४०

चत्वारिंशः सर्गः ४०

श्रीभगवानुवाच ।

स्थैर्यं देहस्य दृष्टस्य जीवितं प्रोच्यते जनैः ।
देहान्तरार्थं देहस्य सन्त्यागो मरणं स्मृतम् ॥ १ ॥

सदेहोऽपि विदेहोऽत्र कूटस्थोऽपि क्रियापरः ।
यथा व्यवहरेज्ज्ञानी स क्रमो हरिणोच्यते ॥ १ ॥

जीवन्मुक्तस्यापि प्रह्रादस्य सन्निधिमात्रेण
राज्यपरिपालननिर्वाहोपायमुपदिदिक्षुर्भगवान्वासुदेवः सत्यपि देहे तस्य
तत्सम्बन्धाभावात्प्रागुक्ते जीवितमरणे गौणे एव न मुख्ये इति वक्तुं
जीवनमरणयोर्लोकप्रसिद्धं स्वरूपमाह - स्थैर्यमिति । देहान्तरार्थं
पुनर्देहान्तरग्रहणाय पूर्वदेहस्य सन्त्याग उत्क्रम्य गमनं प्राणानां
मरणं स्मृतम् । मृङ् प्राणत्यागे इति धात्वर्थप्रसिद्धेरित्यर्थः ॥ १ ॥

द्वाभ्यां चैवासि पक्षाभ्यामाभ्यां मुक्तो महामते ।
किं ते मरणमस्तीह किं वा जीवितमस्ति ते ॥ २ ॥

द्वाभ्यां देहस्थैर्यप्राणोत्क्रमणपक्षाभ्याम् । अशरीरं शरीरेषु न तस्य
प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते इति श्रुतेरिति भावः ॥ २ ॥

निदर्शनार्थमेतत्तु मयोक्तमरिमर्दन ।
न त्वं जीवसि सर्वज्ञ म्रियसे न कदाचन ॥ ३ ॥

कथं तर्हि जीवितं तव शोभते मरणं न शोभते इति त्वयोक्तं तत्राह -
निदर्शनार्थमिति । ज्ञानाज्ञानगुणदोषप्रपञ्चनार्थमित्यर्थः ॥ ३ ॥

देहसंस्थोऽप्यदेहत्वाददेहोऽसि विदेहदृक् ।
व्योमसंस्थोऽप्यसक्तत्वादव्योमेव हि मारुतः ॥ ४ ॥

अदेहत्वे विदेहदृक् विगतदेहदृष्टिरिति हेतुः । असक्तत्वादासङ्गविरहात् ॥ ४ ॥

स्पर्शसम्बोधकारित्वाद्देह एवास्ति सुव्रत ।
उत्सेधारोधकत्वेन खमुत्सेधस्य कारणम् ॥ ५ ॥

देहसंस्थत्वं कथं ज्ञायते तत्राह - स्पर्शेति । देहे
शीतोष्णादिस्पर्शसंवेदननिमित्तत्वादन्यत्र तददर्शनाद्देह एवास्ति भवानिति
शेषः । त्वाचे [त्वचि इति क्वचित्] स्पर्शसंवेदने कथमसङ्गात्मा
कारणमिति तत्र दृष्टान्तमाह -उत्सेधेति । यथा तरूत्सेधे
अरोधकत्वात्खमुत्सेधकारणमित्युच्यते तद्वदित्यर्थः ॥ ५ ॥

प्रबुद्धो ज्ञातवस्तुत्वाद्देहः क्व शमिनामिह ।
इदं त्वेकं परिच्छिन्नं रूपमज्ञेषु दुःस्थितम् ॥ ६ ॥

अदेहत्वं तर्हि कथं तत्राह - प्रबुद्ध इति । त्वं ज्ञाततत्त्वत्वात्प्रबुद्धः
प्रबोधे च सति शमिनां सर्वद्वैतोपशमवतां देहः क्व वर्तते । नहि
स्वप्नोपशमे स्वाप्नदेहोऽस्ति । इदं त्वेकं परिच्छिन्नं
देहरूपमज्ञेष्वप्रबोधवत्सु दुःस्थितमसम्भाव्यमपि स्थितमित्यर्थः ॥ ६ ॥

सर्वदा सर्वमेवासि चित्प्रकाशः परैकधीः ।
को देहः कोऽप्यदेहस्ते यं गृह्णासि जहासि च ॥ ७ ॥

यद्यज्ञोऽपि देहे स्थित्वा देही तर्ह्यहमपि देहे स्पर्शवेदनात्स्थितस्तद्वत्किं न
स्यां तत्राह - सर्वदेति । प्रकाशकत्वेन स्थितिः सर्वदा सर्ववस्तुष्वपि तुल्येति
सर्वमेव त्वमसि नाज्ञवद्देहमात्रमित्यर्थः । एवञ्च तव कः पदार्थो देहः
स्याद्यमहम्बुद्ध्या गृह्णासि गृह्णीयाः । अदेहोऽपि कः
स्याद्यमनहम्बुद्ध्या जहासि त्यजेरित्यर्थः ॥ ७ ॥

