षट्चत्वारिंशः सर्गः ४६
श्रीवसिष्ठ उवाच ।
विलासिनीभिर्वलितो मन्त्रिमण्डलपूजितः ।
वन्दितः सर्वसामन्तैश्छत्रचामरलालितः ॥ १ ॥
इह तं श्वपचाच्छ्रुत्वा श्वपचं ज्वलनं जने ।
प्रविष्टे सोऽपि निर्दग्धः प्रबुद्धो गाधिरीर्यते ॥ १ ॥
विलासिनीभिर्वलित इत्यादिविशेषणः स विस्मृतात्मस्वभावोऽभूदिति
तृतीयेनान्वय्ः ॥ १ ॥
सिद्धानुशासनः कान्तो ज्ञातराज्यगुणक्रमः ।
वीतशोकभयायासप्रज्ञः [प्रजः इति साधीयानत्र]
प्राप्तमहादशः ॥ २ ॥
सिद्धमप्रतिहतमनुशासनमाज्ञापनं यस्य । वीतशोकभयायासाः प्रजा
यस्य ॥ २ ॥
विस्मृतात्मस्वभावोऽभूदनिशं स्तवमङ्गलैः ।
आनन्दपूर्णया वृत्त्या भृशं क्षीब इवासवैः ॥ ३ ॥
क्षीणो मत्त इव ॥ ३ ॥
कीरेषु श्वपचो राज्यं वर्षाण्यष्टौ चकार ह ।
आर्यवृत्तमशेषेण तावत्कालं बभार ह ॥ ४ ॥
आर्यवृत्तं दयादाक्षिण्यशौचादि ॥ ४ ॥
यदृच्छयैकदाथासावतिष्ठत्त्यक्तभूषणः ।
अतमस्तारकेन्द्वर्कतेजोऽम्भोदमिवाम्बरम् ॥ ५ ॥
न विद्यन्ते तमस्तारकेन्द्वर्कतेजांस्यम्भोदाश्च
यस्मिंस्तथाविधमम्बरमिव सर्वतो नीलः ॥ ५ ॥
वह्वमन्यत नो हारकेयूरवलयान्यसौ ।
प्रभुताबृंहितं चेतो नाहार्यमभिनन्दति ॥ ६ ॥
किमर्थं त्यक्तभूषणस्तत्राह - बह्विति । प्रभुतया बृंहितमुपचितम् ।
आहार्य कृत्रिमं भूषणादि नाभिनन्दति ॥ ६ ॥
एक एवाजिरं बाह्यं तादृग्वेषः स निर्ययौ ।
मुख्याङ्गं णान्नभोभागादस्तं गच्छन्निवांशुमान् ॥ ७ ॥
आन्तरान्मुख्यजनाश्रितादङ्गणाद्बाह्यं
नीचजनसाधारणमजिरमङ्गणं निर्ययौ । यथा अस्तं
गच्छन्गमिष्यन्नंशुमान्मुख्याद्गगनाङ्गणात्प्रान्तनभोभागं निर्याति
तद्वत् ॥ ७ ॥
तत्रापश्यद्धनं श्यामं पीनं श्वपचपेटकम् ।
गायन्मृदु वसन्तोत्थं कोकिलानामिव व्रजम् ॥ ८ ॥
श्वपचानां पेटकं सङ्घम् । मृदु मधुरं गायत् ॥ ८ ॥
धुनानं वल्लकीतन्त्रीं करपल्लवलीलया ।
मृदुरेफं रणद्रेफामलिश्रेणिमिव द्रुमम् ॥ ९ ॥
वल्लक्या वीणायास्तन्त्रीं गुणम् । मृदुरेफं मृदुस्वरम् । द्रुमं
धुनानां कम्पयन्तीम् । रणन्तो रेफाः पक्षा यस्यास्तथाविधामलिश्रेणिं
भ्रमरपङ्क्तिमिव ॥ ९ ॥
एकस्तस्मात्समुत्तस्थौ जरावान्रक्तलोचनः ।
काचशृङ्गहिमापूर्णमिव श्वपचनायकः ॥ १० ॥
हिमैरापूर्णं काचमयं गिरेः शृङ्गमिव स्थितः श्यामो धूलिधूसर इति
यावत् ॥ १० ॥
भो कटञ्जेति सहसा वदन्कीरमहीपतिम् ।
इह राजा भवन्तं वा कच्चिद्गेयक्रियाविदम् ॥ ११ ॥
कटञ्जेति पूर्वनाम्ना वदन् सम्बोधयन् ॥ ११ ॥
रक्तकण्ठं मानयति रागवानिव कोकिलम् ।
