३७

सप्तत्रिंशः सर्गः ३७

श्रीवसिष्ठ उवाच ।

इति सञ्चिन्तयन्नेव प्रह्रादः परवीरहा ।
निर्विकल्पपरानन्दसमाधिं समुपाययौ ॥ १ ॥

इह भूयः समाधिस्थे प्रह्रादे दानवं पुरम् ।
अनायकं दस्युहतं दुर्दशापन्नमीर्यते ॥ १ ॥

इति वर्णितप्रकारमात्मानं सञ्चिन्तयन् ॥ १ ॥

निर्विकल्पसमाधिस्थश्चित्रार्पित इवाचलः ।
शैलादिव समुत्कीर्णो बभौ स्वपदमास्थितः ॥ २ ॥

स्वपदं स्वरूपसाम्राज्यम् ॥ २ ॥

तथानुतिष्ठतस्तस्य कालो बहुतरो ययौ ।
स्वगृहे भुवनस्थस्य मेरोरिव सुरद्विषः ॥ ३ ॥

स्वगृहे तथा समाधौ तिष्ठतस्तस्य सुरद्विषः प्रह्रादस्य
भुवनमध्यस्थरूपमेरोरिव बहुतरः कालो ययौ ॥ ३ ॥

बोधितोऽप्यसुराधीशैर्नाबुध्यत महामतिः ।
अकाले बहुसेकोऽपि बीजकोशादिवाङ्कुरः ॥ ४ ॥

बीजकोशाद्बीजपुटात् ॥ ४ ॥

एवं वर्षसहस्राणि पीनात्माऽतिष्ठदेकदृक् ।
शान्त एवासुरपुरे मार्तण्ड इव चोपले ॥ ५ ॥

पीनं प्रवृद्धतमं ब्रह्म तदात्मा । पीनाम्स इति पाठे स्पष्टम् । एकदृक्
बाह्यदृक् । शून्य इति यावत् उपले उत्कीर्णो मार्तण्डः सूर्य इव । निश्चल इति यावत्
॥ ५ ॥

परानन्ददशैकान्तपरिणामितया तया ।
निरानन्दं पराभासमिवाभासपदं गतः ॥ ६ ॥

तया परानन्दो भूमाख्यस्तद्दशायामेकान्तमेकरसं परिणामी
परिणतस्तत्तया निरानन्दमत्यन्तासत्प्राय आनन्दो यस्मिंस्तथाविध परः
परमात्मा न भासते यस्मिंस्तथाविधं मरणमिव प्राप्तो
देहमात्रावशेषमाभासपदं द्रष्टृजनप्रतीतियोग्यत्वं गतः ॥ ६ ॥

एतावताथ कालेन तद्रसातलमण्डलम् ।
बभूवाराजकं तीक्ष्णं मात्स्यन्यायकदर्थितम् ॥ ७ ॥

मात्स्यन्यायो बलवद्भिः स्वजातीयैरन्यैश्च दुर्बलानां निष्कारणं
वधादिस्तेन कदर्थितं पीडितम् ॥ ७ ॥

हिरण्यकशिपौ क्षीणे समाधौ तत्सुते स्थिते ।
न बभूवापरः कश्चिद्राजा दनुसुतालये ॥ ८ ॥

तत्कुतस्तत्राह - हिरण्यकशिपाविति । दनुसुतालये दैत्यपुरे ॥ ८ ॥

असुरेशार्थिनां तेषां दानवानां समाधितः ।
परेणापि प्रयत्नेन प्रह्रादो न व्यबुध्यत ॥ ९ ॥

दानवानां परेणापि प्रयत्नेन प्रह्रादः समाधितो नावबुध्यत ॥ ९ ॥

न प्रापुर्विकसद्रूपं पतिं तममरारयः ।
लसत्पत्रलताजालं निशि पद्ममिवालयः ॥ १० ॥

विकसद्रूपं प्रबोधवन्तमिति यावत् । न प्रापुर्नापश्यन् ॥ १० ॥

संविद्वादो न तस्यान्तरबोध्यत विचेतसः ।
भुवश्चेष्टाक्रम इव पौरुषो गतभास्वतः ॥ ११ ॥

