४४

चतुश्चत्वारिंशः सर्गः ४४

श्रीवसिष्ठ उवाच ।

रामापर्यवसानेयं माया संसृतिनामिका ।
आत्मचित्तजयेनैव क्षयमायाति नान्यथा ॥ १ ॥

मनोनैराश्यसिद्ध्यर्थं मृषा दुःखस्वरूपता ।
दृश्यस्य विस्तरेणास्मिन्गाध्याख्याने प्रदर्श्यते ॥ १ ॥

तत्र विष्णुवराद्गाधेर्जले मायानिरीक्षणे ।
गृहे मृतस्य नीतस्य श्मशाने दाह ईर्यते ॥ २ ॥

अपर्यवसाना अपरिमितभ्रान्तिहेतुरिति यावत् ॥ १ ॥

जगन्मायाप्रपञ्चस्य वैचित्र्यप्रतिपत्तये ।
इतिहासमिमं वक्ष्ये शृणुष्वावहितोऽनघ ॥ २ ॥

अवहितः सावधानचित्तः ॥ २ ॥

अस्त्यस्मिन्वसुधापीठे कोसलो नाम मण्डलः ।
कल्पवृक्षवनं मेराविव रत्नगणाकरः ॥ ३ ॥

मण्डलो देशविशेषः । मेरौ कल्पवृक्षवनं नन्दनादीव ॥ ३ ॥

तत्राभूद्ब्राह्मणः कश्चिद्गुणी गाधिरिति श्रुतः ।
परमश्रोत्रियो धीमान्धर्ममूर्तिरिव स्थितः ॥ ४ ॥

तत्र तस्मिन्मण्डले ॥ ४ ॥

आबाल्यात्प्रविरक्तेन चेतसा स व्यराजत ।
निष्कलङ्कावदातेन भुवनं नभसा यथा ॥ ५ ॥

निष्कलङ्कावदातेनेति नभसोऽपि विशेषणम् ॥ ५ ॥

किमप्यभिमतं कार्यं विनिधाय स्वचेतसि ।
बन्धुवृन्दाद्विनिष्क्रम्य तपस्तप्तुं वनं ययौ ॥ ६ ॥

कार्यं तपःप्रयोजनम् ॥ ६ ॥

उत्फुल्लकमलं प्राप सरस्तत्र स विप्रराट् ।
चन्द्रः प्रसन्नविमलं तारासारमिवाम्बरम् ॥ ७ ॥

तत्र वने । तारा अश्विन्याद्याः सारादर्शनीयतमा यस्मिन् ॥ ७ ॥

आशौरिदर्शनं तस्मिंस्तपोर्थं सरसि द्विजः ।
आकण्ठमम्बुनिर्मग्नः प्रावृट्पद्म इवाविशत् ॥ ८ ॥

आशौरिदर्शनं विष्णुदर्शनपर्यन्तं तपोर्थं सरसि प्रावृटपद्म इव
आकण्ठमम्बुनिर्मग्नः सन् आविशत् प्रविश्य स्थित इत्यर्थः ॥ ८ ॥

ययौ मासाष्टकं तस्य मग्नस्य सरसोऽम्भसि ।
वासपङ्कजसङ्कोचमनाग्भग्नमुखच्छवेः ॥ ९ ॥

वासो निवासस्थानं तत्रत्यानां पङ्कजानां सूर्यवियोगेन सङ्कोचे
तत्संवासस्नेहान्मनाग्भग्ना मुखच्छविर्यस्य ॥ ९ ॥

अथैनं तपसा तप्तमाजगामैकदा हरिः ।
निदाघार्तं घनः श्यामः प्रावृषीव धरातलम् ॥ १० ॥

श्याम इति हरेरपि विशेषणम् ॥ १० ॥

श्रीभगवानुवाच ।

विप्रोत्तिष्ठ पयोमध्याद्गृहाणाभिमतं वरम् ।
अभीप्सितफलोपेतो जातस्ते नियमद्रुमः ॥ ११ ॥

