५१

एकपञ्चाशः सर्गः ५१

श्रीवसिष्ठ उवाच ।

क्षुरधारोपमानासु चित्तवृत्तिषु तिष्ठ मा ॥ १ ॥

उद्दालकमुनेः शान्ते पदे विश्रान्तिमिच्छतः ।
युञ्जानस्य मनोदोषैर्विक्षेपो बहुधेर्यते ॥ १ ॥

श्रवणमननाभ्यामवधारितेप्यात्मतत्त्वे चित्तविश्रान्तिमन्तरेण
निर्विक्षेपजीवन्मुक्तिसुखाप्राप्तिरिति तदर्थं समाध्याभ्यसेष्वप्रमादेन
बोधवर्धनमावश्यकमित्युद्दालकचरित्रवर्णनमुखेनोपदि##-
परिदीर्घास्विति । ऐहिकामुष्मिकदूरस्थविषयासङ्गात्परिदीर्घासु
वासनाप्रचुरत्वात्तन्वीषु प्रमाद्यतो झटित्येव
समाधिसुखविच्छेदक्षतहेतुत्वात्सुतीक्ष्णासु
आत्मप्रतिबिम्बग्रहणयोग्यतालक्षणनैर्मल्यात्सितासु अत एव
क्षुरधारोपमानासु चित्तस्य वृत्तिषु चारित्र्येषु प्रमादाद्विश्वस्तो मा
तिष्ठेत्यर्थः ॥ १ ॥

कालेन महता क्षेत्रे जातेयं बुद्धिवल्लरि ।
वृद्धिं विवेकसेकेन नय तां नयकोविद ॥ २ ॥

सत्कुलक्षेत्रे जातायां कायलतायां चित्तशुद्धिश्रवणादिदोहदोपायैरियं
परमात्मपरिचयलक्षणा बुद्धिवल्लरी तव जाता तां
बाह्यदृश्यव्यावृत्तिलक्षणविवेकामृतसेकेन वृद्धिं नयेत्यर्थः ॥ २ ॥

यावन्म्लायति नो कायलतिका कालभास्वता ।
भूतलेऽपतितां तावदेनामुद्धृत्य धारय ॥ ३ ॥

सा च बाल्यात्प्रभृति सिच्यमाना वर्धते वार्धकादिना कायलताम्लानौ
पतनसम्भावनात्तदुद्धारोऽप्यशक्यो दूरे तन्मञ्जरीवर्धनमित्याशयेनाह

  • यावदिति । भूतले अपतितां एनां कायलतां गुरुशुश्रूषाश्रवणादिना
    उद्धृत्य बुद्धिवल्लरीं पालयेत्यर्थः ॥ ३ ॥

मद्वाक्यार्थैकतत्त्वज्ञ मद्वाक्यार्थैकभावनात् ।
सुखमाप्नोषि सर्पारियथाभ्ररवभावनात् ॥ ४ ॥

विवेकसेकश्च वक्ष्यमाणाख्यानरूपमद्वाक्यार्थस्यैव श्रुत्वावधार्य
पुनःपुनर्भावनं तत्रैव सर्वमननयुक्तीनां सत्त्वादित्याशयेनाह -
मद्वाक्येति । सर्पारिर्मयूरो यथा अभ्ररवस्य मेघगर्जितस्य
भावनात्सुखमाप्नोति तद्वदित्यर्थः ॥ ४ ॥

उद्दालकवदालूनं विशीर्णं भूतपञ्चकम् ।
कृत्वा कृत्वा धिया धीरधीरयान्तर्विचारय ॥ ५ ॥

तामेवाख्यायिकामवतार्य तदर्थविचारकर्तव्यतामाह - उद्दालकवदिति ।
देहाद्यारम्भकं बाह्यप्रपञ्चारम्भकं च भूतपञ्चकं
तत्त्वम्पदार्थशोधपरया धिया अन्नेन सोम्य शुङ्गेनापोमूलमन्विच्छ इति
श्रुतिदर्शितयुक्त्या कारणव्यतिरिक्तकार्याङ्कुराप्लापादालूनं
मूलाविद्याविशरणाद्विशीर्णं च कृत्वा तदधिष्ठानसन्मात्रन्वेषणे
धीरेभ्योऽपि धीरया धिया अन्तर्विचारयेत्यर्थः ॥ ५ ॥

