अष्टचत्वारिंशः सर्गः ४८
श्रीवसिष्ठ उवाच ।
लुठितं श्वपचागारे पुनर्विस्मयमाययौ ।
गाधेर्मनो हि नायाति तृप्तिमाश्चर्यदर्शने ॥ १ ॥
गाधिना कीरनगरं गत्वा दृष्ट्वा च विस्मयात् ।
तपसा तोषितो विष्णुः सर्वं मायेत्युवाच तम् ॥ १ ॥
लुठितं परिवृत्तम् । चिरमासक्तमिति यावत् ॥ १ ॥
तत्रावलोकयामास स्थानानि सदनानि च ।
कल्पक्षोभविवृत्तानि जगन्तीवाम्बुजोद्भवः ॥ २ ॥
कल्पः संवर्तस्तदीये क्षोभे उपप्लवे विवृत्तानि भग्नानि । अम्बुजोद्भवो
ब्रह्मा ॥ २ ॥
उवाच स्वात्मनैवेदमरण्ये लुठितालये ।
शुष्कास्थिमालावलिते पिशाचक इव द्रुमे ॥ ३ ॥
लुठितालये भग्नगृहे । स्वमनस्येव उवाच । द्रुमे श्मशानवृक्षे ॥ ३ ॥
इमास्ता मृतमातङ्गदन्तमाला वृतौ कृताः ।
अद्यापि संस्थिताः कल्पं प्रतिमेरुशिखा इव ॥ ४ ॥
यदुवाच तदाह - इमास्ता इत्यादिना । वृतौ प्राकारे कृताः
शूलवन्निखाता मृतमातङ्गदन्तमालास्ता इमाः । प्रत्यक्षं
प्रत्यभिज्ञायन्त इत्यर्थः । कल्पं प्रलयकालं प्रति लक्षीकृत्य मेरोः
शिखाः शिखराणीव ॥ ४ ॥
इह तद्वानरीमांसं पक्ववंशाङ्कुरैः सह ।
भुक्तं पुरासवोन्मत्तैः सह श्वपचबन्धुभिः ॥ ५ ॥
पक्वैर्वशाङ्कुरैः करीरव्यञ्जनेः सह ॥ ५ ॥
आलिङ्ग्य श्वपचश्यामामिह केसरि वर्मणि ।
सुप्तमापीय मैरेयं तिक्तं गजमदेन च ॥ ६ ॥
केसरिणोऽश्वस्य चर्मणि । गजमदेन तिक्तमित्युक्त्या हस्तिपकात्क्रीतं मैरेयमिति
गम्यते । मैरेये मदशक्त्युत्कर्षाय हस्तिपका गजमदमपि मेलयन्तीति
प्रसिद्धम् ॥ ६ ॥
कौलेयककुटुम्बिन्यः पिण्याकपलवर्धिताः ।
इह बद्धा वरत्राभिर्मृतेभरदकाष्ठके ॥ ७ ॥
कौलेयककुटुम्बिन्यः शुन्यः । पिण्याकैः पलैर्मांसैश्च वर्धिताः ।
वरत्राभिश्चर्मरज्जुभिः ॥ ७ ॥
इह वारणमुक्तानां ददासीत्पिठर त्रयम् ।
पिनद्धं माहिषेणोग्रचर्मणाम्बुदशोभिना ॥ ८ ॥
वारणमुक्तानां गजमौक्तिकानां पिठरत्रयं उखात्रयप्रमाणं दत्
गजदन्तरचितं पात्रमिहास्मिन्स्थले आसीत् ॥ ८ ॥
स्थलीष्वेतासु तास्वत्र सह श्वपचबालकैः ।
चिरं विलुठितं चूतपत्रपुञ्जे पिकैरिव ॥ ९ ॥
एतासु दृश्यमानासु । तासु पूर्वदृष्टासु । अत्रास्मिन् ग्रामान्ते । विलुठितं
पांसुक्रीडास्वित्यर्थः ॥ ९ ॥