समुदेतु वसन्तो वा वातु वा प्रलयानिलः ।
भावाभावविहीनस्य किमभ्यागतमात्मनः ॥ ८ ॥

ननु यदुपचयात्स्वस्य हर्षोपचयो यन्नाशनिमित्तदर्शनाच्च विषादः स देह
इतरस्त्वदेह इति भेदः किं न स्यादिति चेन्न । तत्त्वविदो
हर्षविषादहेत्वसम्भवादित्याह - समुदेत्वित्यादिना । भाव्यते प्रीत्या
स्मर्यत इति भावः प्रियम् । न भाव्यते इत्यभावोऽप्रियं
तदुभयविहीनस्येत्यर्थः ॥ ८ ॥

प्रलुठत्स्वपि शैलेषु कल्पाग्निषु दहत्स्वपि ।
वहत्सूत्पातवातेषु स्वात्मन्येव हि तिष्ठति ॥ ९ ॥

तिष्ठति तत्त्वज्ञ इति शेषः ॥ ९ ॥

सर्वभूतानि तिष्ठन्तु सर्वमेव प्रयातु वा ।
नश्यन्तु वाथ वर्धन्तामात्मन्येवाभितिष्ठति ॥ १० ॥

क्षीयते न क्षयं प्राप्ते वर्धमाने न वर्धते ।
न स्पन्दते स्पन्दमाने देहेऽस्मिन्परमेश्वरः ॥ ११ ॥

देहस्याहमहं देहीति क्षीणे चित्तविभ्रमे ।
त्यजामि न त्यजामीति किं मुधा कलनोदिता ॥ १२ ॥

देहस्य सम्बन्धिन्यहमिति तादात्म्याध्यासलक्षणे देहीति
तद्धर्मसंसर्गाध्यासलक्षणे च चित्तविभ्रमे क्षीणे सति मुधा निर्हेतुका
निष्फला च त्यजामि न त्यजामीति कलना किमुदिता स्यात् । नैवोदेतीत्यर्थः ॥ १२ ॥

इदं कृत्वा करोमीदमिदं त्यक्त्वेदमित्यलम् ।
इति तत्त्वविदां तात सङ्कल्पाः सङ्क्षयं गताः ॥ १३ ॥

त्यक्त्वेदं त्यक्ष्यामीति शेषः ॥ १३ ॥

प्रबुद्धाः सर्वकर्तारः करिष्यन्तीह किञ्चन ।
न तस्याकरणे नित्यमकर्तृत्वपदं गताः ॥ १४ ॥

सर्वकर्तारोऽपि किञ्चन किञ्चिदपि न करिष्यन्तीति पूर्वार्धे नञोऽन्वयः । तस्य
कदाप्यकरणे नित्यमेव ते अकर्तृत्वपदं गतास्तिष्ठन्तीत्यर्थः ॥ १४ ॥

अकर्तृत्वादभोक्तृत्वमर्थादेव समागतम् ।
सङ्गृहीतं किलानुप्तं केनेह भुवनत्रये ॥ १५ ॥

तत्फलमाह - अकर्तृत्वादिति । अनुप्तं वापादिना अनिष्पादितं व्रीह्यादि ॥ १५ ॥

शान्ते कर्तृत्वभोक्तृत्वे शान्तिरेवेह शिष्यते ।
प्रौढिमभ्यागता सैव मुक्तिरित्युच्यते बुधैः ॥ १६ ॥

शान्तिर्निर्विक्षेपता । प्रौढिं कर्तृत्वमूलोच्छेदेन प्ररूढताम् ॥ १६ ॥

प्रबुद्धाश्चिन्मयाः शुद्धाः सर्वमाक्रम्य संस्थिताः ।
किं त्यक्तं परिगृह्णन्तु किं गृहीतं त्यजन्तु वा ॥ १७ ॥

उक्तं व्यक्तौपपादयति - प्रबुद्धा इत्यादिना । आक्रम्य
परमार्थस्वरूपाविर्भावेण परिभूय त्यक्तं अप्राप्तं किं फलमैहिकं
परिगृह्णन्तु ॥ १७ ॥

ग्राह्यग्राहकसम्बन्धप्रमितावयविक्रमैः ।
हीनः प्रमेयावयवैः किं गृह्णातु जहातु किम् ॥ १८ ॥