आपूरयति वा कच्चिद्गृहवस्त्रासनार्पणैः ॥ १२ ॥
रक्तकण्ठं मधुरकण्ठध्वनिम् । मानयति बहुमन्यते किम् । रागवान्
स्वरवित् कान्ताद्यनुरागवान्वा । गृहस्य वस्त्रासनानां चार्पणैर्दानैः ॥ १२ ॥
मधू रसालविटपं फलपुष्पभरैरिव ।
दर्शनेन तवाद्याहं परां निर्वृतिमागतः ॥ १३ ॥
मधुर्वसन्तः । रलोपे दीर्घः । निर्वृतिं सुखम् ॥ १३ ॥
पद्मं सूर्योदयेनेव चन्द्रोदय इवौषधी ।
आनन्दानामशेषाणां लाभानां महतामपि ॥ १४ ॥
विश्रामाणामनन्तानां सीमान्तो बन्धुदर्शनम् ।
श्वपचे प्रवदत्येवं राजा यावत्तया तया ।
वकार तत्कालजया चेष्टयैवावधीरणम् ॥ १५ ॥
सीमान्तः परमावधिः । सीमन्तः केशवेशे इत्युक्तेः पररूपाभावः ।
अवधीरणं तिरस्कारं तद्व्याजेन गूहनमिति यावत् ॥ १५ ॥
तावद्वातायनगताः कान्ताः प्रकृतयस्तथा ।
श्वपचोऽयमिति ज्ञात्वा म्लानतामलमाययुः ॥ १६ ॥
अलमत्यन्तम् । म्लोआनतां क्षीणहर्षताम् ॥ १६ ॥
पद्मास्तुषारप्रावृष्ट्या ग्रामाः सावग्रहा इव ।
दाववन्त इवाद्रीन्द्रा नागरा न विरेजिरे ॥ १७ ॥
तुषारैः प्राति पूरयतीति तया तुषारप्रावृष्ट्या । इवेत्यत्रापि सम्बध्यते । प्रा
पूरणे इत्यस्मात्क्विपि तृतीयैकवचने आतो धातोः इत्यालोपः । सावग्रहा
अनावृष्टिपीडिताः दवे भवो दावोऽग्निस्तद्वन्त इव ॥ १७ ॥
नृपोऽवधीरयामास तां तां श्वपचसङ्कथाम् ।
वृक्षाग्रगतमार्जारफेत्कारं मृगराडिव ॥ १८ ॥
अवधीरयामास निर्भर्त्सयामास । सङ्कथां सम्भाषाम् ॥ १८ ॥
सत्वरं प्रविवेशान्तःपुरमाम्लानमानवम् ।
राजहम्स इवावर्षे सीदत्सरसिजं सरः ॥ १९ ॥
सीदत्सरसिजं शुध्यत्पङ्कजम् ॥ १९ ॥
सर्वावयवविश्रान्तां म्लानतामयमाययौ ।
जानुस्तम्भान्तरमहारन्ध्राग्निरिव दुर्द्रुमः ॥ २० ॥
सर्वेष्ववयवेषु विश्रान्तां व्याप्ताम् । जान्विव स्तभ्राति विष्टभ्रोतीति
जानुस्तम्भो मूलभागस्तदन्तरालस्थे महारन्ध्रे कोटरे अग्निर्यस्य । दुर्द्रुमः
शाल्मल्यादिः ॥ २० ॥
तत्रापश्यदसौ सर्वं विषण्णवदनं जनम् ।
जालं कुङ्कुमपुष्पाणां भुक्तमूलमिवाखुना ॥ २१ ॥
जालपदेन पुष्पजालास्पदं गुल्मं [गुल्मं इति क्वचिन्न पठ्यते]
गृह्यते । आखुना मूषकेण भुक्तमूलं खण्डितमूलम् ॥ २१ ॥
मन्त्रिणो नागरा नार्यस्ततस्ते तं महीपतिम् ।
नास्प्राक्षुरपि तिष्ठन्तं गृह एव शवं यथा ॥ २२ ॥
गृहे एव तिष्ठन्तमपि नास्प्राक्षुर्न स्पृष्टवन्तः ॥ २२ ॥
भृत्याश्चाकृतसत्कारं दूर एनमथात्यजन् ।
दुःखयुक्ता घनस्नेहा अपि बालाः शवं यथा ॥ २३ ॥
