सप्तचत्वारिंशः सर्गः ४७
श्रीवसिष्ठ उवाच ।
मुहूर्तद्वितयेनाथ गाधिराधिभवभ्रमात् ।
प्रशशामाकुलीभावो वेलावर्त इवाम्बुधेः ॥ १ ॥
गाधिः स्वमतिथेः [स्वप्नमिव स्मृत्वेति पाठः] श्रुत्वा
तत्कीरनृपचेष्टितम् ।
गत्वा दृष्ट्वा मुहुः पृष्ट्वा विस्मितोऽभूदितीर्यते ॥ १ ॥
आधिरूपात्प्रागुक्तभवभ्रमात्प्रशशाम । आकुलीभवत्यस्मिन्नित्याकुलीभावः
। अधिकरणे घञ । वेलासन्निहित आवर्त इव ॥ १ ॥
मनोनिर्माणसम्मोहात्तस्मात्स विरराम ह ।
कल्पान्तसमये ब्रह्मा जगद्विरचनादिव ॥ २ ॥
बोधमाप शनैः शान्तः स्वमेवोन्निद्रधीरिव ।
क्षीबतायां प्रशान्तायां यथा परिणताशयः ॥ ३ ॥
स्वं प्राक्तनगाध्यहम्भावलक्षणं बोधमाप । उन्निद्रा व्यपेतनिद्रा
धीर्यस्य स इव । क्षीबतायां मदिरादिमदे । परिणताशयः स्वच्छचित्तः ॥ ३ ॥
अयं सोऽहमिदं कार्यमिदं नेति ददर्श ह ।
निशाव्यपगमे लोको यथा क्षीणे तमःपटे ॥ ४ ॥
यो जले स्नानायावतीर्णः सोऽयं गाधिरहम् । स्नानशेषतर्पणादिकृत्यं मे
कार्यम् । इदं प्राग्दृष्टचण्डालराज्यादि न कार्यम् । लोको जनो यथा पश्यति
तद्वत् ॥ ४ ॥
स्मृतस्वरूपोऽथ पदमुद्दध्रे स जलान्तरात् ।
शिशिरान्ते प्रवृत्तास्यं सरोजमिव माधवः ॥ ५ ॥
पदं पादमुद्दध्रे उद्धृतवान् । शिशिरान्ते शीतापगमे प्रवृत्तास्यं
सञ्जातमुकुलमुखम् । माधवो वसन्तः ॥ ५ ॥
एतद्वारिककुब्ब्व्योमवतीं वसुमतीमिमाम् ।
अन्यामिव पुनः पश्यन्विस्मयं परमं ययौ ॥ ६ ॥
एषा चासौ वारिककुब्व्योमवती चेति वा एतैः
परिदृश्यमानैर्वार्यादिभिस्तद्वतीमिति वा विग्रहः ॥ ६ ॥
कोऽहं किमिव पश्यामि किमकार्षमहं किल ।
एवं विचारयंश्चितं सभ्रूभङ्गमभूत्क्षणम् ॥ ७ ॥
सभ्रूभङ्गं एवमन्तर्विचारयन्नभूत् ॥ ७ ॥
श्रान्तस्तत्क्षणमात्रेण सम्भ्रमं दृष्टवानहम् ।
इति विज्ञाय सलिलादुदस्थादुदयार्कवत् ॥ ८ ॥
तत्तस्माच्छ्रान्तिवशात् क्षणमात्रेण । सम्भ्रमं महाभ्रमम् । उदस्थात् ।
लुङि गातिस्था इति सिचो लुक् । उदयो गिरिः कालो वा तत्रत्यार्कवत् ॥ ८ ॥
चिन्तयामास च तटे क्व सा माता क्व सा प्रिया ।
यदाहं मृतिमायातो मध्ये मातृमहेलयोः ॥ ९ ॥
चिन्ताप्रकारमेव दर्शयति - क्वेत्यादिना । महिलाशब्दस्यैव महेलेति
च्छान्दसो गुणः ॥ ९ ॥
