५२

द्विपञ्चाशः सर्गः ५२

स तां विवेश धर्मात्मा गन्धमादनकन्दराम् ।
चित्रभ्रमणसम्प्राप्तामलिः पद्मकुटीमिव ॥ १ ॥

गुहायामासनस्थेन समाधिं प्रविविक्षता ।
चित्तप्रबोधनोपायाश्चिन्तिता इह वर्णिताः ॥ १ ॥

चित्रेण बहुविधेन भ्रमणेनान्वेषणेन । पद्मकुटीमिवेत्यनेन प्रविष्टस्य
तत्र निरतिशयानन्दरसपानविश्रान्तिर्भविष्यतीति गम्यते ॥ १ ॥

समाधानोन्मुखतया प्रविशन्स व्यराजत ।
सर्गव्यापारविरतावात्मपुर्यामिवाब्जजः ॥ २ ॥

आत्मनः पुर्यां सत्यलोकस्थायामपराजिताख्यायां
भगवन्नाभिपद्मलक्षणायां वा ॥ २ ॥

चकारासनमम्लानैः पत्रैरन्तस्वगुच्छकम् ।
मृदुमेघविधिर्वृन्दमम्भोदमिव तत्र सः ॥ ३ ॥

अन्ते मध्ये स्वं शरीरं गुच्छमिव यस्मिन्भासते तथाविधं अन्तेषु स्वानि
तत्तत्पत्रसम्बद्धानि पुष्पगुच्छानि वा यस्मिन् तथाविधमासनम् ।
मेघान्विदधातीति मेघविधिरिन्द्रोऽम्भोदं मेघं वृन्दं कदम्बितमिव ।
तत्पक्षे अन्तेषु प्रसृतानि स्वगुच्छानीव विद्युतो यस्मिन्निति योज्यम् ॥ ३ ॥

स तत्प्रस्तारयामास पृष्ठे चारु मृगाजितम् ।
नीलरत्नतटे मेरुस्तारासारमिवाम्बरम् ॥ ४ ॥

तत्तस्यासनस्य पृष्ठे उपरि तत्स्वकक्षास्थं मृगाजिनमिति वा । तारा एव सारा
बहुमूल्यरत्नानि यस्मिन् । अनेन तत्पृषताजिनमिति [पुरुषताजिनं इति
पाठः] गम्यते ॥ ४ ॥

स तत्रोपाविशद्वृत्तीश्चेतसस्तनुतां नयन् ।
अन्तःशुद्धवपुः शृङ्गे वृष्य मूक इवाम्बुदः ॥ ५ ॥

चेतसो वृत्तिर्जडविषयत्यागेन तनुतां लघुताम् । यथा अम्बुदो वृष्य
वृष्ट्या स्वजाड्यं विहाय शुद्धवपुः शुभ्ररूपो मूको निर्गर्जनः सन्
गिरिशृङ्गे उपविशति तद्वत् । वृष्येत्यसमासे ल्यप् छान्दसः । ऋष्यमूक इति
पाठे ऋष्यमूकाख्ये सह्यशृङ्गे ॥ ५ ॥

बुद्धवत्सुदृढं बद्धपद्मासन उदङ्मुखः ।
पार्ष्णिभ्यां वृषणौ धृत्वा चकार ब्राह्ममञ्जलिम् ॥ ६ ॥

बुद्धवत्प्रबुद्धकपिलादिवत् । पद्मासनग्रहणं सिद्धासनोपलक्षणम् ।
पार्ष्णिभ्यां वृषणौ धृत्वेत्युक्तेस्तत्रैवोपपत्तेः । ब्राह्ममञ्जलिं
ब्रह्मादिगुरुपरम्पराप्रणामाञ्जलिम् ॥ ६ ॥

वासनाभ्यः समाहृत्य मनोमृगमुपप्लुतम् ।
निर्विकल्पसमाध्यर्थं चकारेमां विचारणाम् ॥ ७ ॥

उप समीपे विषयेषु प्लुतं धाविताम् ॥ ७ ॥

अयि मूर्ख मनः कोऽर्थस्तव संसारवृत्तिभिः ।
धीमन्तो न निषेवन्ते पर्यन्ते दुःखदां क्रियाम् ॥ ८ ॥