अत्र तदालनिःश्वासरणद्वंशप्रवृत्तवत् ।
गीतं पीतं शुनीरक्तं साधिता शवभूषितः ॥ १० ॥
बालानां निःश्वासैर्मुखवातैः रणतां वंशानां प्रवृत्तं
स्वरतालप्रवृत्तिस्तद्वत्तदनुरूपतया गीतम् । शवान् भूषयितुं शीलं यस्येति
शवभूषि श्मशानमाल्यचन्दनादि तस्मादिति ततः । साधिता
सर्वेषामलङ्क्रियेति शेषः ॥ १० ॥
अत्र सार्धं कुटुम्बेन जन्यत्रेषु कुटुम्बिना ।
मृत्तं तत्कृतमुन्नादं कल्लोलैर्जलधाविव ॥ ११ ॥
जन्यत्रेषु विवाहेषु ॥ ११ ॥
अत्रोड्डयनलोलानां काकभासपतत्त्रिणाम् ।
धृतानामन्यदाशार्थं ग्रथितं वंशपञ्जरम् ॥ १२ ॥
अन्यदा अशनं आशः दिनान्तरे भक्षणं तदर्थम् । दासार्थम् इति पाठे तु
दसु हिंसायाम् इत्यस्माद्धम् । दिनान्तरे हिंसनार्थमित्यर्थः ॥ १२ ॥
श्रीवसिष्ठ उवाच ।
एवम्प्रायाः स्मरन्गाधिः प्राक्तनीः श्वपचक्रियाः ।
विस्मयोत्कम्पितशिरा धातुश्चेष्टां परामृशत् ॥ १३ ॥
परामृशत् तर्कितवान् ॥ १३ ॥
चचाल तस्माद्दीर्घेण देशात्कालेन कार्यवित् ।
भूतमण्डलमुत्सृज्य प्राप देशान्तरं क्रमात् ॥ १४ ॥
सपुल्लङ्घ्य नदीशैलमण्डलारण्यसन्ततिम् ।
तुषाराद्रिकुक्षौ रत्नमिव श्रेष्ठं जनास्पदं जनपदं
प्राग्दृष्टकीरदेशमित्यर्थः ॥ १५ ॥
तत्र प्राप महीपालनगरं नगसन्निभम् ।
जगद्भ्रमणखिन्नात्मा स्वर्लोकमिव नारदः ॥ १६ ॥
नगसन्निभं पर्वतवदुन्नतप्रासादं रत्नाद्याढ्यं च ॥ १६ ॥
अथात्मनानुभूतानि दृष्टान्यसेवितानि च ।
स्थानानि नगरे पश्यन्पप्रच्छ जनमादृतः ॥ १७ ॥
अनुभूतानि स्वगृहप्रासादादीनि । दृष्टानि परगृहप्रासादादीनि ।
आसेवितान्यारामस्थानशालादीनि स्थानानि ॥ १७ ॥
साधो स्मरसि किञ्चित्त्वमिह श्वपचमीश्वरम् ।
यदि जानासि तत्त्वं मे वर्णयाशु यथाविधि ॥ १८ ॥
यथाविधि विधिं विधानमनतिक्रम्येत्यर्थः ॥ १८ ॥
नागरा ऊचुः ।
अमूदिहाष्टौ वर्षाणि श्वपचो भूमिपो द्विज ।
राजत्वमर्पितं यस्य नाम मङ्गलहस्तिना ॥ १९ ॥
नामेति प्रसिद्धौ ॥ १९ ॥
अन्ते च सम्परिज्ञातः स प्रविष्टो हुताशनम् ।
अद्य द्वादशवर्षाणि समतीतानि तापस ॥ २० ॥
यं यं पृच्छत्यसौ गाधिर्जनं जातकुतूहलः ।
तस्य तस्य मुखादेव शृणोत्यास्वादयत्यपि ॥ २१ ॥
अन्तः स्वप्रत्यभिज्ञासंवादादास्वादयति चमत्कारमनुभवत्यपीत्यर्थः ॥ २१