श्रीराम उवाच ।

केन क्रमेण भगवन्मुनिनोद्दालकेन तत् ।
भूतपञ्चकमालूनं कृत्वान्तः प्रविचारितम् ॥ ६ ॥

श्रीवसिष्ठ उवाच ।

शृणु राम यथापूर्वं भूतवृन्दविचारणात् ।
उद्दालकेन सम्प्राप्ता परमा दृष्टिरक्षता ॥ ७ ॥

जगज्जीर्णगृहस्यास्य कोणे कस्मिंश्चिदातते ।
भूमेरनिलदिग्नाम्नि भूभृद्भाण्डसमाकुले ॥ ८ ॥

भूभृत एव न्युब्जीकृतभाण्डानि तैः समाकुले इति
गृह्कोणसाम्योपपादकं विशेषणम् ॥ ८ ॥

गन्धमादनशैलेन्द्रनाम्नि काचित्किल स्थली ।
विद्यते कीर्णकुसुमा द्रुमकर्पूरकेसरा ॥ ९ ॥

पुष्पितद्रुमा एव कर्पूरसदृशपरागैः केसरैश्च सर्वतो
व्याप्तत्वात्कर्पूरकेसरा यस्याम् ॥ ९ ॥

विचित्रवर्णविहगा नानावल्लीविलासिनी ।
वनेचरव्याप्ततटी पुष्पकेसरभासिनी ॥ १० ॥

क्वचित्स्फीतमहारत्ना क्वचिल्लोलाम्बुजोत्पला ।
क्वचिन्नीहारकबरी सरसीदर्पणा क्वचित् ॥ ११ ॥

सरस्यो महासरांस्येव दर्पणानि यस्याम् ॥ ११ ॥

तत्र कस्मिंश्चिदुदिते सानौ सरलपादपे ।
आगुल्पाकीर्णकुसुमे स्निग्धच्छायमहाद्रुमे ॥ १२ ॥

सानौ प्रस्थप्रदेशे ॥ १२ ॥

उद्दालको नाम मुनिर्मौनी मानी महामतिः ।
अप्राप्तयौवनः पूर्वमुवासोद्दामतापसः ॥ १३ ॥

मानी अवश्यं यत्नैः पुरुषार्थं साधयिष्यामीत्यभिमानवान्
आगमानुमानादिमानकुशलश्च । महामतिरक्षुद्रमनाः ॥ १३ ॥

प्रथमं तु बभूवासावल्पप्रज्ञो विचारवान् ।
अप्राप्तपदविश्रान्तिरप्रबुद्धः शुभाशयः ॥ १४ ॥

शुभाशयः प्रबोधानुकूलसुकृतसम्भृतान्तःकरणः ॥ १४ ॥

ततः क्रमेण तपसा शास्त्रार्थनियमैः क्रमैः ।
विवेक आजगामैनं नवर्तुरिव भूतलम् ॥ १५ ॥

क्रमैरभ्यासपरिपाकक्रमैः । नवर्तुराद्यर्तुर्वसन्तः ॥ १५ ॥

अथेमं चिन्तयामास संसारामयभीरुधीः ।
एकान्त एव निवसन्कदाचित्कान्तमानसः ॥ १६ ॥

इमं वक्ष्यमाणप्रकारं चिन्तयामास । कान्तमानसः शुभचित्तः ।
क्लान्तमानसः इति पाठे स्पष्टम् ॥ १६ ॥

किं तत्प्राप्यं प्रधानं स्याद्यद्विश्रान्तौ न शोच्यते ।
यत्प्राप्य जन्मना भूयः सम्बन्धो नोपजायते ॥ १७ ॥

