४१

एकचत्वारिंशः सर्गः ४१

श्रीवसिष्ठ उवाच ।

जगद्रत्नसमुद्गेन त्रैलोक्याद्भुतदर्शिना ।
इत्युक्ते पद्मनाभेन ज्योत्स्नाशीतलया गिरा ॥ १ ॥

गृहीतशासनाद्दैत्यात्पूजां सम्प्राप्य सानुगः ।
दैत्यराज्येऽभिषिच्यैनं वरैरच्छन्दयद्धरिः ॥ १ ॥

प्रलये जगल्लक्षणानां रत्नानां स्वान्तः प्रवेशनात्समुद्रेन सम्पुटकेन
सृष्टिकाले त्रैलोक्यलक्षणाद्भुतप्रदर्शनशीलेन पद्मनाभेन विष्णुदेहेन
इति प्रागुक्तप्रकारेणोक्ते सति ॥ १ ॥

प्रह्रादनामा देहोऽसौ विकाशिनयनाम्बुजः ।
मुदोवाच वचो धीरो गृहीतमननक्रमः ॥ २ ॥

प्रह्रादनामा असौ प्रागुक्तो देहो गृहीतमननक्रमः सन् मुदा उवाच ।
देहग्रहणमात्मनि व्यवहर्तृतावारणार्थम् ॥ २ ॥

प्रह्राद उवाच ।

हिताहितविचारेण राजकार्यशतेन च ।
अत्यहं श्रमितो देव क्षणं विश्रामतां गतः ॥ ३ ॥

असुराणां किं हितं देवानां किसहितमिति विचारेण श्रमितः श्रमं प्रापितः ।
क्षणमिति समाधौ कालदैर्घ्याप्रत्ययादुक्तम् ॥ ३ ॥

भगवंस्त्वत्प्रसादेन स्थितिः सम्यगथागता ।
समाधावसमाधौ च रूपेणाहं समः सदा ॥ ४ ॥

स्थितिस्तत्त्वबोधेन स्वरूपावस्थितिः । रूपेण पारमार्थिकस्वरूपेण । सदा
समाध्यसमाध्योः सदेहविदेहमुक्त्योश्च ॥ ४ ॥

चिरमन्तर्महादेव दृष्टोऽस्यमलया धिया ।
पुनर्बहिरयं दृष्ट्या दिष्ट्या देव प्रदृश्यसे ॥ ५ ॥

इमौ श्लोकौ क्वचिदेव पुस्तके दृश्येते । अन्तर्धिया
अखण्डमानससाक्षात्कारवृत्त्या दृष्टोऽसि । बहिर्दृष्ट्या चक्षुषा दिष्ट्या
भाग्यवशेन दृश्यसे ॥ ५ ॥

अहमासमनन्तायामस्यां दृष्टौ महेश्वर ।
सर्वसङ्कल्पमुक्तायां व्योम व्योम्नीव निर्मले ॥ ६ ॥

अस्यामान्तर्यां दृष्टौ ॥ ६ ॥

न शोकेन न मोहेन न च वैराग्यचिन्तया ।
न देहत्यागकार्येण न संसारभयेन च ॥ ७ ॥

तत्र शोकमोहादिनिमित्तवशादहं समाधिं नाश्रितो येन मम
देहत्यागप्रसक्तिः स्यादित्याह - न शोकेनेति ॥ ७ ॥

एकस्मिन्विद्यमाने हि कुतः शोकः कुतः क्षतिः ।
कुतो देहः क्व संसारः क्व स्थितिः क्व भयाभये ॥ ८ ॥

दृष्ट एव ते पितृराज्यादिनाशादिः शोकहेतुस्तं कथमपलपसि तत्राह -
एकस्मिन्निति । सत्यमत्र दृष्टो नत्वद्वैतात्मनि स इति न तद्धेतुको मे
समाधिरित्यर्थः ॥ ८ ॥

यथेच्छयैवामलया केवलं स्वयमुत्थया ।
एवमेवाहमवसं वितते पावने पदे ॥ ९ ॥

तर्हि समाधेस्तो को हेतुरिति चेद्विचारजा विश्रान्तीच्छैवेत्याह - यथेच्छयेति ।
एवमेव देहत्यागाद्यभिसन्धिं विनैव ॥ ९ ॥

हा विरक्तोऽस्मि संसारं त्यजामीतीयमीश्वर ।
अप्रबुद्धदृशां चिन्ता हर्षशोकविकारदा ॥ १० ॥