॥
अथापश्यत्पुरे तस्मिन्नृपं सबलवाहनम् ।
देवं चक्रधरं विष्णुं मन्दिरान्निर्गतं बहिः ॥ २२ ॥
तस्य भगवदनुग्रहात्तस्मिन्पुरे राजरूपेण भगवद्दर्शनमभूदित्याह ##-
मन्दिरराद्राजसदनाद्बहिर्निर्गतम् ॥ २२ ॥
स दृष्ट्वा स्थगिताकाशं चलरेणुपयोधरैः ।
प्राक्तनीं राजतां स्मृत्वा समुवाचाति विस्मयः ॥ २३ ॥
बाह्यवस्तु दर्शनव्यामोहचित्तस्य तस्य दृष्टायामपि भगवन्मूर्तौ तत्र
भावो विचारोऽपि वा नाभूत्किन्तु प्राक्तनेषु स्वानुभूतस्त्रीच्छत्रचामरादिषु
प्रत्यभिज्ञाकौतुकेष्वेव चित्तं बभ्रामेत्याशयेनाह - स इति । चलैरुद्गतै
रेणुलक्षणैः पयोधरैर्मेघैः स्थगितमाच्छादितमाकाशं येन
तथाविधं तत्सैन्यं दृष्ट्वेत्यर्थः ॥ २३ ॥
इमास्ताः कीरकामिन्यः पद्मगर्भोपमत्वचः ।
कनकद्रववर्णिन्यो लोलनीलोत्पलेक्षणाः ॥ २४ ॥
ता इमाः प्रत्यभिज्ञाताः कीरनृपतेः कामिन्यो वेश्याः ॥ २४ ॥
चामरौघा इमे चन्द्रकरसम्पिण्डपाण्डुराः ।
स्थिरनिर्झरसङ्काशाः काशपुष्पचया इव ॥ २५ ॥
चन्द्रकराणां [एतदग्रे सम्पिडनं इति क्वचित्पठ्यते] सम्पिण्डः
पिण्डीभाव इव पाण्डुराः । स्थिरा मूर्तीभावात्स्थैर्यमापन्ना ये निर्झरा
गिरिवारिप्रपातास्तत्सङ्काशाः ॥ २५ ॥
कान्ताभिरवधूयन्ते बालव्यजनरराजयः ।
इमास्ता वनवल्लीभिर्दीप्यमाना इवर्द्धयः ॥ २६ ॥
ऋद्धयः पुष्पमञ्जरीसमृद्धय इव ॥ २६ ॥
इमास्ता मत्तमातङ्गघटा घटितदिक्तटाः ।
सङ्कल्पपादपा मेरोरिव शृङ्गपरम्पराः ॥ २७ ॥
मत्तमातङ्गानां घटाः सङ्घाः । घटिता दन्ताग्रनिर्भिन्ना दिक्तटा
याभिस्ताः । सम्भावनयातिशयोक्तिः । सङ्कल्पानुसारिफलदाः पादपा येषु ॥
२७ ॥
एते ते यमवारीशकुबेरप्रतिमौजसः ।
सामन्ता वासवस्येव लोकपाला महीभृतः ॥ २८ ॥
वासवस्य यमादयो लोकपाला इव महीमृत एते सामन्ता अवान्तरदेशाधीशाः
॥ २८ ॥
इमास्ताः सर्ववस्त्वोघाः सर्वाभिमतदास्तताः ।
कल्पवृक्षलताकुञ्जसुन्दर्यो गृहपङ्क्तयः ॥ २९ ॥
सर्वे धनधान्यादिवस्त्वोघा यासु ॥ २९ ॥
इदं तत्कीरजनताराज्यं प्राग्भुक्तमद्य मे ।
आत्मजन्मान्तराचार एव प्रत्यक्षतां गतम् ॥ ३० ॥
प्राग्भुक्तमद्यजन्मान्तराचारो जन्मान्तरचरित्रमिव प्रत्यक्षतां गतम् ॥ ३० ॥
