३५

पञ्चत्रिंशः सर्गः ३५

प्रह्राद उवाच ।

मोमित्येकोचिताकारो विकारपरिवर्जितः ।
आत्मैवायमिदं सर्वं यत्किञ्चिज्जगतीगतम् ॥ १ ॥

साक्षात्कृतमिहात्मानं निर्वर्ण्यान्तः प्रणम्य च ।
तद्बलेन जितान्बन्धाननुसन्धाय नन्दति ॥ १ ॥

ओमिति । ओमिति ब्रह्म ओमितीदं सर्वं एतद्वै सत्यकाम परं चापरं च ब्रह्म
यद्ॐकारः इत्यादिश्रुतेः सर्वाध्यारोपवद्ब्रह्मबोधकः
सर्वापवादपरिशिष्टतद्बोधकश्च ओमित्येक एव उचितः स्वानुरूपः
अभिधानाकारो यस्य । जगती जगत् तद्गतं यत्किञ्चित्तत्सर्वमयमनुभूयमान
आत्मैव ॥ १ ॥

मेदोस्थिमांसमज्जासृगतीतोऽप्येष चेतनः ।
अन्तरस्थो हि सूर्यादीन्प्रकाशयति दीपकः ॥ २ ॥

देहमात्रान्तर्गतोऽयं कथं बाह्यं सूर्यादि सर्वमिदं स्यादिति
चेत्तत्प्रकाशकत्वादित्याह - मेद इति । नायं
मेदोऽस्थ्याद्यात्मकदेहपरिमितः किन्तु तदतीतोऽपि । यतः सूर्याद्यन्तरस्थः ॥ २ ॥

उष्णीकरोति दहनं रसयत्यमृतं रसम् ।
इन्द्रियानुभवान्भुङ्क्ते भोगानिव महीपतिः ॥ ३ ॥

कथं तत्प्रकाश्यत्वमात्रेण सर्वं तदात्मकं तत्राह - उष्णीकरोतीति । यतो
दहनादेरुष्णादिस्वभावता चिदधीनोष्णताभानाधीना अतश्चिदात्मैव
स्वसत्तया दहनमुष्णीकरोति । एवं रसं जलं स्वसत्तयैवामृतं
लब्धसत्ताकं रसयति रसतया विभावयति । एवमन्यानपि
इन्द्रियानुभवान्स्पर्शादिस्वभावानर्थान्स्वसत्तयैव सम्पाद्य भुङ्क्ते ॥ ३ ॥

तिष्ठन्नपि हि नासीनो गच्छन्नपि न गच्छति ।
शान्तोऽपि व्यवहारस्थः कुर्वन्नपि न लिप्यते ॥ ४ ॥

तिष्ठन् सदा निष्क्रियोऽपि न आसीन उपविष्ट इव धावनादिव्यवहारादुपरतः ।
वाय्वादित्यात्मना सदागतित्वात् । तथा कालात्मना सदा गच्छन्नपि
कुलालचक्रमिव न तिलमात्रमन्यतो गच्छति । शान्तो निर्व्यवहारोऽपि
सर्वव्यवहारस्थः ॥ ४ ॥

पूर्वमद्य तथेदानीमिहामुत्रोभयत्र च ।
विहितोऽविहितोऽप्येष समः सर्वासु वृत्तिषु ॥ ५ ॥

ननु पूर्वकृतेनाद्य सुखदुःखाभ्यां लिप्यते । इदानीमिहकृतेनाग्रेऽमुत्र
लिप्स्यते तत्कथं कुर्वन्नपि न लिप्यत इत्युच्यते तत्रह - पूर्वमिति । इहास्मिन्
लोके अमुत्र परलोके उभयत्र इहलोकसन्धिभूते स्वप्रस्थाने च विहितः
शास्त्रानिषिद्धशुभकर्मफलभुक् अविहितः
शास्त्रनिषिद्धाशुभकर्मफलभुगपि सन् सर्वासु भोगवृत्तिषु सम एव ।
दृश्यैर्भोगैर्दृशो विकारासिद्धेरित्यर्थः ॥ ५ ॥

उद्भवत्यभयो भावं भुवनानि ततस्ततः ।
ब्रह्मादितृणपर्यन्तं जगदावर्तयन्स्थितः ॥ ६ ॥

भोक्रस्पर्शिभिर्भोगैः कथं कर्मणां साफल्यं तत्राह - उद्भवतीति ।
वस्तुतोऽभय एवात्मा तत्तत्कर्मानुरूपं स्वयमुद्भवति उद्भूतं च
ब्रह्मादितृणपर्यन्तं भोक्तृभोग्यभावं तदधिकरणानि
चतुर्दशभुवनानि चेति जगत्स्वसन्निधिमात्रेणावर्तयन् स्थितस्तदेवास्य
कर्मफलमित्यर्थः ॥ ६ ॥