प्राप्यानां पुरुषार्थानां मध्ये प्रधानं प्राप्यं मोक्षाख्यं किं
तत्स्यात् ॥ १७ ॥

कदाहं त्यक्तमनने पदे परमपावने ।
चिरं विश्रान्तिमेष्यामि मेरुशृङ्ग इवाम्बुदः ॥ १८ ॥

त्यक्तानि मननानि मनोव्यापारा यत्र ॥ १८ ॥

कदा शममुपैष्यन्ति ममान्तर्भोगसंविदः ।
आलोलकल्लोलरवा ऊर्मयोऽम्बुनिधाविव ॥ १९ ॥

भोगसंविदो भोगतृष्णाः ॥ १९ ॥

इदं कृत्वेदमप्यन्यत्कर्तव्यमिति कल्पनाम् ।
कदान्तर्विहसिष्यामि पदविश्रान्तया धिया ॥ २० ॥

कदा विकल्पजालं मे न लगिष्यति चेतसि ।
स्थितमप्युज्झितासङ्गं पयः पद्मदले यथा ॥ २१ ॥

आभासमात्रेण स्थितमप्युपेक्ष्यमाणत्वादुज्झितासङ्गम् ॥ २१ ॥

कदा बहुलकल्लोलां नावा परमया धिया ।
परितीर्णो भविष्यामि मत्तां तृष्णातरङ्गिणीम् ॥ २२ ॥

मत्तां अविवेकप्रवृद्धाम् ॥ २२ ॥

कदेमां जागतैर्भूतैः क्रियमाणामसन्मयीम् ।
क्रियामपहसिष्यामि बाललीलामिवाकुलाम् ॥ २३ ॥

क्रियां बाह्यप्रवृत्तिम् । आकुलां व्यग्रचित्ताम् ॥ २३ ॥

कदा विकल्पपर्यस्तं मनो दोलावदोलनम् ।
शममेष्यति मे शान्तवातौजस इव भ्रमः ॥ २४ ॥

विकल्पैः पर्यस्तं विक्षिप्तम् । दोलेव अवदोलनं यस्य तदविश्रान्तम् ।
शान्तवातौजसः प्रशान्तोन्मादवातरोगस्य भ्रमो विक्षिप्ततेव ॥ २४ ॥

कदोदितवपुर्भासा विहसञ्जागतीर्गतीः ।
अन्तः सन्तोषमेष्यामि विराडात्मेव पूर्णधीः ॥ २५ ॥

उदितवपुष आविर्भूतस्वरूपस्य भासा स्वप्रकाशस्फुरणेन ।
विराट्ब्रह्माण्डशरीर आत्मेव स्वान्तः पूर्णधीः ॥ २५ ॥

अन्तः समसमाकारः सौम्यः सर्वार्थनिस्पृहः ।
कदोपशममेष्यामि मन्थमुक्तामृताब्धिवत् ॥ २६ ॥

समेन परमात्मना सम एकरसः समेन समाहितेन विष्णुना समः
सश्रीकश्च आकारो यस्य । सर्वेष्वर्थेषु धर्मार्थकामेषु अमृतकौस्तुभादिषु
च निस्पृहः । मन्थेन मथनविक्षेपेण मुक्तोऽमृताब्धिः क्षीरार्णवस्तद्वत् ॥
२६ ॥

कदेमामचलां दृश्यश्रियमाशाशतात्मिकाम् ।
सर्वां सुषुप्तवत्पश्यन्भविष्याम्यन्तराततः [अन्तरानत इति
पाठः] ॥ २७ ॥

सुषुप्तवत्सन्मात्रात्मना पश्यन् ॥ २७ ॥

सबाह्याभ्यन्तरं सर्वं शान्तकल्पनया धिया ।
पश्यंश्चिन्मात्रमखिलं भावयिष्याम्यहं कदा ॥ २८ ॥