अयीति कोमलामन्त्रणे ॥ ८ ॥

अनुधावति यो भोगांस्त्यक्त्वा शमरसायनम् ।
सन्त्यज्य मन्दारवनं स याति विषजङ्गलम् ॥ ९ ॥

मन्दारा देवतरुभेदास्तेषां वनम् ॥ ९ ॥

यदि यासि महीरन्ध्रं ब्रह्मलोकमथापि वा ।
तन्न निर्वाणमायासि विनोपशमनामृतम् ॥ १० ॥

महीरन्ध्रं पातालम् । निर्वाणं निरतिशयसुखविश्रान्तिम् ॥ १० ॥

आशाशतावपूर्णत्वे त्वमेवं सर्वदुःखदम् ।
त्यज्य याहि परं श्रेयः परमेकान्तसुन्दरम् ॥ ११ ॥

त्वं भोगाशाशतेनावपूर्णत्वे सति एवं प्रागुक्तरीत्या सर्वदुःखदं भवसि
। अतः परं भोगाशास्त्यज्य त्यक्त्वा । ल्यप् छान्दसः ।
निर्दुःखनिरतिशयानन्दरूपत्वादेकान्तसुन्दरं परं श्रेयो निर्वाणं याहि ॥
११ ॥

इमा विचित्राः कलना भावाभावमयात्मिकाः ।
दुःखायैव तवोग्राय न सुखाय कदाचन ॥ १२ ॥

इष्टसम्पादनं भावः अनिष्टनिवारणमभावः तत्प्रचुरा विचित्राः कलना
विषयाः ॥ १२ ॥

शब्दादिकाभिरेताभिः किं मूर्ख हतवृत्तिभिः ।
भ्रमस्यविरतं व्यर्थं मेघे मण्डूकिका यथा ॥ १३ ॥

हतशब्दो निन्दार्थः । मण्डूकिका यथा मेघे
शब्दादिकाभिर्व्यर्थवृत्तिभिर्भ्रमति तथेत्यर्थः ॥ १३ ॥

मनोमण्डूकिके व्यर्थमियन्तं कालमन्धया ।
भ्रमन्त्या भुवनं क्षिप्रं किं समासादितं त्वया ॥ १४ ॥

तदेव स्पष्टमाह - मन इति । भुवनं जगज्जलं च ॥ १४ ॥

यस्मात्किञ्चिदवाप्नोषि यस्मिन्वहसि निर्वृतिम् ।
तस्मिंश्चेतः शमे मूर्ख नानुबध्नासि किं पदम् ॥ १५ ॥

किञ्चिदवाङ्मनसगम्यं विदेहकैवल्यसुखम् । निर्वृतिं
जीवन्मुक्तिविश्रान्तिसुखं वहसि प्राप्नोषि तस्मिन् शमे
सर्ववृत्त्युपरमलक्षणे समाधौ हे चेतः पदं व्यवसायं किं
नानुबध्नासि ॥ १५ ॥

आगत्य श्रोत्रतां मूर्ख व्यर्थोत्थानोपबृंहिताम् ।
धिया शब्दानुसारिण्या मृगवन्मा क्षयं व्रज ॥ १६ ॥

कलना दुःखायैवेति यदुक्तं तत्प्रत्येकं दृष्टान्तोदाहरणैः प्रपञ्चयति

  • आगत्येत्यादिना । व्यर्थेन बहिर्मुखतालक्षणेनोत्थानेन
    उपबृंहितामुपचितां श्रोत्रेन्द्रियतादात्म्यापत्तिरूपां श्रोत्रतामागत्य
    प्राप्य । प्राणन्नेव प्राणो नाम भवति वदन्वाक्पश्यंश्चक्षुः शृण्वन्
    श्रोत्रं इति लिङ्गादात्मनः श्रवणादिकाले श्रोत्रादिभावः श्रुतेरिव भावः ।
    लुब्धकगीतघण्टास्वनमोहितमृगवत् ॥ १६ ॥

त्वक्तामागत्य दुःखाय स्पर्शोन्मुखतया धिया ।
मूर्ख मा बद्धतामेहि गजीलुब्धगजेन्द्रवत् ॥ १७ ॥

त्वक्तां त्वगिन्द्रियताम् । गजी करेणुस्तस्यां तत्स्पर्शलुब्धगजेन्द्रवत् ।
सुशिक्षितया करिण्या वनगजेन्द्रं प्रलोभ्याकृष्य गर्तपातादिना हस्तिपका
बध्नन्तीति प्रसिद्धम् ॥ १७ ॥