बालस्य मातापितरौ नष्टौ किल ममामतेः ।
वातनीतस्य पत्रस्य वल्लीवृक्षमिवासिना ॥ १० ॥
अमतेः अप्रौढचित्तावस्थस्य । वातनीतस्य पत्रस्य पर्णस्य
मातापितृस्थानीयं वल्लिवृक्षं असिनेव मृत्युना नष्टौ ॥ १० ॥
अविवाहोऽस्मि जानामि न स्वरूपमपि स्त्रियः ।
दुष्टायाः क्षोभकारिण्या मदिराया इव द्विजः ॥ ११ ॥
द्विजो विप्रो मदिरायाः स्वरूपं रसमिव ॥ ११ ॥
अतिदूरतरीभूताः स्वदेशस्य स्वबान्धवाः ।
के नाम मम येषां ते मध्ये जीवं त्यजाम्यहम् ॥ १२ ॥
स्वदेशस्य जन्मभूमेः । स्वा बान्धवाः ज्ञातयः । येषां मध्ये अहं
जीवं त्यजामि मरणं दृष्ट्वानस्मि ते के नामेति सम्बन्धः ॥ १२ ॥
तस्मादेतत्समुद्भूतमहं किं नाम दृष्टवान् ।
विविधारम्भसंरम्भं गन्धर्वनगरं यथा ॥ १३ ॥
विविधं आरभ्यत इत्यारम्भं पदार्थजातं संरम्भं
जन्माद्यभिनिवेशं च किं नाम दृष्टवान् ॥ १३ ॥
तदास्तामेतदेषा हि बन्धुमध्ये मृतस्थितिः ।
मायामोहे मनागस्मिन्न सत्यमुपलभ्यते ॥ १४ ॥
स्वप्नस्येव बाधान्मिथ्यात्वं निश्चित्योपेक्षते - तदास्तामिति । तत्तस्मादेषा
भ्रान्तिरास्तां नामेत्यर्थः ॥ १४ ॥
नित्यमेवमनन्तासु भ्रान्तिदृष्टिषु देहिनाम् ।
चेतो भ्रमति शार्दूलो वनराजिष्विवोन्मदः ॥ १५ ॥
अवधार्येति तं चित्ते मोहं गाधिर्निनाय सः ।
दिनानि कतिचित्तस्मिन्स्वक एवाश्रमे तदा ॥ १६ ॥
स्वक एवाश्रमे कतिचिद्दिनानि निनाय ॥ १६ ॥
एकदा गाधिमगमत्कश्चित्तत्र प्रियोऽतिथिः ।
ब्रह्माणमिव दुर्वासाः स विशश्राम सश्रमः ॥ १७ ॥
कृशत्वात्सश्रमः सोऽतिथिस्तदाश्रमे विशश्राम विश्रान्तिमकरोत् ।
सायमुवासेति यावत् ॥ १७ ॥
परमां तुष्टिमानीतः फलपुष्परसाशनैः ।
सोऽतिथिर्गाधिना तेन वसन्तेनेव पादपः ॥ १८ ॥
तुष्टिं तृप्तिम् ॥ १८ ॥
मिथो वन्दितसन्ध्यौ तौ कृतजाप्यावुभावपि ।
क्रमाच्छयनमासाद्य तस्थतुर्मृदुपल्लवम् ॥ १९ ॥
ततः प्रावर्तते [प्रावर्तत इति छेदः] शान्ता तयोस्तापसयोः कथा
।
स्वव्यापारोचिता पुष्पश्रीरिवर्तुत्वमाशयोः ॥ २० ॥
स्वस्वतपोध्यानादिव्यापाराणामुचिता अनुरूपा कथा प्रावर्तत । ई
[प्रावर्तत ई इति छेदः] इति खल्वर्थे निपातः । शान्ता शान्तिरसप्रधाना
। स्वक्रियया ऋतूनामृतुत्वं मिनोति परिच्छिनत्तीति ऋतुत्वमः सूर्यस्तस्य
