा भुक्तेति कथया समेत्यर्थः । अयःप्रतिमाया व्योम्नि गमनं तत्र
धराभक्षणं च यथा अत्यन्तासम्भावितं तथा मनसि सति मरणमपीति
भावः ॥ ५३ ॥

अकृत्रिमविरोधस्थौ यत्र सङ्घटितावुभौ ।
धारा इव पतन्त्येव तत्रानर्थपरम्पराः ॥ ५४ ॥

तयोः सतोः का क्षतिस्तत्राह - अकृत्रिमेति । युध्यतोरन्तराले स्थितस्य देहे
खड्गशरादिधारा इव ॥ ५४ ॥

मिथो विरुद्धसंसर्गे रतिमेत्यधमो हि यः ।
त्यक्तव्यः स पतद्वारावग्निराशावलेपने ॥ ५५ ॥

मिथो विरुद्धे देहमनसी संसृज्येते अस्मिन्निति विरुद्धसंसर्गो
वैषयिकसुखभोगस्तस्मिन् योऽधमो रतिमास्थामेति स पुरुषः अलेपने निरावरणे
पतद्वारौ पतन्ति वारीणि समुद्रोदकानि यस्मिंस्तथाविधे अग्निराशौ वडवानले
त्यक्तव्यः । स तत्रापि रतिमेष्यतीत्यर्थः ॥ ५५ ॥

सङ्कल्पेन मनः पुष्ट्वा शरीरं बालयक्षवत् ।
आयुरेवाशनान्यस्मै स्वदुःखानि प्रयच्छति ॥ ५६ ॥

रागद्वेषवतोरिति यदुक्तं तत्र मनसो देहे रागद्वेषांशौ दर्शयति -
सङ्कल्पेनेति । मनः स्वसङ्कल्पेन बालो यक्षमिव शरीरं परिकल्प्य अस्मै आ
आयुः यावदायुःकालं अशनं परिकल्प्य पुष्ट्वा स्वाभिनिवेशनिमित्तानि
सर्वदुःखानि प्रयच्छतीत्यर्थः ॥ ५६ ॥

तर्दुःखैस्तापितो देहो मनो हन्तुमथेच्छति ।
पुत्रोऽपि हन्ति पितरमाततायिपदं गतम् ॥ ५७ ॥

देहस्यापि मनसि द्वेषांशं सहनिमित्तेन दर्शयति - तैरिति ।
दुर्विस्ऽयसेवनेन मनसि रागद्वेषशोकमोहपापादिजननेन
तत्पीडयितुमिच्छतीत्यर्थः । ननु मनोजनितत्वात्पुत्रप्रायो देहः पितृस्थानीयं
मनः कथं हन्तुमिच्छति तत्राह - पुत्र इति । उद्यतासिं विषाग्निं च
शापोद्यतकरं तथा । आथर्वणेन हन्तारं पिशुनं चैव राजसु ।
भार्यातिक्रमिणं चैव विद्यात्सप्ताततायिनः । इति
विष्णुकात्यायनोक्तानामाततायिनां पदं स्वपीडाव्यवसायं गतं
प्राप्तमित्यर्थः ॥ ५७ ॥

नास्ति शत्रुः प्रकृत्यैव न च मित्रं कदाचन ।
सुखदं मित्रमित्युक्तं दुःखदाः शत्रवः स्मृताः ॥ ५८ ॥

तस्य शत्रुतां लोकप्रसिद्धन्यायेनोपपादयति - नास्तीति ॥ ५८ ॥

देहो दुःखान्यनुभवन्स्वमनो हन्तुमिच्छति ।
देहं मनः स्वदुःखानां सङ्केतं कुरुते क्षणात् ॥ ५९ ॥

सङ्केतं निकेतम् । भोगायतनमिति यावत् ॥ ५९ ॥

एवं मिथो दुःखदयोः श्लिष्टयोः कः सुखागमः ।
एतयोर्देहमनसोर्जात्यैवातिविरुद्धयोः ॥ ६० ॥

विरोधमुपपादितमनूद्य तत्र सुखदौर्लभ्यमुक्तमुपसंहरति - एवमिति
॥ ६० ॥

मनस्येव परिक्षीणे न देहो दुःखभाजनम् ।
तत्क्षयोत्कतया नित्यं देहोऽपि परिधावति ॥ ६१ ॥

मनसि क्षीणे तु न देहस्य दुःखप्रसक्तिरस्तीत्याह - मनसीति । अतस्तत्क्षये
उत्कतया सोत्कण्ठतया ज्ञानतत्साधनोपायेषु परिधावति । यतते इति यावत् ॥ ६१ ॥

