षट्त्रिंशः सर्गः ३६
प्रह्राद उवाच ।
आत्मा सर्वपदातीतश्चिरात्संस्मृतिमागतः ।
दिष्ट्या लब्धोऽसि भगवन्नमस्तेस्तु महात्मने ॥ १ ॥
आत्मानं दुर्लभं प्राप्य प्रह्रादः प्रणमन्मुहुः ।
स्तौति नन्दति कान्तेव कान्तेन रमते रहः ॥ १ ॥
सर्वेभ्यो मानुषानन्दादिहैरण्यगर्भान्तेभ्यः पदेभ्यः
सुखोत्कर्षस्थानेभ्योऽप्यतीतो निरतिशयानन्दरूपः आत्मा प्रत्यक् । महात्मने
अपरिच्छिन्नस्वभावाय ॥ १ ॥
अभिवन्द्याथ चालोक्य चिरमालिङ्ग्यसे मया ।
कोऽन्यः स्यात्त्वदृते बन्धुर्भगवन्भुवनत्रये ॥ २ ॥
चिरमालिङ्ग्यसे क्षीरोदकवत्समरसवृत्त्या समाधावनुभूयसे । बन्धुः
परमप्रियः ॥ २ ॥
हंसि पासि ददासि त्वं स्तौषि यासि विवल्गसि ।
अयं प्राप्तोसि दृष्टोसि किं करोषि क्व गच्छसि ॥ ३ ॥
यावन्न प्राप्तो न दृष्टश्च तावन्मृत्युर्भूत्वा अभक्तान् हंसि ।
भक्तान्पासि । उपासनाकर्मभिराराधितो ददासि । स्तावकादिरूपेण स्तौषि ।
गन्तृरूपेण यासि । सर्वरूपेण च विवल्गसि व्यवहरसि । मया तु अयं
नित्यापरोक्षस्वभावः प्राप्तो दृष्टश्च । अतः परं मां प्रति किं करोषि क्व
वा गच्छसि । न त्वयेदानीमन्यतो गन्तुं किञ्चित्कर्तुं वा
पूर्ववच्छक्यमित्यर्थः ॥ ३ ॥
स्वसत्तापूरिताशेषविश्व विश्वजनीन भोः ।
सर्वत्र लक्ष्यसे नित्यमधुना क्व पलायसे ॥ ४ ॥
विश्वेभ्यो जनेभ्यो हित विश्वजनीन ॥ ४ ॥
आवयोरन्तरं भूरि जन्मव्यवहितान्तरम् ।
अदूरमद्य सम्पन्नं दिष्ट्या दृष्टोऽसि बान्धव ॥ ५ ॥
अन्तरमन्तर्धायकमज्ञानम् । अभूदिति शेषः । अद्य
तन्नाशाददूरमत्यन्ताभेदलक्षणमतिसामीप्यं सम्पन्नम् ॥ ५ ॥
नमस्ते कृतकृत्याय कर्त्रे भर्त्रे नमोस्तु ते ।
नमः संसारवृन्ताय नित्याय विमलात्मने ॥ ६ ॥
संसारलक्षणस्य पर्णस्य वृन्ताय ॥ ६ ॥
नमश्चक्राब्जहस्ताय नमश्चन्द्रार्धधारिणे ।
नमो विबुधनाथाय नमस्ते पद्मजन्मने ॥ ७ ॥
विबुधनाथायेन्द्ररूपाय ॥ ७ ॥
वाच्यवाचकदृष्ट्यैव भेदो योऽयमिहावयोः ।
असत्या कल्पनैवेषा वीचिवीच्यम्भसोरिव ॥ ८ ॥
वाच्यवाचकदृष्ट्या व्यवहारदृष्ट्या । एषा व्यवहारदृष्टिर्भिदा च ॥ ८ ॥
त्वमेवानन्तयानन्तवस्तुवैचित्र्यरूपया ।
भावाभावविलासिन्या नित्ययैव विजृम्भसे ॥ ९ ॥
अनन्तया कल्पनयेति शेषः । नित्यया प्रवाहानाद्यया [प्रवाहनद्या इत्यपि
क्वचित्] ॥ ९ ॥
नमो द्रष्ट्रे नमः स्रष्ट्रे नमोऽनन्तविकासिने ।
नमः सर्वस्वभावाय नमस्ते सर्वगात्मने ॥ १० ॥
आदौ सृज्यपदार्थानां द्रष्ट्रे । ततः स्रष्ट्रे । सृष्ट्वा चानन्तरूपैर्विकासिने
। अत एव सर्वस्वभावाय । अधिष्ठानतया सर्वगात्मने ॥ १० ॥
प्रतिजन्म चिरं बह्व्यो दीर्घदुःखवता मया ।
त्वया मयोपदिष्टेन दग्धेनापहतौजसा ॥ ११ ॥
एतावन्तं कालं मद्रूपेण त्वमेव मच्छन्दानुवर्तनाच्छान्त इदानीं
