३८

अष्टत्रिंशः सर्गः ३८

श्रीवसिष्ठ उवाच ।

अथाखिलजगज्जालक्रमपालनदेवनः ।
क्षीरोदनगरे शेषशय्यासनगतो हरिः ॥ १ ॥

जगद्व्यवस्थासिद्ध्यर्थं हरेश्चिन्तोपवर्ण्यते ।
इह दैत्यकुलं त्रातुं प्रह्रादस्य प्रबोधने ॥ १ ॥

अखिलानां जगज्जालसम्बन्धिनां क्रमाणां नियतीनां पालनमेव देवनं
क्रीडनं यस्य ॥ १ ॥

प्रावृण्निद्राव्युपरमे देवार्थमरिसूदनः ।
धिया विलोकयामास कदाचिज्जागतीं गतिम् ॥ २ ॥

प्रावृण्निद्राव्यपगमे । कार्तिकान्ते इति यावत् । देवानामर्थ प्रयोजनं
साधयितुमिति शेषः । अनेन देवैः काले स्तुत्या प्रबोधित इति गम्यते । जानतीं
त्रैलोक्यसम्बन्धिनीं गति तात्कालिकस्थितिम् ॥ २ ॥

त्रिविष्टपं स्वमनसा पार्थिवं चावलोक्य सः ।
आचारमाजगामाशु पातालमरिपालितम् ॥ ३ ॥

विलोकनक्रममेव विविच्याह - त्रिविष्टपमित्यादिना । पार्थिवं
भूलोकसम्बन्धिनमाचारं जनानां शुभाशुभाचरणम् । मनसा
पातालमाजगाम पातालस्थितिं पर्यालोचितवानिति यावत् ॥ ३ ॥

तत्र स्थिरसमाधाने स्थिते प्रह्राददानवे ।
दृष्ट्वा सम्पदमिन्द्रस्य पुरे प्रौढिमुपागताम् ॥ ४ ॥

तत्र पाताले प्रह्राददानवे स्थिरे समाधाने समाधौ स्थिते सति इन्द्रस्य पुरे
स्वर्गे प्रौढिमभिवृद्धिमुपागतां सम्पदं दृष्ट्वा पूर्वं
क्षीरोदार्णवशायिनः पश्चात्प्रबुध्य व्यालतल्पतलस्थस्य तत्रापि
पद्मासनबन्धेन स्थितस्य शङ्खचक्रगदापाणेर्विष्णोर्मनः
स्वकल्पितेनातिभास्वता त्रैलोक्याब्जस्य महता अलिना भ्रमरभूतेन शरीरेण
इदं वक्ष्यमाणप्रकारं कर्तव्यं सञ्चिन्तयामासेति त्रयाणामन्वयः ॥ ४ ॥

व्यालतल्पतलस्थस्य क्षीरोदार्णवशायिनः ।
शङ्खचक्रगदापाणेर्देहस्यान्तरचारिणः ॥ ५ ॥

पद्मासनस्थस्य मनः शरीरेणातिभास्वता ।
इदं सञ्चिन्तयामास त्रैलोक्याब्जमहालिना ॥ ६ ॥

प्रह्रादे पदविश्रान्ते पाताले गतनायके ।
कष्टं सृष्टिरियं प्रायो निर्दैत्यत्वमुपागता ॥ ७ ॥

पदं समाधिसाम्राज्यपदं तत्र विश्रान्ते ॥ ७ ॥

दैत्याभावे सुरश्रेणी निर्जिगीषुपदं गता ।
शममेष्यत्यदृष्टाब्दपटलेषु सरिद्यथा ॥ ८ ॥

शममरागद्वेषताम् । न दृष्टान्यब्दपटलानि येषु तथाविधेषु
अनावृष्टिकालेषु ॥ ८ ॥

मोक्षाख्यं निर्गतद्वन्द्वं ततो यास्यति तत्पदम् ।
क्षीणाभिमानविरसा लतेव प्रविशुष्कताम् ॥ ९ ॥

ततः शमान्निर्गतद्वन्द्वं गतशीतोष्णादिद्वन्द्वोपप्लवमद्वितीयमिति वा ।
विरसा स्वर्गसुखाद्विरक्ता जलसेकशून्या च ॥ ९ ॥

देवौघे शान्तिमायाते भुवि यज्ञतपःक्रिया ।
चिदेवत्वफलाः सर्वाः शममेष्यन्त्यसंशयम् ॥ १० ॥