संविद्वादः प्रबोधवार्तापि । विचेतसो गलितचित्तस्य । गतो भास्वान्सूर्यो यस्याः
सकाशात्तथाविधाया भुवो भूमेरन्तः पौरुषः सुषुप्तपुरुषसम्बन्धी
स्नानदानप्रस्थानधावनादिचेष्टाक्रम इव ॥ ११ ॥

अथोद्विग्नेषु दैत्येषु गतेष्वभिमतां दिशम् ।
विचरत्सु यथाकाममराजनि पुरे पुरा ॥ १२ ॥

उद्विग्नेषु दुर्बलेषु दैत्येषु गतेषु बलवत्सु च दैत्येषु यथाकामं
दस्युवद्यथेच्छं विचरत्सु व्यवहरत्सु सत्सु पातालं चिराय
मात्स्यन्यायविपर्यस्तमभूदिति परेणान्वयः ॥ १२ ॥

चिराय पातालमभूदभूपालतया तया ।
मात्स्यन्यायविपर्यस्तमस्तङ्गतगुणक्रमम् ॥ १३ ॥

बलिमुक्ताबलपुरं [भुक्ताबल इति पाठोऽपेक्षितः]
मर्यादाक्रमवर्जितम् ।
सर्वार्ताशेषवनितं परस्परहृताम्बरम् ॥ १४ ॥

मात्स्यन्यायमेव तत्रोवपादयति - बलीत्यादिना ।
बलिभिर्बलवद्भिर्मुक्तान्यपहृतान्यबलानां पुराणि यत्र । सर्वेभ्य आर्ताः
पीडिता अशेषा वनिताः स्त्रियो यत्र ॥ १४ ॥

प्रलापाक्रन्दपुरुषं विसंस्थानपुरान्तरम् ।
लुठदुद्याननगरं व्यर्थानर्थकदर्थितम् ॥ १५ ॥

विसंस्थानं भग्नसन्निवेशम् । उद्याननगरपदाभ्यां तत्स्था वृक्षा
जनाश्च लक्ष्यन्ते ॥ १५ ॥

चिन्तापरासुरगणं निरन्नफलबान्धवम् ।
अकाण्डोत्पातविवशं ध्वस्ताशामुखमण्डलम् ॥ १६ ॥

ध्वस्तानि रेणुव्याप्तान्याशानां दिशां मुखमण्डलानि यत्र ॥ १६ ॥

सुरार्भकपराभूतं भूतैराक्रान्तमन्त्यजैः ।
भूतरिक्तमलक्ष्मीकमुच्छिन्नप्रायकोटरम् ॥ १७ ॥

सुराणामर्भकैरपि पराभूतं तिरस्कृतम् ।
अन्त्यजैस्तामसैर्भूतैश्चण्डालश्वशृगालरक्षःपिशाचादिभिः ॥ १७ ॥

अनियतवनितार्थमन्त्रयुद्धं
हृतधनदारविरावितं समन्तात् ।
कलियुगसम्योद्भटोत्कटाभं
तदसुरमण्डलमाकुलं बभूव ॥ १८ ॥

न नियतानि नियमवन्ति वनिता अर्था धनानि मन्त्राः सौहार्दसङ्केता युद्धानि
तन्निमित्तवैराणि च यस्य । कलियुगसमये उद्भटाः परस्वहरणशूरा ये
उत्कटाः क्रूरा दस्यवस्तदाभम् । अत एवाकुलं सर्वतो भयोद्विग्नं बभूव ॥
१८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे असुरमण्डलव्याकुलीभवनं नाम
सप्तत्रिंशः सर्गः ॥ ३७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
असुरमण्डलव्याकुलीभवनं नाम सप्तत्रिंशः सर्गः ॥ ३७ ॥