५०

पञ्चाशः सर्गः ५०

श्रीवसिष्ठ उवाच ।

एवमेषातिवितता दुर्ज्ञाना रघुनन्दन ।
महामोहमयी माया विषमा पारमात्मिकी ॥ १ ॥

चित्तस्याक्रमणोपाया ज्ञानमाहात्म्यमुत्तमम् ।
चेतोहिपीनतादोषहेतवश्चात्र कीर्तिताः ॥ १ ॥

वर्णितं गाध्युपाख्यानं प्रकृते योजयति - एवमित्यादिना । दुर्ज्ञाना
अचिन्त्या । पारमात्मिकी परमात्ममात्राश्रयविषया ॥ १ ॥

क्व मुहूर्तद्वयस्वप्नसम्भ्रमाल्लोकदृष्टता ।
क्वानेकवर्षसम्भुक्तश्वपचावनिपभ्रमः ॥ २ ॥

दुर्ज्ञानतामेव त्रेधा दर्शयति - क्वेति द्वाभ्याम् ॥ २ ॥

क्व सम्भ्रमोपलब्धत्वं क्व प्रत्यक्षनिदर्शनम् ।
क्वासत्यत्वमसन्दिग्धं क्व सत्यपरिणामिता ॥ ३ ॥

अतो वच्मि महाबाहो मायेयं विषमान्वहम् ।
असावधानमनसं संयोजयति सङ्कटे ॥ ४ ॥

श्रीराम उवाच ।

एवमस्य कथं ब्रह्मन्मायाचक्रस्य रोधनम् ।
कुर्युः प्रवहतो वेगात्सर्वाङ्गच्छेदकारिणः ॥ ५ ॥

चित्तं नाभिः किलास्येह मायाचक्रस्य सर्वतः । स्थीयते चेत्तदाक्रम्य तन्न
किञ्चित्प्रबाधते ॥ इति यद्भगवतान्ते उपदिष्टं तदुपायं जिज्ञासू रामः
पृच्छति - एवमिति । कुर्युरधिकारिण इति शेषः । पूर्णानन्दात्मनः
परिच्छेददुःखापादनमेवाङ्गच्छेदसाम्यादङ्गच्छेदस्तत्कारिणः ॥ ५ ॥

श्रीवसिष्ठ उवाच ।

अस्य संसाररूपस्य मायाचक्रस्य राघव ।
चित्तं विद्धि महानाभिं भ्रमतो भ्रमदायिनः ॥ ६ ॥

भगवदुपदिष्टमायाचक्रावष्टम्भप्रकारं प्रथमं
प्रपञ्चयितुमुक्तमनुवदति - अस्येत्यादिना ॥ ६ ॥

तस्मिन्द्रुतमवष्टब्धे धिया पुरुषयत्नतः ।
गृहीतनाभिवहनान्मायाचक्रं निरुध्यते ॥ ७ ॥

मायाचक्रं गृहीता नाभिर्यस्य तत्तथाविधं
सद्वहनाद्भ्रमणान्निरुध्यते । निवर्तते इति यावत् ॥ ७ ॥

अवष्टब्धमनोनाभिमोहचक्रं न गच्छति ।
यथा रज्ज्वां निरुद्धायां कीलकं रज्जुवेष्टितम् ॥ ८ ॥

यथा बालानां कांस्यादिमयं क्रीडाचक्रं तन्तुवेष्टितनाभिकीलकं
तर्जन्यग्रनिबद्धायां रज्ज्वां तन्तौ निरुद्धायां न गच्छति न भ्रमति तद्वत्
॥ ८ ॥

चक्रयुद्धैकतज्ज्ञोऽसि कस्माज्जानासि नानघ ।
चक्रं नाभाववष्टब्धं वशमायाति नान्यथा ॥ ९ ॥

किञ्च हे राघव त्वं चक्रयुद्धेष्वेको मुख्यस्तज्ज्ञश्च
विष्टम्भभ्रमणाद्यभिज्ञोऽसि अतः कस्मादुक्तदृष्टान्तं न जानासि ॥ ९ ॥

चित्तं नाभिमवष्टभ्य तस्माद्यत्नेन राघव ।
संसारचक्रं वहनादात्मनः परिरोधय ॥ १० ॥

आत्मनो वहनाज्जन्मपरम्पराप्रापणात् सम्यङ्निरोधय निरुन्धि ॥ १० ॥

एतां युक्तिं विना दुःखमनन्तमितमात्मनः ।
अस्यां दृष्टौ क्षणादन्तं गतमेवावलोकय ॥ ११ ॥

एतां चित्तरोधनलक्षणां युक्तिं योगमुपायं विना आत्मनोऽनन्तं
दुःखमितं प्राप्तम् । तच्च दुःखमस्यां दृष्टौ प्राप्तायां सत्यामन्तं
नाशं गतमेव अवलोकय । मदुक्तार्थे संशये त्वं तथा कृत्वा
पश्येत्यर्थः ॥ ११ ॥

चित्ताक्रमणमात्रात्तु परमादौषधादृते ।
प्रयत्नेनापि संसारमहारोगो न शाम्यति ॥ १२ ॥

उपायान्तरं च नास्तीत्याह - चित्तेति ॥ १२ ॥

तस्माद्राघव सन्त्यज्य तीर्थदानतपःक्रियाः ।
श्रेयसे परमायान्तश्चित्तमेव वशं कुरु ॥ १३ ॥

चित्तान्तरेव संसारः कुम्भान्तः कुम्भखं यथा ।
चित्तनाशे न संसारः कुम्भनाशे न कुम्भखम् ॥ १४ ॥