सत्यं स्वप्न इवायं मे जाग्रद्भूतः पुनः स्थितः ।
न जाने किङ्कृतोत्थाना मायेयं प्रविजृम्भते ॥ ३१ ॥
सत्य निश्चितं प्राक्स्वप्न इव दृष्टः पुनर्जाग्रद्भूतः स्थितः । किं केन
किमर्थं वा कृतमुत्थानमाविर्भावो यया ॥ ३१ ॥
अहो नु खलु दीर्घेण मनोमोहेन वल्गता ।
वैवश्यमुपनीतोऽहं जालेनेव शकुन्तकः ॥ ३२ ॥
वैवश्यमस्वाधीनताम् ॥ ३२ ॥
हा धिक्कष्टबुद्धं मे मनो वासनया हतम् ।
पश्यति भ्रमजालानि विततानि शिशोरिव ॥ ३३ ॥
अबुद्धमप्रबुद्धम् ॥ ३३ ॥
एषा हि माया महती तेन मे चक्रधारिणा ।
दर्शितेत्यधुना साधु मया स्मृतमखण्डितम् ॥ ३४ ॥
तेन प्राक्प्रसादितेन चक्रधारिणा विष्णुना ॥ ३४ ॥
तदिदानीं तथा यत्नं करिष्ये गिरिकन्दरे ।
यथा कुसम्भ्रमस्यास्य जाने जन्म तथा स्थितिम् ॥ ३५ ॥
जन्मस्थितिपदाभ्यां तन्निमित्तं लक्ष्यते ॥ ३५ ॥
इति सञ्चिन्त्य नगराद्गाधिस्तस्माज्जगाम ह ।
कन्दरं प्राप्य शैलस्य तस्थौ विश्रान्तसिंहवत् ॥ ३६ ॥
तत्र संवत्सरं सार्धं पयश्चुलुकभोजनम् ।
तपश्चक्रे महातेजास्तुष्टये शार्ङ्गधन्वनः ॥ ३७ ॥
पयश्चुलुकस्य भोजनं पानं कुर्वन्निति शेषः । शाङ्गधन्वनो विष्णोः ।
धनुषश्च इत्यनङ् ॥ ३७ ॥
अथास्य पुण्डरीकाक्षः पयोमूर्तिरुपाययौ ।
प्रसादमुत्पलश्यामः शरदीव महाह्रदः ॥ ३८ ॥
पय इव प्रसादस्वभावा मूर्तिर्यस्य । ह्रदपक्षे पय एव मूर्तिः स्वरूपं यस्य
॥ ३८ ॥
तमाजगाम शैलेन्द्रकन्दरं द्विजमन्दिरम् ।
पयोधरवदच्छाच्छच्छविर्व्योमन्यथावसत् ॥ ३९ ॥
द्विजस्य गाधेर्मन्दिरं निवासभूतं कन्दरम् । पयोधरवदच्छादप्यच्छा
निर्मलतरा छविः कान्तिर्यस्य । पयोधरवद्व्योमन्यावसदतिष्ठदिति वा ॥ ३९ ॥
श्रीभगवानुवाच ।
गाधे कच्चित्त्वया दृष्टा माया मम गरीयसी ।
दृष्टं त्वया जगज्जालचेष्टितं दैष्टिकात्मकम् ॥ ४० ॥
दिष्टं दैवमेव मतिः प्रतीतिनिमित्तं यस्य न वस्तुतदात्मकम् ॥ ४० ॥
चित्ताभिगत एतस्मिन्प्राप्ते सम्यगनिन्दितः ।
तपो गिरितटे कुर्वन्किमन्यदभिवाञ्छसि ॥ ४१ ॥
चित्तेनाभिगते वाञ्छिते एतस्मिन् मन्मायादर्शने प्राप्ते सति पुनर्गिरितटे तपः
कुर्वन्ननिन्दितः शुद्धस्त्वमन्यत्किमभिवाञ्छसीत्यन्वयः ॥ ४१ ॥
श्रीवसिष्ठ उवाच ।