नच वैराग्यचिन्तयेति वैराग्यापह्नवो न युक्तस्तस्य विचारपूर्वके
समाधावनुकूलत्वादिति चेत्तत्राह - हा विरक्त इति ॥ १० ॥

देहाभावे न दुःखानि देहे दुःखानि मे मतिः ।
इति चिन्ताविषव्याली मूर्खमेवावलुम्पति ॥ ११ ॥

वैराग्यस्य समाधिहेतुत्वे रागवद्देहस्यापि
दुःखहेतुत्वानुभवात्तत्त्यागस्यापि समाधिनिमित्तता स्यात् सोऽप्यतत्त्वविद एव
वाञ्छितो न ममेत्याह - देहाभाव इति ॥ ११ ॥

इदं सुखमिदं दुःखमिदं नास्तीदमस्ति मे ।
इति दोलायितं चेतो मूढमेव न पण्डितम् ॥ १२ ॥

अत एव सुखलिप्सया दुःखनिवृत्तिलिप्सयापि वा न समाधिरित्याह - इदमिति ।
मूढमेव अवलुम्पतीत्यनुकृष्यते ॥ १२ ॥

अहमन्योऽन्य एवायमित्यज्ञानां तु वासना ।
दूरोदस्तात्मबुद्धीनां जयत्यसुमतामिह ॥ १३ ॥

तर्ह्यस्तु भेदवासनाक्षयेच्छया समाधिस्तत्राह - अहमन्य इति । दूरोदस्ता
आत्मबुद्धिस्तत्त्वज्ञानं यैस्तेषामज्ञानामेव जयति न तत्त्वविदामित्यर्थः ।
असुमतां प्राणिनाम् ॥ १३ ॥

इदं त्याज्यमिदं ग्राह्यमिति मिथ्या मनोभ्रमः ।
नोन्मत्ततां नयत्यन्तर्ज्ञमज्ञमिव दुर्धियः ॥ १४ ॥

तर्हि संसारत्यागाय मोक्षग्रहणाय वा समाधिरस्त्विति चेत्तत्राप्याह -
इदमिति । इति प्रसिद्धो दुर्धियः सम्बन्धी भ्रमः अज्ञमिव ज्ञं नोन्मत्ततां
नयतीत्यन्वयः ॥ १४ ॥

सर्वस्मिन्नात्मनि तते त्वयि तामरसेक्षण ।
हेयोपादेयपक्षस्था द्वितीया कलना कुतः ॥ १५ ॥

तत्कुतस्तत्राह - सर्वस्मिन्नित्यादिना ॥ १५ ॥

विज्ञानाभासमखिलं जगत्सदसदुत्थितम् ।
किं हेयं किमुपादेयमिह यत्त्यज्यते न वा ॥ १६ ॥

भ्रान्तिविज्ञाने शुक्तिरजतादिवदाभासते न परमार्थत इति विज्ञानाभासम् ।
सत आत्मनोऽसतो
मायायाश्चान्योन्यतादात्म्याध्यासलक्षणान्मिथुनीकरणादुत्थितम् ॥ १६ ॥

केवलं स्वस्वभावेन द्रष्टृदृश्ये विचारयन् ।
क्षणं विश्रान्तवानन्तः परमात्मनात्मनि ॥ १७ ॥

अत एव मम तत्त्वविचारविश्रान्तिरेव समाधिः सम्पन्न इत्याह - केवलमिति ॥
१७ ॥

भावाभावविनिर्मुक्तो हेयोपादेयवर्जितः ।
एवमासमहं पूर्वमधुनेत्थं व्यवस्थितः ॥ १८ ॥

पूर्व समाधिकाले । अधुना व्युत्थानकाले । इत्थं
त्वदाज्ञप्तार्थोपादानयोग्यतया व्यवस्थितोऽस्मीत्यर्थः ॥ १८ ॥

स मयात्मीयमापन्नं सर्वमात्मात्मतां गतः ।
करोम्यहं महादेव तुभ्यं यत्परिरोचते ॥ १९ ॥

स आत्मतां स्वस्वभावं गत आत्मा अहं मया आत्मीयं स्वकर्तव्यतां
प्राप्तं सर्व त्वदाज्ञप्तं कार्य करोमि । किं स्वरागेण करिष्यसि नेत्याह -
तुभ्यमिति । त्वदिच्छानुवर्तितयेत्यर्थः ॥ १९ ॥