त्वयैव त्वं विश्रान्तये लब्ध इत्याह - प्रतिजन्मेति । मया मद्भावापन्नेन
जीवभूतेन त्वया मया स्वकामादिदोषानुसारेणोपदिष्टेनासन्मार्गेण
प्रवृत्तत्वाद्दग्धेन अत एवापहतौजसा तिरोहितेश्वरभावेन ॥ ११ ॥
आलोकिता लोकदृशो दृष्टा दृष्टान्तदृष्टयः ।
न प्राप्तस्तत्त्वयाऽनेन किञ्चिदासादितं भवेत् ॥ १२ ॥
त्वया लोकदृश ऊर्ध्वाधोमध्यलोकसञ्चारभ्रमास्तेषु
विवेकानुकूलदृष्टान्तदृष्टयश्च आलोकिताः । तत्तस्माद्बहिर्लोकदर्शनात्वं
त्वया न प्राप्तः । अनेन लोकत्रयदर्शनेन च किञ्चित्स्वल्पमपि
पुरुषार्थरूपमासादितं न भवेत् नाभूदिति द्वयोरर्थः ॥ १२ ॥
सर्वं मृत्काष्ठपाषाणवारिमात्रमिदं जगत् ।
नेहास्ति त्वदृते देव यत्प्राप्तौ नाभिवाञ्छति ॥ १३ ॥
कुतो नाभूत्तत्राह - सर्वमिति । नाभिवाञ्छति पुरुषार्थेच्छा पूर्णा
भवति तत्तादृशं वस्तु त्वदृते त्वां विना इह जगति अन्यन्नास्तीत्यर्थः ॥ १३ ॥
देवायमद्य लब्धोऽसि दृष्टोऽस्यधिगतोऽसि च ।
सम्प्रप्तोऽसि गृहीतोऽसि नमस्तेस्तु न मुह्यसि ॥ १४ ॥
न मुह्यसि । मोहनिस्तीर्णोऽसीति यावत् ॥ १४ ॥
योऽक्ष्णोः कनीनिकारश्मिजालप्रोतवपुः स्थितः ।
देव दर्शनरूपेण कथं सोऽत्र न दृश्यते ॥ १५ ॥
कथमहं दृष्ट इति चेच्चाक्षुषादिसर्ववृत्तिप्रथारूपेण प्रतिबोधविदितं
मतमिति श्रुतिदर्शितोपायेनेत्याह - य इति । चक्षुर्द्वारान्तःकरणस्य
घटादिदेशनिर्गमने
तदवच्छिन्नचैतन्यात्माऽक्षिकनीनिकारश्मिजालप्रोतवपुःस्थित इत्यर्थः ।
एवमग्रेऽप्यूह्यम् ॥ १५ ॥
यस्त्वक्स्पर्शौ स्पृशन्सर्वं गन्धं तैलं तिले यथा ।
स्पर्शमन्तःकरोत्येष स कथं नानुभूयते ॥ १६ ॥
त्वचं स्पर्शमौष्ण्यादिकं च स्पृशन् स्पार्शनवृत्त्या व्याप्नुवन् यथा
तिलेऽन्तर्गतं तैलं तिलसंयुक्तपुष्पगन्धमन्तःकरोति गृह्णाति
तद्वत्स्पर्शं शीतादि अन्तःकरोति व्याप्य प्रकाशयति ॥ १६ ॥
यः शब्दश्रवणादन्तः शब्दशक्तिं परामृशन् ।
रोमाञ्चं जनयत्यङ्गे स दूरस्थः कथं भवेत् ॥ १७ ॥
शब्दशक्तिं गानकाव्यादिगुणचमत्कारम् । परामृशन् प्रकाशयन् ॥ १७ ॥
जिह्वापल्लवलग्नानि स्वदितस्याग्रतोऽपि च ।
स्वदन्ते यस्य वस्तूनि स्वदते स न कस्य च ॥ १८ ॥
वस्तूनि मधुराम्लादीनि अग्रतः पुरस्तादेव स्वदितस्य स्वारसिकप्रेमविषयस्य
स्वदन्ते । स्वदते सुखात्मना स्फुरति ॥ १८ ॥
पुष्पगन्धानुपादाय घ्राणहस्तेन देहकम् ।
य आलोकयति प्रीत्या कस्यासौ न करे स्थितः ॥ १९ ॥
घ्राणहस्तेन हस्तवदुपादानकारणेन घ्राणेन कण्ठधृतस्रजः
पुष्पाणां गन्धानुपादाय मालालङ्कृतं स्वं देहकमालोकयति पश्यति ।
करे स्थित इव स्फुटं प्रत्यक्षः इत्यर्थः ॥ १९ ॥
वेदवेदान्तसिद्धान्ततर्कपौराणगीतिभिः ।
यो गीतः स कथं ह्यात्मा विज्ञातो याति विस्मृतिं ॥ २० ॥
सैवेह देहभोगाली सुभगापीयमद्य मे ।