एवं वदन्तमालोक्य हरिं गाधिर्द्विजोत्तमः ।
अर्चां कुसुमपूरेण पादयोः पर्यपूरयत् ॥ ४२ ॥
अर्चां नित्यं पूज्यमानां भगवत्प्रतिमां पादयोरर्चां पूजां
कुसुमपूरेण करोन्मुक्तपुष्पप्रवाहेण पयःपूरवत् पूर्णा चकारेति वा । अनेन
पूजाकाले भगवदागमनं गम्यते ॥ ४२ ॥
दत्त्वार्घ्यं कीर्णकुसुमः प्रणम्याशु प्रदक्षिणैः ।
विष्णुमाह द्विजो वाक्यमम्भोदमिव चातकः ॥ ४३ ॥
अर्घ्यं उत्तरार्घ्यम् । प्रदक्षिणैः सह प्रणम्य प्रणामान्तां पूजां
समाप्य ॥ ४३ ॥
गाधिरुवाच ।
देव यैषा त्वया माया दर्शिताऽतितमोमयी ।
महीं प्रातरिवादित्यस्तां मे प्रकटतां नय ॥ ४४ ॥
भ्रमं यं पश्यति मनो वासनामलमालितम् ।
स्वप्नवत्स कथं देव जाग्रत्यपि हि दृश्यते ॥ ४५ ॥
यस्तत्र ज्ञातव्यांशस्तमाह - भ्रममिति । भ्रमं मिथ्याविषयजातम् ॥
४५ ॥
मुहूर्तमुपलब्धश्च जलान्तः स्वप्नविभ्रमः ।
कथं प्रत्यक्षतां प्राप्तो ममामलपदास्पद ॥ ४६ ॥
प्रत्यक्षतां चिरं चक्षुरादिगोचरताम् । अमलमविद्यामलरहितं
पदमास्पदं प्रतिष्ठा यस्य ॥ ४६ ॥
दैर्घ्यादैर्घ्येऽस्य कालस्य शरीरस्य भवाभवाः ।
कथमन्तस्थिता न स्युर्मदीयैः श्वपचभ्रमैः ॥ ४७ ॥
मदीयैः श्वपचभ्रमैः कृते अस्य कालस्य दैर्घ्यादैर्घ्ये तथा
श्वपचशरीरस्य भवाभवा उत्पत्तिनाशाश्च अन्तर्मनस्येव स्थिताः कथं न
स्युः बहिस्ते कथं तिष्ठनितीत्यर्थः ॥ ४७ ॥
श्रीभगवानुवाच ।
गाधे स्वाधिविधूतस्य स्वरूपस्यैतदात्मकम् ।
चेतसोऽदृष्टतत्त्वस्य यत्पश्यत्युरुविभ्रमम् ॥ ४८ ॥
हे गाधे भवान्यत् उरु महज्जगद्विभ्रमं पश्यति तत् अदृष्टतत्त्वस्य अत एव
स्वनिष्ठैराधिभिर्वाअनारोगैर्गृहीतस्य
चेतसश्चित्तभावापन्नस्यात्मस्वरूपस्य एतदात्मकं रूपं भासते तद्वस्तुतो
नान्तर्न वा बहिर्नाल्पं न वा दीर्घमित्यर्थः ॥ ४८ ॥
बहिर्न किञ्चिदप्यस्ति खाद्र्यब्ध्युर्वीदिगादिकम् ।
एतत्स्वचित्त एवास्ति पत्रपुञ्जमिवाङ्कुरे ॥ ४९ ॥
यदि चास्तीति मन्यसे तर्हि स्वचित्त एवस्तीत्याह - बहिरिति । खमाकाशम् अद्रयः
पर्वताः उर्वी पृथ्वी दिशश्चेत्यादिकं जगदित्यर्थः ॥ ४९ ॥
फलादि स्फारतामेति यथैव बहिरङ्कुरात् ।
बहिः प्रकटतां याति तथा पृथ्व्यादिचेतसः ॥ ५० ॥
सत्यं पृथ्व्यादि चित्तस्थं न बहिष्ठं कदाचन ।