नित्यस्पन्दमयो नित्यमपि देवात्सदागतेः ।
स्थाणोरप्यक्रियो नित्यमाकाशादप्यलेपकः ॥ ७ ॥

नन्वस्पन्दः कथमावर्तयेत्तत्राह - नित्येति । नित्यात्मसत्ताया एव
स्पन्दसत्तात्वान्नित्यं स्पन्दमयो नित्यमक्रियो नित्यमलेपकश्च ॥ ७ ॥

मनांसि क्षोभयत्येष पल्लवानीव मारुतः ।
वाहयत्यक्षपङ्क्तिं स्वामश्वालीमिव सारथिः ॥ ८ ॥

ननु मन इन्द्रियाणि वा देहादि प्रवर्तयन्ति नात्मा तत्राह - मनांसीति ।
अक्षपङ्क्तिमिन्द्रियपङ्क्तिम् ॥ ८ ॥

अतिदुर्विधवद्देहगेहे कर्मरतः सदा ।
सम्राडिवात्मनि स्वस्थः संस्थितो भोगभुग्विभुः ॥ ९ ॥

अत्यन्ता दुर्विधा दुर्दशा यस्य तद्वत् । इवशब्दो दुर्विधाया
मिथ्यात्वद्योतनार्थः पूर्वविरुद्धदशास्वपि योज्यः ॥ ९ ॥

एष एव सदाऽन्विष्यः स्तुत्यो ध्यातव्य एव तु ।
जरामरणसम्मोहादनेनोत्तीर्य गम्यते ॥ १० ॥

अनेन अन्विष्टेनेति शेषः ॥ १० ॥

सुलभश्चायमत्यन्तं सुजेत्यश्चाप्तबन्धुवत् ।
शरीरपद्मकुहरे सर्वेषामेव षट्पदः ॥ ११ ॥

सुलभो ज्ञानमात्रेण लब्धुं शक्यः । सुजेयः स्मृतिमात्रेण वशीकर्तुं
योग्यः ॥ ११ ॥

अनाक्रुष्टोऽप्यनाहूतः स्वदेहादेव लभ्यते ।
मनागेवोपहूतोऽपि क्षणाद्भवति सन्मुखः ॥ १२ ॥

दूरस्थस्य मित्रादेराक्रुश्याह्वानाल्लाभः । ईषद्दुरस्थस्य
त्वाह्वानमात्रादस्य तु लाभेन तदुभयापेक्षेति भावः । उपहूतः
प्रणवोच्चारणेनानुस्मृतः ॥ १२ ॥

नास्य संसेव्यमानस्य सर्वसम्पत्तिशालिनः ।
धनानामीश्वरस्येव स्मयो गर्वो यथा भवेत् ॥ १३ ॥

धनानामीश्वरस्य धनिकस्य यथा स्मयो मानो गर्वः परावहेलना
सम्भाव्यते तथास्य नेत्यर्थः ॥ १३ ॥

आमोद इव पुष्पेषु तैलं तिलकणेष्विव ।
रसजातिष्विवास्वादो देवो देहेषु संस्थितः ॥ १४ ॥

कथमयं देहेऽस्ति तदाह - आमोद इति । आस्वादो माधुर्यम् ॥ १४ ॥

अविचारवशादेष हृदयस्थोऽपि चेतनः ।
न ज्ञायते चिरादृष्टो [चिराद्दृष्टो इत्यपि पाठः]
दृष्टबन्धुरिवाग्रतः ॥ १५ ॥

चिरं प्रागदृष्टः सम्प्रत्यग्रतो दृष्टो बन्धुः पित्रादिरिव ॥ १५ ॥

विचारणापरिज्ञात एतस्मिन्परमेश्वरे ।
अभ्युदेति परानन्दो लब्धे प्रियजने यथा ॥ १६ ॥

अस्मिन्दृष्टे परे बन्धावुद्दामानन्ददायिनि ।
आयान्ति दृष्टयस्तास्ता याभिर्भङ्गो विलीयते ॥ १७ ॥

भङ्गो मरणादिर्विच्छेदः ॥ १७ ॥

त्रुट्यन्ते सर्वतः पाशाः क्षीयन्ते सर्वशत्रवः ।
न कृन्तन्ति मनांस्याशा गृहाणीव दुराखवः ॥ १८ ॥

