३९

एकोनचत्वारिंशः सर्गः ३९

श्रीवसिष्ठ उवाच ।

इति सञ्चिन्त्य सर्वात्मा क्षीरोदादात्मकात्पुरात् ।
चचाल परिवारेण सह सानुरिवाचलः ॥ १ ॥

हरिर्दैत्यपुरं गत्वा शङ्खनादप्रबोधितम् ।
प्रह्रादमवदद्राज्यमाकल्पं पाल्यतामिति ॥ १ ॥

क्षीरोदान्तर्गतश्वेतद्वीपान्तर्गतादात्मकादात्मीयात्पुरात् । परिवारेण सहेति
शेषः । सानुः प्रस्थस्तेन सहितः अचलो मन्दर इव । अचलः
परमार्थतश्चलनशून्य इति वा ॥ १ ॥

क्षीरोदतलरन्ध्रेण तेनैव स्तम्भिताम्भसा ।
प्रह्रादनगरं प्राप शक्रलोकमिवापरम् ॥ २ ॥

धातृसङ्कल्पादेव स्तम्भितं पातालकुहराप्रवेशि अम्भो
यस्मिंस्तथाविधेन क्षीरोदस्य तलरन्ध्रेणाधश्छिद्रेण । शक्रलोकमिव
रम्यमित्यर्थः ॥ २ ॥

हेममन्दिरकोशस्थं ददर्शात्रासुरं हरिः ।
अथ शैलगुहालीनं समाधिस्थमिवाब्जजम् ॥ ३ ॥

अथ अत्र प्रह्रादनगरे । असुरं प्रह्रादम् । शैलस्य मेरोर्गुहायां लीनमब्जजं
ब्रह्माणमिव ॥ ३ ॥

तत्र ते तेजसा दैत्या वैष्णवेनावधूलिताः ।
दूरं ययुर्दिनेशांशुवित्रस्ता इव कौशिकाः ॥ ४ ॥

अवधूलिताः धूलिवदवधूताः । कौशिका उलूकाः ॥ ४ ॥

द्वित्रैः सहासुरैर्मुख्यैः परिवारयुतो हरिः ।
प्रविवेशासुरगृहं तारावानिव खं शशी ॥ ५ ॥

वैनतेयासनस्थोऽसौ लक्ष्मीविधुतचामरः ।
स्वायुधादिपरीवारो देवर्षिमुनिवन्दितः ॥ ६ ॥

महात्मन्सम्प्रबुध्यस्वेत्येवं विष्णुरुदाहरन् ।
पाञ्चजन्यं प्रदध्मौ च ध्वनयन्ककुभां गणम् ॥ ७ ॥

ककुभां दिशाम् ॥ ७ ॥

महता तेन शब्देन वैष्णवप्राणजन्मना ।
तुल्यकालपरिक्षुब्धकल्पाभ्रार्णवरंहसा ॥ ८ ॥

प्राणो बलं तज्जन्मना । तुल्यकालपरिक्षुब्धानि प्रलयाभ्राणि प्रलयार्णवाश्च
तद्रंहसा । रहःशब्देन तत्प्रभवो ध्वनिर्लक्ष्यते ॥ ८ ॥

आसुरी जनता भूमौ पपातागतसम्भ्रमा ।
मत्तलीलाभ्रनादेन राजहंसावली यथा ॥ ९ ॥

आगतसम्भ्रमा प्रोद्भूतभयमूर्च्छा ॥ ९ ॥

जहर्ष जनितानन्दा वैष्णवी गतसम्भ्रमा ।
जनता जलदध्वानफुल्लेव कुटजावली ॥ १० ॥

बभूव सम्प्रबुद्धात्मा दानवेशः शनैःशनैः ।
मेघावसर उत्फुल्लकदम्ब इव कानने ॥ ११ ॥

दानवेशः प्रह्रादः ॥ ११ ॥

ब्रह्मरन्ध्रकृतोत्थाना प्राणशक्तिरथासुरम् ।
शनैराक्रम्यामास गङ्गा सर्वमिवार्णवम् ॥ १२ ॥

सम्प्रबोधक्रमं प्रपञ्चयति - ब्रह्मरन्ध्रेत्यादिना । आक्रमयामास
आपूरयामास ॥ १२ ॥

क्षणादाक्रमयामास प्राणश्रीः सर्वतोऽसुरम् ।
उदयानन्तरं सौरी प्रभेव भुवनान्तरम् ॥ १३ ॥