तत्रोपपत्तिमाह - चित्तन्तरिति ॥ १४ ॥

चिरं संसरणाकाशकोटरं चित्तकुम्भखम् ।
विनाश्यातुलिताकाशस्वरूपं रूपमाविश ॥ १५ ॥

यथा कुम्भखे निरुद्धो मशकादिः स्वदुःखसंसरणाकाशकोटरं
दैवात्कुम्भनाशेन विनाश्यातुलितमनुपमं महाकाशस्वरूपमाविश्य
मुक्तबन्धः सुखी भवति तथा त्वमपि चित्तनाशेन चित्तकुम्भखं विनाश्य
अतुलितं ब्रह्माकाशमाविशेत्यर्थः ॥ १५ ॥

वर्तमानमनायासं भजद्बाह्यधिया क्षणम् ।
भूतं भविष्यदभजद्याति चित्तमचित्तताम् ॥ १६ ॥

चित्तनाशे तर्हि क उपायस्तमाह - वर्तमानमिति ।
भूतभविष्यद्विषयानुसन्धानत्यागादेव क्रमाच्चित्तं क्षीयत इत्यर्थः ॥ १६ ॥

सङ्कल्पांशानुसन्धानवर्जनं चेत्प्रतिक्षणम् ।
करोषि तदचित्तत्वं प्राप्त एवासि पावनम् ॥ १७ ॥

भाविविषयसङ्कल्पस्य तदंशभूतार्थानुसन्धानस्य च वर्जनं
प्रतिक्षणं सावधानतया करोषि चेत्तत्तर्हि ॥ १७ ॥

यावत्सङ्कल्पकलना तावच्चीत्तविभूतयः ।
यावज्जलदविस्तारस्तावत्खजलबिन्दवः ॥ १८ ॥

खजलस्य वर्षस्य बिन्दवः ॥ १८ ॥

सचित्तं चेतनं यावत्तावत्सङ्कल्पकल्पनम् ।
सचन्द्रांशु जगद्यावत्तावत्प्रालेयलेशकाः ॥ १९ ॥

एवं सङ्कल्पा अपि सति चित्ते दुर्वारा इत्याह - सचित्तमिति । चेतनं
चिदात्मरूपम् ॥ १९ ॥

चेतनं चित्तरिक्तं चेद्भावितं तत्स्वसंसृतेः ।
आमूलमेव दग्धानि विद्धि मूलानि सिद्धवत् ॥ २० ॥

चित्तरिक्तं चित्तात्पृथक्कृतं कूटस्थमिति यावत् । तत्तदा स्वसंसृतेर्मूलानि
कामकर्मवासनादीनि आमूलं मूलाज्ञानेन सह दग्धानीति सिद्धवत्कारेण
महासिद्धसाम्येन वा विद्धीत्यर्थः ॥ २० ॥

चेतनं चित्तरिक्तं हि प्रत्यक्चेतनमुच्यते ।
निर्मनस्कस्वभावं तन्न तत्र कलनामलः ॥ २१ ॥

नन्वस्तु दाहस्तथापि चेतने पुनः कलनामलवशाच्चित्तादिसमुद्भवः किं न
स्यादित्याशङ्क्याह - चेतनमिति ॥ २१ ॥

सा सत्यता सा शिवता सावस्था पारमात्मिकी ।

चित्तरहितचेतनस्वरूपं यत्सैव परमार्थसत्यता । शिवता
निरतिशयानन्दरूपता । सैव परमात्मस्वभावभूता अवस्था । सर्वज्ञता
सर्वावभासकचिद्रूपता । दृष्टिः परमार्थदृक् । यत्र यस्यामवस्थायाम् ।
क्षतमिति निन्दार्थं विशेषणम् ॥ २२ ॥

मनो यत्र तु तत्राशास्तत्र दुःखसुखानि च ।
सदा सन्निधिमायान्ति श्मशान इव वायसाः ॥ २३ ॥

निन्द्यताबीजान्येव दर्शयति - मन इति ॥ २३ ॥

वस्तुतत्त्वावबोधेन सर्वभावव्यवस्थितेः ।
ससृतिव्रततेर्बीजं सङ्कल्पेनोपजायते ॥ २४ ॥

ननु विदुषामपि मनोऽस्ति तत्राप्याशादीनि कुतो नोपजायन्ते तत्राह -
संसृतीति । सत्यमस्ति तथापि तेषां मानसे सङ्कल्पे
आशादिसर्वभावव्यवस्थापिकायाः संसारवल्ल्या वासनात्मकं बीजमेव न
जायते वस्तुतत्त्वावबोधेन बाधितत्वादित्यर्थः ॥ २४ ॥

शास्त्रसज्जनसम्पर्कसन्तताभ्यासयोगतः ।
जागतानामवस्तुत्वं भावानामवगम्यते ॥ २५ ॥

वस्तुत्वेनावगतानां केनोपायेनावस्तुत्वावगमलक्षणो बाधस्तमाह -
शास्त्रेति ॥ २५ ॥

अविवेकादुपाहृत्य चेतसोद्यमनिश्चयैः ।
बलात्कारेण संयोज्यं शास्त्रसत्पुरुषक्रमैः ॥ २६ ॥

उपाहृत्य निवर्त्य । उद्यमः पुरुषयत्नस्तत्सहितैरवश्यमस्मिञ्जन्मनि
ज्ञानं साधयामीति दृढनिश्चयैः ॥ २६ ॥