नष्टानष्टमनर्थाय शरीरं पदमापदाम् ।
अलब्धात्मविवेकेन मनसा सुप्रजायते ॥ ६२ ॥

तर्हि मनोऽपि देहनाशायैव कुतो न यतते तत्राह - नष्टेति ।
अलब्धात्मविवेकेन मनसा नष्टं नाशितमनाशितं वा शरीरमापदां
पदं सदनर्थायैव सुप्रजायते इति तन्नाशान्मनसो नेष्टसिद्धिरित्यर्थः ॥ ६२ ॥

एते मनःशरीरे हि मिथः पीवरतां गते ।
जडरूपे हि वपुषा पयोदसरसी यथा ॥ ६३ ॥

मिथः अनुग्रहादिति शेषः । सरस्यपि हविर्यज्ञादिनिष्पत्तिद्वारा
पयोदानुग्राहिका क्वचित्सम्भवेदित्युपमोपपत्तिः ॥ ६३ ॥

मिथो दुःखाय सम्पन्ने एकरूपे द्विधा स्थिते ।
व्यवहारपरे सार्धं लोके वार्यनलाविव ॥ ६४ ॥

मिथो विरुद्धयोरनयोः किमर्थं सहभाव इति चेद्वारिवह्न्यो पाकार्थमिव
पुरुषस्य भोगमोक्षोपायव्यवहारार्थमित्याशयेनाह - मिथ इति ।
विरुद्धतया द्विधा स्थिते अप्येते अन्योन्यतादात्म्याध्यासादेकरूपे सति दुःखाय
दुःखानि भोक्तुं परिहर्तुं च साकं भोगमोक्षव्यवहारसाधनपरे
सम्पन्ने इत्यर्थः ॥ ६४ ॥

चित्ते क्षयिणि सङ्क्षीणे देहो ह्यामूलितो भवेत् ।
वर्धमाने तरुरिव शतशाखः प्रवर्तते ॥ ६५ ॥

देहस्य चित्ताधीनतोक्तेः फलमाह - चित्ते इति ॥ ६५ ॥

क्षीयते मनसि क्षीणे देहः प्रक्षीणवासनः ।
मनो न क्षीयते क्षीणे देहे तत्क्षपयेन्मनः ॥ ६६ ॥

सङ्कल्पपादपं तृष्णालतं छित्त्वा मनोवनम् ।
विततां भुवमासाद्य विहरामि यथासुखम् ॥ ६७ ॥

अतो मन एव नाशयामीत्याह - सङ्कल्पेति ॥ ६७ ॥

प्रक्षीयमाणमेवेदं न मनो मनसि स्थितम् ।
प्रशाम्यद्वासनाजालं प्रावृडन्त इवाम्बुदः ॥ ६८ ॥

सङ्कल्पनाशे च मनो मनसि मन्ःस्वभावेन स्थितमिति
प्रशाम्यद्वासनाजालं सत् प्रावृडन्तेऽम्बुद इव नङ्क्ष्यतीत्यर्थः ॥ ६८ ॥

धातूनां सन्निवेशोऽयं देहनामा रिपुर्मम ।
प्रक्षीयमाणे मनसि गलत्वेषोऽवतिष्ठतु ॥ ६९ ॥

त्वगसृङ्मांसमेदोस्थिमज्जाशुक्राख्यानां धातूनां
सन्निवेशत्मकोऽयं देहो मनसि प्रक्षीयमाणे गलतु तिष्ठतु वा न
काचित्क्षतिरित्यर्थः ॥ ६९ ॥

यदर्थं किल भोगश्रीर्वाञ्छते स्वकलेवरम् ।
तन्मे नापि न तस्याहं कोऽर्थः सुखलवेन मे ॥ ७० ॥

तिष्ठति देहे दुःखमपि किं न स्यादिति चेत्तत्सम्बन्धहेतोर्मनसो
नाशात्सम्बन्ध एव नास्ति दूरे दुःखप्रसक्तिरित्याशयेनाह - यदर्थमिति ॥
७० ॥

नाहं देह इति त्वस्मिन्युक्तिमाकर्णय क्रमे ।
सर्वाङ्गेष्वपि सत्स्वेव शवः कस्मान्न वल्गति ॥ ७१ ॥

नाहं देह इत्यस्मिन् क्रम्यते बुध्यत इति
क्रमोऽवश्यज्ञातव्यार्थस्तस्मिन्युक्तिमुपपत्तिम् । वल्गति दर्शनश्रवणादिना
व्यवहरति ॥ ७१ ॥

