४९

एकोनपञ्चाशः सर्गः ४९

श्रीवसिष्ठ उवाच ।

अथ गाधिर्गते विष्णौ पुनर्भूतादिकं क्रमात् ।
स्वयं मोहविचारार्थं बभ्रामाभ्रमिवाम्बरे ॥ १ ॥

गाधिर्देशौ पुनर्गत्वा हरिं पृष्ट्वा पुनः पुनः ।
सर्वं मायेति निश्चित्य जीवन्मुक्तोऽभवत्क्रमात् ॥ १ ॥

तथैवोत्थाय गच्छामि प्राप्तोऽहं भूतमण्डलाम् । इमे भूता इमे ग्रामा
दृष्टवानसि सम्भ्रमम् ॥ नातिथिर्न च भूतानि न कीरास्ते न तत्पुरम् ॥
इत्यादिभगवद्वचनार्थं
त्वसम्भावनाविपरीतभावनादार्ढ्यादप्रतिपद्यमानो
गाधिर्जगदधिष्ठानात्मतत्त्वसाक्षात्कारं विनैव पूर्वदृष्टदेशादीनां
बाधोऽस्ति न वेति परीक्ष्यानुभवितुकामः पुनर्भूतमण्डलादिदेशान्
बभ्रामेत्याह - अथेति । भूतादिकं भूतमण्डलादिदेशम् । आत्मनः स्वस्य
श्वपचत्वादिवृत्तान्तं तथा पूर्वानुभूतवदेवोपलभ्य ॥ १ ॥

उपलभ्य तथैवात्मवृत्तान्तं जनतस्ततः ।
हरिमाराधयामास पुनरद्रिगुहां गतः ॥ २ ॥

श्रुत्वा लिङ्गैर्दृष्ट्वा च भगवद्वाक्यतात्पर्यभोधाय
पुनर्हरिमारधयामासेत्यर्थः ॥ २ ॥

आजगामैनमल्पेन कालेनाथ जनार्दनः ।
सकृदाराधनेनैव माधवो याति बन्धुताम् ॥ ३ ॥

उवाच गाधिं भगवान्मयूरमिव वारिदः ।
किं त्वं प्रार्थयसे भूयस्तपसेति प्रसादवान् ॥ ४ ॥

प्रसादवान् प्रसन्नः सन् ॥ ४ ॥

गाधिरुवाच ।

भ्रान्तोऽस्मि देव षण्मासान्भूतकीरजनास्पदम् ।
तत्र व्यभिचरत्यस्मद्वृत्तान्तो न कथास्वपि ॥ ५ ॥

कथासु जनप्रवादेषु । अपिपदाल्लिङ्गप्रत्यभिज्ञादिसंवादेष्वपि न
व्यभिचरतीत्यर्थः ॥ ५ ॥

मायया भूतभूर्दृष्टा त्वयेत्युक्तोऽस्मि किं प्रभो ।
मोहनाशाय महतां वचो नो मोहवृद्धये ॥ ६ ॥

अस्तु तथा किं ततस्तत्राह - माययेति । मायादृष्टार्था अवश्यं कालान्तरे
व्यभिचरन्ति अव्यभिचारिणश्चैतेऽर्थाः कथं मायेत्यवधारयितुं शक्या इति
मोहवृद्धये त्वद्वचनं सम्पन्नमिति भावः ॥ ६ ॥

श्रीभगवानुवाच ।

काकतालीययोगेन चेतसि श्वपचस्थितिः ।
सर्वेषां भूतकीराणां तवेव प्रतिबिम्बति ॥ ७ ॥

मायिकस्यापि कथास्वव्यभिचारे उपपत्तिमाह - काकतालीयेति ।
प्रसिद्धभूतदेशजानां कीरदेशजानां च जनानां चेतसि तव चेतसीव
कठञ्जकश्वपचस्य स्थितिरपरोक्षतया भ्रान्त्या प्रतिबिम्बतीत्यर्थः ॥ ७ ॥

तेनाङ्ग तव वृत्तान्तं यथावत्कथयन्ति ते ।
प्रतिभासो हि नायाति पुनरप्रतिभासताम् ॥ ८ ॥

तथाच तेऽपि स्वभ्रान्त्यैव तथा वदन्तीत्यार्थसमाजग्रस्तस्तद्वचनसंवादो न
सत्यतापादक इत्याह - तेनेति । प्रतिभास इति । विना भाधमिति शेषः ॥ ८ ॥

केनचिच्छ्वपचेनान्ते ग्रामस्य रचितं गृहम् ।
तत्त्वया दृष्टमाविष्टमिष्टकाखण्डतां गतम् ॥ ९ ॥