भावयिष्यामि तद्भावनया स्थिरो भविष्यामि ॥ २८ ॥

कदोपशान्तचित्तात्मा चित्तामुपगतः पराम् ।
परमालोकमेष्यामि जात्यन्धविगमादिव ॥ २९ ॥

परां चित्तां चिदेकरसताम् । परं परमात्मानं पुरःस्थितपुरुषान्तरं च ।
जात्यन्ध इति भावप्रधानो निर्देशः ।
जात्यन्धतासदृशानादिमूलाज्ञानापगमादिति भावः ॥ २९ ॥

कदाभ्यासोपलभ्येन चित्प्रकाशेन चारुणा ।
दूरादालोकयिष्यामि तन्वीं कालकलामिमाम् ॥ ३० ॥

तन्वीं बाधितानुवृत्तिरूपत्वात्तुच्छामल्पावशिष्टां चायुःशेषलक्षणां
कालकलामात्मास्पर्शिताद्दूरादेवालोकयिष्यामीत्यर्थः ॥ ३० ॥

ईहितानीहितैर्मुक्तो हेयोपादेयवर्जितः ।
कदान्तस्तोषमेष्यामि स्वप्रकाशपदे स्थितः ॥ ३१ ॥

कदाशाकौशिकीकीर्णा जाड्यजीर्णहृदम्बुजा ।
क्षयमेष्यति कृष्णेयं कदा मे दोषयामिनी ॥ ३२ ॥

जाड्येन मौर्ख्येण हिमेन च जीर्णं जरितं हृदम्बुजं यया ।
दोषोऽविद्यातमस्तल्लक्षणा यामिनी रात्रिः ॥ ३२ ॥

कदोपशान्तमननो धरणीधरकन्दरे ।
समेष्यामि शिलासाम्यं निर्विकल्पसमाधिना ॥ ३३ ॥

निर्विकल्पसमाधिना शान्तमननश्चिदैकरस्यविगलितमनोवृत्तिः ॥ ३३ ॥

कदा मे मानमातङ्गः स्वाभिमानमहामदः ।
सत्त्वावबोधहरिणा हतो नाशमुपैष्यति ॥ ३४ ॥

मानोहङ्कारस्तल्लक्षणो मातङ्गः स्वे स्वांशभूता अभिमानवृत्तय एव
महान्तो मदप्रवाहा यस्य । सत्त्वं परमार्थसन्मात्रं तदवबोधलक्षणेन
हरिणा सिंहेन ॥ ३४ ॥

निरंशध्यानविश्रान्तेर्मूकस्य मम मूर्धनि ।
कदा तार्णं करिष्यन्ति कुलायं वनघूर्णिकाः ॥ ३५ ॥

निरंशे निर्विकल्पे ध्याने विश्रान्तिर्यस्य । मूकस्य मौनव्रतिनो मम मूर्धनि ।
तार्णं तृणमयं कुलायं नीडम् । घूर्णिकाः पक्षिभेदाः ॥ ३५ ॥

कदा निःशङ्कमुरसि ध्यानधीरधियः खगाः ।
मम विश्रान्तिमेष्यन्ति शैलस्थाण्वचलस्थितेः ॥ ३६ ॥

ध्याने धीरा स्थिरा धीर्यस्य । उरसि उरोलम्बिजटाग्ररचितनीडे इति यावत् ॥ ३६ ॥

तृष्णाकरञ्जजटिलां जन्मजर्जरगुल्मिकाम् ।
संसारारण्यसरसीं त्यक्त्वा यास्याम्यहं कदा ॥ ३७ ॥

तृष्णालक्षणैस्तीररुहैः करञ्जैर्जटिलाम् । जन्मान्येव
कामादिमृगसञ्चारजर्जराणि गुल्मान्तराणि यस्याम् ॥ ३७ ॥

इति चिन्तापरवशो वन उद्दालको द्विजः ।
पुनः पुनस्तूपविशन्ध्यानाभ्यासं चकार ह ॥ ३८ ॥