मुख्यं कारणमात्मैव परमात्मावलोकने ।
अगाधे पतितं रत्नं रत्नेनैवावलोक्यते ॥ २७ ॥

किं मुख्यं कारणमवलम्ब्य शास्त्रादिनाप्यात्मान्वेष्य इति
चेत्स्वयञ्ज्योतिरूपं प्रत्यगात्मानमेव । तद्वेद्यवैलक्षण्येन तस्यैव स्वतः
प्रथमानत्वादित्याशयेनाह - मुख्यमिति । रत्नेन प्रकाशमानेन
स्वेनैवेत्यर्थः ॥ २७ ॥

स्वानुभूतानि दुःखानि स्वात्मैव त्यक्तुमिच्छति ।
तेनात्मैवात्मविज्ञाने हेतुरेकः परः स्मृतः ॥ २८ ॥

उक्तां मुख्यकारणतां स्फुटयति - स्वेति । स्वेनानुभूतानि दृश्यजातानि
दुःखान्येवेति विवेकेन येन हेतुना त्यक्तुमिच्छति तेनैव हेतुना स्वात्मवलोकने
तत्प्रतिकूलस्वभावः स्वयं मुख्यो हेतुः । नहि
स्वयमप्यसुखजडस्वभावत्वे तत्प्रतिकूलः स्यादिति भावः ॥ २८ ॥

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
निरस्तमननानन्तसंविन्मात्रपरो भव ॥ २९ ॥

तस्मात्त्वं सदा तदेकप्रवणो भव तल्लाभायेत्याह - प्रलपन्नित्यादिना ॥
२९ ॥

जायमानस्तथा जीवन्म्रियमाणः क्रियारतः ।
स्वात्मन्यमलतां प्राप्ते संविदंशे स्थिरो भव ॥ ३० ॥

जन्ममरणग्रहणं तत्समसुखदुःखदुर्दशान्तरेष्वदप्यात्मप्रवणताया
अविस्मरणविधानार्थम् । शोधनेनामलतां प्राप्ते संविन्मात्रांशे ॥ ३० ॥

ममेदं तदयं सोऽहमिति सन्त्यज्य वासनाः ।
एकनिष्ठतयान्तस्थसंविन्मात्रपरो भव ॥ ३१ ॥

इदं पुरोवर्ति तद्दूरस्थं च मम । अयं स प्रत्यभिज्ञायमानो देहोऽहमिति
वासनाः सम्यक् त्यक्त्वा ॥ ३१ ॥

वर्तमानभविष्यन्त्योः स्थित्योरादेहमेकधीः ।
स्वसंवित्त्यानुसन्धानसमाधानपरो भव ॥ ३२ ॥

वर्तमाना बाल्यादिस्थितिर्भविष्यन्ती यौवनराज्यादिस्थितिस्तयोरनुसन्धानं
ध्यानं समाधानं समाधिः ॥ ३२ ॥

बाल्ययौवनवृद्धेषु दुःखेषु च सुखेषु च ।
जाग्रत्स्वप्नसुषुप्तेषु स्वसंवित्तिपरो भव ॥ ३३ ॥

उक्तमेव स्पष्टमाह - बाल्येति ॥ ३३ ॥

मलं संवेद्यमुत्सृज्य मनो निर्गलयन्परम् ।
आशापाशमलं छित्त्वा स्वसंवित्तिपरो भव ॥ ३४ ॥

संवेद्यं बाह्यविषयलक्षणम् ॥ ३४ ॥

शुभाशुभस्वसङ्केतसंशान्ताविषूचिकः ।
नष्टेष्टानिष्टदृष्टिस्त्वं संवित्सारपरो भव ॥ ३५ ॥

शुभाशुभलक्षणौ यौ स्वसङ्कल्पकृतसङ्केतौ तयोः संशान्ता
आशाविषूचिका यस्य । अत एव नष्टेनिष्टा दृष्टिर्यस्य ॥ ३५ ॥

सकर्तृकर्मकरणान्स्वास्पर्शानन्तरा स्पृशन् ।
निर्विकल्पनिरालम्बः स्वचिन्मात्रपरो भव ॥ ३६ ॥

कर्ता विज्ञानमयः कर्म बाह्यविषयाः करणानीन्द्रियाणि तत्सहितान् । स्वं न
स्पृशन्तीति स्वास्पर्शानेवंविधसंसारान् स्वस्यान्तरा मध्ये मणिः
स्वान्तर्गतप्रतिबिम्बानिव स्पृशन्प्रथयन् ॥ ३६ ॥

जाग्रत्येव हि संसुप्तां भावयन्सुस्थिरां स्थितिम् ।
सर्वमस्मीति सञ्चिन्त्य सत्तैकात्मवपुर्भव ॥ ३७ ॥

संसुप्तां सुषुप्तवन्निर्विकल्पाम् ॥ ३७ ॥

नानाऽनानादशमुक्तो युक्तो मुक्ततया समे ।
समग्रकलनादीपः स्वचिन्मात्रपरो भव ॥ ३८ ॥

नानादशा जाग्रत्स्वप्नौ अनानादशा सुषुप्तिस्ताभ्यां
सृष्टिप्रलयदशाभ्यां वा मुक्तः । समग्रस्य दृश्यस्य कलनायां
प्रथायां दीपः । समस्तानां सकलनानाबुद्धिवृत्तीनां दीपवत्प्रकाशक इति
वा ॥ ३८ ॥

आत्मतापरते त्यक्त्वा निर्विभागो जगत्स्थितौ ।
वज्रस्तम्भवदात्मानमवलम्ब्य स्थिरो भव ॥ ३९ ॥

आत्मता स्वता परता तदन्यता ते त्यक्त्वा ॥ ३९ ॥

स्थित्वान्तर्मानसान्पाशानाशारूपानुदारया ।
धिया धैर्यैकधर्मिण्या निर्धर्माधर्मतां व्रज ॥ ४० ॥