प्रत्यभिज्ञासंवादस्य तर्हि का गतिस्तामाह - केनचिदिति । आविष्टं मयेदं
प्राग्रचितमिति भ्रान्त्यभिनिवेशविषयीकृतम् ॥ ९ ॥

कदाचित्प्रतिभैकैव बहूनामपि जायते ।
काकोलतालस्थितिवद्विचित्रा हि मनोगतिः ॥ १० ॥

प्रतिभा भ्रान्तिरूपः प्रतिभास एका एकरूपैव । काकोलो द्रोणकाकाख्यः
काकजातिभेदस्तस्य ताले पक्वतालफले तालमूले वा स्थितिरुपवेशनं तद्वत् ॥ १०

तथाहि बहवः स्वप्नमेकं पश्यन्ति मानवाः ।
स्वापभ्रमदमैरेयमदमन्थरचित्तवत् ॥ ११ ॥

स्वापो निद्रा तद्वद्भ्रमदेन मैरेयमदेन मन्थरचित्ता यथा बहवस्तुल्यरूपा
घूर्णमाना इव दिशः पश्यन्ति तद्वत् ॥ ११ ॥

एकस्यामेव लीलायां रमन्ते बहुबालकाः ।
एकस्यामेव नीलायां वनस्थल्यामिवैणकाः ॥ १२ ॥

एकस्यामेव
सिकतादिसन्निवेशसङ्केतकल्पितगृहप्रासाददुर्गादिभ्रमलीलायां बहवो
बालका रमन्ते । नीलायां शाद्वलश्यामलायां वनस्थल्याम् । एणका
मृगपोताः ॥ १२ ॥

बहवस्तुल्यकालं च प्रतिभासेन कर्मणाम् ।
जना यतन्ते स्वफलपाकेऽतिबहुलाकृतौ ॥ १३ ॥

अतिबहुलाकृतौ वधबन्धपराजयपलायनादिनानाकारे स्वप्रारब्धफलपाके
लभ्येऽपि बहवः सैनिकादिजनास्तुल्यकालं जयलाभभोगादीनां तुल्यरूपाणां
कर्मणां प्रयोजनानां भ्रान्त्या प्रतिभासेन तल्लोभाद्युद्धादिना यतन्ते इति
प्रसिद्धमित्यर्थः ॥ १३ ॥

प्रतिबन्धाभ्यनुज्ञानां कालो दातेति या श्रुतिः ।
विप्र सङ्कल्पमात्रोऽसौ कालो ह्यात्मनि तिष्ठति ॥ १४ ॥

यदि मानसकल्पनैव जगत्तर्हि हेमन्तादिः कालो व्रीह्याद्यङ्कुरोदयस्य
प्रतिबन्धको यवादीनां चाभ्यनुज्ञातेति लोकप्रसिद्धेर्बाधः
स्यान्मानसकल्पनायां बाह्यकालस्य व्यवस्थापकत्वायोगादित्याशङ्कां
गाधेः परिहरन्नाह - प्रतिबन्धेति । श्रुतिर्लौकिकप्रवादश्रवणम् । सा न
विरुध्यत इति शेषः । यतोऽसौ प्रतिबन्धाभ्यनुज्ञानहेतुरपि कालः
सङ्कल्पमात्रः । दिग्विशेषावच्छिन्नां सूर्यक्रियां दृष्ट्वा मनसैव
यथाशास्त्रं मासर्त्वादिभेदकल्पनादिति भावः । कस्तर्ह्यकल्पितः
कालस्तमाह - काल इति । यस्त्वकल्पितोऽखण्डः कालः परमात्मा स
स्वात्मन्येव तिष्ठति न कस्यचित्प्रतिबन्धमभ्यनुज्ञां वा ददातीत्यर्थः ॥ १४

अमूर्तो भगवान्कालो ब्रह्मैव तमजं विदुः ।
न जहाति न चादत्ते किञ्चित्कस्य कदेति च ॥ १५ ॥

अमुमेवार्थं स्पष्टयति - अमूर्त इत्यादिना ॥ १५ ॥

लौकिको यस्त्वयं कालो वर्षकल्पयुगात्मकः ।
सङ्कल्प्यते पदार्थौघैः पदार्थौघश्च तेन तु ॥ १६ ॥

