४२

द्विचत्वारिंशः सर्गः ४२

श्रीवसिष्ठ उवाच ।

इत्युक्त्वा पुण्डरीकाक्षः सनरामरकिन्नरः ।
द्वितीय इव संसारश्चचालासुरमन्दिरात् ॥ १ ॥

विष्णोः क्षीरोदगमनमाख्यानफलमुत्तमम् ।
समाधिमुक्तव्युत्थाने हेतुश्चात्रोपवर्ण्यते ॥ १ ॥

सनरामरकिन्नरत्वादेव द्वितीयः संसार इव विस्तृतः । चचाल जगाम ॥ १ ॥

प्रह्रादादिविनिर्मुक्तैः पश्चात्पुष्पाञ्जलिव्रजैः ।
पूर्यमाणो विहङ्गेशपाश्चायाङ्गरुहोत्करैः ॥ २ ॥

विहङ्गेशस्य गरुडस्य पाश्चात्येष्वङ्गरुहेषु उत्करवद्राशीभूतैः
पुष्पाञ्जलिव्रजैः ॥ २ ॥

क्रमात्क्षीरोदमासाद्य विसृज्य सुरवाहिनीम् ।
भोगिभोगासने तस्थौ श्वेताब्ज इव षट्पदः ॥ ३ ॥

भोगिभोगासने विष्णुः शक्रः स्वर्गे सहामरैः ।
पाताले दानवाधीश इति तस्थुर्गतज्वराः ॥ ४ ॥

एषा ते कथिता राम निःशेषमलनाशिनी ।
प्राह्रादी बोधसम्प्राप्तिरैन्दवद्रवशीतला ॥ ५ ॥

ऐन्दवो द्रवोऽमृतमिव शीतला ॥ ५ ॥

तां तु ये मानवा लोके बहुदुष्कृतिनोऽपि हि ।
धिया विचारयिष्यन्ति ते प्राप्स्यन्त्यचिरात्पदम् ॥ ६ ॥

सामान्येन विचारेण क्षयमायाति दुष्कृतम् ।
योगवाक्यविचारेण को न याति परं पदम् ॥ ७ ॥

दुष्कृतपदेन पापं तन्मूलमज्ञानं च ॥ ७ ॥

अज्ञानमुच्यते पापं तद्विचारेण नश्यति ।
पापमूलच्छिदं तस्माद्विचारं न परित्यजेत् ॥ ८ ॥

मयोक्तं न पापमेवेत्याह - अज्ञानमिति ॥ ८ ॥

इमां प्रह्रादसंसिद्धिं प्रविचारयतां नृणाम् ।
सप्तजन्मकृतं पापं क्षयमायात्यसंशयम् ॥ ९ ॥

सप्तजन्मकृतमित्यापातविचारफलमेतत् । ज्ञानफलपर्यन्तेन तु विचारेण
प्रारब्धफलातिरिक्तसर्वपापक्षयः प्रसिद्ध एवेति ॥ ९ ॥

श्रीराम उवाच ।

परे पदे परिणतं पाञ्चजन्यस्वनैर्मनः ।
कथं प्रबुद्धं भगवन्प्रह्रादस्य महात्मनः ॥ १० ॥

समाधिमुक्तस्य विदेहमुक्तेन सह विश्रान्तिसुखादिसाम्ये पुनर्व्युत्थानहेतुं
जिज्ञासमानो रामः पृच्छति - परे इति । मनसो विलये
पाञ्चजन्यस्वनश्रवणमपि दुर्लभमिति कथं तेन प्रबोध इति भावः ॥ १० ॥

श्रीवसिष्ठ उवाच ।

द्विविधा मुक्तता लोके सम्भवत्यनघाकृते ।
सदेहैका विदेहान्या विभागोऽयं तयोः शृणु ॥ ११ ॥

प्रारब्धशेषोद्बोधितशुद्धवासनासहितभगवदिच्छैव तत्प्रबोधे हेतुरिति
विशेषं वक्तुं सदेहविदेहमुक्ती विभज्य दर्शयति - द्विविधेत्यादिना ।
विभागो विभाजकलक्षणभेदः । अयं वक्ष्यमाणप्रकारः ॥ ११ ॥

असंसक्तमतेर्यस्य त्यागादानेषु कर्मणाम् ।
नैषणा तत्स्थितिं विद्धि त्वं जीवन्मुक्ततामिह ॥ १२ ॥

कर्मणामिष्टानिष्टानां त्यागादानेषु विषयेषु एषणा रागो नास्ति । तस्य तां
स्थितिं जीवन्मुक्ततां विद्धि ॥ १२ ॥

सैव देहक्षये राम पुनर्जननवर्जिता ।
विदेहमुक्तता प्रोक्ता तत्स्था नायान्ति दृश्यताम् ॥ १३ ॥

देहपदेन तद्धारणहेतुः प्रारब्धशेषो लक्ष्यते । तस्य भोगेन क्षये
सतीत्यर्थः ॥ १३ ॥

सृष्टबीजोपमा भूयो जन्माङ्कुरविवर्जिताः [जन्मान्तरेति
पाठः] ।
हृदि जीवद्विमुक्तानां शुद्धा भवति वासना ॥ १४ ॥