अङ्कुरस्थः पल्लवस्तु तस्माद्यस्मात्फलश्रियः ॥ ५१ ॥
यस्माद्धेतोः फलश्रियस्तस्माद्दृश्यन्ते इति शेषः ॥ ५१ ॥
रूपालोकमनस्कारतत्ताकालक्रियात्मकम् ।
कुम्भकारो घटमिव चेतो हन्ति करोति च ॥ ५२ ॥
वर्तमानविषये चक्षुरादिना रूपालोकः । भाविनि च मनसा
समर्थनान्मनस्कारः । अतीते च स्मर्यमाणे तत्ता तन्निरूपकास्त्रिविधाः
कालस्तद्व्यञ्जिका च सूर्यादिक्रियेत्येवमात्मकम् । हन्ति स्वात्मन्युपसंहरति
करोति सृजति च ॥ ५२ ॥
आबालमेतत्पुरुषैः सर्वैरेवानुभूयते ।
स्वप्नभ्रममदावेगरागरोगादिदृष्टिषु ॥ ५३ ॥
सर्वानुभवसिद्धं चेदमित्याह - आबालमिति ॥ ५३ ॥
चित्ते वृत्तान्तलक्षाणि संस्थितान्यात्तवासने ।
पादपे फलपुष्पाणि मूलाक्रान्तावनाविव ॥ ५४ ॥
मूलैराक्रान्ता अवनिः पृथ्वी येन तथाविधे पादपे इवेति
मनसोऽप्यधिष्ठानसदवष्टम्भबलाज्जगद्धारकत्वमिति द्योतनार्थम् ॥ ५४ ॥
त्यक्तावनेर्विटपिनो भूयः पत्राणि नो यथा ।
निर्वासनस्य जीवस्य पुनर्जन्मादि नो तथा ॥ ५५ ॥
त्यक्तावनेरुन्मूलितस्येति यावत् ॥ ५५ ॥
यत्रानन्तजगज्जालं संस्थितं तेन तेजसा ।
श्वपचत्वं प्रकटितं यदि तद्विस्मयोऽत्र किम् ॥ ५६ ॥
तथा चेदं श्वपचत्वं मनःस्थितानन्तवासनाजाले एकदेशप्रकटनमित्याह
- यत्रेति ॥ ५६ ॥
अवबुद्धा श्वपचता प्रतिभासवशात्त्वया ।
यथैवानल्पसंरम्भा विचित्राधिविकारदा ॥ ५७ ॥
तव सत्यत्वेनाभिमतमतिथ्यागमनादिप्रपञ्चजातमपि
श्वपचत्ववन्मनःस्थमेवेत्याह - अवबुद्धेत्यादिना ॥ ५७ ॥
तथैवातिथिरायातो भुक्तवान्सुप्तवान्द्विजः ।
कथां कथितवांश्चेति दृष्टवानसि सम्भ्रमम् ॥ ५८ ॥
तथैवोत्थाय गच्छामि प्राप्तोऽहं भूतमण्डलम् ।
इमे भूता इमे ग्रामा दृष्टवानसि सम्भ्रमम् ॥ ५९ ॥
इमे ग्रामा इति सम्भ्रमं दृष्टवानसीति सर्वत्र इतिशब्दोऽध्याहार्यः ॥ ५९ ॥
तथैवेदं कटञ्जस्य प्राक्तनं लुठितं गृहम् ।
जनैरुक्तं कटञ्जस्य दृष्टवानसि सम्भ्रमम् ॥ ६० ॥
तथैव कीरनगरं प्राप्तोऽस्मि कथितं च मे ।
कीरैः श्वपचराजत्वं दृष्टवानसि सभ्रमम् ॥ ६१ ॥
एवं सर्वं त्वया दृष्टं मोहजालं द्विजोत्तम ।
यत्सत्यमिति जानासि यच्चासत्यमवैषि च ॥ ६२ ॥
वासनावलितं चेतः किं नामान्तर्न पश्यति ।