पाशाः स्नेहादयः । शत्रवः कामादयः । आशास्तृष्णाः ॥ १८ ॥

अस्मिन्दृष्टे जगद्दृष्टं श्रुतेऽस्मिन्सकलं श्रुतम् ।
स्पृष्टे चास्मिञ्जगत्स्पृष्टं स्थितेऽस्मिन्संस्थितं जगत् ॥ १९ ॥

तदेकविज्ञानेन सर्वविज्ञानमाह - अस्मिन्निति । स्थितेऽस्मिन्निति
तत्सत्ताधीनसत्ताकं जगदित्यर्थः ॥ १९ ॥

एष जागर्ति सुप्तानां प्रहरत्यविवेकिनाम् ।
हरत्यापदमार्तानां वितरत्यमहात्मनाम् ॥ २० ॥

एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः इति श्रुतिमालम्ब्याह -
एष इति । अमहात्मनां परिच्छिन्नात्मकेश्वरोपासकानाम् । आर्तानामापदं
हरति वितरति वाञ्छितमिति शेषः ॥ २० ॥

विचरत्येष लोकेषु जीव एव जगत्स्थितौ ।
विलसत्येव भोगेषु प्रस्फुरत्येव वस्तुषु ॥ २१ ॥

जगत्स्थितौ एष आत्मा जीव एव भूत्वा विचरति भोगेषु विलसति ।
वस्त्रालङ्कारसमाजोत्सवादिवस्तुषु स्फुरति शोभते ॥ २१ ॥

आत्मनात्मानमेवातः शान्तेनानुभवन्भवी ।
स्थितः सर्वेषु देहेषु तीक्ष्णत्वं मरिचेष्विव ॥ २२ ॥

असाधारणजीवभेदभ्रमदशायामप्यस्य न
साधारणैकात्म्यस्फूर्तिक्षतिरित्याह - आत्मनेति ॥ २२ ॥

चेतनाकलनारूपी सबाह्याभ्यन्तराश्रितः ।
जगत्पदार्थसम्भारे सत्तासामान्यमास्थितः ॥ २३ ॥

पूर्वोत्तरानुसन्धानं चेतना वर्तमानदर्शनं कलना तद्रूपी
सबाह्येष्वाभ्यन्तरेषु चेतनोपाधिषु आश्रितः । जगत्पदार्थानां सम्भारे तु
अधिष्ठानसत्तासामान्यमात्रस्वभावं सर्वानुगतमास्थितः ॥ २३ ॥

एष शून्यत्वमाकाशे स्पन्द एष सदागतौ ।
प्रकाशश्चैव तेजस्तु पयस्स्वेष रसः परः ॥ २४ ॥

काठिन्यमवनावेवमौष्ण्यमेव हुताशने ।
शैत्यमेष निशानाथे सत्ता चैष जगद्गणे ॥ २५ ॥

मषीपिण्डे यथा कार्ष्ण्यं शैत्यं हिमकणे यथा ।
यथा पुष्पेषु सौगन्ध्यं देहे देहपतिस्तथा ॥ २६ ॥

तथा देहपतिरात्मा देहे प्रकाशतः इत्यर्थः ॥ २६ ॥

यथा सर्वगता सत्ता कालः सर्वगतो यथा ।
प्रभुशक्तिर्मही यस्य सर्वदेशगता यथा ॥ २७ ॥

प्रकाशतामेव मन-इन्द्रियादिव्यावृत्तां सर्वक्षेत्रसाधारणीं
दृष्टान्तैर्दर्शयति - यथेति द्वाभ्याम् ॥ २७ ॥

रूपालोकमनस्कारयुक्तं सत्त्वं तथात्मनः ।
नित्यः सोऽयं महादेवो देवानामेव बोधकः ॥ २८ ॥

यथैते दृष्टान्तास्तथा
रूपालोकैश्चक्षुरादिव्यापारैर्मनस्कारैर्मानसव्यापारैश्च युक्तं
यद्बाह्याभ्यन्तरप्रकाशनं तदात्मनः कृत्यमिति प्रकाशैकस्वभावः स
इत्यर्थः । एवमधिदैवं सर्वदेवानां सूर्येन्द्रचन्द्रादीनामपि बोधकोऽयं
प्रसिद्धो महादेवोऽहमेवास्मीति प्रेणान्वयः ॥ २८ ॥

अहमेवास्मि मे नास्ति कलनापि किलेतरा ।
रेणुनेवाणुना व्योम्नि पद्मपत्रमिवाम्भसा ॥ २९ ॥

अणुना सूक्ष्मतमेन रेणुना ॥ २९ ॥

सम्भ्रमेणेव पाषाणे सम्बन्धो मयि नेतरैः ।
सुखदुःखश्रियो देहे मा पतन्तु पतन्तु वा ॥ ३० ॥