अन्तर्न स्वदते स्वच्छे त्वयि दृष्टे परावरे ॥ २१ ॥
त्वया विमलदीपेन भानुः प्रकटतां गतः ।
त्वया शीततुषारेण चन्द्रः शिशिरतां गतः ॥ २२ ॥
येन सूर्यस्तपति तेजसेद्धः इत्यादिश्रुतिदृशाप्याह - त्वयेति ॥ २२ ॥
त्वयैते गुरवः शैलास्त्वयैते द्युचरा धृताः ।
त्वयैवेयं धरा धीरा त्वयैवाम्बरमम्बरम् ॥ २३ ॥
द्युचरा नभश्चरा वाय्वादयः । धीरा निश्चला । अम्बरमवकाशदम् ॥ २३ ॥
दिष्ट्या मत्तामसि प्राप्तो दिष्ट्या त्वत्तामहं गतः ।
अहं त्वं त्वमहं देव दिष्ट्या भेदोऽस्ति नावयोः ॥ २४ ॥
दिष्ट्या भाग्येन । अहं त्वं त्वमहमिति व्यतिहारेणाभेदो दृढीकृतः ॥ २४ ॥
अहं त्वमितिशब्दाभ्यां पर्यायाभ्यां महात्मनः ।
तव वा मम वा शाखा संयुक्ताभ्यां नमो नमः ॥ २५ ॥
इदानीमखण्डार्थे प्रमाणतया सम्पन्नावहन्त्वंशब्दौ नमस्यति -
अहमिति । लक्ष्यस्य महात्मनो बोधने पर्यायाभ्याम् । तव
कारणोपाधिविशिष्टस्य वाच्यार्थस्य मम कार्योपाधिविशिष्टस्य वाच्यार्थस्य
वा शाखावदेकदेशभूताभ्यामुपाधिभ्यां भेदकल्पनात्संयुक्ताभ्यां
सामानाधिकरण्येनान्विताभ्यामहन्त्वमिति शब्दाभ्याम् । नमो नम
इत्यादरादभ्यासः । द्वौ वाशब्दौ
शाखाद्वयसम्बन्धयोर्मिथ्यात्वद्योतनार्थौ ॥ २५ ॥
नमो मह्यमनन्ताय निरहङ्काररूपिणे ।
नमो मह्यमरूपाय नमः समसमात्मने ॥ २६ ॥
इदानीमखण्डार्थं प्रत्यक्प्राधान्येन प्रणम्य तस्यैव ब्रह्मतां दर्शयति
- नम इत्यादिना ॥ २६ ॥
मय्यात्मनि समे स्वच्छे साक्षिभूते निराकृतौ ।
दिक्कालाद्यनवच्छिन्ने स्वात्मन्येवेह तिष्ठसि ॥ २७ ॥
हे ब्रह्मन् त्वं मय्यात्मनि प्रत्यक्स्वभाव एव तिष्ठसि न कदाचित्पराग्भावे
इत्यर्थः ॥ २७ ॥
मनः प्रक्षोममायाति स्फुरन्तीन्द्रियवृत्तयः ।
शक्तिरुल्लसति स्फारा प्राणापानप्रवाहिनी ॥ २८ ॥
तत्कुतो ज्ञातं तत्राह - मन इति । केनेषितं पतति प्रेषितं मनः
इत्यादिश्रुतिदर्शितेन मनःप्रभृतीनामयस्कान्तवत्प्रवर्तकत्वेन
ज्ञातमित्यर्थः ॥ २८ ॥
वहन्ति देहयन्त्राणि कृष्टान्याशावरत्रया ।
चर्ममांसास्थिदिग्धानि मनःसारथिमन्ति च ॥ २९ ॥
अयं संविद्वपुरहं न काचिन्न कृतास्पदः ।
देहः पततु वोदेतु यथाभिमतयेच्छया ॥ ३० ॥
तर्हि त्वं किं प्राणनादिशक्तिरुत देहकृतास्पदोऽहङ्कारादिर्वा नेत्याह -
अयमिति । अयमहं संविद्वपुरेव नतु काचिच्छक्तिर्नापि ध्येयकृतास्पदः
[देहकृत इति पाठः] । तर्हि ते किं देहेनेति चेन्न किञ्चिदित्याह -
देह इति ॥ ३० ॥
चिरादहमहं जातः स्वात्मलाभश्चिरादयम् ।
चिरादुपशम याति कल्पस्यान्ते जगद्यथा ॥ ३१ ॥
उपशमं याति भ्रम इति शेषः ॥ ३१ ॥
चिरात्संसारगामित्वाद्दीर्घे संसारवर्त्मनि ।
विश्रान्तोऽस्मि चिरं श्रान्तः कल्पस्यान्त इवानलः ॥ ३२ ॥
संसारगामित्वात्संसारे भ्रमणशीलत्वात् । एतावत्कालं संसारवर्त्मनि
