त्रिचत्वारिंशः सर्गः ४३
श्रीराम उवाच ।
भगवन्सर्वधर्मज्ञ शुद्धैस्त्वद्वचनांशुभिः ।
निर्वृताः स्म शशाङ्कस्य करैरोषधयो यथा ॥ १ ॥
ईशप्रसादलभ्येऽपि नेश्वरे दीयतां भरः ।
पौरुषेणेन्द्रियाक्रान्त्या साध्यं ज्ञानमितीर्यते ॥ १ ॥
निर्वृता आह्लादिताः स्म ॥ १ ॥
कर्णाभिवाञ्छयमानानि पवित्राणि मृदूनि च ।
सुखयन्ति गृहीतानि पुष्पाणीव वचांसि ते ॥ २ ॥
कर्णाभ्यां श्रवणायावतंसनाय चाभिवाञ्छ्यमानानि । पुष्पपक्षे
गुरुदेवतादिप्रसादरूपतया पापापहारित्वात्पवित्राणि पुष्पाण्युत्पलादीनीव ॥ २ ॥
पौरुषेण प्रयत्नेन सर्वमासाद्यते यदि ।
प्रह्रादस्तत्कथं बुद्धो न माधववरं विना ॥ ३ ॥
तत्तर्हि प्रह्रादो माधवस्य वरं विनापि स्वपौरुषेणैव कथं न
प्रबुद्धवान् । अतः स्वपौरुषादेव सर्वत्र ज्ञानलाभ इति
प्रागुक्तनियमभङ्ग इत्यर्थः ॥ ३ ॥
श्रीवसिष्ठ उवाच ।
यद्यद्राघव सम्प्राप्तं प्रह्रादेन महात्मना ।
तत्तदासादितं तेन पौरुषादेव नान्यतः ॥ ४ ॥
स्वपौरुषसाध्यायां पुरुषार्थसिद्धौ माधववरोऽपि द्वारविशेष एव न
स्वतन्त्र इति नोक्तनियमभङ्ग इत्याशयेन सङ्क्षिप्योत्तरमाह - यद्यदिति ॥ ४
॥
आत्मा नारायणश्चैव न भिन्नस्तिलतैलवत् ।
तथैव शौक्ल्यपटवत्कुसुमामोदवत्तथा ॥ ५ ॥
अथवा विष्णोः प्रह्रादात्मभेदाभावात्तत्प्रयत्नप्राप्तो वरः
प्रह्रादप्रयत्नादेवेति वात्र परिहारः सुलभ इत्याशयेनाह - आत्मेत्यादिना ।
यथा तिलान्तर्गतं ततो निःसारितं च तैलं न भिन्नं तद्वत् । नन्वेवं सति
विकारिता स्यादिति दृष्टान्तान्तरमाह - शौक्ल्यपटवदिति । यथा
कुसुमानां सार आमोदस्तद्वज्जीवानां परमार्थसारो विष्णुरिति वा अभेदो
ज्ञेय इत्याह - कुसुमेति ॥ ५ ॥
यो हि विष्णुः स एवात्मा यो ह्यात्मासौ जनार्दनः ।
विष्ण्वात्मशब्दौ पर्यायौ यथा विटपिपादपौ ॥ ६ ॥
अथवा कार्यकारणोपाधित्यागे परिशिष्टचिन्मात्रस्यात्यन्ताभेद एवेति
लक्ष्यपरयोर्विष्ण्वात्मशब्दयोः पर्यायतैवेत्याह - य इति ।
विटपवत्त्वपादकरणकपानकर्तृत्वोपाधिभेदेऽप्यखण्डवृक्षस्वरूपे
यथा विटपिपादपशब्दयोः पर्यायता तद्वदित्यर्थः ॥ ६ ॥
प्रह्रादनामा प्रथममात्मैव स्वयमात्मना ।
स्वयैव परया शक्त्या विष्णुभक्तौ नियोजितः ॥ ७ ॥
प्रह्रादो ह्यात्मनैवैनं वरमर्जितवान्स्वयम् ।
स्वयं विचारगं कृत्वा स्वयं विदितवान्मनः ॥ ८ ॥
आत्मना स्वात्मभूतेनैव विष्णुना स्वमनः स्वयमेव विचारगं कृत्वा
स्वात्मानं स्वयमेव विदितवानित्यर्थः ॥ ८ ॥
कदाचिदात्मनैवात्मा स्वयं शक्त्या प्रबुध्यते ।
कदाचिद्विष्णुदेहेन भक्तिलभ्येन बोध्यते ॥ ९ ॥
शक्त्या स्वप्रयत्नकृतविचारबलेन । भक्तिलक्षणप्रयत्नलभ्येन