सम्भ्रमेण भयकम्पादिना ॥ ३० ॥

तुम्बकोपरि धाराश्च का नः क्षतिरुपस्थिता ।
दीपाङ्गातिगतो रज्ज्वा नालोको बध्यते यथा ॥ ३१ ॥

तुम्बकः अलाबूः । इवार्थे चकारः । जलधारा इवेत्यर्थः । नः अस्माकं
तुम्बकाकाशकल्पानामिति भावः । दीपाङ्गानि तैलवर्तिपात्राण्यतिक्रम्य निर्गतो
दीपालोको यथा रज्ज्वा न बध्यते ॥ ३१ ॥

तथा नायमहं बद्धः सर्वभावगणातिगः ।
सम्बन्धः कोऽस्तु नः कामैर्भावाभावैरथेन्द्रियैः ॥ ३२ ॥

केन सम्बध्यते व्योम केन सम्बाध्यते मनः ।
शरीरे शतधा याते खण्डना का शरीरिणः ॥ ३३ ॥

सम्बाध्यते अभिहन्यते । अमूर्तत्वादिति भावः ॥ ३३ ॥

कुम्भे भग्ने क्षते क्षीणे कुम्भाकाशस्य का क्षतिः ।
पिशाचक इवादृश्यो मनो नामोदितं मुधा ॥ ३४ ॥

कपालशो भग्ने छिद्रीभावेन क्षते मृदपचयेन क्षीणे ॥ ३४ ॥

जडे तस्मिन्क्षते बोधात्का नः क्षतिरुपस्थिता ।
सुखदुःखमयी यस्य वासना तन्मनो मम ॥ ३५ ॥

बोधान्मनोव्यतिरिक्तात्मदर्शनात् । यस्य सुखदुःखमयी वासना तत्तादृशं
मनः पूर्वमज्ञतादशायामभवन्नेदानीमस्तीत्यर्थः ॥ ३५ ॥

अभवत्पूर्वमद्यैका सम्पन्नाऽतनुनिर्वृतिः ।
अन्यो भुङ्क्तेऽन्य आदत्तेऽप्यन्यस्यानर्थसङ्कटः ॥ ३६ ॥

अतनुरपरिच्छिन्ना निर्वृतिः सुखविश्रान्तिः ॥ ३६ ॥

अन्यः पश्यत्यहो मौर्ख्यं कस्येयं खलु चक्रिका ।
भुङ्के प्रकृतिरादत्ते मनोदेहस्य सङ्कटः ॥ ३७ ॥

एषां भोक्रादीनामैक्यादध्यासलक्षणं मौर्ख्यं कस्यैन्द्रजालिकस्य
चक्रिका चक्रवत्परिवर्तनचातुरीत्यर्थः । भोक्रादिभेदं दर्शयति -
भुङ्क्ते इति ॥ ३७ ॥

दुष्टात्मा मौर्ख्यमस्तीह न किञ्चित्केवले क्षतिः ।
न मे भोगस्थितौ वाञ्छा न च भोगविवर्जने ॥ ३८ ॥

प्रकृत्यादिदुष्टः दोषारोपित आत्मा । विमर्शेन किञ्चिन्मौर्ख्यमस्ति
तेनाक्षतिरित्यर्थः ॥ ३८ ॥

यदायाति तदायातु यत्प्रयाति प्रयातु तत् ।
सुखेषु मम नापेक्षा नोपेक्षा दुःखवृत्तिषु ॥ ३९ ॥

सुखदुःखान्युपायान्तु यान्तु वाप्यहमेषु कः ।
वासना विविधा देहे त्वस्तं चोदयमेव वा ॥ ४० ॥

प्रयान्तु नाहमेतासु न चैता मम काश्चन ।
एतावन्तमहं कालमज्ञानरिपुणा हतः ॥ ४१ ॥

एता वासनाः ॥ ४१ ॥

हृत्वा विवेकसर्वस्वमेकान्तमवपोथितम् ।
वैष्णवेन प्रसादेन स्वसमुत्थेन चारुणा ॥ ४२ ॥

अज्ञानरिपुणावपोथितं हिंसितम् । अवबोधितम् इति पाठे अविवेकसर्वस्वमिति
च्छेदः । वैष्णवेन प्रसादेनानुग्रहेण मे अविवेकसर्वस्वं हृत्वा एकान्तं
नियतैकस्वभावं ब्रह्म अवबोधितम् ॥ ४२ ॥