निर्धर्माधर्मतां धर्माधर्मरहितताम् ॥ ४० ॥

समास्वादयतस्तत्त्वं स्वसंवेदनधर्मिणः ।
विषं हालाहलमपि यास्यत्यमृततामथ ॥ ४१ ॥

सर्वस्यामृतत्वे सम्पन्ने विषस्याप्यमृतताया अर्थसिद्धत्वादिति भावः ॥ ४१

तदोदेति महामोहः संसृतिभ्रमकारणम् ।
निर्मलाया निरंशायाः संवित्तेश्चामतिर्यदा ॥ ४२ ॥

अमतिर्विस्मृतिः । अज्ञानमिति यावत् ॥ ४२ ॥

तदा सङ्क्षीयते मोहः संसारभ्रमकारणम् ।
निर्मलायां निरंशायां स्वसंवित्तौ स्थितिर्यदा ॥ ४३ ॥

स्वरूपमनुयातस्य तीर्णस्याशामहार्णवम् ।
प्रसरिष्यति ते संवित्सूर्यांशुरिव सर्वतः ॥ ४४ ॥

तीर्णस्येति । स्वरूपप्राप्त्यैवाशामहार्णवतरणात् रसोऽप्यस्य परं दृष्ट्वा
निवर्तते इति भगवद्वचनादिति भावः ॥ ४४ ॥

स्वभावमालोकयत आनन्दाद्वयसंस्थितेः ।
रसायनमपि स्वादु राम प्रतिविषायते ॥ ४५ ॥

मुक्तस्यान्यत्राशासम्भावना दूरे
प्रत्युतामृतादिरसायनास्वादेऽप्यात्मानन्दास्वादविघ्नत्वसम्भावनया
विषवद्धेयताबुद्ध्युदयादित्याशयेनाह - स्वभावमिति । प्रतिकूलं
विषमिवाचरति प्रतिविषायते ॥ ४५ ॥

तैर्नो भजामहे पुम्भिर्ये स्वभावमुपागताः ।
शेषाः पुरुषनामानो गर्दभा दीर्घबाहवः ॥ ४६ ॥

ये पुरुषा नोऽस्माकं स्वभावं प्रत्यगात्मभावमुपागता जीवन्मुक्ताः
पुञ्जन्मसार्थकीकरणात्पुरुषार्थसाधनात्सफलपौरुषत्वाच्च पुम्भिस्तैः
पुरुषधौरेयैः सह भजामहे सदा मैत्रीमिति शेषः । अन्ये तु
पुरुषार्थोपयोगिपौरुषहीनत्वान्नाममात्रेण पुरुषा नार्थलेशेनापीति
गर्दभवदुपेक्ष्या एव न दर्शनादियोग्या अपीत्याशयेनाह - शेषा इति ॥ ४६ ॥

पर्वतात्पर्वतं यान्ति पुरोऽद्रेरिव दन्तिनः ।
परां कोटिं प्रयातस्य स्वसंवित्त्युन्नतस्थितेः ॥ ४७ ॥

नन्वन्येऽपि योगिन उपासकाश्च जगति महान्तः सन्त्येव तेभ्योऽपि तत्त्वविद एव क
उत्कर्स्ऽस्तत्राह - पर्वतादिति । स्वसंवित्त्या सर्वोन्नतस्थितेरत एव परां
कोटिमुत्कर्षकाष्ठां प्रयातस्य तत्त्वविदः पुरो योगिप्रभृतयो
ज्ञानार्थन्तांस्तान्महत उपसर्पन्तोऽद्रेर्मेर्वादेः पुरो दन्तिनः
प्रत्यन्तपर्वतात्पर्वतान्तरं यान्तीव भासन्ते न मेरुरिव सर्वोन्नता
दृढविश्रान्ताश्चेत्यर्थः ॥ ४७ ॥

अदृष्टादृश्यसीम्नोऽन्तः सूर्यादीन्यखिलान्यपि ।
न तेजांस्युपकुर्वन्ति स्वसंविद्दिव्यचक्षुषः ॥ ४८ ॥

स्वसंवित्त्या उन्नतस्थितिमुपपादयति - अदृष्टेति । प्राक्केनाप्यदृष्टाः
साम्प्रतमग्रे च अदृश्या द्रष्टुमशक्याः सीमानोऽवधयो यस्य
तथाविधस्य स्वसंविल्लक्षणं दिव्यं चक्षुर्यस्य तस्य तत्त्वविदः अन्तः
कल्पितानि सूर्यादीन्यखिलान्यपि तेजांसि नोपकुर्वन्तीति स्वसंवित्त्यैव
तस्योन्नतस्थितिरित्यर्थः ॥ ४८ ॥

अवस्तुतां व्रजन्त्येते माध्याह्ना इव दीपकाः ।
अर्कादयो महालोका विद्ययाधिगतात्मनः ॥ ४९ ॥

न केवलं नोपकर्तुं शक्नुवन्ति किन्तु तत्पुरतोऽवस्तुतामेव गच्छन्तीत्याह ##-

तेज्ॐशुषु प्रभावेषु बलिष्वपि महत्स्वपि ।
सर्वेषून्नतियुक्तेषु तत्त्वज्ञः परमोन्नतः ॥ ५० ॥

अत उक्तं सिद्धमित्याह - तेज्ॐशुष्विति । तेजसः अंशुषु कार्येषु
प्रकाशनेषु योगसिद्धिवशित्वाअदिप्रभावेषु बलिषु शरीरादिबलवत्सु
ऐश्वर्यायुरादिना महत्सु अन्येष्वपि वाग्मित्वाद्युन्नतियुक्तेषु सर्वेषु मध्ये
परमोन्नतः । सर्वौन्नत्यानामेतस्मिन्नध्यस्तत्वादिति भावः ॥ ५० ॥

