पञ्चचत्वारिंशः सर्गः ४५
श्रीवसिष्ठ उवाच ।
अथापश्यदसौ गाधिः स्वाधिपीवरया धिया ।
अन्तर्जलस्थ एवान्तरात्मनात्मनि निर्मले ॥ १ ॥
इहास्य पुल्कसीकुक्षौ जन्म कैरातकी स्थितिः ।
मृतबन्धोः कीरपुरे राज्यप्राप्तिश्च वर्ण्यते ॥ १ ॥
स्वस्याधिभिर्मानसदुःखैः पीवरया उपचितया । इत आरभ्य सर्वेषां
कारकाणां विंशतितमश्लोकस्थे अपश्यदित्यत्र क्रमेणान्वयः ॥ १ ॥
भूतमण्डलपर्यन्तग्रामोपान्तनिवासिनाम् ।
श्वपचानां स्त्रिया गर्भे स्थितिमात्मानमाकुलम् ॥ २ ॥
भूतमण्डलाख्यो देशभेदस्तस्य पर्यन्तः सीमा तत्रत्यग्रामस्य उपान्ते
सन्निहितभूमौ निवासिनाम् ॥ २ ॥
गर्भयासभराक्रान्तं पीडितं पेलवाङ्गकम् ।
श्वपचीहृदये सुप्तं स्वविष्ठायामिवाकुलम् ॥ ३ ॥
गर्भवासपदेन तत्रत्यदुःखानि लक्ष्यन्ते तद्भरेणाक्रान्तम् ।
पीडितमित्यादिस्तस्यैव प्रपञ्चः ॥ ३ ॥
शनैः पक्वतया काले प्रसूतं मेचकच्छविम् ।
श्वपच्या प्रावृषेवाब्दं श्याममावलितं मलैः ॥ ४ ॥
श्वपच्या काले प्रसूतम् । अब्दं मेघम् ॥ ४ ॥
सम्पन्नं श्वपचागारे शिशुं श्वपचवल्लभम् ।
इतश्चेतश्च गच्छन्तमुत्पीडमिव यामुनम् ॥ ५ ॥
यामुनं यमुनाप्रवाहपतितमुत्पीडमुत्तंसोत्पलमिव ॥ ५ ॥
द्वादशाब्ददशां यातं संस्थितं षोडशाब्दिकम् ।
पीवरांसमुदाराङ्गं पयोदमिव मेदुरम् ॥ ६ ॥
सारमेयपरीवारं विहरन्तं वनाद्वनम् ।
निघन्तं मृगलक्षाणि पौलिन्दीं स्थितिमागतम् ॥ ७ ॥
सारमेयाः श्वान एव मृगयाद्यर्थं परीवारो यस्य । पौलिन्दीं कैरातीं
स्थितिं वृत्तिम् ॥ ७ ॥
तमाललतयेवाथ श्रितं श्वपचकान्तया ।
स्तनस्तबकशालिन्या नवपल्लवहस्तया ॥ ८ ॥
अथ श्वपचकन्यया श्रितम् । कृतोद्वाहमिति यावत् ॥ ८ ॥
श्यामया मलिनाकारदशनामलमालया ।
वनपल्लवया भूरिविलासवलिताङ्गया ॥ ९ ॥
दन्तधावनाभावान्मलिनाकारा स्वाभाविकशौक्ल्यादमला दशनमाला
यस्यास्तया । वनपल्लवान् यान्त्यनुगच्छन्ति
तथाविधैर्भूरिविलासैर्वलिताङ्गया । वनपल्लवशब्दे उपपदे यातेः क्विप् ॥ ९ ॥
विलसन्तं वनान्तेषु तया सह नवेष्टया ।
श्यामलं श्यामया भृङ्गं भृङ्ग्येव कुसुमर्द्धिषु ॥ १० ॥
नवत्वादेवेष्टया नवं नित्यामिनवं यथा स्यात्तथा इष्टया वा ।
कुसुमर्द्धिषु पुष्पसमृद्धमत्सु वनान्तेषु ॥ १० ॥
वनपर्णलतापत्रे वसन्तं व्यसनातुरम् ।
विन्ध्यकान्तारमाकारमभ्यागतमिवोद्भटम् ॥ ११ ॥
आकारमभ्यागतं गृहीतपुरुषाकारं विन्ध्यकान्तारमिवेत्युत्प्रेक्षा ॥ ११ ॥
विश्रान्तं वनकुञ्जेषु सुप्तं गिरिदरीषु च ।