इदानीं सम्परिज्ञाय मयैष परिमोषितः ।
अहङ्कारपिशाचोऽयं शरीरतरुकोटरात् ॥ ४३ ॥

परिमोषितोऽपहारितः ॥ ४३ ॥

परावबोधमन्त्रेण मयेदानीमपाकृतः ।
निरहङ्कारयक्षोऽयं मच्छरीरमहाद्रुमः ॥ ४४ ॥

इदानीं मच्छरीरमहाद्रुमो निर्गतोऽहङ्कारयक्षो यस्मात्तथाविधः सन्
पुण्यतामायातः ॥ ४४ ॥

पुण्यतामलमायातः प्रफुल्ल इव राजते ।
प्रशान्तमोहदारिद्र्यो दुराशादोषसङ्क्षये ॥ ४५ ॥

विवेकधनसम्भारान्स्थितोऽस्मि परमेश्वरः ।
ज्ञातं ज्ञातव्यमखिलं दृष्टा द्रष्टव्यदृष्टयः ॥ ४६ ॥

विवेकधनसम्भारान् प्राप्येति शेषः ॥ ४६ ॥

तत्प्राप्तमधुना येन नाप्राप्तमवशिष्यते ।
दिष्ट्या दूरोज्झितानर्थामपेतविषयोरगाम् ॥ ४७ ॥

संशान्तमोहनीहारां शान्ताशामृगतृष्णिकाम् ।
रजोरहितसर्वाशां शीतलोपशमद्रुमाम् ॥ ४८ ॥

प्राप्तोऽस्मि विततां भूमिमुन्नतां पारमार्थिकीम् ।
स्तुत्या प्रणत्या विज्ञप्त्या शमेन नियमेन च ॥ ४९ ॥

विष्णोः स्तुत्या प्रणत्या विज्ञप्त्या प्रार्थनया च वरमुखेन लब्धः ॥ ४९ ॥

लब्धोऽयं भगवानात्मा दृष्टश्चाधिगतः स्फुटम् ।
अहङ्कारपदातीतश्चिरात्संस्मृतिमागतः ॥ ५० ॥

स्वभावाद्भगवानात्मा विष्णोर्ब्रह्म सनातनम् ।
इन्द्रियोरगगर्तेषु मरणश्वभ्रभूमिषु ॥ ५१ ॥

विष्णोः प्रसादाद्ब्रह्म आत्मा संस्मृतिमागत इति पूर्वेणान्वयः ।
इन्द्रियेत्यादेरहं समवमोषित इति चतुर्थेनान्वयः । इन्द्रियाण्येवोरगगर्ताः
सर्पबिलानि येषु । एवमुत्तरत्रापि बहुव्रीहयः ॥ ५१ ॥

तृष्णाकरञ्जकुञ्जेषु कामकोलाहलेषु च ।
वासनावनजालेषु जन्मकूपान्तरेषु च ॥ ५२ ॥

वासनावनजालेष्विति सर्वसप्तम्यन्तानां विशेष्यम् ॥ ५२ ॥

दुःखदावाग्निदाहेषु दुःखदावाग्निहारिषु ।
पातोत्पातदशालक्षैर्मज्जनोन्मज्जनभ्रमैः ॥ ५३ ॥

दुःखान्येव दावाग्निदाहो यत्र । दुःखाः दावाग्नय इव हारिणः
परधनप्राणापहारिणश्चोरा यत्र ।
पातोत्पातसदृशैर्विपत्सम्पद्दशालक्षैः ।
मज्जनप्रायैरधोगतिभिरुन्मज्जनप्रायैः सद्गतिभिः ॥ ५३ ॥

आविर्भावतिरोभावैराशापाशविचेष्टनैः ।
अहं चिरमहङ्कारद्विषा समवमोषितः ॥ ५४ ॥

अहं चिरमहङ्कारलक्षणेन द्विषा सम्यगवमोषितः आत्मप्रमोषेण पीडितः ॥
५४ ॥

निशायामल्पवीर्यात्मा पिशाचेनेव जङ्गले ।
स्वयमेव त्वथेदानीं क्रियाशक्त्या स्वयैव हि ॥ ५५ ॥

शौरिणा व्यपदेशेन प्रसन्नविष्णुव्याजेन स्वयं स्वेनैव विवेकश्रीः
प्रबोधिता उद्दीपिता । तया विवेकश्रिया ईशाने ईश्वरे स्वात्मनि प्रबुद्धे भवति
प्रबुद्धे सति ॥ ५५ ॥

शौरिणा व्यपदेशेन विवेकश्रीर्विबोधिता ।
प्रबुद्धे भवतीशाने तमहङ्कारराक्षसम् ॥ ५६ ॥