अनानन्दमुखं श्यामं शरीरं श्रीविवर्जितम् ।
दग्धं स्थलमिवैनं ते वह्वमन्यन्त नाकुलाः ॥ २४ ॥
दग्धं स्थलं श्मशानदेशमिव ॥ २४ ॥
धूमायमानदेहस्य परितापदशावती ।
नाढौकतास्य जनता पार्श्वमग्निर्गिरेरिव ॥ २५ ॥
जनता जनसमूहोऽस्य पार्श्वं नाढौकत नासर्पत । गिरेः पार्श्वं
वप्रशिलाभागमग्निरिव ॥ २५ ॥
मन्दोत्साहाः समुद्भूताः सभ्यसङ्घातवर्जिताः ।
न तदाज्ञाः पदं प्रापुर्भस्मनीवाम्बुविप्रुषः ॥ २६ ॥
स आज्ञाशक्त्या तां कुतो न वशीचकार तत्राह - मन्दोत्साहा इति ।
सभ्यैर्भटादिसङ्घातैश्च वर्जिता उपेक्षितास्तदाज्ञाः पदं
विषयमाज्ञापनयोग्यं पुरुषं न प्रापुः ॥ २६ ॥
क्रूरकर्मकराकारात्सङ्गताशुभदायिनः ।
तस्माद्विशेषेण जना राक्षसादिव दुद्रुवुः ॥ २७ ॥
सङ्गतेन अशुभस्य पापस्य वधादेश्च दायिनः । राक्षसादिव भीता इति शेऽः ॥
२७ ॥
एक एव बभूवासौ जनमध्यगतोऽपि सन् ।
अर्थादिगुणनिर्मुक्तः परदेश इवाध्वगः ॥ २८ ॥
अर्था धनानि । आदिपदात्स्वजनसुहृदादयो गृह्यन्ते ॥ २८ ॥
भृशमालपतेऽप्यस्मै नालापं नागरा ददुः ।
मुक्ताजालयुतायापि कीचकायाध्वगा इव ॥ २९ ॥
वेणूनामपि मुक्ताकरत्वान्मुक्ताजालयुताय वायुना कूजते कीचकाय
वेणुजातिभेदाय ॥ २९ ॥
अथ सर्वे वयं दीर्घकालं श्वपचदूषिताः ।
प्रायश्चित्तैर्न शुद्ध्यामः प्रविशामो हुताशनम् ॥ ३० ॥
इति निर्णीय नगरे नागरा मन्त्रिणस्तथा ।
अभितो ज्वालयामासुश्चिताः शुष्केन्धनैधिताः ॥ ३१ ॥
शुष्कैरिन्धनैरेधिता वर्धिताः ॥ ३१ ॥
ज्वलितास्वभितस्तासु तारकास्विव खे तदा ।
बभूव नगरं सर्वमाक्रन्दपरमानवम् ॥ ३२ ॥
तारकास्विव ज्वलितासु दीप्यमानासु सतीषु । अकर्मकत्वात्कर्तरि क्तः । नगरपदेन
तत्स्था जना लक्ष्यन्ते ॥ ३२ ॥
करुणारावमुखरैः कलत्रिर्बाष्पवर्षिभिः ।
अवष्टब्धं ज्वलत्कुण्डोपान्तमन्दरुदत्प्रजम् ॥ ३३ ॥
तदेव नगरं वर्णयति - करुणेत्याद्यष्टभिः । अवष्टब्धं
कराद्यवलम्बेन विष्टब्धम् । ज्वलतां कुण्डानामुपान्ते मन्दा व्यामूढा
रुदन्तश्च प्रजा यत्र ॥ ३३ ॥
अग्निकुण्डप्रविष्टानां मन्त्रिणां भृत्यरोदनैः ।
रुदत्क्रन्दद्दृढतरमरण्यमिव मारुतैः ॥ ३४ ॥
रुदत् अश्रून्विमुञ्चत् । क्रन्दत् आक्रुशदिति भेदः । मारुतैः
सावश्यायझञ्झानिलैः ॥ ३४ ॥
चितादीपितविप्रेन्द्रमांसमांसलगन्धया ।
जातनीहारमुत्पातवात्ययावकरोद्धतैः ॥ ३५ ॥
चितास्वादीपितानां विप्रेन्द्राणां मांसैर्मासल उपचितो गन्धो यस्यास्तया