श्रान्तोऽहं सम्प्रति विश्रान्तः ॥ ३२ ॥
सर्वातीताय सर्वाय तुभ्यं मह्यं नमो नमः ।
तेभ्योऽपि च नमस्तेस्तु ये मां त्वां प्रवदन्ति च ॥ ३३ ॥
ये गुरवो वेदान्ताश्च त्वां मां मद्रूपमेव प्रवदन्ति ॥ ३३ ॥
अखिलानन्तसम्भोगा न स्पृष्टा दोषवृत्तिभिः ।
जयत्यकृतसंरम्भा साक्षिता परमात्मनः ॥ ३४ ॥
अखिला अनन्ताः सम्भोगाः प्रकाश्या यस्यास्तथाविधापि
प्राकाश्यदोषवृत्तिभिरस्पृष्टा । न कृतः संरम्भोऽभिनिवेशो यया ।
उदासीनेत्यर्थः । अत एव जयति ॥ ३४ ॥
आत्मन्पुष्प इवामोदो भस्त्रापिण्ड इवानिलः ।
तिले तैलमिवास्मिंस्त्वं सर्वत्र वपुषि स्थितः ॥ ३५ ॥
त्वमेव सर्वत्र सार इत्याह - आत्मन्निति ॥ ३५ ॥
हंसि पासि ददासि त्वमवस्फूर्जसि वल्गसि ।
अनहङ्कृतिरूपोऽपि चित्रेयं तव मायिता ॥ ३६ ॥
सर्वकर्तापि त्वमेवेत्याह - हंसीति ॥ ३६ ॥
जयामीशज्वलद्दीप्तिः सर्वमुन्मीलयञ्जगत् ।
जयाम्युपरतारम्भो जगद्भूयो निमीलयन् ॥ ३७ ॥
सर्गकाले ईशेन त्वया चिदात्मना
ज्वलद्दीप्तिर्बहिरन्तश्चार्थप्रकाशनेनोज्ज्वलितोऽहं जीवभावेनानुप्रविश्य
नामरूपात्मकं सर्वं जगदुन्मीलयन्व्याकुर्वंस्त्वदात्मनैव जयामि
वशीकृत्य पालयामि । प्रलयकाले चाहमुपरतारम्भो जगद्भूयः
पुनर्निमीलयन्नुपसंहरन्नपि त्वदात्मनैव जयाम्यभिभवामीत्यर्थः ॥ ३७ ॥
परमाणोस्तवैवान्तरिदं संसारमण्डलम् ।
वटत्वं वटधानायां बभूवास्ति भविष्यति ॥ ३८ ॥
परमाणोरत्यन्तसूक्ष्मस्य । दुर्लक्ष्यस्येत्यर्थः । वटत्वं वटव्यक्तिसंवलिता
जातिः ॥ ३८ ॥
हयद्विपरथाकारैर्यद्वत्खे दृश्यतेऽम्बुदः ।
तद्वदालोक्यसे देव पदार्थशतविभ्रमैः ॥ ३९ ॥
भावानां भूरिभङ्गानामभवाय भवाय च ।
भव भावविमुक्तात्मा भावाभावबहिष्कृतः ॥ ४० ॥
इदानीं स्वयं मुक्तात्मा स्वाभिन्नाय बद्धात्मने मोक्षोपायमुपदिशति -
भावानामित्यादिना । भूरिभङ्गानां बहुविधविकारस्वभावानां अभवाय
बाधाय भवाय निरतिशयानन्दस्वरूपाविर्भावाय च असङ्गात्मदर्शनेन
भावाभावाभ्यां बहिष्कृतो विविक्तः संस्तद्भावेनैव सदा विमुक्तात्मा
भव । मा पुनर्बन्धं प्रतिपद्यस्वेत्यर्थः ॥ ४० ॥
जहि मानं महाकोपं कालुष्यं क्रूरतां तथा ।
न महान्तो निमज्जन्ति प्राकृते गुणसङ्कटे ॥ ४१ ॥
तदुपायभूतां पूर्वपीठिकामुपदिशति - जहीत्यादिना ॥ ४१ ॥
प्राक्तनीं दीर्घदौरात्म्यदशां स्मृत्वा पुनःपुनः ।
कोहं किं तद्बभूवेति हसन्मुक्ताच्छटासितम् ॥ ४२ ॥
इति विचार्येति शेषः । मुक्तानां छटाः कणा इव सितं शुभ्रं यथा स्यात्तथा
हसन् प्राक्तनीं दीर्घदौरात्म्यदशां जहीति पूर्वेणान्वयः ॥ ४२ ॥
ते प्रयाताः समारम्भा गतास्ते दग्धवासराः ।
येषु चिन्तानलज्वालाजालाकीर्णो भवानभूत् ॥ ४३ ॥
अद्य त्वं देहनगरे राजा स्फारमनोरथः ।
न दुःखैर्गृह्यसे नापि सुखैर्व्योम करैरिव ॥ ४४ ॥