प्राणेषु रन्ध्रनवके प्रवृत्तेष्वथ तस्य चित् ।
चेत्योन्मुखी बभूवान्तः प्राणदर्पणबिम्बिता ॥ १४ ॥

प्राणेषु इन्द्रियेषु । प्राणो लिङ्गदेहस्तल्लक्षणे दर्पणे बिम्बिता प्रतिफलिता ॥ १४ ॥

चेतनीयोन्मुखी चेत्यं चिन्मनस्तामुपाययौ ।
द्वित्वं मुकुरसङ्क्रान्ता मुखश्रीरिव राघव ॥ १५ ॥

चेतनीयविषयोन्मुखी चित् चेत्याकारसंस्कारोद्बोधाच्चेत्यमिव भूत्वा
चिज्जडोभयरूपतालक्षणां मनस्तामुपाययौ प्राप ॥ १५ ॥

किञ्चिदङ्कुरिते चित्ते नेत्रे विकसनोन्मुखे ।
शनैर्बभूवतुस्तस्य प्रातर्नीले यथोत्पले ॥ १६ ॥

तस्य नेत्रे शनैर्विकसनोन्मुखे बभूवतुः ॥ १६ ॥

प्राणापानपरामृष्टानाडीविवरसंविदः ।
वातार्तस्येव पद्मस्य स्पन्दोऽस्य समजायत ॥ १७ ॥

प्राणापानाभ्यामन्तःप्रविष्टाभ्यां परामृष्टाया उद्बोधिताया
आसमन्तान्नाडीविवरेषु संविदः संवेदनान्निमित्तात् । वातेनार्तस्य नुन्नस्य
पद्मस्येव अस्य तद्देहस्य स्पन्द ईषच्चलनं समजायत ॥ १७ ॥

निमेषान्तरमात्रेण मनः पीवरतां ययौ ।
तस्मिन्प्राणवशात्पूर्णे तरङ्ग इव वारिणि ॥ १८ ॥

अथासौ विकसन्नेत्रमनःप्राणवपुर्बभौ ।
अर्धोदित इवादित्ये सरः स्फुरितपङ्कजम् ॥ १९ ॥

अस्मिन्नवसरे यावद्बुध्यस्वेत्यवदद्विभुः ।
प्रबुद्धस्तावदेषोऽभूद्बर्ही घनरवादिव ॥ २० ॥

बर्ही मयूरः । घनरवान्मेघशब्दात् ॥ २० ॥

प्रफुल्लनयनं जातमननं पीवरस्मृतिम् ।
उवाचैनं त्रिलोकेशः पुरा नाभ्यब्जजं यथा ॥ २१ ॥

जातमननं सञ्जातप्रह्रादाहम्भावप्रत्यभिज्ञम् । पीवरी सम्यगुपचिता
पूर्वावस्थादिस्मृतियस्य तम् ॥ २१ ॥

साधो स्मर महालक्ष्मीमात्मीयां स्मर चाकृतिम् ।
अकाण्ड एव किं देहविरामः क्रियते त्वया ॥ २२ ॥

महतीं लक्ष्मीं दैत्यराज्यश्रियमात्मीयां स्वीयामाकृतिं देहाकारं च
स्मर । त्वया देहविस्मरणेनाऽकाण्डेऽनवसर एव देहस्य विरामोऽवसानं किं
किमर्थं क्रियते ॥ २२ ॥

हेयोपादेयसङ्कल्पविहीनस्य शरीरगैः ।
भावाभावैस्तवार्थः किमुत्तिष्ठोत्तिष्ठ सम्प्रति ॥ २३ ॥

ननु न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति इति श्रुतेः सर्वजनानां
तथानुभवाच्चानर्थहेतुर्देहस्मरणमिति चेत्तत्राह - हेयेति ।
हेयोपादेयसङ्कल्पत्यागे सत्यपि देहे प्रियाप्रियैर्भावाभावेस्तवार्थो नास्तीति
नानर्थप्रसक्तिरित्यर्थः ॥ २३ ॥

मन्त(?)व्यमिह देहेन कल्पं यावदनेन ते ।
वयं हि नियतिं विद्मो यथाभूतामनिन्दिताम् ॥ २४ ॥

कियत्कालं तर्हि देहधारणं तत्राह - स्थातव्यमिति । नियतिं
त्वदायुर्नियमम् ॥ २४ ॥

जीवन्मुक्तेन भवता राज्य एवेह तिष्ठता ।
क्षेपणीया गतोद्वेगमाकल्पान्तमियं तनुः ॥ २५ ॥