द्वेष्याभावात्स्वर्गसुखे दुर्लभत्वादर्शनादुपेक्षापत्तेः स्वतः
सात्त्विकत्वाच्च देवौघे शान्तिमायाते सति । मुक्तेश्च बिभ्यतो देवा मोहेनापि
दधुर्नरान् । तस्मादेषां तन्न प्रियं यदेतन्मनुष्या विद्युः । तस्मादेतेऽसुरा
विघ्नमाचरन्ति शपन्ति च । प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः ।
सन्न्यासिनोऽपि दृश्यन्ते देवसन्दूषिताशयाः ॥
इत्यादिश्रुतिस्मृतिवार्तिकादिप्रसिद्धदेवसन्दूषिताशयत्वासिद्धेर्मनुष्याणाम्
अपि शमादिप्रसङ्गे भुवि यज्ञतपःक्रिया अदेवत्वफलाः सत्यः
शममुत्सादमेष्यन्तीत्यर्थः ॥ १० ॥

क्रियास्वथोपशान्तासु भूर्लोकोऽस्तमुपैष्यति ।
असंसारप्रसङ्गोऽथ तस्य नाशे भविष्यति ॥ ११ ॥

अस्तु क्रियोत्सादः का क्षतिस्तत्राह - क्रियास्विति । भूर्लोकग्रहणं
कर्मभूमिपरम् । अस्तं वैयर्थ्यं तस्य नाशे वैयर्थ्ये
कर्माधीनसंसारस्योच्छेदप्रसङ्ग इत्यर्थः ॥ ११ ॥

आकल्पान्तं त्रिभुवनं यदिदं कल्पितं मया ।
नाशमेष्यत्यकालेन तापे हिमकणो यथा ॥ १२ ॥

अस्त्वेवं किं ततस्ते क्षतं तत्राह - आकल्पान्तमिति ॥ १२ ॥

किमेवमस्मिन्नाभोगे विलीय क्षयमागते ।
कृतं मयेह भवति स्वलीलाक्षयकारिणा ॥ १३ ॥

अस्मिन् आभोगे जगत्संस्थाने विलीय क्षयमागते सति स्वलीलायाः क्षयकारिणा
मया किमुचितं कृतं भवति न किञ्चिदित्यर्थः ॥ १३ ॥

ततोऽहमपि शून्येऽस्मिन्नष्टचन्द्रार्कतारके ।
वपुःप्रशान्तिमाधाय स्थितिमेष्यामि तत्पदे ॥ १४ ॥

ततः स्वलीलाक्षयादहमपि लीलार्थस्य वपुषः प्रशममुपसंहारमाधाय
सम्पाद्य अपुनःसंसारोद्भवाय तस्मिन्पूर्णात्मपदे स्थितिमेष्यामि
प्राप्स्यामि । सम्भावनाधिकेऽपि भविष्यति ऌडेव ॥ १४ ॥

अकाण्ड एवमेवं हि जगत्युपशमं गते ।
नेह श्रेयो न पश्यामि मन्ये जीवन्तु दानवाः ॥ १५ ॥

एवमेवमुक्तनानाप्रकारभेदेन अकाण्डे अनवसरे जगत्युपशमं गते सति इह
देवमनुष्यादिजीववर्गे श्रेयो न पश्यामीति न अपितु पश्याम्येव ।
वैराग्यात्प्रकृतौ लयः इति स्मृतेः प्रकृतिलये सुषुप्ताविव
सर्वदुःखोपशमलक्षणश्रेयःसिद्धेः किन्तु तमेवैतं वेदानुवचनेन
ब्राह्मणा विविदिषन्ति अनेकजन्मसंसिद्धस्ततो याति परां गतिम्
इत्यादिश्रुतिस्मृतिसिद्धानेकजन्मानुष्ठितनिष्कामकर्मसाध्यविविदिषातत्त्वसाक्
षात्काराभावान्मूलाज्ञानावरणानिवृत्तेर्वीजे सति
पुनरावृत्तिशङ्काप्रसक्तेश्च न निरतिशयानन्दावाप्तिलक्षणं श्रेयः
कस्यचित्सिद्ध्यतीति मन्ये । अतः क्रमेण सर्वेषां तल्लाभार्थं दान वा
जीवन्त्वित्यर्थः ॥ १५ ॥

दैत्योद्योगेन विबुधास्ततो यज्ञतपःक्रियाः ।
तेन संसारसंस्थानं न संसारक्रमोऽन्यथा ॥ १६ ॥

तमेव क्रमं पुनः सङ्क्षिप्याह - दैत्येति । विबुधा देवाः । ततस्तेभ्यो
विबुधेभ्यः ॥ १६ ॥

तस्माद्रसातलं गत्वा यथावत्स्थापयाम्यहम् ।
स्वे क्रमे दानवाधीशमृतुः पुनरिव द्रुमम् ॥ १७ ॥