विष्णुदेहद्वारेणेत्यर्थः ॥ ९ ॥
चिरमाराधितोऽप्येष परमप्रीतिमानपि ।
नाविचारवतो ज्ञानं दातुं शक्नोति माधवः ॥ १० ॥
अन्वयेन दर्शितमर्थं व्यतिरेकस्यापि प्रदर्शनेन द्रढयति - चिरमिति ॥ १०
॥
मुख्यः पुरुषयत्नोत्थो विचारः स्वात्मदर्शने ।
गौणो वरादिको हेतुर्मुख्यहेतुपरो भव ॥ ११ ॥
आत्मावबोधपर्यन्तो विचारोऽस्त्विति वरं ददतो हरेः पुरुषप्रयत्नोत्थो विचार एव
मुख्योअभिमतो न वरः । अन्यथा ज्ञानमस्त्वित्येव
वरदानप्रसङ्गादित्याशयेनाह - मुख्य इति ॥ ११ ॥
पूर्वमेव बलात्तस्मादाक्रम्येन्द्रियपञ्चकम् ।
अभ्यसन्सर्वयत्नेन चित्तं कुरु विचारवत् ॥ १२ ॥
यद्विषयप्रयत्नाद्विचारोदयस्तं दर्शयति - पूर्वमिति । पञ्चकग्रहणं
दशकोपलक्षणम् ॥ १२ ॥
यद्यदासाद्यते किञ्चित्केनचित्क्वचिदेव हि ।
स्वशक्तिसम्प्रवृत्त्या तल्लभ्यते नान्यतः क्वचित् ॥ १३ ॥
स्वस्य शक्तिर्यत्नस्तत्प्रयुक्तया सम्प्रवृत्त्या शुभाचरणेन ॥ १३ ॥
पौरुषं यत्नमाश्रित्य प्रोल्लङ्घ्येन्द्रियपर्वतम् ।
संसारजलधिं तीर्त्वा पारं गच्छ परं पदम् ॥ १४ ॥
विना पुरुषयत्नेन दृश्यते चेज्जनार्दनः ।
मृगपक्षिगणं कस्मात्तदासौ नोद्धरत्यजः ॥ १५ ॥
दृश्यते तत्त्वतः साक्षात्क्रियते । नोद्धरतिं नात्मतत्त्वं दर्शयति ।
आत्मदर्शनमेवोद्धार इत्याशयः ॥ १५ ॥
गुरुश्चेदुद्धरत्यज्ञमात्मीयात्पौरुषादृते ।
उष्ट्रं दान्तं बलिवर्दं तत्कस्मान्नोद्धरत्यसौ ॥ १६ ॥
विनैव शिष्यप्रयत्नं शक्तिपातादिना गुरुस्तमुद्धरतीति योगशास्त्रादौ
सिद्धमिति तत्रानैकान्त्यमाशङ्क्याह - गुरुश्चेदिति । गुरुभक्त्यादियत्न एव
तत्रापि ज्ञानजनने गुर्वनुग्रहं द्वारीकरोतीति भावः ॥ १६ ॥
न हरेर्न गुरोर्नार्थात्किञ्चिदासाद्यते महत् ।
आक्रान्तमनसः स्वस्माद्यदासादितमात्मनः ॥ १७ ॥
अर्थाद्धनात् । अमृतत्वस्य तु नाशास्ति वित्तेन इति श्रुतेरिति भावः ।
आक्रान्तमनसो ज्ञानदार्ढ्येन बाधितमनसो यदात्मनः
स्वस्मान्महत्परमपुरुषार्थरूपमासादितं तत् ॥ १७ ॥
अभ्यासवैराग्ययुतादाक्रान्तेन्द्रियपन्नगात् ।
नात्मनः प्राप्यते यत्तत्प्राप्यते न जगत्त्रयात् ॥ १८ ॥
यत्परमपुरुषार्थरूपम् ॥ १८ ॥
आराधयात्मनात्मानमात्मनात्मानमर्चय ।
आत्मनात्मानमालोक्य सन्तिष्ठस्वात्मनात्मनि ॥ १९ ॥
आराधय उत्कृष्टबुद्ध्या श्रवणादिना साधय सिद्धं च
निरन्तरानुसन्धानेनार्चय । आलोक्य तत्त्वतः साक्षात्कृत्य सन्तिष्ठस्व तत्रैव
सम्यगवतिष्ठस्व । तद्भावान्न च्यवस्वेत्यर्थः ॥ १९ ॥
शास्त्रयत्नविचारेभ्यो मूर्खाणां प्रपलायिनाम् ।
कल्पिता वैष्णवी भक्तिः प्रवृत्त्यर्थं शुभस्थितौ ॥ २० ॥