आशाया उत्तरदिशश्च योगे वसन्ते तदुचिता पुष्पश्रीरिव ॥ २० ॥
तं पप्रच्छातिथिं गाधिः प्रसङ्गपतितं वचः ।
किं ब्रह्मन्सुकृशाङ्गस्त्वं किमिति श्रमवानसि ॥ २१ ॥
तयोर्वार्ताप्रसङ्गपतितम् ॥ २१ ॥
अतिथिरुवाच ।
ममातिकार्श्यश्रमयोर्भगवन् शृणु कारणम् ।
कथयामि तथाभूतं वयं नासत्यवादिनः ॥ २२ ॥
वयं । अस्मदो द्वयोश्चेति बहुवचनम् ॥ २२ ॥
अस्त्यस्मिन्वसुधापीठे उत्तराशानिकुञ्जके ।
कीरो नामातिविख्यातः श्रीमाञ्जनपदो महान् ॥ २३ ॥
तत्राहमवसं मासं पूज्यमानः पुरे जनैः ।
नानात्मस्वादलोलात्मा चित्तवेतालमोहितः ॥ २४ ॥
नानाविधा आत्मनः स्वदन्ते रोचन्त इति नानात्मस्वादा भोज्यभेदास्तेषु लोभो
गार्ध्यं तदात्मा तत्प्रधानः सन् । कुतस्त्वमेवमभूस्तत्राह - चित्तेति ॥ २४
॥
एकदैकेन तत्रोक्तं कथाप्रस्तावतः क्वचित् ।
इहाभूच्छ्वपचो राजा वर्षाण्यष्टौ द्विजेति मे ॥ २५ ॥
ततो ग्रामेषु तत्पृष्टैः प्रोक्तं सकलजन्तुभिः ।
राजा बभूव श्वपचो वर्षाण्यष्टाविहेति तैः ॥ २६ ॥
सोऽयमन्ते परिज्ञातः प्रविष्टो ज्वलनं जवात् ।
ततो द्विजशतानीह प्रविष्टानि हुताशनम् ॥ २७ ॥
स श्वपचः । अन्ते अष्टमवर्षान्ते ॥ २७ ॥
इति तेषां मुखाच्छ्रुत्वा तस्मान्निर्गत्य मण्डलात् ।
प्रयागेऽकरवं शुद्ध्यै प्रायश्चित्तमहं द्विज ॥ २८ ॥
शुद्ध्यै तद्देशवासदोषशान्त्यै ॥ २८ ॥
कृत्वा चान्द्रायणस्यान्ते तृतीयस्याद्य पारणम् ।
इहाहमागतस्तेन श्रान्तोस्म्यतिकृशोस्मि च ॥ २९ ॥
श्रीवसिष्ठ उवाच ।
इति श्रुतवता तेन गाधिना स तदा द्विजः ।
भूयः पृष्टोऽप्येतदेव कथयामास नान्यथा ॥ ३० ॥
अथ विस्मयवान्गाधिस्तां नीत्वा तत्र शर्वरीम् ।
जगद्गेहमहादीपे रवावुदयमागते ॥ ३१ ॥
अथ गाधिः रवौ उदयमागते स्वातिथौ आपृच्छ्य गते सति विस्मयेनोद्धुरया
गरीयस्या धिया इदं वक्ष्यमाणं सञ्चिन्तयामासेति परेण सम्बन्धः ॥ ३१ ॥
कृतप्रात्तःस्नानविधावापृच्छय स्वातिथौ गते ।
इदं सञ्चिन्तयामास विस्मयोद्धुरया धिया ॥ ३२ ॥
यन्मया सम्भ्रमे दृष्टं सत्यभूतं द्विजेन तत् ।
उक्तं ममेति किं नाम स्यान्मायाशम्बाक्रमः ॥ ३३ ॥
मया यत्सम्भ्रमे भ्रान्तिदशायां दृष्टं तद्द्विजेनातिथिना
सत्यभूतमुक्तं मम इति एवंरूपमिदं किं मायालक्षणः