भान्तीह भासा यस्यार्कवह्नीन्दुमणितारकाः ।
तथा जगति राजन्ते ज्ञातज्ञेया नरोत्तमाः ॥ ५१ ॥

यस्य जगदीश्वरस्य भासा भान्ति तथा तत्तुल्यतयेत्यर्थः ॥ ५१ ॥

धराविवरकीटेभ्यो गर्धभेभ्योऽपि मानवः ।
तिर्यग्भ्यश्चाप्यतत्त्वज्ञा राम तुच्छतराः स्मृताः ॥ ५२ ॥

तुच्छतरा मूढतराः । तत्त्वज्ञानाभावे
ततोऽप्यधमतमयोनिकोटिप्राप्तेर्दुर्वारत्वादिति भावः ॥ ५२ ॥

तावत्सम्मोहवेतालो देही यावदनात्मवान् ।
आत्मज्ञ एव संयुक्तश्चेतनेनेति तद्विदः ॥ ५३ ॥

सतोऽप्यात्मनोऽज्ञानेनासत्त्वापादनादनात्मवान् अत एवासावचेतन इति आत्मज्ञ
एव चेतनेन संयुक्त इति तद्विद आहुरिति शेषः ॥ ५३ ॥

अनात्मज्ञो हि दुःखेहः प्रस्फुरन्नपि भूतले ।
शव एव भ्रमत्युच्चैरात्मज्ञस्तु सचेतनः ॥ ५४ ॥

दुःखदाहार्था ईहा चेष्टा यस्य । एवार्थे तुशब्दः ॥ ५४ ॥

दूरादात्मज्ञता याति चित्ते पीवरतां गते ।
आलोकलक्ष्मीरभितो महामेघ इवोत्थिते ॥ ५५ ॥

चित्ते पीवरतां स्थौल्यं गते सति । आत्मज्ञता ईषत्सम्पादितापि दूराद्याति ॥ ५५ ॥

भोगाभोगतिरस्कारैः कार्श्यं नेयं शनैर्मनः ।
रसापहारैस्तज्ज्ञेयन् कालेनाजीर्णपर्णवत् ॥ ५६ ॥

अतः कारणान्मनः प्राप्तानां भोगानां विषयाणामाभोगः सेवनं
तत्तिरस्कारैरप्राप्तानां रसस्याभिलाषस्यापहारैश्च चिराभ्यस्तैः कालेन
आजीर्णपर्णवत्कार्श्यमपचयं नेयमित्यर्थः ॥ ५६ ॥

अन्यात्मन्यात्मभावेन देहमात्रास्थयानया ।
पुत्रदारकुटुम्बैश्च चेतो गच्छति पीनताम् ॥ ५७ ॥

के ते मनःपीनताहेतवो यद्वर्जनेन तत्कार्श्यं स्यात्तानाह -
अनात्मनीत्यादिना ॥ ५७ ॥

अहङ्कारविकारेण ममतामलहेलया ।
इदं ममेति भावेन चेतो गच्छति पीनताम् ॥ ५८ ॥

विकारेण विकासेन । ममतालक्षणे मले हेलया लीलया आसक्त्येति यावत् ।
सर्वममतामूलमाह - इदमिति । इदं शरीरं मम आत्मा भोगायतनं
वेति भावेनेत्यर्थः ॥ ५८ ॥

जरामरणदुःखेन व्यर्थमुन्नतिमीयुषा ।
दोषाशीविषकोशेन चेतो गच्छति पीनताम् ॥ ५९ ॥

तमेव भावं विशिनष्टि - जरेति ॥ ५९ ॥

आधिव्याधिविलासेन समाश्वासेन संसृतेः ।
हेयादेयप्रयत्नेन चेतो गच्छति पीनताम् ॥ ६० ॥

संसृतेः समाश्वासेन रम्यताचिरस्थायितादिविश्वासेन ॥ ६० ॥

स्नेहेन धनलोभेन लाभेन मणियोषिताम् ।
आपातरमणीयेन चेतो गच्छति पीनताम् ॥ ६१ ॥

आस्थादानेन चारेण चित्ताहिर्याति पीनताम् ॥ ६२ ॥

चारेण नानाविषयसञ्चारेण ॥ ६२ ॥

आगमापायवपुषा विषवैषम्यशंसिना ।
भोगाभोगेन भीमेन चेतो गच्छति पीनताम् ॥ ६३ ॥

आगमापायौ वपुःस्वभावौ यस्य विषेणेव वैषम्यं
दाहमूर्छादिव्याकुलता तच्छंसिना । तत्पर्यवसितेनेति यावत् ।
भोगानामाभोगेन प्राग्व्याख्यातेन ॥ ६३ ॥

शरीरदुःश्वभ्रचिरप्ररूढं
चिन्ताचयोच्चाकृतिमञ्जरीकम् ।
जरामृतिव्याधिफलौघनम्रं
कामोपभोगौघविकासिपुष्पम् ॥ ६४ ॥

शरीरलक्षणे दुष्टश्वभ्रे चिराय प्ररूढमेनं चित्तविषद्रुमं
त्वमशङ्कं विचारसारक्रकचेन च्छिन्धीति परेणान्वयः । चिन्ताचया एव
उच्चाकृतयो मञ्जर्यो यस्मिन् । नद्यृतश्च इति कप् ॥ ६४ ॥

विचारसारक्रकचेन चित्त-
विषद्रुमं त्वद्भुतमद्रिकल्पम् ।
आशामहाशाखमशङ्कमेनं
छिन्धि प्रसह्यात्र विकल्पपत्रम् ॥ ६५ ॥