न स लेभे समाधानप्रतिष्ठां प्रीतिदायिनीम् ॥ ३९ ॥

कदाचिद्बाह्यसंस्पर्शपरित्यागादनन्तरम् ।
तस्यागच्छच्चित्तकपिः प्रोद्वेगं सत्त्वसंस्थितौ ॥ ४० ॥

प्रत्याहारेण बाह्यानां विषयसंस्पर्शानां त्यागादनन्तरं
सत्त्वगुणप्रधानसमाधिसंस्थितौ प्रसक्तायां रजसा क्षोभ्यमाणं
भयारत्यालस्यादिरूपं प्रोद्वेगमगमत् । अथवा सत्त्वसंस्थितौ
सात्त्विकदेवादिभोग्ये विषये सात्त्विकवृत्तिसुखास्वादे वा प्रोद्वेगं
मनोरथैश्चलनमगमत् ॥ ४० ॥

कदाचिदान्तरान् स्पर्शान्परित्यज्य मनःकपिः ।
लोलत्वात्तस्य संयातो विषयं विषदग्धवत् ॥ ४१ ॥

आन्तरान् समाधिसुखस्पर्शान् । विषेण दग्धो मृतो यथा लोकान्तरं प्रयाति
तद्वत् । तत्पक्षे आन्तरान् जाठराग्निसम्बन्धिनः स्पर्शान् देहोष्मणः ॥ ४१ ॥

कदाचिदुदितार्काभं तेजो दृष्ट्वान्तरे मनः ।
विषयोन्मुखतां यातं तस्य तामरसेक्षण ॥ ४२ ॥

आन्तरे हार्दब्रह्मणि उदितार्काभं तेजो दृष्ट्वा । तथा च श्रुतिः -
नीहारधूमार्कानलानिलानां खद्योतविद्युत्स्फटिकशशीनाम् । एतानि रूपाणि
पुरःसराणि ब्रह्मण्यभिव्यक्तिकराणि योगे इति ॥ ४२ ॥

आन्तरान्ध्यतमस्त्यागं कृत्वा विषयलम्पटम् ।
तस्योड्डीय मनो याति कदाचित्त्रस्तपक्षिवत् ॥ ४३ ॥

आन्तरस्यान्ध्यतमसोऽज्ञानान्धकारस्य ईषद्ब्रह्माभिव्यक्त्या त्यागं
ईषत्प्रशमं कृत्वा तदानीमेव विषयवासनोद्बोधात्तल्लम्पटं
भूत्वेत्यर्थः ॥ ४३ ॥

बाह्यानाभ्यन्तरान्स्पर्शांस्त्यक्त्वा निद्रां च तन्मनः ।
तमस्तेजोन्तिके लेभे कदाचिच्छाश्वतीं स्थितिम् ॥ ४४ ॥

बाह्याभ्यन्तरस्पर्शौ व्याख्यातौ । तमसोऽज्ञानस्य तेजस
आत्मज्योतिषश्चान्तराले सन्धौ लीनं सन्निद्रामेव शाश्वतीं चिरानुवृत्तां
स्थितिं लेभे ॥ ४४ ॥

इति पर्याकुलस्यान्तः स खलु ध्यानवृत्तिषु ।
दरीष्वन्वहमुग्रासु वातमग्न इव द्रुमः ॥ ४५ ॥

दरीषु ध्यानसंरूढमननः [मनसः पर्याकुलस्य इत्यपि पाठः]
सः पर्याकुलस्य मनसो मध्ये मध्ये वातेन सन्निहितजले मग्नो मज्जितो द्रुमो
यथा तथा तृष्णालक्षणैस्तीरतरङ्गकैर्दोलायितवपुः सन् सङ्कटे अतिष्ठदिति
परेण सहान्वयः ॥ ४५ ॥