त्वमयं पुण्डरीकाक्षः पूज्यस्तावज्जगत्त्रये ।
तन्मत्तः प्रकृतिप्राप्तां पूजामादातुमर्हसि ॥ २० ॥

यथा त्वदाज्ञप्तं राज्यं नियतिप्राप्तमहमङ्गीकरोमि तथा त्वमपि
मद्दत्तां पूजां सर्वेश्वरत्वात्तव नियतिप्राप्तां गृहाणेत्याह - त्वमिति
। प्रकृतिः शास्त्रलोकप्रसिद्धा नियतिः ॥ २० ॥

इत्युक्त्वा दानवाधीशः पुरः क्षीरोदशायिनः ।
शैलेन्द्र इव पूर्णेन्दुमर्धपात्रमुपाददे ॥ २१ ॥

शैलेन्द्र उदयाद्रिः ॥ २१ ॥

सायुधं साप्सरोवृन्दं ससुरं सखगाधिपम् ।
पूजयामास गोविन्दं सत्रैलोक्यमथाग्रगम् ॥ २२ ॥

सत्रैलोक्यमुदरान्तःस्थितत्रैलोक्यसहितम् । अग्रगं पुरःस्थितम् ॥ २२ ॥

सबाह्याभ्यन्तरभ्रान्तभुवनं भुवनेश्वरम् ।
पूजयित्वाथ तिष्ठन्तमुवाच कमलापतिः ॥ २३ ॥

बाह्येषु रोमकूपादिषु आभ्यन्तरेषु बस्तिजठरहृदयादिषु च भ्रान्तानि
परिवर्तमानानि भुवनानि यस्य तम् ॥ २३ ॥

श्रीभगवानुवाच ।

उत्तिष्ठ दानवाधीश सिंहासनमुपाश्रय ।
यावदाश्वभिषेकं ते स्वयमेव ददाम्यहम् ॥ २४ ॥

पाञ्चजन्यरवं श्रुत्वा य इमे समुपागताः ।
सिद्धाः साध्याः सुरौघास्ते कुर्वन्तु तव मङ्गलम् ॥ २५ ॥

इत्युक्त्वा पुण्डरीकाक्स्ॐ दानवं सिंहविष्टरे ।
योजयामास योग्यं तं मेरुशृङ्ग इवाम्बुदम् ॥ २६ ॥

सिंहविष्टरे सिंहासने ॥ २६ ॥

अथैनं हरिराहूतैः क्षीरोदाद्यैर्महाब्धिभिः ।
गङ्गादिभिः सरित्पूरैः सर्वतीर्थजलैस्तथा ॥ २७ ॥

सर्वविप्रर्षिसङ्घैश्च सर्वसिद्धगणैः सह ।
पुनर्विद्याधरयुतो लोकपालसमन्वितः ॥ २८ ॥

पुनःशब्दस्वारस्यात्पूर्वं स्वयमेक एवाभ्यषिञ्चिद्विद्याधरादिभिः सह
पुनरुत्साहातिशयादभ्यषिञ्चदिति गम्यते ॥ २८ ॥

अभ्यषिञ्चदमेयात्मा दैत्यराज्ये महासुरम् ।
मरुद्गणैः स्तूयमानं पूर्वं स्वर्गे हरिं यथा ॥ २९ ॥

हरिमिन्द्रम् ॥ २९ ॥

सुरासुरैः स्तूयमानं स्तूयमानः सुरासुरैः ।
अभिषिक्तमुवाचेदं प्रह्रादं मधुसूदनः ॥ ३० ॥

श्रीभगवानुवाच ।

यावन्मेरुर्धरा यावद्यावच्चन्द्रार्कमण्डले ।
अखण्डितगुणश्लाघी तावद्राजा भवानघ ॥ ३१ ॥

धरा पृथ्वी । धराः अन्ये पर्वताश्चेति वा ॥ ३१ ॥

इष्टानिष्टफलं त्यक्त्वा समदर्शनया धिया ।
वीतरागभयक्रोधो राज्यं समनुपालय ॥ ३२ ॥

राज्येऽस्मिन्भोगसम्पूर्णे दृष्टानुत्तमभूमिना ।
न गन्तव्यस्त्वयोद्वेगः स्वर्गे मानवकेऽथवा ॥ ३३ ॥