न पश्यामि नभोदीपे ज्वलिते तिमिरं यथा ।
तस्याहङ्कारयक्षस्य मनोविवरवासिनः ॥ ५७ ॥

दीपस्येव प्रशान्तस्य न वेद्मि गतिमीश्वरः ।
दृष्ट एव त्वयीशाने पलायनपरायणः ॥ ५८ ॥

सम्पन्नो मदहङ्कारश्चोरः सूर्योदये यथा ।
असदभ्युत्थिते तस्मिन्नहङ्कारे पिशाचवत् ॥ ५९ ॥

असतोऽज्ञानात्प्रागभ्युत्थिते सम्प्रति गते सति निर्गतो गोनसोऽजगरो
यस्मात्तथाविधो द्रुमो वृक्षवान् आराम इव ।
द्रुशब्दाद्वृक्षवाचकान्मत्वर्थे द्युद्रुभ्यां मः इति मप्रत्ययः ॥ ५९ ॥

गते तिष्ठाम्यहं स्वस्थो निर्गोनस इव द्रुमः ।
शाम्यामि परिनिर्वामि जगत्यस्मिन्प्रबोधवान् ॥ ६० ॥

तस्करेणोज्झितोऽस्मीति निर्वृतोऽस्मि चिरोदयम् ।
शैत्यमभ्यागतोस्म्यन्तः शान्ताशामृगतृष्णिकः ॥ ६१ ॥

तस्करेण आत्मप्रमोषकेणाहङ्कारेण ॥ ६१ ॥

प्रावृडम्बुभरस्नातः शान्तदाव इवाचलः ।
प्रमार्जितेहमित्यस्मिन्पदे स्वार्थविचारतः ॥ ६२ ॥

शान्तदावो निर्वाणदवाग्निरचलः पर्वत इव ॥ ६२ ॥

को मोहः कानि दुःखानि काः कदाशाः क आधयः ।
नरकस्वर्गमोक्षादिभ्रमाः सत्यामहङ्कृतौ ॥ ६३ ॥

के आधयो मानसव्यथाः । परलोकदुःखादिचिन्तया कुतो नाधयः स्युस्तत्राह

  • नरकेति ॥ ६३ ॥

भित्तावेव प्रवर्तन्ते चित्रेहा न नभस्तले ।
अहङ्कारकलापित्ते चित्ते ज्ञानचमत्कृतिः ।
न राजतेंऽशुके म्लाने यथा कुङ्कुमरञ्जना ॥ ६४ ॥

ननु सत्येवाहङ्कारे मोहादिप्रशमचमत्कृतिः किं न स्यात्तत्राह -
अहङ्कारेति । अहङ्कारकलालक्षणे पित्ते पित्तजोन्मादे सति ॥ ६४ ॥

निरहङ्कारजलदे तृष्णासारविवर्जिते ।
भाति चित्तशरद्व्योम्नि स्वच्छता कान्तिशालिनी ॥ ६५ ॥

इदानीं सरःसमुद्रादिनानाभावैरात्मानं रूपयन्नमस्यति -
निरहङ्कारेत्यादिना । कान्तिशालिनी आत्मचन्द्रप्रकाशशालिनी । स्वच्छता
नैर्मल्यम् ॥ ६५ ॥

निरहङ्कारपङ्काय सम्प्रसन्नान्तराय च ।
मह्यमानन्दसरसे तुभ्यमात्मन्नमो नमः ॥ ६६ ॥

मह्यं प्रत्यगात्मभूताय । तुभ्यं ब्रह्मणे । एवमग्रेऽपि ॥ ६६ ॥

शान्तेन्द्रियोग्रग्राहाय क्षीणचित्तौर्ववह्नये ।
आनन्दाम्बुधये तुभ्यं मह्यमात्मन्नमो नमः ॥ ६७ ॥

गताहङ्कारमेघाय शान्ताशादाववह्नये ।
मह्यमानन्दशैलाय विश्रान्ताय नमो नमः ॥ ६८ ॥

विश्रान्ताय अचलाय ॥ ६८ ॥

प्रफुल्लानन्दपद्माय शान्तचिन्तामयोर्मये ।
मह्यं सन्मानसायात्मंस्तुभ्यमन्तर्नमो नमः ॥ ६९ ॥

सद्ब्रह्म तल्लक्षणाय । मानसाय देवसरसे ॥ ६९ ॥

संविदाभासपक्षाय पद्मकोटरवासिने ।
सर्वमानसहंसाय स्वात्मनेऽन्तर्नमो नमः ॥ ७० ॥

संविदाभासौ बुद्धितद्वृत्तिप्रतिबिम्बचैतन्ये एव पक्षौ यस्य ॥ ७० ॥

कलाकलितरूपाय निष्कलायामृतात्मने ।
सदोदिताय पूर्णात्मन् शशिने ते नमो नमः ॥ ७१ ॥

कलाभिः एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च इति श्रुत्युक्ताभिः
सप्तदशभिः षोडशकलः सोम्य पुरुष इति श्रुतिदर्शिताभिर्वा । चन्द्रपक्षे तु
प्रसिद्धाभिः । निष्कलाय निरवयवाय । चन्द्रपक्षे कलाव्यतिरिक्तदेवतात्मने ॥
७१ ॥