सार्थितं दृश्यते स्वप्ने वर्षसाध्यं प्रयोजनम् ॥ ६३ ॥
साधितं क्षणेनैव सिद्धम् ॥ ६३ ॥
सर्वमेतन्महाबुद्धे व्यामोहाद्दृष्टवानसि ॥ ६४ ॥
गच्छता भवता भूतदेशं पान्थेन कन्दरे ।
कस्मिंश्चिद्विप्र विश्रान्तं कुरङ्गेणेव कानने ॥ ६५ ॥
किञ्च त्वयेदानीमपि न भूतमण्डले कीरनगरे वा गतं किन्त्वतिथिवाक्यं
श्रुत्वा भूतदेशं र्पति गच्छता प्रस्थितेन पान्थेन त्वया पथि
कस्मिंश्चिद्गिरिकन्दरे विश्रान्तं तत्रैव श्रमेण
मूढत्वात्परवशचित्तत्वात्स्वप्नवदिदं तद्भूतमण्डलमिदं
तच्छ्वपचागारमित्यादि दृष्टं न परमार्थत इति द्वयोरर्थः ॥ ६५ ॥
तत्रैव श्रममूढत्वादिदं तद्भूतमण्डलम् ।
इदं तच्छ्वपचागारमिति दृष्टं न सत्यतः ॥ ६६ ॥
तथैव कीरनगरं दृष्टवानसि तत्तथा ।
तदैव चान्यदा वापि मायार्थं हि भवान्द्विज ॥ ६७ ॥
तत्तस्मिन्कन्दरे तदैव श्रमकाले कीरनगरं दृष्टवानसि अन्यदा
अघमर्षणकाले वापि तथविअ मायामयमर्थं भवान् दृष्टवानित्यर्थः ॥
६७ ॥
सर्वदैव समग्रासु विहरन्नसि दृष्टवान् ।
दिक्षु प्रोन्मत्तक इव विभ्रमं मनसा मुने ॥ ६८ ॥
चले [जलकन्दरे तदा इति पाठः] कन्दरे तदेति च देशकालनियमो
भ्रमस्य नास्ति यावत्तत्त्वबोधं सर्वदा भ्रान्त्यैव
विहरणादिव्यवहारदर्शनादित्याशयेनाह - सर्वदैवेति ॥ ६८ ॥
तदुत्तिष्ठ निजं कर्म कुर्वंस्तिष्ठोपशान्तधीः ।
न स्वकर्म विना श्रेयः प्राप्नुवन्तीह मानवाः ॥ ६९ ॥
निजं ब्रह्मचर्याश्रमोचितमग्निकार्यस्वाध्यायादि कर्म ॥ ६९ ॥
श्रीवसिष्ठ उवाच ।
इति निगदितवान्स पद्मनाभो
भुवनगतापसवृन्दपूज्यमानः ।
विबुधमुनिगणैः पवित्रहस्तै-
र्वृत उदधिं निजमस्पदं जगाम ॥ ७० ॥
भुवनगैस्त्रिभुवनगतैस्तापसवृन्दैः पूज्यमानः स पद्मनाभ इति
उक्तप्रकारेण निगदितवान्सन् भगवच्चरणस्पर्शसेवादिना
पवित्रहस्तैर्विबुधमुनिगणैर्वृतः सन् निजमास्पदं गृहभूतं
क्षीरोदधिं जगामेत्यर्थः ॥ ७० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये
मोक्षोपायेषूपशमप्रकरणे गाधिवृत्तान्ते मायामहत्त्वकथनं
नामाष्टचत्वारिंशः सर्गः ॥ ४८ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
मायामहत्त्वकथनं नामाष्टचत्वारिंशः सर्गः ॥ ४८ ॥