वात्यया अवकरेभ्य उत्करेभ्य उत्थितै रजोभिर्जातनीहारमुद्भूतमिहिकमिव
स्थितम् ॥ ३५ ॥
वक्रैर्व्योभाभवच्छन्नभास्करं जलदैरिव ॥ ३६ ॥
वातेन दीर्घैर्दूरप्रसृतैर्वसागन्धैर्दूरादानीतैः खगैः पक्षिभिः
पिशाचादिभिश्चोर्जितैस्तेषां चक्रैर्मण्डलैर्जलदैश्च्छन्नभास्करं व्योमेव
नगरमभवत् ॥ ३६ ॥
वातोद्धूतचितावह्निप्रज्वलद्व्योममण्डलम् ।
उड्डीनाग्निकणव्राततारासारदिगन्तरम् ॥ ३७ ॥
प्रमत्ततस्करक्रन्दद्वेल्लद्बालकुमारकम् ।
सन्त्रस्तनागरापास्तजीविताख्यमसंस्थिति ॥ ३८ ॥
पुनः कीदृशं तदभवत्तदाह - प्रमत्तेति ।
प्रमत्तैरुद्धतैस्तस्करैर्भूषणाद्यपहारकाले क्रन्दन्तो वेल्लन्तः कम्पन्तो
बालाः कुमारा ईषत्प्रौढाश्च यत्र । सन्त्रस्तैर्नागरैरपास्तं त्यक्तं जीवितं
आख्या स्वनाम च यत्र । असंस्थिति निर्मर्यादम् ॥ ३८ ॥
अलक्षितगृहं चौरलुण्ठिताखिलसञ्चयम् ।
त्यक्तपुत्रकलत्रं तन्मरणव्यग्रनागरम् ॥ ३९ ॥
मरणाय व्यग्रास्त्वरमाणा नागरा यत्र तथाविधमभवदित्यनुषज्जते ॥ ३९ ॥
तस्मिंस्तथा वर्तमाने कष्टे विधिविपर्यये ।
अशेषजनताशेषकल्पान्तसदृशस्थितौ ॥ ४० ॥
राज्यसज्जनसम्पर्कपवित्रीकृतधीरधीः ।
गवलश्चिन्तयामास शोकेनाकुलचेतनः ॥ ४१ ॥
मदर्थे हि कदर्थोऽयं देशेऽस्मिन्स्थितिमागतः ।
अकालकल्पान्तमयः सर्वनायकनाशनः ॥ ४२ ॥
अयं कदर्थोऽनर्थः ॥ ४२ ॥
किं मे जीवितदुःखेन मरणं मे महोत्सवः ।
लोकनिन्द्यस्य दुर्जन्तोर्जीवितान्मरणं वरम् ॥ ४३ ॥
इति निश्चित्य गवलो ज्वलिते ज्वलने पुनः ।
पतङ्गवदनुद्वेगमकरोदाहुतिं वपुः ॥ ४४ ॥
वपुः स्वशरीरं ज्वलितेऽनले आहुतिमकरोत् ॥ ४४ ॥
तस्मिन्बलाद्गवलनाम्नि हुताशराशौ
देहे पतत्यवयवाकुलतां प्रयाते ।
स्वाङ्गावदाहदहनस्फुरणानुरोधा-
दन्तर्जले झटिति बोधमवाप गाधिः ॥ ४५ ॥
तस्मिन् गवलनाम्नि देहे निर्वेदबलाद्धुताशराशौ पतति सति स्वाङ्गानां
हस्तपादादीनामवदाहे दहने यानि स्फुरणानि सञ्चलनानि
तदनुरोधादघमर्षणं कुर्वन्गाधिरन्तर्जले झटिति बोधमवापेत्यर्थः ॥ ४५
॥
श्रीवाल्मीकिरुवाच ।
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायन्तनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम ॥ ४६ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षो उपशमप्रकरणे
गाधिवृत्तान्ते राज्यभ्रंशो नाम षट्चत्वारिंशः सर्गः ॥ ४६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
राज्यभ्रंशो नाम षट्चत्वारिंशः सर्गः ॥ ४६ ॥
॥ द्वादशो दिवसः ॥