रसनाभावमागत्य गर्द्धेनान्ध दुरन्धसाम् ।
मा नाशमेहि बडिशपिण्डीलम्पटमत्स्यवत् ॥ १८ ॥

हे अन्ध दुरन्धसां दुरन्नानां गर्द्धेनाभिलाषेण ॥ १८ ॥

चाक्षुषीं वृत्तिमाश्रित्य प्रभारूपचयोन्मुखीम् ।
मा गच्छ दग्धतां मुग्ध कान्तिलुब्धपतङ्गवत् ॥ १९ ॥

चाक्षुषीं वृत्तिं चक्षुष्टाम् । प्रभा कान्तिस्तत्सम्बन्धी यो रूपचयो
नानारूपभेदस्तदुन्मुखीं तत्प्रवणाम् ॥ १९ ॥

घ्राणमार्गमुपाश्रित्य शरीराम्भोजकोटरे ।
गन्धोन्मुखतया बन्धं मा त्वं संश्रय भृङ्गवत् ॥ २० ॥

गजोन्मृदितपद्मगर्भस्थभृङ्गवत् ॥ २० ॥

कुरङ्गालिपतङ्गेभमीनास्त्वेकैकशो हताः ।
सर्वैर्युक्तैरनर्थैस्तु व्याप्तस्याज्ञ कुतः सुखम् ॥ २१ ॥

एकैकसक्तयाप्येवमनर्थे सर्वसक्तस्य तव दुर्वारमेव
निरतिशयदुःखमित्याह - कुरङ्गेति । अनर्थैरनर्थसाधनैः
शब्दादिभिर्युक्तैर्मिलितैः । हे अज्ञेति चित्तसम्बोधनम् ॥ २१ ॥

हे चित्त वासनाजालं बन्धाय भवतोहितम् ।
स्वात्मनः सहजः फेनस्ततः कुकृमिणा यथा ॥ २२ ॥

कुत्सितेन कृमिणा कोशकारकीटेन सहजः स्वाभाविकः स्वलालाफेनः
स्वात्मनो बन्धाय यथा कोशात्मना ततो विस्तारितस्तथा वासनाजालं स्वात्मनो
बन्धाय ऊहितं कुवितर्कनिर्मितमित्यर्थः । भवतः अहितमिति वा छित्त्वा ततमिति
लिङ्गविपरिणामेन योज्यम् ॥ २२ ॥

यदि शाम्यसि निर्मूलं तदनन्तो जयस्तव ॥ २३ ॥

कथं तर्हि प्रमादकृतस्यास्य बन्धस्य जयस्तत्राह - शरदभ्रेति ।
प्रथमं कर्मोपासनादिभिः शरदभ्रवच्छुद्धिमागत्य ततः
श्रवणादिपरिपाकाज्ज्ञानोदयेन निर्मूलं यदि शाम्यसि तत्तदा अनन्तो जय
इत्यर्थः ॥ २३ ॥

क्षयोदयदशाधात्रीं पर्यन्तपरितापिनीम् ।
जानन्नपि जगत्सृष्टिं न त्यक्ष्यसि विनङ्क्ष्यसि ॥ २४ ॥

वक्तव्यं सर्वं पिण्डीकृत्यकोक्त्याह - क्षयेति । क्षयोदयौ जन्ममरणे
दशा बाल्याद्या दारिद्र्याद्याश्च तासां धात्रीम् । पर्यन्ते मरणोत्तरमपि
नरकस्थावरादिगतिपरितापनशीलाम् । जगत्सृष्टिं जागतीं प्रवृत्तिम् ॥ २४ ॥

करोम्यथ किमर्थं वा तवैतदनुशासनम् ।
विचारणवतः पुंसश्चित्तमस्ति हि नानघ ॥ २५ ॥

अथवा अहितस्य चित्तस्य नानुशासनं कार्यं किन्तु बलान्निगृह्य
विचारेणोच्छेद एव कार्य इत्याशयेनाह - करोमीति । अनुशासनं
हितोपदेशम् ॥ २५ ॥