भृष्टानि भर्जितानि बीजान्युपमा येषामिति पुनर्दृश्यतानवाप्तौ
हेतुगर्भं विशेषणम् । जीवन्मुक्तेषु तु समाधिव्युत्थानेन
पुनर्देहदृश्यतायां हेतुरस्तीत्याह - हृदीति । शुद्धा
आसङ्गमालिन्यनिर्मुक्ता ॥ १४ ॥

पावनी परमोदारा शुद्धसत्त्वानुपातिनी ।
आत्मध्यानमयी नित्यं सुषुप्तस्येव तिष्ठति ॥ १५ ॥

पावनी शुद्धब्रह्मात्मभावना पवित्रा परमोदारा तृष्णाकार्पण्यरहिता ।
अन्तःकरणस्य ब्रह्मणिल येऽपि वासनास्थितौ दृष्टान्तमाह -
सुषुप्तस्येवेति ॥ १५ ॥

अपि वर्षसहस्रान्ते तयैवान्तरवस्थया ।
सति देहे प्रबुध्यन्ते जीवन्मुक्ता रघूद्वह ॥ १६ ॥

देहपदेनात्रापि तद्धारणहेतुः प्रारब्धशेषो लक्ष्यते ॥ १६ ॥

प्रह्रादोऽन्तस्थया शुद्धसत्त्ववासनया स्वया ।
बोधमाप महाबाहो शङ्खशब्दावबुद्धया ॥ १७ ॥

सैव प्रह्रादबोधेऽपि हेतुरित्याह - प्रह्राद इति ॥ १७ ॥

हरिरात्मा हि भूतानां तस्य यत्प्रतिभासते ।
तत्तथैव भवत्याशु सर्वमात्मैव कारणम् ॥ १८ ॥

लीने श्रोत्रे शङ्खशब्दस्याप्यग्रहात्तावन्मात्रेण कथं बोध
इत्याशङ्कां परिहरन्नाह - हरिरिति । आत्मा कारणात्मा । सत्यसङ्कल्प इति
यावत् ॥ १८ ॥

प्रबोधमेतु प्रह्रादो यदैवेति विचिन्तितम् ।

आत्मन्यकारणेनैव भूतानां कारणेन च ।
सृष्ट्यर्थं वपुरात्तं हि वासुदेवमयात्मना ॥ २० ॥

अकारणेनैव शुद्धात्मना भूतानां कारणेनाव्याकृतेन
चकारात्कामकर्मादिना च निमित्तेन आत्मन्येव जगत्सृष्ट्यर्थं
वासुदेवमयात्मना वपुः शरीरमात्रं गृहीतम् । हिशब्दस्तथा
श्रुतिस्मृतिपुराणप्रसिद्धिद्योतनार्थः ॥ २० ॥

आत्मावलोकनेनाशु माधवः परिदृश्यते ।
माधवाराधनेनाशु स्वयमात्मावलोक्यते ॥ २१ ॥

अत एव तद्वपुर्दर्शने आत्मदर्शनं सिद्ध्यत्यात्मदर्शने च तद्दर्शनं
सुलभमित्याह - आत्मेति ॥ २१ ॥

एतां दृष्टिमवष्टभ्य राघवात्मावलोकने ।
विहराशु विचारात्मा पदं प्राप्स्यसि शाश्वतम् ॥ २२ ॥

विहर यतस्व ॥ २२ ॥

दुःखासारवती राम संसारप्रावृडातता ।
जाड्यं ददाति परमं विचारार्कमपश्यताम् ॥ २३ ॥

दुःखान्येव आसारा धारासम्पातास्तद्वती । जाड्यं मौर्ख्यं रोगं च ॥ २३ ॥

प्रसादादात्मनो विष्णोर्मायेयमतिभासुरा ।
प्रबाधते न धीरांस्तु यक्षी मन्त्रवतो यथा ॥ २४ ॥

यक्षीग्रहणं सर्वपिशाचाद्युपलक्षणम् । मन्त्रवतो मन्त्रसिद्धान् ॥ २४ ॥

आत्मेच्छयैव घनतां समुपागतान्त-
रात्मेच्छयैव अनुतामुपयाति काले ।
संसारजालरचनेयमनन्तमाया-
ज्वालेह वातवलयादिव पावकस्य ॥ २५ ॥

संसारजालरचनालक्षणा अनन्तस्य विष्णोरियं माया तस्यैवात्मन इच्छयैव
घनतां देहादिघनानर्थभावं समुपागता । सा च
निर्व्याजभक्तिप्रणिधानाद्याराधितस्य तस्यात्मन इच्छयैव
विवेकविचारादिजन्मकाले तनुतां ह्रासमुपयाति । यथा पावकस्य ज्वाला
वातवलयादेव घनतामुपयाति अन्ते च तद्वशादेव तनुतामुपयाति तद्वत् । अत
ईश्वरप्रसादजनितविचारादिनैवावश्यं ज्ञानलाभ इत्याख्यानतात्पर्यमिति
भावः । तथाच भगवतो बादरायणस्य सूत्रम् पराभिध्यानात्तु तिरोहितं ततो
ह्यस्य बन्धविपर्ययौ इति । मत्तः स्मृतिर्ज्ञानमपोहनं च इति
भगवद्वचनं चेति भावः ॥ २५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मो०
उपशमप्रकरणे प्रह्रादव्यवस्था नाम द्विचत्वारिंशः सर्गः ॥ ४२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
प्रह्रादव्यवस्था नाम द्विचत्वारिंशः सर्गः ॥ ४२ ॥