विकल्पा एव पत्राणि यस्मिन् ॥ ६५ ॥

मत्तेक्षणं चैकतटोपवेशं
विश्रान्तिसौख्येष्वसमर्थमुग्रम् ।
आलोकनोत्कं सुजनक्रमाब्ज-
खण्डस्य चण्डं सुखदुःखगण्डम् ॥ ६६ ॥

इदानीं तदेव चेतो गजत्वेन वर्णयति - मत्तेक्षणमिति द्वाभ्याम् । हे
राघवराजसिम्ह त्वमुक्तदशविशेषणविशिष्ट चेतोगजं सुतीक्ष्णया
धीकरजाग्रपङ्क्त्या विदारयेति द्वितीयेनान्वयः । मत्ते स्वविवेकप्रमादवती
मदघूर्णे च आगमानुमानलक्षणे ईक्षणे यस्य तम् । एकस्मिन्
बहिर्मुखलक्षणे संसाराद्रितटे उपवेशनमुपवेशो यस्य तम् । अत
एवान्तर्मुखविश्रान्तिसौख्येष्वसमर्थम् । द्वेषासूयादिभीषणत्वादुग्रम् ।
सुजनैः क्रम्यन्त इति सुजनक्रमाः
शमदमतितिक्षादयस्तल्लक्षणस्याब्जखण्डस्य पद्मवनस्यालोकने उत्कं
सोत्कण्ठं परन्तु चण्डमतिकोपनं तद्रक्षणायोग्यमिति यावत् । सुखदुःखे
एव शीतोष्णबाष्पमदस्राविणौ गण्डौ यस्य ॥ ६६ ॥

चेतोगजं कायकुकाननस्थं
सुतीक्ष्णया धीकरजाग्रपङ्क्त्या ।
विदारयादीर्घविकारदन्तं
क्रियाकरं राघव राजसिम्ह ॥ ६७ ॥

आदीर्घाः कामादिविकारा एव दन्तौ यस्य अत एव
धर्यादिवप्रविदारणक्रियाकरम् ॥ ६७ ॥

रतिं गतं नित्यमसत्प्रदेशे
शरीरमांसग्रसनेन पुष्टम् ।
दुष्टक्रिअयकर्कशचञ्चुदण्ड-
मेकेक्षणं पुष्टम्ॐशुकृष्णम् ॥ ६८ ॥

असति कुत्सिते स्त्रीव्यञ्जनश्मशानादिप्रदेशे रतिमासक्तिं गतम् ।
शरीरलक्षणस्य मांसस्य ग्रसनेनेवान्तर्भावापादनेन पुष्टमुपचितम् ।
दुष्टक्रिया परमर्मतोदनं तत्र कर्कशश्चञ्चुदण्डस्त्रोट्यग्रं
तत्सदृशौष्ठव्यापारो यस्य । एकस्मिन्स्वार्थ एव ईक्षणं दर्शनं यस्य ।
पुष्टैस्तम्ॐशुभिस्तामसवृत्तिभिः कृष्णं मलिनम् । काकपक्षे चत्वारि
विशेषणानि स्पष्टानि । पुष्टास्तम्ॐशवोऽन्धकारभागा इव कृष्णं
निजचित्तकाकं कायकुलायकोशाद्दूरे समुत्सारयेत्युत्तरेणान्वयः ॥ ६८ ॥

दूरे समुत्सारय भारभूतं
दुश्चेष्टितं कर्कशमारटन्तम् ।
गन्धोद्गतं कायकुलायकोशा-
द्दोषोपशान्त्यै निजचित्तकाकम् ॥ ६९ ॥

वोढुरात्मनो वृक्षादेश्च वृथाश्रमहेतुत्वाद्भारभूतम् । गन्धेभ्यो
दुर्वासनाभ्य उद्गतमाविर्भूतं प्रस्थितं च ॥ ६९ ॥

तृष्णापिशाचया परिचर्यमाणं
विश्रान्तमज्ञानमहावटेषु ।
भ्रान्तं चिरं देहशतेष्वटव्यां
स्वसंसृतौ चेतनवर्जितेषु ॥ ७० ॥

तदेव चित्तं पिशाचत्वेन रूपयंस्तदनुत्सादने मोक्षासिद्धिमाह -
तृष्णेति द्वाभ्याम् । अज्ञानलक्षणेषु महत्सु वटेष्ववटेषु वा । देहशतेषु
अनन्तकोटिदेहलक्षणाया मटव्यामिति व्यस्तरूपकम् । स्वस्य चित्तस्य
संसृतावपसरणे चेतनवर्जितेषु । प्रत्यक्षमचेतनेष्विति यावत् । ईदृशमेनं
चित्तपिशाचं स्वचिदात्मनो
गेहभूताद्धृदयाद्यावन्नोत्सारयेत्तावदात्मस्वभावभूतासिद्धिर्मुक्तिः
कुत इत्युभयोरन्वयः ॥ ७० ॥

विवेकवैराग्यगुरुप्रयत्न-
मन्त्रैः स्वतन्त्रैः स्वचिदात्मगेहात् ।
नोत्सादयेच्चित्तपिशाचमेनं
यावत्कुतस्तावदिहात्मसिद्धिः ॥ ७१ ॥

शुभाशुभास्यं हतमानवौघं
चिन्ताविषं कायकुकञ्चुकं च ।
अजस्रमच्छश्वसनाशनं च
सर्वस्य नानाभयनाशदं च ॥ ७२ ॥