करैर्मुष्टिभिर्व्योमेव ॥ ४४ ॥
अद्येन्द्रियदुरश्वांश्च जित्वा जितमनोगजः ।
भोगारिमभितो भङ्क्त्वा साम्राज्यमधितिष्ठसि ॥ ४५ ॥
अपाराम्बरपान्थस्त्वमजस्रास्तमयोदयः ।
अवभासकरो नित्यं बहिरन्तश्च भास्करः ॥ ४६ ॥
बहिः अविद्यादृशि अन्त्ऽह् स्वरूपदृशि च यथाक्रममजस्रमस्तमय उदयश्च
यस्य । अथवा अजस्रमभीक्ष्णं जगतः अस्तमयोदयौ प्रलयसर्गौ
यस्मादित्यर्थः । भास्करपक्षे स्पष्टम् ॥ ४६ ॥
सर्वदैवासि संसुप्तः शक्त्या सम्बोध्यसे विभो ।
भोगालोकनलीलार्थं कामिन्या कामुको यथा ॥ ४७ ॥
यद्येवं तर्हि सर्वत्र तथा कुतो नावगच्छामि तत्राह - सर्वदैवेति । सर्वदा
अनादिकालात्सुप्तोऽसि । शक्त्या भोजकादृष्टशक्त्या भोगालोकनलीलार्थं
तावन्मात्रं सम्बोध्यसे न पूर्णात्मरूपेणेत्यर्थः ॥ ४७ ॥
दृक्षुद्राभिरुपानीतं दूराद्रूपमधु त्वया ।
पीयते स्वीकृतं शक्त्या नेत्रवातायनस्थया ॥ ४८ ॥
भोगालोकनलीलामेव विशदयति - दृक्क्षुद्राभिरिति । दृश
इन्द्रियवृत्तयस्तल्लक्षणाभिः क्षुद्राभिर्मधुमक्षिकाभेदैः ।
रूपादिलक्षणं मधु क्षौद्रम् । नेत्रादिवातायनस्थया चिच्छक्त्या ॥ ४८ ॥
ब्रह्माण्डकोटराध्वान्ताः प्राणापानपरैस्त्वया ।
गतागतैर्ब्रह्मपुरे सम्प्रेक्ष्यन्ते प्रतिक्षणम् ॥ ४९ ॥
योगिनामुत्क्रमणकाले सुषुम्नादिमार्गप्रकाशोऽपि त्वदधीन एवेत्याह -
ब्रह्माण्डेति । प्राणापानशब्दाभ्यां तन्निरोधाभ्यासो लक्ष्यते ।
तत्परैर्योगिभिर्ब्रह्मोपलब्धिस्थानत्वाद्ब्रह्मपुरे देहे
प्रतिक्षणमभ्यस्तैर्हृदि सम्पिण्डितानां प्राणानामुत्क्रम्य
परकायप्रवेशलोकान्तरसञ्चाराद्यनुकुलैर्नानानाडीमार्गेषु गतागतैः
सञ्चारैर्ब्रह्माण्डान्तरं गन्तुमर्चिरादिमार्गेण सूर्यमण्डलं गन्तुं वा
ब्रह्माण्डकोटरस्य ब्रह्मरन्ध्रस्य च सम्बन्धिनः अध्वान्ताः
सुषुम्नादिमार्गपर्वाणि त्वयैव स्वयञ्ज्योतिषा करणेन सम्प्रेक्ष्यन्ते स्फुटं
दृश्यन्ते । हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामतीति
श्रुतेर्यद्यपि सर्वेषां मरणेन [मरणे इति पाठः]
नाडीद्वारप्रकाश आत्मज्योतिरधीन एव तथाप्ययोगिनां पीडापारवश्यादिना
तदवधानाशक्तेर्योगिनां चाभ्यासकाले मरणकाले च सावधानत्वात्त
एवोदाहृताः ॥ ४९ ॥
देहपुष्पे त्वमामोदो देहेन्दौ त्वमृतामृतम् ।
रसस्त्वं देहविटपे शैत्यं देहहिमे भवान् ॥ ५० ॥
ऋतं परमार्थसत्यभूतममृतम् [सत्यमृतामृतम् इति
पाठः] । देहलक्षणे विटपे शाखायं रागादिपल्लवोद्गमनिमित्तभूतो
रसः ॥ ५० ॥
त्वय्यस्ति विस्मयस्नेहः शरीरक्षीरसर्पिषि ।
त्वमन्तरस्य देहस्य दारुण्यग्निरिव स्थितः ॥ ५१ ॥
सर्वप्राणिनां शरीरे स्मयस्य गर्वस्य निमित्तभूतः स्नेहो योऽस्ति स
शरीरलक्षणस्य क्षीरस्य सर्पिषि घृतवत्सारभूते त्वय्येव सोऽस्ति । त्वया