दृष्टा अनुत्तमा निरतिशयानन्दभूमिर्येन तथाविधेन त्वया राज्ये उद्वेगः
अरतिलक्षणो न गन्तव्यस्तथा पित्रादिवत्स्वर्गे देवलोके मानवे भूलोके च उद्वेगो
न गन्तव्यो न गमयितव्यः ॥ ३३ ॥

देशकालक्रियाकारैर्यथाप्राप्तासु दृष्टिषु ।
प्रकृतं कार्यमातिष्ठ त्यक्त्वा मानसमास्स्व भो ॥ ३४ ॥

यथाप्राप्तासु प्रजाशात्रवादिनिग्रहानुग्रहादिदृष्टिषु
तत्तत्पुरुषानुरूपैर्देशकालक्रियाकारैः प्रकृतं प्रसञ्जितं
वधबन्धदण्डादिकार्यमातिष्ठ अनुतिष्ठ । मानसं रागादिवैषम्यं
त्यक्त्वा आस्स्व ॥ ३४ ॥

अतिदेहतयेदन्ताममतापरिवर्जितम् ।
भावाभावे समं कार्यं कुर्वन्निह न बाध्यसे ॥ ३५ ॥

अतिदेहतया देहातिरिक्तात्मभावेन । भावाभावे लाभालाभे ॥ ३५ ॥

दृष्टसंसारपर्यायस्तुलितातुलतत्पदः ।
सर्वं सर्वत्र जानासि किमन्यदुपदिश्यते ॥ ३६ ॥

व्यवहारे परमार्थे च त्वमेव निपुणोअषीति नोपदेश्यं तवास्तीत्याह -
दृष्टेति ॥ ३६ ॥

वीतरागभयक्रोधे त्वयि राजनि राजति ।
नेदानीं दुःखदुर्ग्रन्थिर्नासुरान्दलयिष्यति ॥ ३७ ॥

अनेन तव पूर्वमनोरथोऽपि सेत्स्यतीत्याह - वीतेति ।
दुःखदुर्ग्रन्थिरसुरेष्विदानीं न स्थास्यति देवस्थश्च स मद्द्वारा असुरान्न
दलयिष्यतीत्यर्थः ॥ ३७ ॥

बाष्पश्रीर्नासुरीकर्णमञ्जरीः प्लावयिष्यति ।
वनराजिमिवोन्मत्ता सरित्तारतरङ्गिणी ॥ ३८ ॥

उन्मत्ता वर्षाभिवर्धिता सरिन्नदी । तारतरङ्गिणी बृहत्तरङ्गा ॥ ३८ ॥

अद्यप्रभृत्यसम्प्राप्तदानवामरसङ्गरम् ।
निर्मन्दराम्भोनिधिवज्जगत्स्वस्थमिव स्थितम् ॥ ३९ ॥

जगत्स्वास्थ्यमपि सेत्स्यतीत्याह - अद्येति । निर्मन्दरो निर्गतमन्थाचलो
योऽम्भोनिधिस्तद्वत् ॥ ३९ ॥

देवासुरकुटुम्बिन्यो भर्तृष्वन्तःपुरेषु च ।
स्वेष्वेव यान्तु विश्वासमपरस्परमाहृताः ॥ ४० ॥

अपरस्परमाहृताः परस्परभर्तृभिरबन्दीकृताः ॥ ४० ॥

भवबहुलनिशानितान्तनिद्रा-
तिमिरमपास्य सदोदिताशयश्रीः ।
दनुसुत वनिताविलासरम्यां
चिरमजितामुपभुङ्क्ष्व राज्यलक्ष्मीम् ॥ ४१ ॥

हे दनुसुत त्वं बहुलनिशा
कृष्णपक्षरात्रिस्तत्रत्यनितान्तनिद्रातिमिरप्रायमज्ञानान्धकारमपास्य
सदा उदिता आशयश्रीः स्वप्रकाशब्रह्मात्मस्फूर्तिर्यस्य तथाविधः सन्
वनितानामसुरस्त्रीणां सम्भजनीयशान्त्यादीनां च विलासैः रम्याम् । अजितां
शत्रुभिः कामादिषट्कैश्चापराभूतां राज्यलक्ष्मीं स्वाराज्यलक्ष्मीं च
चिरमुपभुङ्क्ष्वेत्याशीः ॥ ४१ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे प्रह्रादाभिषेको नामैकचत्वारिंशः
सर्गः ॥ ४१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
प्रह्रादाभिषेको नामैकचत्वारिंशः सर्गः ॥ ४१ ॥