इदानीं मनोऽहित्वेन रूपयंस्त्याजयति - शुभेति द्वाभ्याम् ।
शुभाशुभलक्षणमास्ये भवमास्यम् । शरीरावयवाद्यत् । दंस्ट्राद्वयं
यस्य । अच्छः श्रमादिदोषापरामृष्टः श्वसनः प्राणवायुरशनं यस्य
पवनाशनत्वात् । नानाविधं भयं नाशं मरणं च ददातीति
नानाभयनाशदम् ॥ ७२ ॥

हृदब्जदुःशाल्मलिकोतरस्थ-
ममोघया चित्खगमन्त्रशक्त्या ।
नीत्वा शमं राम मनोमहाहिं
भयं भृशं प्रोज्झ्य भवाभयात्मा [अभवात्मा इति पाठः]
॥ ७३ ॥

ईदृशं मनोलक्षणं महाहिममोघया चित्खगस्य चिदेकरसगरुडस्य
बोधका ये सत्यं ज्ञानमनन्तं ब्रह्म इत्यादिमन्त्रास्तेषां शक्त्या शमं
मूलाज्ञानेन सहोच्छेदं नीत्वा भयं भृशं निःशेषं प्रोज्झ्य विहाय
अभवोऽभयो वा आत्मा भवेत्यर्थः ॥ ७३ ॥

अमङ्गलाकारधरः शरीर-
शवावलीसन्ततसेवनेन ।
दिगावलीसम्भ्रमणश्रमार्तः
श्मशानसेवी वपुषा क्षतेन ॥ ७४ ॥

तदेव चित्तं गृध्रत्वेन रूपयति - अमङ्गलेति द्वाभ्याम् ।
शरीरलक्षणानां शवावलीनां सन्ततं सेवनेनानुसन्धानेन भक्षणेन
च । काककञ्कचञ्चुप्रहारैरपमानव्ययशोकभयादिभिश्च क्षतेन वपुषा
सुषुप्तौ श्मशानवृक्षं तत्सदृशसुप्तदेहं च सेवते तच्छीलः ॥ ७४ ॥

भोगामिषो दिक्ष्वभिधावमान
उत्कन्धरो धीरविवृद्धगर्धः ।
उड्डीय वै गच्छति चित्तगृध्रो
देहद्रुमात्तन्निपुणं जयस्ते ॥ ७५ ॥

अधीरो बिवृद्धश्च गर्धोऽभिलाषो यस्य ईदृशश्चित्तगृध्रो यदि ते
देहद्रुमादुड्डीय गच्छति तत्तर्हि ते निपुणं नितरां जय इत्यर्थः ॥ ७५ ॥

भ्रान्तं वनान्तेषु दिगन्तरेषु
फलार्थिनं चञ्चलमाकुलाङ्गम् ।
जन्मावनेर्जन्ममहिं प्रयातं
संसारबन्धं जनतां हसन्तम् ॥ ७६ ॥

तदेव मन इदानीं मर्कटत्वेन रूपयति - भ्रान्तमिति द्वाभ्याम् । एकस्या
जन्मभूमेर्जन्मनून्यन्तरं प्रयातम् । जनतां जनसमूहं
तदीयसंसारबन्धं च हसन्तं स्वचेष्टितैर्विडम्बयन्तम् ॥ ७६ ॥

द्रुमेऽक्षिनासाकुसुमे भुजादि-
शाखे विलोलाङ्गुलिजालपत्रे ।
समुल्लसन्तं परिमारयान्त-
र्मनोमहामर्कटमङ्ग सिद्ध्यै ॥ ७७ ॥

अक्षिनासयोः समाहारोऽक्षिनासं तदेव आसमन्तात्कुसुमानि यस्मिन् ।
भुजकरादयः शाखा यस्मिन् । विलोलाङ्गुलिजालं पत्राणि यस्मिन् । ईदृशे
देहवृक्षे समुल्लसन्तं मनोमहामर्कटं परितोऽभिरोधेन [परितो
निरोधेन इत्यपि पाठः] मारयेत्यर्थः ॥ ७ ॥

अभ्युत्थितं सत्फलसङ्क्षयाय
लसन्मुखासङ्गितडित्प्रकाशम् ।
वर्षन्तमासारमनर्थसार्थ-
मान्दोलितं वासनावात्ययान्तः ॥ ७८ ॥

इदानीं तदेव चित्तं मेघत्वेन रूपयति - अभ्युत्थितमिति द्वाभ्याम् ।
सत्फलस्य परमार्थसुखस्य पक्वसस्यफलस्य च क्षयाय अकाले समुपस्थितम् ।
मुखे मुखसदृशबहिर्मुखवृत्त्यग्रे आसङ्गी प्रतिबिम्बनेन
विषक्तस्तडित्सड्र्शश्चिदाभासप्रकाशो यस्य । अनर्थसार्थरूपमासारं
वर्षन्तम् । वासनानि वासनास्तल्लक्षणया वात्यया अन्तः आन्दोलितं परिवर्तितम् ॥
७८ ॥

सङ्कल्पसङ्कल्पनवर्जनोग्र-
मन्त्रप्रभावाद्धृदयाम्बरस्थम् ।
सोत्साहमुत्सादय चित्तमेघं
बृहत्फलं प्राप्य भवालमाद्यः ॥ ७९ ॥

हृदयाम्बरस्थमीदृशं चित्तमेघं सङ्कल्पानां यानि सम्यक्कल्पनानि
पुनःपुनःसमर्थनानि तेषां वर्जनरूपादुग्रमन्त्रप्रभावात् सोत्साहं
उत्सारय तेन च बृहज्जीवन्मुक्तिफलं प्राप्य आद्यः पूर्वसिद्धस्वभावो
नित्यमुक्तात्मैव अलं सम्यग्भवेत्यर्थः ॥ ७९ ॥