ग्राह्यग्राहकतत्सम्बन्धलक्षणैरज्ञदशाप्रमितक्रियाकारकसम्बन्धघट्
इतावान्तरवाक्यार्थलक्षणावयविक्रमैर्महावाक्यप्रमेयावयवैरङ्गप्रध्
आनक्रियाकलापलक्षणविकारैर्हीनः कूटस्थात्मा
तद्घटिअसाङ्गप्रधानक्रियानिष्पादनसाध्यं पारलौकिकं स्वर्गादिफलं
वा किं गृह्णन्तु किं जहात्वित्यर्थः ॥ १८ ॥

ग्राह्यग्राहकसम्बन्धे क्षीणे शान्तिरुदेत्यलम् ।
स्थितिमभ्यागता शान्तिर्मोक्षनाम्नाभिधीयते ॥ १९ ॥

ऐहिकामुष्मिकेष्टानिष्टसाधनहानोपादाननिमित्तग्राह्यग्राहक##-
स्थितिमभ्यागता मोक्षनाम्नोच्यत इत्युक्तोपपादनोपसंहारः ॥ १९ ॥

तत्र स्थिताः सदा शान्तास्त्वादृशाः पुरुषोत्तमाः ।
सुषुप्तावयवस्पन्दसाधर्म्येण चरन्ति हि ॥ २० ॥

एवं स्थितानामपि यावत्प्रारब्धक्षयं व्यवहारसिद्धौ दृष्टान्तमाह ##-
प्राणोदरान्नरसादिस्पन्दं जीवनादृष्टात्मसन्निधिमात्रेणाचरन्तीत्युच्यते
तद्वज्जीवन्मुक्ता अपि चरन्ति । व्यवहरन्तीत्यर्थः ॥ २० ॥

परावबोधविश्रान्तवासनो जगति स्थितिम् ।
अर्धसुप्त इवेहेमां त्वं पश्यात्मस्थया धिया ॥ २१ ॥

तद्वत्त्वमपि राज्यपालनमाचरेत्याशयेनाह - परावबोधेति । अर्धसुप्तः
सुषुप्तजाग्रत्सन्धिस्थः ॥ २१ ॥

न रमन्ते हि रम्येषु स्वात्मन्येव गताशयाः ।
नोद्विजन्तेऽन्यदुःखेषु स्वात्मन्येकरसायनाः ॥ २२ ॥

रम्येषु अनात्मस्विति शेषः । आत्मान्येषु आत्मास्पर्शिषु दुःखेषु । स्वात्मन्येव
एकं रसायनमिव मधुरं सुखं येषाम् । तथाचोक्तं वार्तिके दुःखी यदि
भवेत्साक्षी कः साक्षी दुःखितो भवेत् । दुःखिनः साक्षिता नास्ति साक्षिणो
दुःखिता कुतः इति ॥ २२ ॥

नित्यप्रबुद्धा गृह्णन्ति कार्याणीमान्यसङ्गिनः ।
मुकुरा इव बिम्बानि यथाप्राप्तान्यवाञ्छया ॥ २३ ॥

सुखदुःखाभावे तत्प्राप्तिपरिहारार्थानि कार्याणि कथं गृह्णन्ति तत्राह ##-

जाग्रति स्वात्मनि स्वस्थाः सुप्ताः संसारसंस्थितौ ।
बालवत्प्रविवेपन्ते सुषुप्तसद्दशाशयाः ॥ २४ ॥

तर्हि ते किं स्वात्मन्यप्यास्थाशून्या नेत्याह - जाग्रतीति । तथाच या निशा
सर्वभूतानां तस्यां जागर्ति संयमी इति भगवतापि तेषामात्मास्था दर्शिना ।
प्रविवेपन्ते प्रकम्पन्ते । व्यवहरन्तीति यावत् ॥ २४ ॥

त्वमजितपदवीमुपागतोऽन्तः
कमलजवासरमेकमेव भुक्त्वा ।
गुणगणकलितामिहैव लक्ष्मीं
व्रज परमास्पदमच्युतं महात्मन् ॥ २५ ॥

विवक्षितार्थं सङ्क्षिप्योपसंहरति - त्वमिति । हे महात्मन् त्वमन्तः
अजितस्य विष्णोः पदवीं परमात्मपदं समागतः प्राप्तवान्सन्नेकं
कमलजवासरं कल्पपर्यन्तमिहैव पाताले गुणगणैः कलितां राज्यलक्ष्मीं
भुक्त्वा अच्युतं विदेहकैवल्याख्यं च्युतिरहितं परमास्पदं परमपदं
व्रजेत्यर्थः ॥ २५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये
मोक्षोपायेषूपशमप्रकरणे प्रह्रादबोधनं नाम चत्वारिंशः
सर्गः ॥ ४० ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
प्रह्रादबोधनं नाम चत्वारिंशः सर्गः ॥ ४० ॥