तदभिमानत्यागे स्नेहादर्शनादित्यर्थः ॥ ५१ ॥
त्वमेवानुत्तमास्वादः प्राकाश्यं तेजसामपि ।
अवगन्ता त्वमर्थानां त्वं भासामवभासकः ॥ ५२ ॥
अनुत्तमास्वादोऽतिमधुरोऽमृतस्वरूप इति यावत् । तेजसां सूर्यादीनाम् ।
अधिदैवं प्राकाश्यं प्रकाशनिमित्तम् । अध्यात्मं च भासां
चक्षुरादिकरणानामवभासकः ॥ ५२ ॥
स्पन्दस्त्वं सर्ववायूनां त्वं मनोहस्तिनो मदः ।
प्रज्ञानलशिखायास्त्वं प्राकाश्यं तैक्ष्ण्यमेव च ॥ ५३ ॥
वायूनां प्राणानां स्पन्दयतीति स्पन्दः । मनोलक्षणस्य हस्तिनो मद इव
भ्रान्तिनिमित्तम् । तैक्ष्ण्यमौष्ण्यनिमित्तम् ॥ ५३ ॥
त्वद्वशादियमात्मीया वाचा सम्प्रविलीयते ।
दीपवत्पुनरन्यत्र समुदेति कुतोऽपि सा ॥ ५४ ॥
वाचा वाणी । आपं चैव हलन्तानाम् इति भागुरिमतेन टाप् ।
त्वद्वशात्त्वयोपसंहारात्सम्प्रविलीयते उपशाम्यति मरणमूर्च्छास्वप्नेषु ।
अन्यत्र देहान्तरेषु ॥ ५४ ॥
त्वयि संसारवर्तिन्यः पदार्थावलयस्तथा ।
कटकाङ्गदकेयूरयुक्तयः कनके यथा ॥ ५५ ॥
पदार्थावलयः समुद्यन्तीति विपरिणामेनानुषज्यते ॥ ५५ ॥
भवानयमयं चाहन्त्वंशब्दैरेवमादिभिः ।
स्वयमेवात्मनात्मानं लीलार्थं स्तौषि वक्षि च ॥ ५६ ॥
त्वयैव स्वात्मनि मदादिशब्दैर्व्यवहारः क्रियते न त्वत्तोऽन्योऽस्तीत्याह -
भवानिति । स्तौषि गुणैः । वक्षि अन्यत् ॥ ५६ ॥
मन्दानिलविनुन्नोऽब्दो गजाश्वनरदृष्टिभिः ।
यथा संलक्ष्यते व्योम्नि तथा त्वं भूतदृष्टिभिः ॥ ५७ ॥
अब्दो मेघः ॥ ५७ ॥
यथा हयगजाकारैर्ज्वाला लसति वह्निषु ।
तथैवाव्यतिरिक्तैस्त्वं दृश्यसे भुवि सृष्टिषु ॥ ५८ ॥
प्रत्येकं ज्वलत्सु काष्ठेषु कासाञ्चिज्ज्वालानां हयाद्याकारतापि
कदाचिद्दृश्यते ॥ ५८ ॥
त्वं ब्रह्माण्डकमुक्तानामच्छिन्नस्तन्तुराततः ।
क्षेत्रं त्वं भूतसस्यानां चिद्रसायनसेवितम् ॥ ५९ ॥
ब्रह्माण्डलक्षणानां मुक्तानां मुक्ताफलानाम् । जलतेज##-
असत्तदनभिव्यक्तं पदार्थानां प्रकाश्यते ।
त्वया तत्त्वं यथा पक्त्या मांसानां स्वादवेदनम् ॥ ६० ॥
क्षेत्रत्वमुपपादयति - त्वयेति । त्वया अनभिव्यक्तमत##-
स्वरूपं सर्गेण प्रकाश्यते । यथा पक्त्या पाकेन मांसानां
स्वादवेदनमास्वादनार्हा स्वादुता प्रकाश्यते तद्वत् ॥ ६० ॥
विद्यमानापि वस्तुश्रीर्न स्थिता त्वयि न स्थिते ।
वनितारूपलावण्यसत्तेव गतचक्षुषः ॥ ६१ ॥
एवं चित्प्रकाशानाकलितं सदप्यसत्प्रायमेवेत्याह - विद्यमानेति ।
वनितासम्बन्धिनी रूपलावण्यसत्तेव ॥ ६१ ॥
सदपीह न सत्तयै वस्तु नावर्जितं त्वया ।
तृप्तये न स्वलावण्यं मुकुरात्प्रतिबिम्बितम् ॥ ६२ ॥
अनावर्जितं अर्थक्रियाशक्त्या अननुगृहीतं सत्प्रतीतमपि न सत्तायै
अर्थक्रियायै समर्थमित्यर्थः । मुकुराद्दर्पणान्निमित्तात्प्रतिबिम्बितं
स्वलावण्यं स्वमुखसौन्दर्यं कान्तानां