क्षेपणीया व्यवहारे प्रेरणीया ॥ २५ ॥

तन्वां कल्पान्तशीर्णायां स्वे महिम्नि त्वयानघ ।
वस्तव्यं स्फुटिते कुम्भे कुम्भाकाशेन खे यथा ॥ २६ ॥

कल्पान्ते तर्हि मया कथं स्थेयं तदाह - तन्वामिति । स्वे महिम्नि
स्वात्मभूते निरतिशयमहत्त्वे । स्वे महाकाशे ॥ २६ ॥

कल्पान्तस्थायिनी शुद्धा दृष्टलोकपरावरा ।
इयं तव तनुर्जाता जीवन्मुक्तविलासिनी ॥ २७ ॥

नोदिता द्वादशादित्या न प्रलीनाः शिलोच्चयाः ।
न जगज्ज्वलितं साधो तनुं त्यजसि किं मुधा ॥ २८ ॥

तर्हि किं कल्पान्तः सन्निहितो नेत्याह - नोदिता इत्यादिना ॥ २८ ॥

वायुर्वहति नोन्मत्तस्त्र्लोकीभस्मधूसरः ।
लोलामरकपालाङ्कस्तनुं त्यजसि किं मुधा ॥ २९ ॥

लोलान्यमराणां शिरःकपालान्यङ्कश्चिहं यस्य तथाविधः ॥ २९ ॥

अशोक इव मञ्जर्यः पुष्करावर्तविद्युतः ।
न स्फुरन्ति जगत्कोशे तनुं त्यजसि किं मुधा ॥ ३० ॥

पुष्करावर्ताख्येषु संवर्तमेघेषु विद्युतस्तडितो न स्फुरन्ति । इदानीमिति
सर्वत्रानुषङ्गः ॥ ३० ॥

धरासाररणच्छैलाः प्रज्वलज्ज्वलनोज्ज्वलाः ।
ककुभो न विशीर्यन्ते तनुं त्यजसि किं मुधा ॥ ३१ ॥

धराया भूमेर्दह्यमानाया आसमन्तात्सरणं सारः प्रकम्पस्तेन
विदीर्यमाणत्वाद्रणन्तः शैला यासु । ककुभो दिशः । अमूर्तानां
विशरणायोगाद्दिगन्तस्था ब्रह्माण्डभित्तयो गृह्यन्ते ॥ ३१ ॥

न ब्रह्मविष्णुरुद्राख्यत्रयीशेषमिदं स्थितम् ।
जगज्जरठजीमूतं तनुं त्यजसि किं मुधा ॥ ३२ ॥

इदं जगत् जरठाः प्रवृद्धा जीमूताः प्रलयमेघा यस्मिंस्तथाविधं सत्
ब्रह्मविष्णुरुद्राख्यदेवत्रयीमात्रशेषं भूत्वा न स्थितम् ॥ ३२ ॥

न चेहाद्रिदलश्रेणिमात्रैकानुमितान्तराः ।
दिशो जर्जरतां यातास्तनु त्यजसि किं मुधा ॥ ३३ ॥

अद्रेर्लोकालोकाचलस्य भूपद्मदलप्रायैः शृङ्गैरनुमितमन्तरं भेदो
यासां न सूर्योदयादिना तथाविधा दिशो ब्रह्माण्डभित्तयः ॥ ३३ ॥

स्फुटदद्रीन्द्रटङ्काराः कराः सौरा भ्रमन्ति खे ।
कल्पाभ्राणि न गर्जन्ति तनुं त्यजसि किं मुधा ॥ ३४ ॥

स्फुटतो दीर्यमाणस्याद्रीन्द्रस्य मेरोरिव टङ्कारा ध्वनयो येषां सौरा
द्वादशादित्यसम्बन्धिनः कराः किरणा न भ्रमन्तीति नञनुषज्जते ॥ ३४ ॥

अहं भूतावकीर्णासु सालोकासु खगध्वजः ।
विहरामि दशाशासु मा देहमवधीरय ॥ ३५ ॥

भूतावकीर्णास्वण्डजादिचतुर्विधप्राणिव्याप्तासु । अहं विष्णुर्विहरामि । मा
अवधीरय त्यज । तथा चेदानीं तव मरणं न शोभत इत्यर्थः ॥ ३५ ॥

इमे वयमिमे शैला भूतानीमान्ययं भवान् ।
इदं जगदिदं व्योम मा देहमवधीरय ॥ ३६ ॥

पीवराज्ञानयोगेन यस्य पर्याकुलं मनः ।
दुःखानि विनिकृन्तन्ति मरणं तस्य राजते ॥ ३७ ॥