यथावत् यथापूर्वम् । ऋतुर्वसन्तादिः ॥ १७ ॥

विना प्रह्रादमथ चिदितरं दानवेश्वरम् ।
करोमि तदसौ मन्ये देवानासादयिष्यति ॥ १८ ॥

प्रह्रादस्य त्वयं देहः पश्चिमः पावनो महान् ।
आकल्पमिह वस्तव्यं देहेनानेन तेन च ॥ १९ ॥

एवं हि नियतिर्देवी निश्चिता पारमेश्वरी ।
प्रह्रादेन यथाकल्पं स्थातव्यमिह देहिना ॥ २० ॥

तस्मात्तमेव गत्वा तु दैत्येन्द्रं बोधयाम्यहम् ।
गर्जन्गिरिनदीसुप्तं मयूरमिव वारिदः ॥ २१ ॥

गर्जन्वारिदः ॥ २१ ॥

जीवन्मुक्तसमाधिस्थः करोत्वसुरनाथताम् ।
मणिर्मुक्तमनस्कारः प्रतिबिम्बक्रियामिव ॥ २२ ॥

जीवन्मुक्तानां यः सदातनः असंसक्तिलक्षणः समाधिस्तत्स्थः ।
मुक्तमनस्कारः मनस्तच्चेष्टारहितः । प्रतिबिम्बक्रियां स्वस्मिन्
सन्निहितवस्तुप्रतिबिम्बधारणम् ॥ २२ ॥

नहि नश्यति सर्गोऽयमेवं सह सुरासुरैः ।
भविष्यति च तद्द्वन्द्वं तन्मे क्रीडा भविष्यति ॥ २३ ॥

तत् प्रसिद्धम् । द्वन्द्वपदेन तत्क्रिया युद्धं लक्ष्यते ॥ २३ ॥

सर्गक्षयोदयावेतौ सुसमौ मम यद्यपि ।
तथापीदं यथासंस्थं भवत्वन्येन किं मम ॥ २४ ॥

सर्गस्य सृज्यस्य जगतः क्षयोदयौ । प्राक्तनसर्गसंस्थामनतिक्रम्येति
यथासंस्थम् । पदार्थानतिवृत्तावव्ययीभावः ॥ २४ ॥

भावाभावेषु यत्तुल्यं तन्नाशे तत्स्थितौ च वा ।
यः प्रयत्नस्त्वबुद्धित्वात्तद्योगगमनं भवेत् ॥ २५ ॥

ननु योगनिद्रया स्वरूपसुखगमनं मुक्त्वा दैत्यपुरगमनं
तवानुचितमित्याशङ्क्याह - भावेति । अबुद्धित्वादभिनिवेशविरहाद्यो
गमनादिप्रयत्नस्तद्योगगमनमेव भवेन्नान्यतो गमनम् । यतो
यद्योगनिद्राप्राप्यं सुखं गमनयत्नादेर्भावाभावेषूत्पत्त्यनुत्पत्तिषु
तन्नाशे तत्स्थितौ च सममित्यर्थः ॥ २५ ॥

तस्मात्प्रयामि पातालं बोधयाम्यसुरेश्वरम् ।
स्थैर्यं यामि न संसारलीलां सम्पादयाम्यहम् ॥ २६ ॥

गच्छन्नप्यहं स्थैर्यमचलत्वमेव यामि यतो नाज्ञवत्संसारलीलां
सम्पादयामीत्यर्थः ॥ २६ ॥

असुरपुरमवाप्य प्रोद्धताचारघोरं
कमलमिव विवस्वान्दैत्यमुद्बोधयामः ।
जगदिदमखिलं स्वस्थैर्यमभ्यानयामो
घनविधिरिव शैले चञ्चलं मेघजालम् ॥ २७ ॥

प्रोद्धतानां निर्मर्यादानां दस्यूनामाचारेण घोरं
भयानकमसुरपुरमवाप्य गत्वा विवस्वान्सूर्यः कमलमिव दैत्यं
प्रह्रादं समाधेरुद्बोधयामः । तेन चेदमखिलं जगत्प्रागुक्तरीत्या
स्थैर्यमभ्यानयामः । यथा घनान्विधत्ते इति घनविधिर्वर्षर्तुश्चञ्चलं
मेघजालं शैले हिमवदादौ स्थैर्यमभ्यानयति तद्वदित्यर्थः ॥ २७ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषुपशमप्रकरणे परमेश्वरवितर्को नामाष्टत्रिंशः
सर्गः ॥ ३८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
परमेश्वरवितर्को नामाष्टत्रिंशः सर्गः ॥ ३८ ॥