निलीनं पत्रपुञ्जेषु गुल्मकेषु कृतालयम् ॥ १२ ॥
किङ्किरातावतंसाढ्यं यूथिकास्रग्विभूषितम् ।
केतकोत्तंससुभगं सहकारस्रगाकुलम् ॥ १३ ॥
किङ्किरातादिपदैस्तत्तन्मञ्जर्यो गृह्यन्ते ॥ १३ ॥
लुलितं पुष्पशय्यासु भ्रान्तमद्रितटीषु च ।
तज्ज्ञं काननकोशेषु बहुज्ञं मृगमारणे ॥ १४ ॥
काननकोशेषु विषयेषु तज्ज्ञमसाधारणज्ञानवन्तमित्यर्थः । बहुज्ञं
पण्डितम् ॥ १४ ॥
प्रसूतमथ शैलेषु पुत्रान्निजकुलाङ्कुरान् ।
अत्यन्तविषमोदन्तान्खदिरः कण्टकानिव ॥ १५ ॥
अत्यन्तं विषमाः श्रोतुमप्यशक्या उदन्ताश्चरित्राणि येषाम् ॥ १५ ॥
कलत्रवन्तं सम्पन्नं स्थितं प्रक्षीणयौवनम् ।
शनैर्जर्जरतां यातं वृष्टिहीनमिव स्थलम् ॥ १६ ॥
ततो भूतग्रहग्रामजन्मदेशमुपेत्य तम् ।
संस्थितं मठिकां पर्णैः कृत्वा दूरे मुनीन्द्रवत् ॥ १७ ॥
भूतग्रहो भूतमण्डलाख्यो देशस्तदीयग्रामसम्बन्धिनीं
जन्मभूमिमुपेत्य दूरे तालादिपर्णैर्मठिकां कुटीं कृत्वा स्थितम् ॥ १७ ॥
जराजरठतां यातं स्वदेहसमपुत्रकम् ।
जीर्णप्रायरसश्वभ्रतमालतरुसन्निभम् ॥ १८ ॥
स्वदेहसमप्रमाणाः पुत्रा यस्य । जीर्णप्राया रसा यस्य तथाविधेन
श्वभोर्त्पन्नतमालतारुणा सन्निभं सदृशम् ॥ १८ ॥
प्रौढं श्वपचगार्हस्थ्यं कुर्वाणं बहुबान्धवम् ।
क्रूरनामार्थवचनं परां वृद्धिमुपागतम् ॥ १९ ॥
क्रूराणि नामान्याख्या अर्थाः क्रियावचनानि च यस्य । परां
कुटुम्बवृद्धिमुपागतं स्वं अपश्यदिति । एतदन्तानां सर्वविशेषणानां
परेणान्वयः ॥ १९ ॥
अथापश्यदसौ गाधिर्यावत्तस्य कलत्रिणः ।
जरठः श्वपचेभ्यश्च स्वात्मनो भ्रमहारिणः ॥ २० ॥
अन्येभ्यः श्वपचेभ्यो जरठोऽसौ गाधिः । अथानन्तरं भ्रमहारिणः
भ्रान्तिमेवानुवर्तमानस्य कलत्रिणः कुटुम्बिनः स्वात्मनः स्वस्य
यावत्कलत्रं कुटुम्बमभूत्तन्मृत्युना आवृत्य अशेषेण निःशेषतया
नीतमपश्यदिति द्वयोरन्वयः । यथा आसारसलिलेन वृष्टिजलप्रवाहेण
वनपतितशुष्कपर्णगणो नीयते तद्वदित्यर्थः ॥ २० ॥
तत्कलत्रमशेषेण नीतमावृत्य मृत्युना ।
आसारसलिलेनाशु वनपर्णगणो यथा ॥ २१ ॥
प्रलपत्येक एवासावटव्यां दुःखकर्शितः ।
वियूथ इव सारङ्गो विगतास्थोऽश्रुलोचनः ॥ २२ ॥
अथासौ जरठ एक एव अटव्यां प्रलपति रोदिति ॥ २२ ॥
दिनानि कतिचित्तत्र नीत्वा शोकपरीतधीः ।
जहौ स्वदेशं संशुष्कपद्मं सर इवाण्डजः ॥ २३ ॥
अण्डजो हंसादिः ॥ २३ ॥
विजहार बहून्देशाननास्थश्चिन्तयान्वितः ।
प्रेर्यमाण इवान्येन वातनुन्न इवाम्बुदः ॥ २४ ॥