शम्बरस्यासुरस्य रचनाक्रमः स्यात् । सम्भावनायां लिङ ॥ ३३ ॥
य *? धुमध्ये मरणं मया तद्दृष्टमात्मनः ।
सा मायैव न सन्देहः शेषं पश्यामि तस्य तम् ॥ ३४ ॥
सा माया मिथ्यैव तत्र न संवादो द्रष्टुं शक्यः । शेषमवशिष्टं
तस्यातिथेश्चान्द्रायणनिमित्तं तमात्मश्वपचोदन्तं पश्यामि
द्रक्ष्यामीत्यर्थः ॥ ३४ ॥
तदात्मश्वपचोदन्तं द्रष्टुं तावदखिन्नधीः ।
भूतमण्डलपर्यन्तग्रामं गच्छामि सत्वरम् ॥ ३५ ॥
तदेवाह - तदिति । तस्य तदवस्थस्यात्मनः श्वपचस्य उदन्तं वृत्तान्तम् ॥
३५ ॥
इति सञ्चिन्तयन्गन्तुं मण्डलान्तरमादरात् ।
उत्तस्थौ भास्करः पार्श्वं मेरोर्द्रष्टुमिवोद्यतः ॥ ३६ ॥
इति सञ्चिन्तयन् गाधिर्मण्डलान्तरं द्रष्टुमुत्तस्थौ । उद्यत उद्युक्तः ॥ ३६ ॥
मनोराज्यमपि प्राज्ञा लभन्ते व्यवसायिनः ।
गाधिना स्वप्नसन्दृष्टं गत्वा लब्धमखण्डितम् ॥ ३७ ॥
तत्कथं द्रष्टुं शक्यमिति चेत्पुरुषप्रयत्नस्यालभ्यं नास्तीत्याह -
मनोराज्यमिति ॥ ३७ ॥
सर्वमध्यवसायेन दुष्प्रापमपि लभ्यते ।
पश्यन्गाधिर्जगन्मायां प्रमेयीकर्तुमुद्यतः ॥ ३८ ॥
प्रमेयीकर्तुं चक्षुःप्रमाणगोचरीकर्तुम् ॥ ३८ ॥
विनिर्गत्याभवन्मार्गे प्रावृडोघजवेन सः ।
देशानुल्लङ्घयामास बहून्वाततुरङ्गवत् ॥ ३९ ॥
स मार्गे प्रावृषि य ओघो जलप्रवाहस्तज्जवेन त्वरमाणोऽभवत् । वात एव
तुरङ्गो वाहनं यस्य मेघस्य तद्वत् ॥ ३९ ॥
तच्चेदृशनिजाचारं भूतमण्डलमागतः ।
करभः कण्टकार्थ्येकः कारञ्जमिव काननम् ॥ ४० ॥
ईदृशः प्राग्दृष्टप्रकारो निजाचारो यस्मिंस्तद्भूतमण्डलं च
प्रथममागतः ॥ ४० ॥
तत्र संवित्स्थितेनैव सन्निवेशेन वै पुनः ।
अपश्यद्ग्रामकं कञ्चिद्गन्धर्व इव पत्तनम् ॥ ४१ ॥
संविदि बुद्धौ स्थितेनैव स्मर्यमाणेनैव सन्निवेशेन संस्थानविशेषेण
स्थितं कञ्चिद्वामकमपश्यत् ॥ ४१ ॥
ददर्श तस्य पर्यन्ते तमेव श्वपचालयम् ।
अधस्ताद्भूवनस्येव पाताले नरकव्रजम् ॥ ४२ ॥
चित्तचिन्तितविस्तारं तन्निवेशमयं परम् ।
गन्धर्ववदसावात्मश्वपचत्वं दृष्टवान् ॥ ४३ ॥
चित्ते चिन्तितो जन्मादिविस्तारो यत्र तथाविधं स प्राग्दृष्टो यो
गृहादिनिवेशस्तत्प्रचुरं आत्मनः श्वपचत्वं च लिङ्गैः
पुनर्दृष्टवानित्यर्थः ॥ ४३ ॥