नियमद्रुमस्तपोवृक्षः । अभीप्सितेन फलेन उपेतः फलितो जात इत्यर्थः ॥ ११ ॥

ब्राह्मण उवाच ।

असङ्क्येयजगद्भूतहृत्पद्म कुहरालिने ।
जगत्त्रयैकनलिनीसरसे विष्णवे नमः ॥ १२ ॥

असङ्ख्येयानां जगति विद्यमानानां भूतानां प्राणिनां
हृत्पद्मकुहरस्थाय श्यामत्वादलिने भृङ्गाय ॥ १२ ॥

मायामिमां त्वद्रचितां भगवान्पारमात्मिकीम् ।
द्रष्टुमिच्छामि संसारनाम्नीमान्ध्यैककारिणीम् ॥ १३ ॥

पारमात्मिकीं परमात्मन्यध्यस्ताम् ॥ १३ ॥

श्रीवसिष्ठ उवाच ।

इमां द्रक्ष्यसि मायां त्वं ततस्त्यक्ष्यसि चेत्यजः ।
उक्त्वा ययावदृश्यत्वं गान्धर्वमिव पत्तनम् ॥ १४ ॥

मायादर्शनमात्रेण परमपुरुषार्थफलकस्य स्वाराधनतपसः
सार्थक्यालाभात्ततस्त्यक्ष्यसि चेत्यप्रार्थितोऽपि भगवता द्वितीयो वरो दत्तः ।
अदृश्यत्वमन्तर्धानम् ॥ १४ ॥

गते विष्णौ समुत्तस्थौ जलात्स ब्राह्मणेश्वरः ।
शीतलामलमूर्तित्वादिन्दुः क्षीरोदकादिव ॥ १५ ॥

बभूव परितुष्टात्मा दर्शनेन जगत्पतेः ।
दर्शनस्पर्शनैरिन्दोरुत्फुल्लमिव कैरवम् ॥ १६ ॥

दर्शनस्पर्शनैरित्युक्तेः स्थावराणामपि चाक्षुषादिज्ञानमस्तीति गम्यते ॥ १६

अथास्य कतिचित्तस्मिन्दिवसा निर्ययुर्वने ।
हरिसन्दर्शनानन्दवतो ब्राह्मणकर्मणा ॥ १७ ॥

ब्राह्मणकर्मणा तपःस्वाध्यायातिथिपूजनादिना ॥ १७ ॥

एकदारब्धवान्स्नानं सरस्युदितपङ्कजे ।
चिन्तयन्वैष्णवं वाक्यं महर्षिरिव मानसे ॥ १८ ॥

उदितपङ्कजे फुल्लपद्मे । यथा महर्षिर्योगबलेनातीतानागतं द्रष्टुं
मानसे चिन्तयति तद्वत् ॥ १८ ॥

अथ स्नानविधावन्तर्जलमेष चकार ह ।
सकलाघविघातार्थं परिवर्तमिवात्मना ॥ १९ ॥

सकलाघविघातार्थमघमर्षणार्थमन्तर्जलं परिवर्तमावर्तमिव
सकुशेन करेण चकारेत्यर्थः ॥ १९ ॥

अन्तर्जलविहौ तस्मिन्विस्मृतध्यानमन्त्रधीः ।
पर्यस्तसंवित्प्रसरः सोऽपश्यज्जलमध्यतः ॥ २० ॥

अन्तर्जलं निमज्ज्य प्रणवादिमन्त्रस्मरणलक्षणे अघमर्षणविधौ पर्यस्तो
विपरीत्ग्रहणोन्मुखः संवित्प्रसरो यस्य तथाविधः सन् ॥ २० ॥

मृतमात्मानमात्मीये सदने शोच्यतां गतम् ।
पतितं वातवेगेन कन्दरान्तरिव द्रुमम् ॥ २१ ॥