यावदज्ञानघनता तावत्प्रघनचित्तता ।
यावत्प्रावृड्जलदता तावन्नीहारभूरिता ॥ २६ ॥

अथवा न चित्तोच्छेदेऽपि पृथग्यत्नः कार्यस्तस्य
मूलाज्ञानान्वयव्यतिरेकानुविधायितया तदुच्छेदेनैवोच्छेदः साध्य
इत्याशयेनाह - यावदिति त्रिभिः ॥ २६ ॥

यावदज्ञानतनुता तावच्चित्तस्य तानवम् ।
प्रावृट्परिक्षयो यावत्तावन्नीहारसङ्क्षयः ॥ २७ ॥

उत्तरौ यावत्तावदिति निपातौ यावांस्तावानित्यर्थकौ ॥ २७ ॥

यावत्तानवमायातं शुद्धं चित्तं विचारतः ।
तावत्तत्क्षीणमेवाहं मन्ये शारदमेघवत् ॥ २८ ॥

तानवं वासनाक्षयेण सौक्ष्म्यम् ॥ २८ ॥

अनुशासनमेतद्यदसतो नश्यतोऽथ वा ।
क्रियते तन्नभोवारिपवनाहननैः समम् ॥ २९ ॥

अविवेकिनश्चित्तमनुशासनायोग्यमेव विवेकिनस्तु नश्यदवस्थं नष्टं वा
तत्सुतरां तथेत्याशयेनाह - अनुशासनमिति । नभसो वारिणः पवनस्य च
आहननैस्ताडनैः समं व्यर्थमिति यावत् ॥ २९ ॥

तस्मात्सङ्क्षीयमाणत्वात्त्यजामि त्वामसन्मयम् ।
मौर्ख्यं परममेवाहुः परित्याज्यानुशासनम् ॥ ३० ॥

उक्तमेवानुवादेनोपसंहरति - तस्मादिति ॥ ३० ॥

निर्विकल्पोऽस्मि चिद्दीपो निरहङ्कारवासनः ।
त्वयाहङ्कारबीजेन न सम्बद्धोऽस्म्यसन्मय ॥ ३१ ॥

आत्मनस्तदसम्बन्धदर्शनमेव तत्त्याग इत्याशयेनाह - निर्विकल्प इति ॥ ३१

अयं सोऽहमिति व्यर्थं दुर्दृष्टिरवलम्बिता ।
त्वया मूढविनाशाय शङ्काविषविषूचिका ॥ ३२ ॥

मम कोऽपराधो येन मां विनाशाय परित्यजसीति
चेद्देहादावहन्तादुर्दृष्ट्यवलम्बनमेवेत्याह - अयमिति । सा च
दुर्दृष्टिः शङ्काविषप्रयुक्ता विषूचिकेव मिथ्याहेतुकापि मूढानां
विनाशायैव सम्पद्यत इत्यपराध इत्यर्थः ॥ ३२ ॥

अनन्तस्यात्मतत्त्वस्य तन्वीति मनसि स्थितिः ।
न सम्भवति बिल्वान्तर्वासितादन्तिनोर्यथा ॥ ३३ ॥

कुतो मिथ्यात्वमिति चेदनुपपन्नत्वादेवेत्याह - अनन्तस्येति । इति एवंरूपे
परिच्छिन्ने मनसि तन्वी परिच्छिन्ना स्थितिर्देहाद्यहम्भावेन स्थितिर्न सम्भवति
नोपपद्यत इत्यर्थः । वासिता करिणी दन्ती च तयोर्बिल्वान्तस्थितिर्यथा न सम्भवति
तथेत्यर्थः ॥ ३३ ॥

महाश्वभ्रीव गम्भीरा दुःखदा वासनाश्रिता ।
त्वयैषा बत चित्तेति नैनामनुसराम्यहम् ॥ ३४ ॥

चित्तस्य त्याज्यत्वे हेत्वान्तरमप्याह - महाश्वभ्रीति । हे चित्त त्वया महती
श्वभ्री जीर्णकूपादिरिव गम्भीरा अदृश्यतला
कामक्रोधलोभादिसर्पवृश्चिकपिशाचालयत्वाद्दुःखदा दुर्वासनैव
स्वाल्यत्वेनाश्रिता । वतेति खेदे । अहं तु एनां नानुसरामीति तदनुसारिणं त्वां
त्यजामीत्यर्थः ॥ ३४ ॥

कः किलायं मुधा मोहो बालस्येवाविचारिणः ।
अयं सोऽहमिति भ्रान्तिस्त्वहन्तापरिकल्पिता ॥ ३५ ॥