तेनैव सन्निवेशेन प्राग्दृष्टं श्वपचास्पदम् ।
तस्य कामपि वैराग्यपदवीमनयन्मनः ॥ ४४ ॥
तच्छ्वपचास्पदं कर्तृ तस्य मनः कामपि
वैराग्यपदवीमनयत्प्रापयामास ॥ ४४ ॥
प्रावृडासारलुठितं भित्तिजातयवाङ्कुरम् ।
पर्यस्तच्छादनार्धाङ्कं किञ्चिदादृष्टतल्पकम् ॥ ४५ ॥
तदेव वर्णयति - प्रावृडित्यादिना । किञ्चिदादृष्टं प्रत्यभिज्ञातं
तल्पकं शयनकटखण्डादि यस्मिन् ॥ ४५ ॥
दारिद्र्यं तद्दृढमिव दौर्भाग्यमिव कुड्यमत् ।
भ्रष्टाङ्गमिव दौरात्म्यं दौःस्थित्यमिव खण्डितम् ॥ ४६ ॥
कुड्यमत् भित्त्यवशेषगृहाकारमिति यावत् । यवादित्वादवत्वम् ।
भ्रष्टाङ्गं स्खलितावयवं चौर्यादिदौरात्म्यमिव । दौःस्थित्यं दुर्दशाम्
। खण्डितं छिन्नैकदेशम् ॥ ४६ ॥
गाधिर्दन्तावदलितैर्गवाश्वमहिषास्थिभिः ।
धवलैर्व्याप्तपर्यन्तं साक्ष्यं कर्तुमिव स्थितैः ॥ ४७ ॥
गाधिश्चिरमालोकयामासेति तृतीयेन सम्बन्धः ॥ ४७ ॥
भुक्तं पीतं पुरा तेन येषु खर्परकेषु वै ।
तैरस्पन्दाभ्रसलिलैः पानपूर्णैरिवावृतम् ॥ ४८ ॥
अस्पन्दान्यभ्रसलिलानि [न्यभ्रमसलिलानीति क्वचित्] दैवागतवृष्टिजलानि
येषु तैः ॥ ४८ ॥
ताभिरेवान्त्रतन्त्रीभिः संशुष्काभिर्लतावृतैः ।
तृष्णाभिरिव दीर्घाभिः परितः परिवेष्टितम् ॥ ४९ ॥
लतावृतैर्लतावत्स्तम्भादिपरिवेष्टनैः परितः परिवेष्टितम् । आत्ततन्त्रीभिः इति
पाठे लतानामावृतैरावरणैरात्ताभिस्तन्त्रीभिः प्रतानैः
परिवेष्टितमित्यर्थः ॥ ४९ ॥
चिरमालोकयामास स तदात्मगृहं जवात् ।
प्राक्तनं शुष्कशवतां यातं देहमिवात्मवान् ॥ ५० ॥
शुष्कशवप्रायतां यातं स्वदेहमिव । आत्मवान् तत्त्ववित् ॥ ५० ॥
अतिविस्मयमातस्थौ ग्रामकं समुपाययौ ।
उल्लङ्घ्य म्लेच्छनगरमार्यदेशमिवाध्वगः ॥ ५१ ॥
तत्स्वगृहमुल्लङ्घ्य । तत्समीपस्थं ग्रामकं कुग्रामम् ॥ ५१ ॥
तत्रापृच्छज्जनं साधो कच्चित्स्मरति भो भवान् ।
प्राग्वृत्तमस्य ग्रामस्य पर्यन्ते श्वपचक्रमम् ॥ ५२ ॥
श्वपचक्रमं श्वपचवृत्तान्तम् ॥ ५२ ॥
सर्व एव हि धीमन्तश्चिरवृत्तमपि स्फुटम् ।
करस्थमिव पश्यन्ति मयेति सुजनाच्छ्रुतम् ॥ ५३ ॥
पश्यन्ति स्फुटं स्मरन्तीति यावत् ॥ ५३ ॥
अत्र श्वपचमेकान्ते वासिनं वृद्धमुत्तमम् ।
स्मरस्येनं किमुत भो दुःखानामिव देहकम् ॥ ५४ ॥