अन्येन प्रेर्यमाणः पराधीन इव ॥ २४ ॥
एकदा प्राप कीराणां मण्डले श्रीमतीं पुरीम् ।
खेचरो विहरञ्शून्ये सद्विमानमिवाम्बरे ॥ २५ ॥
कीराणां जानपदानामावासभूते मण्डले । शून्ये अम्बरे विहरन् सञ्चरन् ॥
२५ ॥
नृत्यद्रत्नांशुकच्छन्नमार्गवृक्षलताङ्गनम् ।
आगुल्पाकीर्णकुसुमं चन्दनागुरुसुन्दरम् ॥ २६ ॥
नृत्यतो रत्नैरंशुकैश्च च्छन्ना मार्गस्था वृक्षा लता अङ्गनाश्च
यस्मिंस्तथाविधं राजमार्गमध्यमवापेति परेणान्वयः ॥ २६ ॥
सामन्तैर्ललनाभिश्च नागरैश्च निरन्तरम् ।
स्वर्गमार्गोपमं राजमार्गमध्यमवाप सः ॥ २७ ॥
निरन्तरं निबिडितम् ॥ २७ ॥
मणिरत्नकृतागारं तत्र मङ्गलहस्तिनम् ।
ददर्शामरशैलेन्द्रमिव सञ्चारचञ्चलम् ॥ २८ ॥
मणिरत्नैर्मणिश्रेष्ठैः कृतागारं कृताश्रयं कृतजालकम् ।
शैलेन्द्रपक्षे कृतदेवसदनम् । अमरशैलेन्द्रं मेरुम् ॥ २८ ॥
मृते राजनि राजार्थं विहरन्तमितस्ततः ।
रत्नज्ञमिव रत्नार्थं चिन्तामणिदिदृक्षया ॥ २९ ॥
इतस्ततो विहरन्तं सञ्चरन्तम् । रत्नज्ञं रत्नपरीक्षाकुशलं पुरुषम् ॥ २९ ॥
तमसौ श्वपचो नागं कौतुकोद्धुरया दृशा ।
चिरमालोकयामास स्पन्दयुक्ताचलोपमम् ॥ ३० ॥
असौ श्वपचः ॥ ३० ॥
आलोकयन्तमादाय तं करेण स वारणः ।
स्वकटेऽयोजयन्मेरुस्तटेऽर्कमिव सादरम् ॥ ३१ ॥
स्वस्य कटे गण्डस्थले अयोजयत् आरोहयामास ॥ ३१ ॥
तस्मिन्कटगते ने दुर्जयदुन्दुभयोऽभितः ।
कल्पाम्बुद इवाकाशमधिरूढे महार्णवाः ॥ ३२ ॥
महान्तोऽर्णवाः समुद्रा इव ॥ ३२ ॥
पूरिताशो बभौ राजा जयतीति जनस्वनः ।
उदभूत्सम्प्रबुद्धानां विहगानामिवारवः ॥ ३३ ॥
आशा दिशो मनोरथाश्च ॥ ३३ ॥
उदभूद्बन्दिवृन्दानां घनकोलाहलस्ततः ।
वेलाविलुलिताम्बूनामम्बुधीनामिव ध्वनिः ॥ ३४ ॥
तं तत्रावरयामासुर्मण्डनार्थं वराङ्गनाः ।
क्षीरोदगतविभ्रान्ता लहर्य इव मन्दरम् ॥ ३५ ॥
आवरयामासुः परिवव्रुः । क्षीरोदस्य गतेन मथनकृतक्षोमेण विभ्रान्ताः ॥
३५ ॥
मानिन्यस्तं गुणप्रोतैर्नानारत्नैरपूरयन् ।
नानाप्रभाप्रभातार्का वेला इव तटाचलम् ॥ ३६ ॥
गुणेषु सूत्रेषु प्रोतैर्ग्रथितैर्मालाभुतैरिति यावत् । नानावर्णमणिषु
प्रतिबिम्बनात्तत्तत्प्रभाभिः प्रभातोऽर्को यासु तथाविधाः वेलाः
स्वतटस्थमचलं गिरिमिव ॥ ३६ ॥
तुषारशिशिरस्पर्शैस्तास्तं हारैरभूषयन् ।
श्यामा वननदीपूरैर्वर्षाः शृङ्गमिवोत्तमम् ॥ ३७ ॥
श्यामाः युवत्यः । वर्षाः वृष्टयो वननदीनां पुरैस्तन्मध्यपतितं
गिरिशृङ्गमिव ॥ ३७ ॥
विचित्रवर्णसौगन्ध्यैः पुष्पैरावलयन्स्त्रियः ।