आद्यस्य सङ्कल्पात्मतामुपपादयति - लौकिक इति । जन्यमात्रस्य
कालोपाधित्वात्सूर्यक्रियाचन्द्रपिण्डादिपदार्थौघैः सङ्कल्प्यते । तेन च
प्रतिबन्धानुज्ञाभ्यां सर्वपदार्थौघस्तत्क्रियाफलादिव्यवस्था च
सङ्कल्प्यत इत्यर्थः । तुशब्दश्चार्थे ॥ १६ ॥

समानप्रतिभासोत्थसम्भ्रमं भ्रान्तचेतसः ।
तथा तं दृष्टवन्तस्ते भूतकीरजनोच्चयाः ॥ १७ ॥

प्रासङ्गिकीं शङ्कां परिहृत्य प्रकृतमालम्ब्याह - समानेति ।
भूतदेशजाःकीरदेशजाश्च जनोच्चया जनसमूहाः ॥ १७ ॥

स्वव्यापारपरो भूत्वा धियात्मानं विचारय ।
साधो गतमनोमोहमिहैवास्व व्रजाम्यहम् ॥ १८ ॥

तर्हि मया किं कार्यं तत्राह - स्वव्यापारेति । स्ववर्णाश्रमोचिताचरणपर
इत्यर्थः ॥ १८ ॥

इत्युक्त्वा भगवान्विष्णुर्जगामान्तर्धिमीश्वरः ।
अतिष्ठत्कन्दरे गाधिराधिपीवरया धिया ॥ १९ ॥

आधिपीवरया चिन्तोपचितया ॥ १९ ॥

ततः कतिपयेष्वद्रौ मासेष्वतिगतेषु सः ।
पुनराराधयामास पुण्डरीककरं द्विजः ॥ २० ॥

ददर्श चैकदा नाथमागतं प्रणनाम तम् ।
पूजयामास मनसा चोक्तेनोवाच चेश्वरम् ॥ २१ ॥

मनसा चकाराद्वचसा कर्मणा च पूजयामास उक्तेन
प्रश्नानुज्ञावाक्येनोवाच पप्रच्छ च ॥ २१ ॥

गाधिरुवाच ।

भगवन्संस्मरंश्चैतामात्मनः श्वपचस्थितम् ।
इमां संसारमायां च परिमुह्यामि चेतसा ॥ २२ ॥

इमां जननमरणाद्यनर्थबहुलां संसारमायां च संस्मरन् ॥ २२ ॥

तदुक्त्वास्व यथावस्तु महामोहनिवृत्तये ।
एकस्मिन्नेव विमले मां नियोजय कर्मणि ॥ २३ ॥

तत्तस्माद्धेतोर्महामोहस्य निवृत्तये उपायमुक्त्वा झटिति न गच्छ किन्तु
यावत्संशयमोहोच्छेदमास्व तिष्ठेत्यर्थः ॥ २३ ॥

श्रीभगवानुवाच ।

ब्रह्मन् जगदिदं मायामहाशम्बरडम्बरम् ।
सर्वा आश्चर्यकलनाः सम्भवन्तीह विस्मृतेः ॥ २४ ॥

विस्मृतेः स्वात्मतत्त्वविस्मरणात् । आवरणनिमित्तादज्ञानादिति यावत् ॥ २४ ॥

भूतकीरपुरे मोहाद्दृष्टवांस्तत्तथा भवान् ।
इत्येतत्सम्भवत्येव दृश्यते हि जनैर्भ्रमः ॥ २५ ॥

मायायां चासम्भावितसहस्रमपि सम्भवत्येवेत्याह - भूतेति ।
तच्छ्वपचत्वादि तथा तत्तत्प्रकारेण
दृष्टवानित्येतन्मोहादज्ञानात्सम्भवत्येव । तथाहि
जनैर्निद्रादावसम्भावितगोचरोऽपि भ्रमो दृश्यत इत्यर्थः ॥ २५ ॥

भूतास्त्वमिव कीराश्च दृष्टवन्तस्तथा भ्रमम् ।
मुधैवेत्यपि सत्याभं समकालादिसम्भवात् ॥ २६ ॥

मुधा मिथ्यैव । इति एवं मिथ्यास्वभावमपि सत्याभं दृष्टवन्त इत्यर्थः ।
समेन सङ्कल्पेन समकालादेः सम्भवादित्यर्थः ॥ २६ ॥

इदं तु शृणु वक्ष्यामि यथाभूतमनिन्दितम् ।
यथैति तनुतां चिन्ता मार्गशीर्षलतेव ते ॥ २७ ॥

यथाभूतं यथास्थितम् । अनिन्दितं तव
श्वपचनिन्दासम्बन्धनिवारकमित्यर्थः । तनुतामपक्षयम् ॥ २७ ॥