कन्दरान्तर्दरीगर्भे पतितं द्रुममिव ॥ २१ ॥

प्राणापानप्रवाहेण मुक्तमन्तमुपागतम् ।
संशान्तावयवस्पन्दं निर्वात इव खण्डकम् ॥ २२ ॥

मृतमित्यस्य विवरणं प्राणापानेति । निर्वातपतितं कदल्यादिखण्डकमिव ॥
२२ ॥

पाण्डुराननमाम्लानं वृक्षपर्णमिवारसम् ।
शवीभूतमिवाग्लानं छिन्ननालमिवाम्बुजम् ॥ २३ ॥

शवीभूतं । इवकारो मिथ्यात्वपरो नोपमार्थः ॥ २३ ॥

विपर्यस्तेक्षणं प्रातर्मग्नतारमिवाम्बरम् ।
सावग्रहमिव ग्रामं सर्वतः पांसुधूसरम् ॥ २४ ॥

अवग्रहो वर्षप्रतिरोधस्तेनोद्वस्तं ग्राममिव ॥ २४ ॥

बाष्पक्लिन्नमुखैर्दीनैः करुणाक्रन्दकारिभिः ।
आवृतं बन्धुभिः खिन्नैः कुररैरिव पादपम् ॥ २५ ॥

करुणया आक्रन्दो रोदनं तत्कारिभिः । कुररैः पक्षिविशेषैः ॥ २५ ॥

सेतुभङ्गगलद्वारिह्रियमाणमुखाब्जया ।
नलिन्या समधर्मिण्या भार्यया पादयोः श्रितम् ॥ २६ ॥

सेतुभङ्गाद्गलद्भिः प्रवहद्भिर्करिभिर्ह्रियमाणं मुखमिव अब्जं
यस्यास्तथाविधया नलिन्या कमलिन्या ॥ २६ ॥

ताराक्रन्दरणद्रेफप्रलापालापलुब्धया ।
मात्रा गृहीतं चिबुके नवव्यञ्जनलाञ्छिते ॥ २७ ॥

तारेणोच्चतरेणाक्रन्देन रणन्तो रेफा द्विरेफा इव प्रलापे अनर्थकव्यक्तवाक्ये
दीर्घस्वरालापे च लुब्धया आसक्तया । नवैर्व्यञ्जनैः श्मश्रुभिर्लाञ्छिते
चिह्निते ॥ २७ ॥

अन्यैः पार्श्वगतैर्दीनैः स्रवदश्रुमुखैर्जनैः ।
श्रितं गलदवश्यायैः शुष्कपर्णैरिव द्रुमम् ॥ २८ ॥

श्रितं परिवेष्टितम् ॥ २८ ॥

वियोगभीत्या संयोगपरिहारपरैरिव ।
दूरं विप्रसृतैरङ्गैरनात्मीयैरिवावृतम् ॥ २९ ॥

संयोगा विप्रयोगान्ताः इति न्यायप्रापितवियोगभीत्या
संयोगपरिहारपरैरिवेत्युत्प्रेक्षा । अङ्गैर्हस्तपादादिभिः ।
अनात्मीयैरस्वीयैरस्वजनैरिव वेत्युपमा ॥ २९ ॥

परस्परमलग्नाभ्यामोष्ठाभ्यां दशनैः सितैः ।
सविरागमिवाम्लानैर्हसन्तं स्वात्मजीवितम् ॥ ३० ॥

आम्लानैरीषन्मलिनैर्दशनैः स्वात्मजीवितमेतावत्कालं वृथेति हसन्तं
सविरागं विरक्तपुरुषमिव ॥ ३० ॥

मौनध्यानमिवापन्नं पङ्कादिव विनिर्मितम् ।
अप्रबोधाय संसुप्तं विश्राम्यन्तमिवोच्चकैः ॥ ३१ ॥