अनं मधुश्रिय इव तं लोलकरपल्लवाः ॥ ३८ ॥
नानावर्णरसामोदैस्तास्तमाशु विलेपनैः ।
अलेपयन्प्रभाजालैर्नगोऽभ्रमिव धातुभिः ॥ ३९ ॥
नगो गिरिर्धातुभिर्लक्षणया धातुसम्बन्धिभिः प्रभाजालैरभ्रमाकाशं
मेघमिव वा ॥ ३९ ॥
रत्नकाञ्चनकान्तोऽसावाददे चित्तमाततम् ।
सन्ध्याभ्रतारेन्दुनदीव्याप्तं मेरुरिवाम्बरम् ॥ ४० ॥
रत्नकाञ्चनभूषणैः कान्तो भूषितोऽसौ राजा चित्तमाददे तासामिति शेषः ॥ ४०
॥
भूषितः सविलासाभिर्बालवल्लीभिरावृतः ।
रत्नपुष्पांशुकाकीर्णः कल्पवृक्ष इवाबभौ ॥ ४१ ॥
तादृशं तमुपाजग्मुः परिवारसमन्विताः ।
सर्वाः प्रकृतयः फुल्लं मार्गद्रुममिवाध्वगाः ॥ ४२ ॥
ता एनमासने सैंहे तत्राभिषिषिचुः क्रमात् ।
तस्मिन्नेव गजे शक्रमैरावत इवामराः ॥ ४३ ॥
ता प्रकृतयः सैंहे आसने उपवेश्य
क्रमाद्ब्राह्मणादिवर्णक्रमादभिषिषिचुः । अभिषिच्य च तस्मिन्प्रागुक्ते गजे
उपवेश्यानुजग्मुरित शेषः ॥ ४३ ॥
एवं स श्वपचो राज्यं प्राप कीरपुरान्तरे ।
आरण्यं हरिणं पुष्टमप्राणमिव वायसः ॥ ४४ ॥
कीरीकरतलाम्भोजप्रमृष्टचरणाम्बुजः ।
सर्वाङ्गे कुङ्कुमालेपैः सन्ध्याम्बुधरशोभनः ॥ ४५ ॥
जज्वाल कीरनगरे नागरीगणवानसौ ।
सिंहीगणयुतः सिंहो यथा कुसुमिते वने ॥ ४६ ॥
हरिहतकरिकुम्भोन्मुक्तमुक्ताकलाप-
प्रविरचितशरीरः शान्तचिन्ताविषादः ।
अरमत सह सद्भिस्तत्र भोगैः सरस्यां
रविकरमदतप्तो वारिपूरैरिवेभः ॥ ४७ ॥
हरिणा सिंहेन हताद्विदारितात्करिकुम्भादुन्मुक्तानां मुक्ताफलानां
कलापैः प्रविरचितं भूषितं शरीरं यस्य । शान्ताः प्राक्तन चिन्ता
विषादाश्च यस्य तथाविधः संस्तत्र नगरे सद्भिर्मन्त्रिपौरादिभिः सह
भोगैररमत रेमे । यथा रविकरैर्मदेन च तप्त इभः सरस्यां वारिपूरै
रमते तद्वत् ॥ ४७ ॥
परिविसृतनृपौजाः सर्वदिक्संस्थिताज्ञः
कतिपयदिवसेहासिद्धदेशव्यवस्थः ।
प्रकृतिभिरलमूढाशेषराजन्यभारः
स गवल इति नाम्ना तत्र राजा बभूव ॥ ४८ ॥
परितो विसृतं प्रसृतं नृपौजो राजशक्तिर्यस्य । अत एव सर्वदिक्षु संस्थिता
आज्ञा यस्य । कतिपयदिवसैरीहया स्वेच्छयैव सिद्धा राज्यव्यवस्था यस्य स
श्वपचो गवल इत्यभिनवेन नाम्ना प्रसिद्धस्तत्र कीरदेशे राजा
बभूवेत्यर्थः ॥ ४८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषूपशमप्रकरणे
गाथिवृत्तान्ते श्वपचराज्यलाभो नाम पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
श्वपचराज्यलाभो नाम पञ्चचत्वारिंशः सर्गः ॥ ४५ ॥