किं चायं देहः स आत्माहमिति भ्रान्तिस्तु या त्वया अहन्तापरिकल्पिता अयं
बालस्येवाविचारिणो मोहो विचारिणो मम कः किल । न कश्चिदपीति नास्त्येवेत्यर्थः
॥ ३५ ॥

पादाङ्गुष्ठाच्छिरो यावत्कणशः प्रविचारितम् ।
न लब्धोऽसावहं नाम कः स्यादहमिति स्थितः ॥ ३६ ॥

तन्नास्तित्वमेव विमृश्य विशदयति - पादाङ्गुष्ठादित्याना । कणशो
विविच्येति शेषः ॥ ३६ ॥

भरिताशेषदिक्कुञ्जं यत्स्यामेकं जगत्त्रये ।
संवेदनमसंवेद्यं सर्वत्रविगतात्मकम् ॥ ३७ ॥

यद्यहम्पदार्थो नास्त्येव तर्हि कस्त्वं तत्राह - भरितेति द्वाभ्याम् ।
भरिताशेषदिक्कुञ्जं दिक्कृतपरिच्छेदरहितम् । एकं वस्तुकृततद्रहितम् ।
असंवेद्यं क्रमसंवेद्यावस्थात्रयलक्षणकालकृतपरिच्छेदशून्यम् । अत
एव सर्वत्र सर्वेषु प्रकारेषु विगतो वस्त्वन्तरात्मा यस्य । ईदृशं
संवेदनमेवाहं स्यामित्यर्थः ॥ ३७ ॥

दृश्यते यस्य नेयत्ता न नाम परिकल्पना ।
नैकता नान्यतैवेह न महत्ता न चाणुता ॥ ३८ ॥

इयत्ता परिच्छिन्नं रूपम् । एकता एकत्वसङ्ख्या । अन्यता अदन्यसङ्ख्या ।
महत्ताणुते परिमाणे ॥ ३८ ॥

वेद तत्त्वां स्वसंवेद्यमाततं दुःखकारणम् ।
विवेकजेन बोधेन तदिदं हन्यसे मया ॥ ३९ ॥

यतोऽहं संवेदनात्मा तत्तस्मात्साक्षिभूतेन स्वेन संवेद्यं त्वां चित्तं वेद
पश्यामि । ततो दुःखकारणत्वादेव इदं वक्ष्यमाणं विवेकमादाय हन्यसे
॥ ३९ ॥

इदं मांसमिदं रक्तमिमान्यस्थीनि देहके ।
इमे ते श्वासमरुतः कोऽसावहमिति स्थितः ॥ ४० ॥

विवेचनप्रकारमेव दर्शयति - इदमित्यादिना ॥ ४० ॥

स्पन्दो हि वातशक्तीनामवबोधो महाचितः ।
जरा मृतिश्च कायेऽस्मिन्कोऽसावहमिति स्थितः ॥ ४१ ॥

स्पन्दांशः सर्वोऽपि वातशक्तीनां प्राणानाम् । अवबोधांशस्तु महाचितः
परमात्मनः । जरा मृतिश्चेत्येते कायकोटौ ॥ ४१ ॥

मांसमन्यदसृक्वान्यदस्थीन्यन्यानि चित्त हे ।
बोधोऽन्यः स्पन्दनं चान्यत्कोसावहमिति स्थितः ॥ ४२ ॥

अन्यदहम्पदार्थाद्व्यतिरिक्तम् ॥ ४२ ॥

इदं घ्राणमियं जिह्वा त्वगियं श्रवणे इमे ।
इदं चक्षुरसौ स्पर्शः कोऽसावहमिति स्थितः ॥ ४३ ॥

यथाभूततया नाहं मनो न त्वं न वासना ।
आत्मा शुद्धचिदाभासः केवलोऽयं विजृम्भते ॥ ४४ ॥

यथाभूततया परमार्थतया विचारे मनः अहं न । न त्वं चित्तमहं
वासनापि नाहम् । आत्मा तु सर्वथा अहन्तया न स्पृष्ट इत्याह - आत्मेति ॥ ४४

अहमेवेह सर्वत्र नाहं किञ्चिदपीह वा ।
इत्येव सन्मयी दृष्टिर्नेतरो विद्यते क्रमः ॥ ४५ ॥