चुम्बनाधरास्वादनाद्यर्थक्रियाप्रयुक्ततृप्तये कामोपशमाय
नालमित्यर्थः ॥ ६२ ॥
लुठति त्वां विना देहः काष्ठलोष्टसमः क्षितौ ।
सन्नप्यसन्नगोच्छ्रायः श्यामास्विव रविं विना ॥ ६३ ॥
नगस्य गिरेर्वृक्षस्य चोच्छ्राय औन्नत्यं सन्
विद्यमानोऽप्यभानादसन्नसत्प्रायः । श्यामासु तमिस्रासु ॥ ६३ ॥
सुखदुःखक्रमः प्राप्य भवन्तं परिनश्यति ।
प्राकाश्यमासाद्य यथा तमस्तेजोऽथवा हिमम् ॥ ६४ ॥
प्राप्य साक्षादनुभूय । प्राकाश्यं सूर्यप्रकाशम् । तेजो दीपनक्षत्रादिप्रभा
॥ ६४ ॥
त्वदालोकनयैवैते स्थितिं यान्ति सुखादयः ।
सूर्यालोकनया प्रातर्वर्णाः शुक्लादयो यथा ॥ ६५ ॥
यतस्त्वदालोकनयैव लब्धात्मानस्ते सुखादयः अतश्चरमसाक्षात्कारेद्धस्य
ते तव सम्बन्धक्षण एव विनश्यन्ति परटु त्वया दृष्टा एव
व्रजन्त्यपगच्छन्ति नोपायान्तरेणेत्यर्थः ॥ ६५ ॥
लब्धात्मानो विनश्यन्ति सम्बन्धक्षण एव ते ।
ते तमांसीव दीपस्य दृष्टा एव व्रजन्त्यलम् ॥ ६६ ॥
तमस्ता तमसो दीपासत्तायां स्फुटतां गता ।
दीपसम्बन्धसमये सा चोत्पद्य विनश्यति ॥ ६७ ॥
दीपस्यासत्तायामविद्यमानतायां स्फुटतां गता तमसस्तमस्ता
दीपालोकसम्बन्धसमये सैवोत्पद्य स्वधर्मिणो वियुज्य विनश्यति तद्धर्मी तु
सन्मात्रस्वभावो न नश्यतीत्यर्थः । एवार्थे चकारः ॥ ६७ ॥
तदेवं सुखदुःखश्रीर्दृष्त्वैव त्वामनामयम् ।
जायते जातमात्रैवं सर्वनाशेन नश्यति ॥ ६८ ॥
दृष्टान्तोक्तं दार्ष्टान्तिके योजयति - तदेवमिति । सर्वनाशेनेति ।
बीजभावेन सहेत्यर्थः ॥ ६८ ॥
भङ्गुरत्वादिह स्थातुं कालं नाणुमपि क्षमा ।
निमेषलक्षभागाख्या तन्वी कालकला यथा ॥ ६९ ॥
सुखदुःखश्रीर्विषयापगमे स्वरसभङ्गुरत्वादिह
नित्यनिरतिशयानन्दप्रकाशात्मनि अणुमपि कालं क्षणमपि स्थातुं न क्षमा
। यथा निमेषकालस्य लक्षतमभागत्वेन प्रसिद्धा तन्वी अतिसूक्ष्मा कालकला
स्वत एव नश्यति तद्वदित्यर्थः ॥ ६९ ॥
गान्धर्वी नगरी तन्वी सुखदुःखादिभावना ।
स्फुरति त्वत्प्रसादेन त्वयि दृष्टे विलीयते ॥ ७० ॥
एवमतिसूक्ष्मकालत्वाल्लक्षयितुमशक्या गान्धर्वनगरीव मिथ्याभूतापि
सुखदुःखादिभावना अज्ञातत्वत्प्रसादेन स्थिरेव सत्येव स्फुरति त्वयि दृष्टे
सति विलीयते नश्यतीत्यर्थः ॥ ७० ॥
त्वदालोकेक्षणोद्भूता त्वदालोकेक्षणक्षया ।
मृतेव जाता जातेव मृता केनोपलक्ष्यते ॥ ७१ ॥
अज्ञातत्वदालोकलक्षणेनेक्षणेन दुष्टचक्षुषोद्भूता ।
सुज्ञातत्वदालोकेक्षणक्षया । एवम्भूतेयं मृता स्वप्ने पुनर्जातेव
स्वप्नजाता जागरे पुनर्मृतेवेत्यर्थः ॥ ७१ ॥
क्षणमप्यस्थिरं वस्तु कथं कार्यकरं भवेत् ।
तरङ्गैरुत्पलाकारैर्माला कथमवेक्ष्यते ॥ ७२ ॥
मिथ्यावस्तूनां क्षणस्थायित्वस्यापि
दुर्घटत्वादर्थक्रियाकारित्वमत्याश्चर्यमित्याह - क्षणमपीति ।