ग्रन्थीकृतं कर्मभिरात्मसृष्टे-
र्मन्त्रैरभेद्यं ज्वलनैरदग्धम् ।
पीडां परामात्मनि कल्पयन्तं
समस्तजात्यन्तरदीर्घदाम ॥ ८० ॥

इदानीं तदेव चित्तं पाशत्वेन रूपयति - ग्रन्थीकृतमिति द्वाभ्याम् । आ
आत्मसृष्टेरात्मोपादानकं कल्पादिसर्गं मर्यादीकृत्य
अद्यतनकालपर्यन्तं कृतैः सुकृतदुष्कृतकर्मभिर्निरन्तरं
ग्रन्थीकृतं गन्थिदानेन दृढीकृतम् । अत एव समस्तानां जात्यन्तराणां
नानायोनिजन्मभेदानां क्रमाद्बन्धनाय दीर्घदामेव स्थितम् ॥ ८० ॥

सम्प्रोतनिःसङ्ख्यशरीरमालं
बलादसङ्कल्पनमात्रशस्त्रैः ।
छित्त्वा स्वयं राघव चित्तपाशं
यथासुखं त्वं विहरास्तशङ्कः ॥ ८१ ॥

अत एव सम्प्रोता निःसङ्ख्याः शरीरमाला यस्मिन् । अस्तशङ्क्ःअ
पुनर्जन्मशङ्काशून्यः ॥ ८१ ॥

फूत्कारदग्धाखिलपान्थलोक-
मत्यन्तदुष्प्रापपरप्रबोधम् ।
आशीविषं शोषितलोकखण्डं
व्यात्त्यामिषोद्धूतशरीरदण्डम् ॥ ८२ ॥

इदानीं तत्सङ्कल्पमजगरत्वेन रूपयंस्तद्वधोपायमाह - फूत्कारेति
द्वाभ्याम् । फूत्कारेण क्रोधादिरूपसविषश्वासेन दग्धा अखिलाः पान्थलोका
दक्षिणोत्तरमार्गगा जीवा येन । आशीविषं विषधरम् । अत एव शोषिताः
सन्तापिता लोकखण्डा भुवनभेदा येन । व्यात्त्या
तृष्णालक्षणमुखव्यादानेन विषयामिषार्थं उद्धूतः
कम्पितश्चतुर्विधशरीरदण्डो येन ॥ ८२ ॥

आमन्थरं देहगुहासु गुप्तं
सङ्कल्पघोराजगरं जवेन ।
अकामनानाममहानलेन
बलेन दग्ध्वा विभवो भव त्वम् ॥ ८३ ॥

मोक्षोद्योगालसत्वादामन्थरं मन्दगतिमीदृशं सङ्कल्पघोराजगरं
अकामना परवैराग्यं तन्नाम्ना महता अनलेन वह्निना दग्ध्वा
भस्मीकृत्य निजे पूर्णानन्दविभवः त्वं भवेत्यर्थः ॥ ८३ ॥

चित्तेन चेतः शममाशु नीत्वा
शुद्धेन घोरास्त्रमिवास्त्रयुक्त्या ।
चिराय साधो त्यज चञ्चलत्वं
विमर्कटो वृक्ष इवाक्षतश्रीः ॥ ८४ ॥

वैराग्येण सङ्कल्पजये चित्तशुद्धौ सत्यां तथैव बोधसमाधिक्रमेण
चित्तजयोऽपि सिद्ध्यतीत्याह - चित्तेनेति । सहसा कृतार्थताबुद्ध्या
प्रयत्नोपरमो माभूदिति चिरायेति । तत्फलमाह - त्यजेति ॥ ८४ ॥

अमलमिति च कृत्वा चेतसा वीतशङ्क-
मुपशमितमनोऽन्तः सर्वमादेहमेव ।
तृणलवलघु पश्यṁल्लीलया हेयदृष्ट्या
पिब विहर रमस्व प्राप्तसंसारपारः ॥ ८५ ॥

आत्यन्तिकचित्तोपशमो निःशेषं देहादावहम्ममताभिमानत्यागसिद्ध्या
जीवन्मुक्तिविहारसुखं सिद्ध्यतीत्याशयेनोपसंहरति - अमलमिति । इति
उक्तप्रकारेण चकारात्प्रागुपदिष्टतत्त्वावबोधेन च अन्तः
प्रत्यगात्मन्युपशमितमनोऽमलं निरस्तरागादिमलं कृत्वा तादृशेन
चेतसा आदेहं स्थूलसूक्ष्मकारणदेहपर्यन्तं सर्वमेव दृश्यं
हेयदृष्ट्या तृणलवादपि लघु तुच्छतरं
स्वाप्नशरीरादिवदत्यन्तोपेक्षार्हमसदेवेति पश्यन् प्राप्तसंसारपारस्त्वं
प्रारब्धशेषभोगार्थया आत्मक्रीड आत्मरतिः क्रियावानेष ब्रह्मविदां
वरिष्ठः इति श्रुतिदर्शितया लीलया लोकसङ्ग्रहाय सोमादि पिब
ऋत्विगादिमिर्यज्ञेषु विहर शास्त्राविरुद्धे लौकिकेपि रमस्व च न तेन तव
[तत्र इति पाठः] पुनर्बन्धप्रसक्तिरित्यर्थः ॥ ८५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे राघवाशयविनियोगो नाम पञ्चाशः
सर्गः ॥ ५० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
राघवाशयविनियोगो नाम पञ्चाशः सर्गः ॥ ५० ॥