कस्य तर्हि मरणमुचितं तमाह - पीवरेत्यादिना । यस्य मनः
अज्ञानयोगेन दुःखानि विनिकृन्तन्ति तस्य मरणं राजते । अत्यन्तपीडितो जीवः
स्थूलदेहं विमुञ्चति इति स्मृतिसिद्धमरणहेतूपपत्तेरित्यर्थः ॥ ३७ ॥

कृशोऽतिदुःखी मूढोऽहमेताश्चान्याश्च भावनाः ।
मतिं यस्यावलुम्पन्ति मरणं तस्य राजते ॥ ३८ ॥

आशापाशनिबद्धोऽन्तरितश्चेतश्च नीयते ।
यो विलोलमनोवृत्त्या मरणं तस्य राजते ॥ ३९ ॥

यस्य तृष्णाः प्रभञ्जन्ति हृदयं हृतभावनाः ।
प्ररोहमिव गर्धेभ्यो मरणं तस्य राजते ॥ ४० ॥

हृतभावना अपहृतविवेकाङ्कुरास्तृष्णा यस्य हृदयं प्रभञ्जन्ति
आमृद्रन्ति यथा महाफलं शाल्याद्यङ्कुरप्ररोहं गर्धेभ्यस्तदभिलाषि
पश्वादिभ्यो मूढाः प्रभञ्जन्ति तद्वत् ॥ ४० ॥

चित्तवृत्तिलता यस्य तालोत्तालमनोवने ।
फलिता सुखदुःखाभ्यां मरणं तस्य राजते ॥ ४१ ॥

तालवृक्षवदुत्ताले रागाद्युच्छ्रायवति मनोलक्षणे वने ॥ ४१ ॥

रोमराजीलताजालं यस्येमं देहदुर्द्रुमम् ।
अनर्थौघो हरत्युच्चैर्मरणं तस्य राजते ॥ ४२ ॥

रोमराज्येव लताजालं शाखासमूहो यस्मिंस्तथाविधं देहलक्षणं
दुर्द्रुमं विषवृक्षं कामाद्यनर्थलक्षण ओघश्चण्डमारुतप्रवाहो
हरति ॥ ४२ ॥

यस्य स्वदेहविपिनमाधिव्याधिदवाग्नयः ।
दहन्ति लोलाङ्गलतं मरणं तस्य राजते ॥ ४३ ॥

कामकोपात्मका यस्य स्फूर्जन्त्यजगरास्तनौ ।
अन्तःशुष्कद्रुमस्येव मरणं तस्य राजते ॥ ४४ ॥

अन्तः कोटरान्तः ॥ ४४ ॥

योऽयं देहपरित्यागस्तल्लोके मरणं स्मृतम् ।
न सता नासता तेन कारणं वेद्यवेदनम् ॥ ४५ ॥

मरणस्वरूपपर्यालोचनेऽपि तत्त्वज्ञस्य तन्न सम्भवतीत्याह - योऽयमिति ।
स्मृतं प्रसिद्धम् । तच्च तत्त्वविदो न सता आत्मना सम्पादयितुं शक्यं
नाप्यसता तेन देहेन सम्पादयितुं शक्यं सदात्मनो निष्क्रियतया
त्यागक्रियायोगात् । असङ्गस्य देहसङ्गाप्रसिद्धेश्च असता स्वप्रित्यागस्य
दूरनिरस्तत्वाच्च । ननु देहस्यासत्त्वे किं कारणं तदाह - कारणमिति ।
वेद्यस्य प्रमाणैरवश्यवेदनार्हस्य स्वात्मनो वेदनं ज्ञानमेव
देहाद्यसत्त्वे कारणम् ।
देहादिसद्भावप्रत्ययस्याज्ञाननिबन्धनत्वादित्यर्थः ॥ ४५ ॥

यस्य नोत्क्रामति मतिः स्वात्मतत्त्वावलोकनात् ।
यथार्थदर्शिनो ज्ञस्य जीवितं तस्य शोभते ॥ ४६ ॥

कस्य तर्हि जीवितं शोभते तमाह - यस्येत्यादिना । तथाच न
देहात्प्राणोत्क्रमणं किन्त्वात्मतत्त्वान्मतेरुत्क्रमणमेव तच्च ज्ञस्य
नास्त्येवेति सदैव तस्य जीवितं शोभते । अज्ञस्य तु मतिः सदैव
स्वात्मतत्तादुत्क्रामतीत्यसौ नित्यमृतस्वरूप इति भावः ॥ ४६ ॥

यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते ।
यः समः सर्वभावेषु जीवितं तस्य राजते ॥ ४७ ॥

किञ्चैकदेहाभिमाने तत्त्यागो मरणं स्यात् यस्य तु स नास्ति यस्य
बुद्धिस्तदीयप्रियाप्रियैर्न लिप्यते स सर्वेषु भावेषु देहेषु विषयेषु च समः
साधारणात्मा तस्य मरणासम्भवाज्जीवितमेव राजते इत्यर्थः ।
एवमग्नेऽप्यूह्यम् ॥ ४७ ॥

योऽन्तःशीतलया बुद्ध्या रागद्वेषविमुक्तया ।
साक्षिवत्पश्यतीदं हि जीवितं तस्य राजते ॥ ४८ ॥

येन सम्यक्परिज्ञाय हेयोपादेयमुज्झता ।
चित्तस्यान्तेऽर्पितं चित्तं जीवितं तस्य शोभते ॥ ४९ ॥

सम्यगसारतया परिज्ञाय । चित्तस्यान्ते अवसानभूते साक्षिणि ॥ ४९ ॥

अवस्तुसदृशे वस्तुन्यसक्तं कलनामले ।
येन लीनं कृतं चेतो जीवितं तस्य शोभते ॥ ५० ॥

अवस्तु शुक्तिरजतादि तत्सदृशे वस्तुनि वस्तुवद्भासमाने
बाह्यार्थकलनात्मकमले असक्तं चेतो ब्रह्मण्येव लीनं घृतकाठिन्यमिव
विलीनं कृतमित्यर्थः ॥ ५० ॥

सत्यां दृष्टिमवष्टभ्य लीलयेयं जगत्क्रिया ।
क्रियतेऽवासनं येन जीवितं तस्य राजते ॥ ५१ ॥

जगत्क्रिया जगतो व्यवहारः ॥ ५१ ॥

नान्तस्तुष्यति नोद्वेगमेति यो विहरन्नपि ।
हेयोपादेयसम्प्राप्तौ जीवितं तस्य शोभते ॥ ५२ ॥

हेयस्य दुःखहेतोः सम्प्राप्तौ नोद्वेगमेति । उपादेयस्य सुखसाधनस्य
प्राप्तौ नान्तस्तुष्यति ॥ ५२ ॥

शुद्धपक्षस्य शुद्धस्य हंसौघः सरसो यथा ।
यस्माद्गुणौघो निर्याति जीवितं तस्य शोभते ॥ ५३ ॥

शुद्धास्तत्त्वविद एव पक्षाः स्वीया यस्य स्वयं च शुद्धस्य । सरःपक्षे
शुद्धः शुभ्रा हंसा बकादयः पक्षा यस्य । स्वतःशुद्धस्य निर्मलस्य
पवित्रस्य च । गुणाः शान्तिक्षमामाधुर्यादयः शैत्यसौरभ्यादयश्च ॥ ५३ ॥

यस्मिन्श्रुतिपथं प्राप्ते दृष्टे स्मृतिमुपागते ।
आनन्दं यान्ति भूतानि जीवितं तस्य शोभते ॥ ५४ ॥

श्रुती कर्णौ तत्पथम् ॥ ५४ ॥

यस्योदयेषु हृदयेन [हृदयेषु इति पाठः] जनाम्बुजानि
जीवालिमन्ति सकलानि विलासवन्ति ।
तस्यैव भाति परिजीवितमक्षयेन्दो-
रापूर्णतेव दनुजेश्वर नेतरस्य ॥ ५५ ॥

यस्य उदयेषु सम्पत्सु उद्गमनेषु च जीवलक्षणभ्रमरवन्ति
जनलक्षणान्यम्बुजानि कुमुदानि विलासवन्ति आनन्दितानि भवन्ति । अक्षयेन्दोः
क्षयरोगनिर्मुक्तचन्द्रस्य आपूर्णतेव तस्यैव तत्त्वविदो जीवितं राजते
नेतरस्याज्ञस्येत्यर्थः ॥ ५५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० मोक्षो० उपशमप्रकरणे
प्रह्रादनिर्वाणे नारायणवचनोन्यासो नामैकोनचत्वारिंशः सर्गः ॥ ३९

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
नारायणवचनोपन्यासो नामैकोनचत्वारिंशः सर्गः ॥ ३९ ॥