तस्माद्देहादतीतोऽहं नित्योऽनस्तमितद्युतिः ।
यः सङ्गं भास्वता प्राप्य वेद्मि व्योमनि भास्करम् ॥ ७२ ॥

तस्माच्छवस्य बोधाद्यदर्शनात् । यो विभुत्वेन सूर्यमण्ड।एऽपि
सत्त्वाद्भास्वता सङ्गं प्राप्य व्योमनि भास्करंवेद्मि स एव
चिद्रूपोऽहमित्यर्थः ॥ ७२ ॥

नाज्ञोऽहं नच मे दुःखं नानर्थो न च दुःखिता ।
शरीरमस्तु मावास्तु स्थितोस्मि विगतज्वरः ॥ ७३ ॥

यत्रात्मा तत्र न मनो नेन्द्रियाणिन वासनाः ।
पामराः परितिष्ठन्ति निकटे न महीभृतः ॥ ७४ ॥

भूम्नि तु मन आदेः प्रसक्तिरेव नास्तीत्याह - यत्रेति । श्रेष्ठसन्निधौ
क्षुद्राणामनवस्थाने लोकप्रसिद्धिमुदाहरति - पामरा इति । महीभृतो
राज्ञः ॥ ७४ ॥

पदं तदनुयातोऽस्मि केवलोस्मि जयाम्यहम् ।
निर्वाणोस्मि निरंशोस्मि [निरीहोस्मि निरंशोस्मि इति व्युत्क्रमेण
क्वचित्पठ्यते] निरीहोस्मि निरीप्सितः ॥ ७५ ॥

तत्पदमनुयातः प्राप्तोऽस्मि ॥ ७५ ॥

इदानीमस्म्यसम्बद्धो मनोदेहेन्द्रियादिभिः ।
पृथक्कृतस्य तैलस्य तिलैर्विगलनैरिव ॥ ७६ ॥

स्वस्मात्पदवरादस्माल्लीलया चलितस्य मे ।
पृथक्कृतमतेः किञ्च परिवारो ह्ययं शुभः ॥ ७७ ॥

किञ्च प्रारब्धशेषभोगलीलया स्वात्मरूपात्पदवराद्व्यवहाराभासे चलितस्य
पूर्ववासनया पृथक्कृतमतेरयं देहेन्द्रियादिर्मे परिवारः परिजन इव
विनोदहेतुरित्यर्थः ॥ ७७ ॥

स्वच्छतोर्जितता सत्ता हृद्यता सत्यता ज्ञता ।
आनन्दितोपशमिता सदा च मृदुभाषिता ॥ ७८ ॥

तस्यां लीलायां स्वच्छतादिगुणसम्पदः स्वस्य हृदयवल्लभाः कान्ता इति
रूपयति - स्वच्छतेत्यादित्रिभिः । ऊर्जितता पूर्णकामता । ज्ञता विदितात्मता ॥
७८ ॥

पूर्णतोदाराअ सत्या कान्तिमत्तैकतानता ।
सर्वैकता निर्भयता क्षीणद्वित्वविकल्पता ॥ ७९ ॥

उदारता निर्लोभता । सत्या अबाधितस्वभावता ॥ ७९ ॥

नित्योदिताः समाः स्वस्थाः सुन्दर्यः सुभगोदयाः ।
ममैकात्ममतेर्नित्यं कान्ता हृदयवल्लभाः ॥ ८० ॥

एता मम नित्यमुदिता अभ्युदयशालिन्यः कान्ताः ॥ ८० ॥

सर्वथा सर्वदा सर्वं सर्वस्मिन्सम्भवत्यतः ।
सर्वं प्रति मम क्षीणे वाञ्छावाञ्छे सुखासुखे ॥ ८१ ॥

सम्भवति कल्पनयेति शेषः । अतः सर्वं विषयजातं प्रति वाञ्छावाञ्छे
रागद्वेषौ । सुखासुखे तत्फले सुखदुःखे ॥ ८१ ॥

विगतमोहतया विमनस्तया
गतविकल्पनचित्ततया स्फुटम् ।
उपरमाम्यहमात्मनि शीतले
घनलवः शरदीव नभस्तले ॥ ८२ ॥

अतोऽहं शरदि नभस्तले घनलवो मेघखण्ड इव शीतले निस्तापे आत्मनि
दृश्यभावं परित्यज्य विश्राम्यामीत्यर्थः ॥ ८२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे उद्दालकविचारविलासो नाम त्रिपञ्चाशः
सर्गः ॥ ५३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
उद्दालकविचारविलासो नाम त्रिपञ्चासः सर्गः ॥ ५३ ॥