योऽसौ कटञ्जको नाम श्वपचो भूतमण्डले ।
तेनैव सन्निवेशेन स तथैवाभवत्पुरा ॥ २८ ॥

तेन त्वद्दृष्टसदृशेनैव सन्निवेशेन शरीरग्रामगृहदाराद्याकारेण
तथैव युक्तोऽभवदित्यर्थः ॥ २८ ॥

बभूव कीरनृपतिः प्रविवेशानलं ततः ॥ २९ ॥

तथैवेति सर्वत्रानुषञ्जनीयम् ॥ २९ ॥

भवतः केवलं चित्ते जलान्तर्वर्तिनस्तदा ।
प्रतिभाता तथाभूता कटञ्जाचारसंस्थितिः ॥ ३० ॥

यदि तथाभूतोऽन्योऽभूत्तर्हि मम कथं तदनुभवपथं प्राप्तं तत्राह ##-
केवलं प्रतिभाता मत्सङ्कल्पवशादित्यर्थः ॥ ३० ॥

द्रष्टानुभूतमप्यर्थं कदाचिद्विस्मरत्यलम् ।
कदाचिदप्यदृष्टं तु चेतः पश्यति दृष्टवत् ॥ ३१ ॥

कदाप्यदृष्टस्य देशान्तरस्थस्यातीतस्य च कथं पुरोवर्तमानतया
दर्शनं तत्राह - द्रष्टेति । यथा अनुभूतमपि विस्मरति तथा अदृष्टमपि
पश्यतीत्यर्थः ॥ ३१ ॥

यथा स्वप्नमनोराज्यधातुसंस्थितिविभ्रमाः ।
जाग्रत्यपि तथैवाङ्ग दृश्यन्ते मनसा स्वयम् ॥ ३२ ॥

धातुसंस्थितिः सन्निपातः ॥ ३२ ॥

भविष्यद्भूतकालस्थं यथा त्रैकाल्यदर्शिनः ।
प्रतिभामेति गाधे यत्कटञ्जाचरितं तथा ॥ ३३ ॥

यथा त्रैकाल्यदर्शिनो योगिनो दृष्ट्या भविष्यदपि वस्तु तदुत्तरकालिकेषु
दृश्यमानेषु भूतकालस्थं भवति तथा हे गाधे अतीतमपि कटञ्जाचरितं
वर्तमानप्रतिभामेतीत्यर्थः ॥ ३३ ॥

अयं सोऽहमिदं तन्म इति मज्जति नात्मवान् ।
अयं सोऽहमिदं तन्म इति मज्जत्यनात्मवान् ॥ ३४ ॥

नन्वनात्मन्यनात्मीये च कटञ्जके तदीयगृहकलत्रादौ च मम स एवाहं
तदीयमेव तन्मे मदीयमिति कथं मज्जनमिति चेदत्यल्पमिदमुच्यते ।
अनात्मविदां सर्वेषामप्यनात्मनि देहे अनात्मीये च
गृहकलत्रादावहम्ममेत्यभिमानदर्शनादात्मविद एव केवलं
तन्मज्जनाभावादित्याशयेनाह - अयमिति ॥ ३४ ॥

सर्वमेवाहमेवेति तत्त्वज्ञो नावसीदति ।
न गृह्णाति पदार्थेषु विभागानर्थभावनम् ॥ ३५ ॥

सर्वाहम्भावनयापि तत्त्वविदस्तत्र न मज्जनं परिच्छिन्नाहम्भावस्यैव
मज्जनहेतुत्वादित्याह - सर्वमेवेति ॥ ३५ ॥

तेनासौ भ्रमयोगेषु सुखदुःखविलासिषु ।
न निमज्जति मग्नोऽपि तुम्बीपात्रमिवाम्भसि ॥ ३६ ॥

सर्वाहम्भावेऽप्यहङ्कारसत्त्वान्मग्नप्रायोऽपि ॥ ३६ ॥

त्वं तावद्वासनाजालग्रस्तचित्तो विचेतनः ।
किञ्चिच्छेषमहाव्याधिरिव न स्वस्थमागतः ॥ ३७ ॥

अहं तर्हि कीदृश इति चेदान्तरालिक इत्याह - त्वमिति । स्वस्थं
स्वरूपावस्थितमात्मानमागतः प्राप्तः ॥ ३७ ॥

ज्ञानस्यापरिपूर्णत्वान्न शक्नोषि मनोभ्रमम् ।
विनिवारयितुं मेघसम्यग्यत्नवानिव ॥ ३८ ॥