तस्मिन्नात्मनि यद्यध्यारोपदृष्टिस्तर्ह्यहमेव सर्वत्राधिष्ठानमिति
सर्वमेवाहम् । यद्यपवाददृष्टिस्तर्हि नाहं किञ्चिदपीति
नैकदेहमात्रपरिच्छिन्नाहम्भावलक्षण इतरोऽहङ्कारक्रमो विद्यत इत्यर्थः
॥ ४५ ॥

चिरमज्ञानधूर्तेन पोथितोऽस्मि त्वहन्तया ।
वृकेण दृप्तेनाटव्यां लब्धेन पशुपोतकः ॥ ४६ ॥

अज्ञानलक्षणेन धूर्तेन कितवेनाहन्तया वञ्चनया चिरं पोथितः
सङ्क्लेशितोऽस्मि । लब्धेनेति भावे क्तः । विप्रलम्भेनेत्यर्थः । मृगपोतक इवेति
शेषः । लब्ध्वेव इति पाठः साधुः । पोतको वत्सः ॥ ४६ ॥

दिष्ट्येदानीं परिज्ञातो मयैवाज्ञानतस्करः ।
पुनर्न संश्रयाम्येनं स्वरूपार्थापहारिणम् ॥ ४७ ॥

स्वं पारमार्थिकं यद्रूपं तल्लक्षणस्यार्थस्य धनस्यापहारिणम् ॥ ४७ ॥

निर्दुःखो दुःखयोग्यस्य नाहं तस्य न चैष मे ।
कश्चिद्भवति शैलस्य तत्स्थ एव यथाम्बुदः ॥ ४८ ॥

परस्परविरुद्धस्वभावयोः सम्बन्धोऽपि नास्ति दूरे ऐक्यमित्याशयेनाह -
निर्दुःख इति । शैलस्याम्बुदो यथा कश्चिदपि न भवति तद्वत् ॥ ४८ ॥

भूत्वा त्वहमिदं वच्मि वेद्मि तिष्ठामि यामि च ।
आत्मावलोकनेनाहमनहङ्कारतां गतः ॥ ४९ ॥

यदि ते सर्वथाहङ्कारादिर्नास्ति तर्हि कथं वचनादिना व्यवहरसि तत्राह -
भूत्वेति । नट इव तात्कालिकेन तद्भावकल्पनेनाहङ्कारो भूत्वा इदं
त्वदुपदेशवचनादि वच्मि चक्षुरादिना वेद्मि ॥ ४९ ॥

नूनमेवाहमेवैते मन्ये ज्ञाश्चक्षुरादयः ।
यान्तु तिष्ठन्तु वा देहे ममैते तु न किञ्चन ॥ ५० ॥

नूनं निश्चितमेव मन्ये । इमे चक्षुरादयस्तत्त्वतोऽहमेव । यदि
मद्व्यतिरिक्तास्तर्ह्यज्ञा जडा देहे तिष्ठन्तु यान्तु वा नैते मम किञ्चनेत्यर्थः
॥ ५० ॥

कष्टं कोऽयमहं नाम कथं केनोपकल्पितः ।
जगद्बालकवेतालस्तालोत्तालातुलाकृतिः ॥ ५१ ॥

तालादप्युत्ताला दीर्घा अतुला आकृतिर्यस्य ॥ ५१ ॥

एतावन्तं चिरं कालं व्यर्थमालुठितोऽवटे ।
अहमत्र तृणोन्मुक्ते दुरद्रौ हरिणो यथा ॥ ५२ ॥

इदानीं प्राक्तनीमविचारदशामनुशोचति - एतावन्तमिति ॥ ५२ ॥

स्वार्थमालोकने चक्षुर्यदितून्मुखतां गतम् ।
तदहं नाम कोसौ स्याद्योऽस्मिन्दुःखे न मोहितः ॥ ५३ ॥

इदानीं प्रतीन्द्रियविषयसम्बन्धमहम्प्रत्ययास्पदं मृगयति -
स्वार्थमित्यादिना ॥ ५३ ॥

स्पर्शनाय निजे तत्त्वे यदि जाता त्वगुन्मुखी ।
तत्कोयं स्यादहं नाम कुपिशाच इवोदितः ॥ ५४ ॥