सदोदिताय शान्ताय महाहृद्ध्वान्तहारिणे ।
सर्वगायाप्यदृश्याय चित्सूर्याय नमो नमः ॥ ७२ ॥

चित्सूर्ये प्रसिद्धसूर्यात्सदोदितायेत्यादिविशेषणैर्विशेषो दर्शितः । शान्ताय
अतापकाय । अदृश्याय दृश्यविलक्षणाय ॥ ७२ ॥

अस्नेहस्नेहदीपाय वृत्तिनिष्क्रान्तवर्तिने ।
स्वभावाधारधीराय चिद्दीपाय नमो नमः ॥ ७३ ॥

अस्नेहो निस्तैलः । स्नेहं परमप्रेमाणं दीपयतीति स्नेहदीपः । अथवा
पुत्रमित्रधनादिष्वस्नेहाः यतयस्तेषां स्नेहेन दीप्यते ।
सर्ववस्तुस्वभावानामाधाराय । धीराय धीप्रकाशकाय ॥ ७३ ॥

मदनानलसन्तप्ते शीतेन मनसा मनः ।
भग्नमन्तर्मया तप्तमयसेव बलादयः ॥ ७४ ॥

इदानीं स्वपौरुषं सफलमित्यभिनन्दति - मदनेत्यादिना । यथा अयसा
कार्ष्णायसटङ्केन तप्तमयो भज्यते तथा शीतेन शमादियुक्तेन मनसा
मदनानलसन्तप्तं मनो मया भग्नमित्यर्थः ॥ ७४ ॥

इन्द्रियेणेन्द्रियं छित्त्वा छित्त्वा च मनसा मनः ।
अहङ्कृतिमहङ्कृत्या छित्त्वा शेषो जयाम्यहम् ॥ ७५ ॥

प्रत्यक्प्रवणेनेन्द्रियेण चक्षुरादिना पराक्प्रवणं तदेव छित्त्वा । एवं
मनोहङ्कारयोरपि बोध्यम् । शेषोऽवशिष्टचिन्मात्रोऽहम् ॥ ७५ ॥

भावेनाभावमाच्छिद्य हित्वा तृष्णामतृष्नया ।
निष्पिष्य प्रज्ञयाऽप्रज्ञां ज्ञोऽज्ञः सत्योसि ते नमः ॥ ७६ ॥

भावेन श्रद्धया । अभावमश्रद्धाम् । ऊहापोहवती बुद्धिः प्रज्ञा तया
अविचारसन्देहादिलक्षणामप्रज्ञाम् । अज्ञो ज्ञातृत्वाभिमानशून्यो ज्ञो
ज्ञप्तिमात्रस्वभाव एव सत्योऽसि तादृशाय ते तुभ्यं [अत्र मह्यं इति
क्वचित्पठ्यते] नमः ॥ ७६ ॥

मनसा मनसि च्छिन्ने निरहङ्कारतां गते ।
भावेन गलिते भावे स्वच्छस्तिष्ठामि केवलः ॥ ७७ ॥

भावेन ब्रह्माहम्भावेन देहाद्यहम्भावे गलिते ॥ ७७ ॥

निर्भावं निरहङ्कारं निर्मनस्कमनीहितम् ।
केवलं स्पन्दशुद्धात्मन्येव [आत्मन्येतत्तिष्ठति इति पाठः]
तिष्ठति मे वपुः ॥ ७८ ॥

निर्भावं भावनाहेतुबुद्धिशून्यम् । अनीहितं इच्छाहेतुचित्तशून्यम् । स्पन्दः
प्राणनक्रिया तन्मात्रेण शुद्ध आत्मा यस्य तथाविधे जीवन्मुक्तात्मनि तिष्ठति
जीवति । तथा च श्रुतिः तस्मादेकमेव व्रतं चरेत्प्राण्याच्चैवापान्याच्च इति ॥ ७८ ॥

हेलानुकम्पितानन्तविश्वेशादतिशायिनी ।
परमोपशमोपेता जातेयं मम निर्वृतिः ॥ ७९ ॥

हेलयैव अनुकम्पिता भोगैश्वर्यदाएनेनानुगृहीता अनन्ताः स्वभक्ता येन
तथाविधाद्विश्वेशाद्ब्रह्मविष्ण्वादेरप्यतिशायिनी उत्कृष्टा
निर्वृतिर्निरतिशयानन्दविश्रान्तिः ॥ ७९ ॥