यदि स्वप्रयत्नजविचारादेव ज्ञानोदयस्तर्हि किमर्थं शास्त्रेषु
विष्ण्वादिभक्तिविधानं तत्राह - शास्त्रेति ।
विषयासक्तिप्राबल्यादध्यात्मशास्त्रेभ्य इन्द्रियजयादियत्नेभ्यो विचारेभ्यश्च
प्रपलायिनां दूरी भूतानां मूर्खाणां कथञ्चिच्छुभस्थितौ सन्मार्गे
प्रवृत्त्यर्थमित्यर्थः ॥ २० ॥
अभ्यासयत्नौ प्रथमं मुख्यो विधिरुदाहृतः ।
तदभावे तु गौणः स्यात्पूज्यपूजामयक्रमः ॥ २१ ॥
उक्तमेवार्थमुपपत्तिभिर्द्रढयति - अभ्यासेत्यादिना ॥ २१ ॥
अस्ति चेदिन्द्रियाक्रान्तिः किं प्राप्यं पूजनैः फलम् ।
नास्ति चेदिन्द्रियाक्रान्तिः किं प्राप्यं पूजनैः फलम् ॥ २२ ॥
विचारोपशमाभ्यां हि न विनासाद्यते हरिः ।
विचारोपशमाभ्यां च मुक्तस्याब्जकरेण किम् ॥ २३ ॥
आसाद्यते स्वात्मभावेन तत्त्वतो लभ्यते । हरिः पूर्णानन्दात्मा ।
विचारोपशमाभ्यामेव मुक्तस्य परमपुरुषार्थं प्राप्तस्याब्जकरेण
हरिदेहेन किमधिकं प्राप्यमस्तीत्यर्थः । अथवा विचारोपशमाभ्यां
मुक्तस्य रहितस्य विषयासक्तस्य अब्जकरेणेश्वरेणापि किं हितं कर्तुं
शक्यमित्यर्थः ॥ २३ ॥
विचारोपशमोपेतं चित्तमाराधयात्मनः ।
तस्मिन्सिद्धे भवान्सिद्धो नो चेत्त्वं वनगर्दभः ॥ २४ ॥
आराधय प्रसादय । सिद्धे प्रसन्ने सति भवानपि सिद्धः
परमपुरुषार्थलक्षणां सिद्धिं प्राप्तः ॥ २४ ॥
क्रियते माधवादीनां प्रणयप्रार्थना स्वयम् ।
तथैव क्रियते कस्मान्न स्वकस्यैव चेतसः ॥ २५ ॥
क्रियते यथेति शेषः ॥ २५ ॥
सर्वस्यैव जनस्यास्य्स् विष्णुरभ्यन्तरे स्थितः ।
तं परित्यज्य ये यान्ति बहिर्विष्णुं नराधमाः ॥ २६ ॥
मनोभक्तिरेव मुख्या विष्णुभक्तिर्नतु बाह्येत्याह - सर्वस्येत्यादिना ॥ २६ ॥
हृद्गुहावासिचित्तत्त्वं मुख्यं सानातनं वपुः ।
शङ्खचक्रगदाहस्तो गौण आकार आत्मनः ॥ २७ ॥
चिल्लक्षणं तत्त्वमबाधितं वस्तु सनातनमेव सानातनं शाश्वतं वपुः
स्वरूपे । गौणो मायागुणकल्पित आगन्तुक इति यावत् ॥ २७ ॥
यो हि मुख्यं परित्यज्य गौणं समनुधावति ।
त्यक्त्वा रसायनं सिद्धं साध्यं संसाधयत्यसौ ॥ २८ ॥
रसायनममृतम् । साध्यमोदनादि संसाधयति कृष्यादिनोत्पादयति ॥ २८ ॥
यस्तु भोः स्थितिमेवास्यामात्मज्ञानचमत्कृतौ ।
नासादयति सम्मत्तमनाः स रघुनन्दन ॥ २९ ॥
कस्तर्हि बाह्यविष्णुभक्तावधिकारी तमाह - यस्त्विति द्वाभ्याम् । य
आत्मतत्त्वचमत्कृतौ स्थितिं नासादयत्येव स श"खचक्रगदापाणिं
परमेश्वरमर्चयेदित्यन्वयः ॥ २९ ॥
अप्राप्तात्मविवेकोऽन्तरज्ञचित्तवशीकृतः ।
शङ्खचक्रगदापाणिमर्चयेत्परमेश्वरम् ॥ ३० ॥
काले निर्मलतामेति चित्तं वैराग्यकारिणा ॥ ३१ ॥
वैराग्यकारिणा तपसा ॥ ३१ ॥
नित्याभ्यासविवेकाभ्यां चित्तमाशु प्रसीदति ।