निजे तत्त्वे विषये ॥ ५४ ॥

रसेष्वभिनिषण्णेऽस्मिन्स्वक्रमे रसनेन्द्रिये ।
अहं मृष्टभुगित्येष कुतस्त्यः कुत्सितो भ्रमः ॥ ५५ ॥

स्वक्रमे स्वविषये । सामान्ये एकवचनं पदसंस्कारपक्षाश्रयात् ॥ ५५ ॥

शब्दशक्तिं गते श्रोत्रे वराके स्वार्थपीडिते ।
तदहङ्कारदुःखस्य निर्बीजस्य क आगमः ॥ ५६ ॥

शब्दशक्तिं शब्दलक्षणविषयम् । स्वार्थः श्रवणतृष्णा तेन पीडिते
वशीकृते । आगमः प्रसङ्गः ॥ ५६ ॥

आत्मम्भरित्वेन निजे घ्राणे स्वं गन्धमागते ।
अहं घ्रातेति यो माता तं चौरं नैव वेद्म्यहम् ॥ ५७ ॥

आत्मम्भरितया स्वोदरपूरकतया गर्धेनेति यावत् । मातात्राभिमन्ता ॥ ५७ ॥

मृगतृष्णाक्रमेणैषा भावना व्यर्थभाविनी ।
भावस्तस्यामसत्यायां यः सोऽयमिति सम्भ्रमः ॥ ५८ ॥

एषा उक्तस्थलेषु प्रसिद्धा भावना अहन्ताकल्पना । तस्यां
भावनायामसत्यायां निर्विषयायां सत्यामयं देहः सः अहमिति भावः ।
सम्भ्रमो भ्रान्तिरेवेति सर्वथा देहाहम्भाववासना त्याज्येत्यर्थः ॥ ५८ ॥

वासनाहीनमप्येतच्चक्षुरादीन्द्रियैः स्वतः ।
प्रवर्तते बहिः स्वार्थे वासना नात्र कारणम् ॥ ५९ ॥

ननु वासनाभावे बाह्यप्रवृत्तीनां सर्वतोपरमः स्यादिति जीवनमेव
पुरुषस्य न स्यात्तत्राह - वासनाहीनमपीति । एतत् शरीरं स्वार्थे जीवनहेतौ
कर्मणि वासनाहीनमपि प्रवर्तते । दामव्यालकटानां
प्राग्युद्धादिप्रवृत्तिवर्णनादिति भावः ॥ ५९ ॥

वासनारहितं कर्म क्रियते ननु चित्त हे ।
केवलं नानुभूयन्ते सुखदुःखदृशोऽग्रगाः ॥ ६० ॥

यदि प्रवर्तते तर्हि तत्प्रयुक्तं दुःखमपि भविष्यत्येवेति वासनात्यागात्को
गुणस्तत्राह - वासनेति । तात्कालिकभोगाभासे अहं दुःखीति नाभिमानः
अग्रगाः भाविन्यस्तु सुखदुःखदृशो नानुभूयन्त इति तत्प्रयुक्ता
शोकमोहभयविषादचिन्तोद्वेगादिसर्वसन्तापशान्तिरेवास्य गुण इति भावः ॥
६० ॥

तस्मान्मूर्खाणीन्द्रियाणि त्यक्त्वान्तर्वासनां निजाम् ।
कुरुध्वं कर्म हे सर्वं न दुःखं समवाप्स्यथ ॥ ६१ ॥

इदानीमिन्द्रियाणि सम्बोध्यामुमर्थं विविच्योपदिशति - तस्मादित्यादिना ॥ ६१

भवद्भिरेव दुःखाय वासनावासिता मुधा ।
बालैः पङ्कक्रीडनकं विनाशेनेव खिन्नता ॥ ६२ ॥

बालैः प्रथमं पङ्कक्रीडनकमिव पश्चात्तद्विनाशेन खिन्नतेव च
भवद्भिर्विषयार्जने तद्विनाशे च दुःखायैव भोगवासनाऽज्ञात्मनि
वासितेत्यर्थः ॥ ६२ ॥

वासनाद्या दृशः सर्वा व्यतिरिक्तास्तु नात्मनः ।
जलादिव तरङ्गाद्या ज्ञस्यैवान्यस्य नानघ ॥ ६३ ॥