अतिष्ठध्यानसंरूढमननः सङ्कटे यथा ।
दोलायितवपुस्तुच्छतृष्णातीरतरङ्गकैः ॥ ४६ ॥

अथ पर्याकुलमना विजहार मुनिर्गिरौ ।
प्रत्यहं दिवसाधीशो महामेराविवैककः ॥ ४७ ॥

विजहार सञ्चचार । महामेरौ
सदैवार्कपादसम्बन्धदर्शनात्तत्रार्कविहरणकल्पनयोपमोक्तिः ॥ ४७ ॥

समस्तभूतदुष्प्रापामेकदा प्राप कन्दराम् ।
संशान्तसर्वसञ्चारां मुनिर्मोक्षदशामिव ॥ ४८ ॥

समस्तभूतदुष्प्रापामत एव संशान्तसर्वसञ्चाराम् ।
कन्दरामोक्षदशासाधारणे विशेषणे । आसर्गसमाप्तेः कन्दरैवं विशेष्यते
॥ ४८ ॥

अपर्याकुलितां वातैरप्राप्तमृगपक्षिणीम् ।
अदृष्टां देवगन्धर्वैः परमाकाशशोभनाम् ॥ ४९ ॥

परमाकाशो ब्रह्मेव शोभमानाम् ॥ ४९ ॥

पुष्पप्रकरसञ्छन्नां मृदुशाद्वलकोमलाम् ।
ज्योतीरसाश्मसम्प्रोतैः कृतां मरकतैरिव ॥ ५० ॥

ज्योतीरूपो रसश्चन्द्रस्तदश्मभिश्चन्द्रकान्तैः सह
सम्प्रोतैर्घटितैर्मरकतमणिभिः कृतामिव ॥ ५० ॥

सुस्निग्धशीतलच्छायां प्रकटां रत्नदीपकैः ।
सुगुप्तां वनदेवीनामन्तःपुरकुटीमिव ॥ ५१ ॥

द्वारि सुस्निग्धशीतलच्छायाम् ॥ ५१ ॥

कुलम्बनाहिमालोकां नात्युष्णां नातिशीतलाम् ।
शारदस्योदितार्कस्य हेमगौरीं प्रभामिव ॥ ५२ ॥

कौ द्वारभूमौ लम्बन्ते प्रसरन्तीति कुलम्बनाः । अहिमाः
शीतनिवारणमात्रक्षमा आलोका यस्याम् । अत एव नात्युष्णां नातिशीतलाम् ।
उदितार्कस्य बालसूर्यस्य । हेमेव गौरीं पीताम् ॥ ५२ ॥

बालालोकपरिम्लानां कोमलाशब्दमारुताम् ।
मञ्जरीजटिलोपेतां बालां मालावतीमिव ॥ ५३ ॥

बालेन आलोकेन परिम्लानां शुष्काम् । अनेन गुहा प्रा"मुखीति गम्यते । कोमलो
मन्दः अशब्दश्च मारुतो यस्याम् । तेन प्रत्यग्भागेऽपि गवाक्षवत्ता गम्यते ।
मञ्जरीजटिलैस्तरुभिरुपेताम् । अनेन सुरभिता गम्यते । स्वयंवरोद्युक्तां
मालावतीं बालां राजकन्यामिव स्थितामित्यर्थः ॥ ५३ ॥

उपशमपदवीमिवानुरूपां
कमलजविश्रमणाय योग्यरूपाम् ।
कुसुमनिकरकोमलाभिरामां
सरसिजकोटरकोमलां समन्तात् ॥ ५४ ॥

सरसिजकोटरमिव कोमलाम् । अत एव कमलजस्य धातुर्विश्रमणाय योग्यरूपाम्
। समन्तात्कुसुमनिकरैश्च कोमलां रम्याम् । उपशमपदवीमिव
सदैवाश्रयितुमनुरूपां कन्दरां प्रापेति पूर्वत्र सम्बन्धः ॥ ५४ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे उद्दालकमनोरथो नामैकपञ्चाशः
सर्गः ॥ ५१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
उद्दालकमनोरथो नामैकपञ्चाशः सर्गः ॥ ५१ ॥