यदि जानासि भोः साधो तन्मे कथय तत्त्वतः ।
पान्थ संशयविच्छेदे महत्पुण्यफलं स्मृतम् ॥ ५५ ॥
भूयो भूय इति ग्राम्याः पृष्टा गाधिद्विजन्मना ।
अनल्पस्मयसंरम्भमार्तेनेव चिकित्सकाः ॥ ५६ ॥
अनल्पः स्मयो विस्मयः संरम्भः प्रश्नोद्योगश्च यस्मिन्कर्मणीति
क्रियाविशेषणम् । आर्तेन रोगार्तेन ॥ ५६ ॥
ग्राम्या ऊचुः ।
यथा कथयसि ब्रह्मंस्तत्तथा न तदन्यथा ।
कटञ्जनामा श्वपच इहाभूद्दारुणाकृतिः ॥ ५७ ॥
पुत्रपौत्रसुहृद्भृत्यबन्धुस्वजनपेटकम् ।
यस्यातिविस्तीर्णमभूत्पत्रवृन्दं तरोरिव ॥ ५८ ॥
यस्य वृद्धस्य तत्सर्वं कलत्रं मृत्युराच्छिनत् ।
अद्रेः पुष्पफलोपेतं दावो वनमिवानलः ॥ ५९ ॥
दवे भवो दावः ॥ ५९ ॥
यस्ततो देशमुत्सृज्य ययौ कीरपुरान्तरम् ।
वर्षाण्यष्टावनुद्वेगं तत्र राजा बभूव सः ॥ ६० ॥
यस्तत्रार्थं परिज्ञाय जनैर्दूरे निराकृतः ।
यथा राशिरनर्थस्य यथा ग्रामे विषद्रुमः ॥ ६१ ॥
ततो जनेऽग्निं प्रविशत्यात्मना यो हुताशनम् ।
आर्यतामार्यसंसर्गादागतः प्रविवेश ह ॥ ६२ ॥
किं त्वमेव प्रयत्नेन श्वपचं पृच्छसि प्रभो ।
किं ते बन्धुरसौ कच्चिदभवस्त्वं स्वतोऽथवा ॥ ६३ ॥
स ते बन्धुः किमभवत् । अथवा त्वं स्वतः स्वयमेव तद्बन्धुरभवः ॥ ६३ ॥
एवं कथयतो ग्राम्यान्गाधिः पृच्छन्पुनःपुनः ।
सर्वेषु तत्र प्रान्तेषु मासमेकमुवास सः ॥ ६४ ॥
तत्र ग्रामे । सर्वेषु प्रान्तेषु तत्तद्वासयोग्यगृहेष्विति यावत् ॥ ६४ ॥
यथा तेनानुभूतं तच्छ्वापचं तत्तथैव तैः ।
ग्रामीणैस्तस्य कथितं सर्वैरेवावखण्डितम् ॥ ६५ ॥
अव्याहतं सकलभूतमुखादथैत-
दाकर्ण्य सम्यगवलोक्य यथानुभूतम् ।
गाधिः शशाङ्कमलवद्धृदयेऽधिरूढं
गूढाकृतिः परमविस्मयमाजगाम ॥ ६६ ॥
सकलभूतभुखादव्याहतममृषार्थकं वाक्यमाकर्ण्य स्वयं
चाबाधितप्रत्यभिज्ञया यथानुभूतमवलोक्य लज्जया गूढाकृतिर्गाधिः
शशाङ्कस्येन्दोर्मलवत्कलङ्कमिव स्वहृदये अधिरूढं परमं
विस्मयमाजगाम प्रापेत्यर्थः ॥ ६६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे गाधिवृत्तान्ते प्रत्यक्षावलोकनं नाम
सप्तचत्वारिंशः सर्गः ॥ ४७ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
प्रत्यक्षावलोकनं नाम सप्तचत्वारिंशः सर्गः ॥ ४७ ॥