अत एव विदुषामज्ञानबाधिताः सह स्वकार्यैः शुद्धात्मैव सम्पन्ना इति न
पृथक्सन्तीत्याह - वासनाद्या इति । आद्यपदेन
तत्कार्यरागप्रवृत्त्यादिर्गृह्यते ।ज्ञस्यैव ता न सन्ति
नान्यस्याज्ञस्येत्यर्थः ॥ ६३ ॥

तृष्णयैव विनष्टाः स्थ व्यर्थमिन्द्रियबालकाः ।
कोशकारकुकृमयस्तन्तुनेव स्वयम्भुवा ॥ ६४ ॥

अत एवाज्ञैस्तृष्णयैवेन्द्रियाणि नाशितानीत्याह - तृष्णयैवेति ।
स्वयम्भुवा स्वत एवोद्भूतया ॥ ६४ ॥

तृष्णयैवेह लुठथ जरामरणसङ्कटे ।
भ्रमद्दृष्ट्येव शिखरिपथिकाः श्वभ्रभूमिषु ॥ ६५ ॥

इह अधःसंसारशिलाकण्टकभुवि लुठथ । यथा शिखरिपथिकाः
पर्वतशिखरे गच्छन्तः पित्तवशाद्भ्रमन्त्या दृष्ट्या शिखरात्पतिता अधो
विषमेषु लुठन्ति तद्वत् ॥ ६५ ॥

वासनैवेह भवतां हेतुरेकत्र बन्धने ।
रज्जुः शून्याशयप्रोता मुक्तानामातता यथा ॥ ६६ ॥

यथा मुक्तानां शून्ये छिद्रिते आशये गर्भे प्रोता आतता दीर्घा
रज्जुस्तन्तुर्बन्धने हेतुस्तद्वत् ॥ ६६ ॥

कल्पनामात्रकलिता सत्यैषा हि न वस्तुतः ।
असङ्कल्पनमात्रेण दात्रेणेव विलूयते ॥ ६७ ॥

कल्पनाद्भ्रान्तिस्तन्मात्रेण कलिता सम्पादिता । एषा वासना ॥ ६७ ।

एषा हि भवतामेव विमोहाय क्षयाय च ।
वातलेखेव दीपानां स्फुरतामपि तेजसाम् ॥ ६८ ॥

भवतां चित्तेन्द्रियाणाम् । वर्धमाना विमोहाय । क्षयाय मरणादिदुःखाय ।
स्फुरतां तेजसामुल्काविद्युदादीनामपि ॥ ६८ ॥

हे चित्त सर्वेन्द्रियकोश तस्मा-
त्सर्वेन्द्रियैरैक्यमुपेत्य नूनम् ।
आलोक्य चात्मानभसत्स्वरूपं
निर्वाणमेवामलबोधमास्स्व ॥ ६९ ॥

तस्मादुक्तहेतोः सर्वेन्द्रियाणां कोशवदाधार हे चित्त त्वं सर्वेन्द्रियैः सह
ऐक्यमैकमत्यमुपेत्य नूनं निश्चयेनात्मानं स्वमसत्स्वरूपं
मिथ्याभूतमित्यालोक्य स्वसाक्षिनिर्वाणमलबोधमात्रं तत्त्वतो भूत्वा आस्स्व
न भूयश्चित्तरूपमादत्स्वेत्यर्थः ॥ ६९ ॥

विषयविषविषूचिकामनन्तां
निपुणमहंस्थितिवासनामपास्य ।
अभिमतपरिहारमन्त्रयुक्त्या
भव विभवो भगवान्भियामभूमिः ॥ ७० ॥

सर्वशास्त्रतत्त्वज्ञाभिमता ये द्वैतवासनापरिहारास्तल्लक्षणया
अभिलषितविषयत्यागलक्षणया मन्त्रयुक्त्या
अनन्तामसङ्ख्यदुःखामहंस्थितिरहङ्कारस्तद्वासनालक्षणां
विषमविषसदृशाज्ञानप्रयुक्तां विषूचिकां निपुणमपास्य विभवो
विसंसारः सन् भियां मरणादिसर्वभयानामभूमिरनास्पदं
भगवान्पूर्णानन्दात्मैव भवेत्यर्थः ॥ ७० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उपशमप्रकरणे
उद्दालकविचारो नाम द्विपञ्चाशः सर्गः ॥ ५२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
उद्दालकविचारो नाम द्विपञ्चाशः सर्गः ॥ ५२ ॥