मौनध्यानमित्याद्याश्चतस्र उत्प्रेक्षाः ॥ ३१ ॥

बान्धवाक्रन्दसंरम्भकोलाहलगता गिरः ।
स्नेहभावविचारार्थं शृण्वन्तमिव यत्नतः ॥ ३२ ॥

बान्धवेषु कस्याधिकः स्नेहः कस्याल्प इति तत्तदाशयविमर्शार्थं
यत्नतोऽवहितमनस्कतया तूष्णीं तदाक्रन्दान्शृण्वन्तमिव ॥ ३२ ॥

अथ तत्कालकल्लोलप्रलापाकुलचेष्टितैः ।

अथ क्रमेण स्वजनैर्निष्कालितं गृहाद्बहिर्निष्कासितमिति परेणान्वयः ॥ ३३ ॥

क्रमेण स्वजनैः क्षुब्धैस्ताराक्रन्दादिघर्घरैः ।
निष्कालितममङ्गल्यमपुनर्दर्शनाय वै ॥ ३४ ॥

नीतं श्मशानं मांसान्त्रवसापङ्ककलङ्कितम् ।
शुष्काशुष्करसक्लिन्नं कङ्कालशतसङ्कुलम् ॥ ३५ ॥

मांसान्त्रेत्यादिजरत्खगमित्यन्तानि श्मशानविशेषणानि ॥ ३५ ॥

गृध्राभ्रच्छन्नसूर्यांशुचिताज्वलननिस्तमः ।
शिवाशिवमुखज्वालाजालपल्लवितावनि ॥ ३६ ॥

शिवानामशिवैर्मुखनिर्गतज्वालाजालैः पल्लवितेवावनिर्यस्य ॥ ३६ ॥

वहद्रक्तसरित्स्नातमग्नकङ्कोग्रवायसम् ।
रक्तार्द्रतन्त्रीप्रसरजालाबद्धजरत्खगम् ॥ ३७ ॥

वहद्रक्तसरित्सुकेचित्स्नाताः केचिन्मग्नाश्च कङ्का उग्रवायसाश्च यत्र ।
रक्तैरार्द्राणां तन्त्रीणां प्रसरलक्षणैर्जालैरानायैराबद्धा जरत्खगा
वृद्धपक्षिणो यत्र ॥ ३७ ॥

तत्र ते ज्वलने दीप्ते चक्रुस्तं भस्मसाच्छवम् ।
बान्धवाः सलिलापूरं समुद्रा इव वाडवे ॥ ३८ ॥

वाडवे वडवाग्नौ समुद्राः स्वसलिलापूरं यथा भस्मसाच्चक्रुस्तद्वत् ॥ ३८ ॥

चितिश्चटचटास्फोटैः शवमाशु ददाह सा ।
शुष्केन्धनबहूच्छूनज्वालाजालजटावली ॥ ३९ ॥

शुष्कैरिन्धनैर्बहु उच्छूना अभिवृद्धा ज्वालाजाललक्षणा जटावलिर्यस्याः
सा चितिश्चिता चटचटाशब्दैस्तं शवमाशु ददाह ॥ ३९ ॥

अभ्युल्लसत्कटकटारवमुक्तगन्ध-
व्याप्ताम्बुवाहपटलोऽस्थिचयं हुताशः ।
दन्ती सरन्ध्रमिव वेणुवनं समन्ता-
दुद्वान्तमेदुररसं दलयाञ्चकार ॥ ४० ॥

अभ्युल्लसद्भिः कटकटारवैर्मुक्तैर्गन्धैश्च व्याप्तान्यम्बुवाहपटलानि
येन तथाविधो हुताशोऽग्निः समन्तादुद्वान्ता उद्गीर्णा मेदुरा उपचिता रसा
यस्मात्तथाविधमस्थिचयं दन्ती सरन्ध्रं वेणुवनमिव दल्याञ्चकार ।
विदलयामासेत्यर्थः ॥ ४० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मोक्षोपायेषूपशमप्रकरणे
गाधिवृत्तान्ते गाधिविनाशो नाम चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे गाधिविनाशो
नाम चतुश्चत्वारिंशः सर्गः ॥ ४४ ॥