आम्र एव दशामेति साहकारीं शनैः शनैः ॥ ३२ ॥
आशुग्रहणं प्रसादावश्यम्भावद्योतनार्थम् । सहकारः
पुष्पफलाद्यतिसौरभस्तद्भावलक्षणां दशाम् ॥ ३२ ॥
एतदप्यात्मनैवात्मा फलमाप्नोति भाषितम् ।
हरिपूजाक्रमाख्येन निमित्तेनारिसूदन ॥ ३३ ॥
शास्त्रे हरिपूजाक्रमाख्येन निमित्तेन यत्फलं भाषितमेतदप्यात्मना स्वेनैव
सङ्कल्पितं प्राप्नोतीत्यर्थः ॥ ३३ ॥
वरमाप्नोति यो वापि विष्णोरमिततेजसः ।
तेन स्वस्यैव तत्प्राप्तं फलमभ्यासशाखिनः ॥ ३४ ॥
योऽपि विष्णोः सकाशाद्वरं प्राप्नोति तेनापि स्वस्य स्वीयस्यैवाभ्यासशाखिनः
फलं प्राप्तं नाकस्मिकमित्यर्थः ॥ ३४ ॥
सर्वेषामुत्तमस्थानां सर्वासां चिरसम्पदाम् ।
स्वमनोनिग्रहो भूमिर्भूमिः सस्यश्रियामिव [स्वस्य इति पाठः] ॥
३५ ॥
उत्तमस्थानां प्रशस्तपुरुषार्थाभिनिवेशानां चिरसम्पदां
चिरभोग्यमन्वादिसम्पदां च स्वमनोनिग्रह एव
भूमिरुद्भवस्थानमित्यर्थः ॥ ३५ ॥
अप्युर्वीस्वननोत्कस्य कर्षतोऽपि शिलोच्चयम् ।
स्वमनोनिग्रहादन्यो नोपायोऽस्तीह कश्चन ॥ ३६ ॥
उर्वीखननोत्कस्य सगरसुतादेः शिलोच्चयं मन्थाचलं कर्षतो देवासुरादेरपि ।
निधिरत्नादिलाभायोर्वीखननाद्युत्कस्य वा । मनस ऐकाग्र्यं विना
महाकार्यासिद्धेरित्याशयः ॥ ३६ ॥
तावज्जन्मसहस्राणि भ्रमन्ति भुवि मानवाः ।
यावन्नोपशमं याति मनोमत्तमहार्णवः ॥ ३७ ॥
ब्रह्मविष्ण्विन्द्ररुद्राद्याश्चिरसम्पूजिता अपि ।
उपप्लवान्मनोव्याधेर्न त्रायन्तेऽपि वत्सलाः ॥ ३८ ॥
वत्सला दयावन्तोऽपि ब्रह्माद्या मनोव्याधेरुपप्लवान्न त्रायन्ते ॥ ३८ ॥
आकारभासुरं त्यक्त्वा बाह्यमान्तरमप्यजम् ।
कुरु जन्मक्षयायाशु संविन्मात्रैकचिन्तनम् ॥ ३९ ॥
बाह्यं बहिरिन्द्रियगम्यमान्तरमन्तःकरणगम्यं चाकारभासुरं
विषयरूपं त्यक्त्वा अजं जन्मादिविक्रियशून्यम् ।
संविन्मात्रस्यैकमखण्डाकारं चिन्तनं कुर्वित्यर्थः ॥ ३९ ॥
संवेद्यनिर्मुक्तनिरामयैक-
संविन्मयास्वादमनन्तरूपम् ।
सन्मात्रमास्वादय सर्वसारं
पारं परं प्राप्स्यसि जन्मनद्याः ॥ ४० ॥
उक्तमेव व्यक्तोक्त्योपसंहरति - संवेद्येति । हे राम त्वं
संवेद्यैर्बाह्यान्तरविषयैर्निर्मुक्तं यन्निरामयैकसंविन्मय
स्वयमेवास्वदते निरतिशयानन्दात्मना स्फुरति तथाविधं सन्मात्रं
निरन्तरं तदाकारवृत्त्या आस्वादय । एवमास्वादयन् जन्मनद्याः परं
पारं प्राप्स्यसीत्यर्थः ॥ ४० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषूपशमप्रकरणे
प्रह्रादविश्रान्तिर्नाम त्रिचत्वारिंशः सर्गः ॥ ४३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
प्रह्रादविश्रान्तिर्नाम त्रिचत्वारिंशः सर्गः ॥ ४३ ॥