मेघपदेन तत्कार्यं वृष्टिर्लक्ष्यते ।
गृहरचनपरगृहप्रवेशादिसम्यग्यत्नशून्यः पुरुष इव ॥ ३८ ॥

यदेव ते मनोमात्रे सहसा प्रतिभासते ।
तरुरुच्चजनेनेव तेनैवाक्रम्यसे क्षणात् ॥ ३९ ॥

आक्रम्यसे तदभिमानेन परिभूयसे ॥ ३९ ॥

चित्तं नाभिः किलास्येह मायाचक्रस्य सर्वतः ।
स्थीयते चेत्तदाक्रम्य तन्न किञ्चित्प्रबाधते ॥ ४० ॥

नाभिर्मध्यम् । सर्वतो भ्रमत इति शेषः । तच्चित्तमाक्रम्य आत्मनि
प्रविलापनेन तिरस्कृत्य । तन्मायाचक्रं किञ्चिदपि न प्राबधते ॥ ४० ॥

त्वमुत्तिष्ठ गिरेः कुञ्जे दशवर्षाण्यखिन्नधीः ।
तपः कुरु ततो ज्ञानमनन्तं समवाप्स्यसि ॥ ४१ ॥

तपश्चित्तनिरोधाभ्यासम् ॥ ४१ ॥

इत्युक्त्वा पुण्डरीकाक्षस्तत्रैवान्तरधीयत ।
वाताभ्रवद्दीपकवद्यमुनोत्पीडवत्क्षणात् ॥ ४२ ॥

वातलीनाभ्रवन्निर्वाणदीपकवद्यमुनातरङ्गवच्चेति मालोपमा ॥ ४२ ॥

गाधिर्विवेकवशजं वैराग्यपदमागतः ।
शरत्समयपर्यन्ते वैरस्यमिव पादपः ॥ ४३ ॥

वैरस्यमस्निग्धताम् ॥ ४३ ॥

विचित्रं चेष्टितं धातुरसमञ्जसमागतम् ।
भ्रमद्भ्रमभरोन्मुक्तमतिर्मन्दमगर्हयत् ॥ ४४ ॥

भ्रमता भ्रमभरेणोन्मुक्ता मतिर्यस्य तथाविधः सन् धातुः
प्राक्तनकर्मलक्षणस्य
दैवस्यासमञ्जसमयुक्तश्वपचभावादिप्रदर्शनरूपं विचित्रं
चेष्टितमगर्हयत् ॥ ४४ ॥

जगाम करुणार्द्रात्मा नियमायोत्तमश्रिये ।
विश्रान्त्यै ऋष्यमूकं तु पयोधर इवाचलम् ॥ ४५ ॥

नियमाय चित्तनियमनाभ्यासाय । ऋषमूकं मतङ्गाश्रमस्थमचलम् ॥ ४५

निरस्ताशेषसङ्कल्पस्तपस्तत्र चकार ह ।
दशवर्षाणि तेनासावात्मज्ञानमवाप ह ॥ ४६ ॥

तपः मनसश्चेन्द्रियाणां च ऐकाग्र्यं परमं तपः इति प्रसिद्धम् ॥ ४६ ॥

अरमत तदनु स्वां प्राप्य सत्तां महात्मा
ह्यपगतभयशोको भोगभूवावनीषु ।
सततमुदितजीवन्मुक्तरूपः प्रशान्तः
सकल इव शशाङ्को भूर्णितापूर्णचेताः ॥ ४७ ॥

तदनु आत्मज्ञानप्राप्त्यनन्तरं महात्मा गाधिः स्वां पारमार्थिकीं
सत्तां प्राप्य अपगतभयशोकः सन् सततमुदितं जीवत एव मुक्तरूपं यस्य
तथाविधः अत एवापरिच्छिन्नस्वानन्दमदेन घूर्णितमापूर्ण च चेतो यस्य
तथाविधः सन् सकलः कलापूर्णः शशाङ्क इवापरिच्छिन्ने ब्रह्माकाशे
अरमत विजहार । विश्रान्तिं प्रापेत्यर्थः ॥ ४७ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे गाधिवृत्तान्ते
गाधेर्ज्ञानप्राप्तिर्नामैकोनपञ्चाशः सर्गः ॥ ४९ ॥

इति श्रीवासिष्ठमहारामायाणतात्पर्यप्रकाशे उपशमप्रकरणे
गाधेर्ज्ञानप्राप्तिर्नामैकोनपञ्चाशः सर्गः ॥ ४९ ॥

गाध्युपाख्यानं सम्पूर्णम् ।