उत्पलाकारैरुत्पलबुद्ध्या कल्पिताकारैः ॥ ७२ ॥
यदा वा जातनिर्नष्टं क्रियां वस्तु करिष्यते ।
तदा रमेत लोकोऽयं मालां कृत्वा तडिद्गणैः ॥ ७३ ॥
ननु सौगतदर्शनवदत्रापि क्षणिकैरर्थक्रिया किं न स्यात्तत्राह - यदा
वेति । न प्रामाणिकी सौगतैरप्यर्थक्रिया साधयितुं शक्येति भावः ॥ ७३ ॥
इमां सुखादिकां लक्ष्मीं विवेकिजनचेतसि ।
स्थितः सन्नेव गृह्णासि न जहासि समस्थितिम् ॥ ७४ ॥
इमामुक्तरीत्या दुर्घटामपि सुखदुःखादिकां लक्ष्मीं
तद्दुर्घटताभिज्ञानां विवेकिजनानां चेतसि स्थितः सन् गृह्णास्येव ।
अविवेकिभ्यो विवेकिषु यो विशेषस्तमाह - न जहासीति ॥ ७४ ॥
अविवेकिषु योऽसि त्वं सहजात्मन्यदृच्छया ।
तद्रूपकथनेनालं ममानल्पपदास्पद ॥ ७५ ॥
अविवेकिषु तर्हि कीदृशोऽहमिति प्रश्ने तु नोत्तरमस्ति
अविवेकिकल्पनानामानन्त्यादनियतत्वाच्चेत्याह - अविवेकिष्विति । यदृच्छया
आकस्मिकनानावासनोद्बोधेन निमित्तेन मम वाणीति शेषः । नालं न समर्था
हे अनल्पानामनन्तानां पदानां रूपभेदानां नाम्नां च आस्पद
इत्यसामर्थ्योपपादकं सम्बोधनम् ॥ ७५ ॥
निरीहेण निरंशेन निरहङ्कृतिना त्वया ।
सता वाप्यसता वापि कर्तृत्वमुररीकृतम् ॥ ७६ ॥
अनल्पपदास्पदत्वे च कर्तृत्वाध्यासो मूलमित्याशयेनाह - निरीहेणेति ।
सता मूर्तस्थूअल्देहोपाधिना । असता अमूर्तसूक्ष्मदेहोपाधिना । वाशब्दः
स्वप्ने सूक्ष्मस्य स्वातन्त्र्यद्योतनार्थः । अपिशब्दो जागरे देहद्वयसमुच्चयेन
कर्तृत्वद्योतनार्थः ॥ ७६ ॥
जय प्रोड्डामराकार जय शान्तिपरायण ।
जय सर्वागमातीत जय सर्वागमास्पद ॥ ७७ ॥
इदानीं विवेक्यविवेकिप्रसिद्धरूपद्वयेनापि स्तौति - जयेति द्वाभ्याम् ।
प्रोड्डामरो ब्रह्माण्डाद्यतिविस्तृत आकारो यस्य । आगमग्रहणं
सर्वप्रमाणोपलक्षणम् । सर्वागमास्पद सर्वप्रमाणवेद्य ॥ ७७ ॥
जय जात जयाजात जय क्षत जयाक्षत ।
जय भाव जयाभाव जय जेय जयाजय ॥ ७८ ॥
जेय आविद्यकरूपेण जेतुं योज्य । स्वाभाविकेन त्वजय अजय्य ॥ ७८ ॥
उल्लसाम्युपशाम्यामि तिष्ठाम्यधिगतोऽस्मि च ।
जयी जयाय जीवामि नमो मह्यं नमोऽस्तु ते ॥ ७९ ॥
अत एवाहमाविद्यकरूपजयवत्त्वाज्जयी । प्रारब्धशेषस्यापि जयाय जीवामि ॥ ७९ ॥
त्वयि स्थिते मयि विगतामयात्मनि
स्वसंस्थितौ व्यपगतरागरञ्जने ।
क्व बन्धनं क्व च विपदः क्व सम्पदो
भवाभवौ क्व शममुपैमि शाश्वतम् ॥ ८० ॥
त्वत्स्वरूपेणावस्थितौ मम सर्वानर्थनिराससिद्धिः सम्पन्नेत्युपसंहरति ##-
भवाभवौ जन्ममरणे क्व । अतः शाश्वतं शमं सुखविश्रान्तिमुपैमि
प्राप्नोमीत्यर्थः ॥ ८० ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे आत्मस्तवनं नाम षट्त्रिंशः सर्गः ॥
३६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे आत्मस्तवनं
नाम षट्त्रिंशः सर्गः ॥ ३६ ॥