प्रशान्तमोहवेतालो गताहङ्कारराक्षसः ।
कदाशारूपिकोनमुक्तो जातोऽस्मि विगतज्वरः ॥ ८० ॥

रूपिका पिशाची तयोन्मुक्तः । अत एव विगतज्वरः ॥ ८० ॥

तृष्णारज्जुगुणं छित्त्वा मच्छरीरकपञ्जरात् ।
न जाने क्व गतोड्डीय दुरहङ्कृतिपक्षिणी ॥ ८१ ॥

उद्धूलिते घनाज्ञानकुलाये कायपादपात् ।
न जाने गत उड्डीय क्वाहम्भावविहङ्गमः ॥ ८२ ॥

उद्धूलिते ज्ञानाभ्यासपेषणेन धूलीकृत्योड्डायिते ॥ ८२ ॥

दुराशादीर्घदौरात्म्यधूसरा भोगभस्मना ।
भयभोगिहिता दिष्ट्या भूयस्यो वासनाः क्षताः ॥ ८३ ॥

दुराशाभिर्दीर्घैर्दौरात्म्यैर्दुष्टदेहाद्यात्मत्वाभिमानैश्च धूसरा मलिना
। भयलक्षणानां भोगिनां सर्पाणां हिता । भूयस्यो दुर्वासनाः
भोगान्भस्मयतीति भोगभस्म समाधिस्तेन क्षता उच्छिन्नाः ॥ ८३ ॥

एतावन्तमहं कालं कोऽभुवं चित्रमीदृशम् ।
येनाहमेष मिथ्यैव दृढाहङ्कारतां गतः ॥ ८४ ॥

इदानीं निद्राक्षये स्वाप्नदुर्दशामिव प्राक्तनीमहङ्कारदशां स्मृत्वा
विस्मयते - एतावन्तमिति । चित्रमाश्चर्यम् ॥ ८४ ॥

अद्याहमस्मि जातोऽयमहमद्य महामतिः ।
अहङ्कारमहाभ्रेण यत्कृष्णेनालमुज्झितः ॥ ८५ ॥

अद्याहमयमनुभूयमाननिरतिशयानन्दस्वभावो जातः प्रादुर्भूतः ।
यद्यतोऽहं महती अपरिच्छिन्नब्रह्माकारा मतिः साक्षात्कारवृत्तिर्यस्य
तथाविधः सन्नहङ्कारमहाभ्रेणालं निःशेषमुज्झितः । निर्मुक्त इत्यर्थः ॥
८५ ॥

दृष्टोऽयमात्मा भगवांस्तथैवाधिगतो मया ।
आलब्धश्चानुभूतोऽङ्गं स्वानुभूतौ नियोजितः ॥ ८६ ॥

महामतिरित्येतद्विशदयति - दृष्ट इति । वाक्यप्रमाणेन दृष्टो
मननेनाधिगतः समाधौ मनसा
चिराश्लेषमालब्धसमाध्यनुभूतश्चाङ्गं स्वदेहमिव सदा स्वानुभूतौ
नियोजितः । तथाचाहुः देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् ।
आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते ॥ इति ॥ ८६ ॥

गतास्पदं गतमननं गतैषणं
तिरस्कृतं निपुणमहङ्कृतिभ्रमैः ।
निरीहितं व्यपगतरागरञ्जनं
विकौतुकं प्रशममिदं गतं मनः ॥ ८७ ॥

साम्प्रतं निर्दोषविक्षेपं स्वमनः प्रशमं गतमित्याह - गतास्पदमिति
। गतास्पदं निर्विषयम् । विषयाणां मननाद्धि तेष्वेषणा प्रसिद्धेति
मूलोच्छित्त्या गतमननं गतैषणं च । निपुणं नितरां तिरस्कृतं
निराकृतमुज्झितमिति यावत् । अत एव निरीहितं निश्चेष्टम् । कौतुकं
भोगोत्कण्ठा तद्रहितम् । अत एव निरिन्धनाग्निवत्प्रशमं गतमित्यर्थः ॥ ८७ ॥

दुरुत्तराः समविषमा महापदः
सुदुःसहाः प्रभवनदीर्घदोषदाः ।
गताः क्षयं समधिगतो महेश्वर-
श्चिदद्वयोऽपगामचित्त्वमन्तरे ॥ ८८ ॥

मनःप्रशमादेव सर्वापन्निवृत्तिं निरतिशयानन्दात्मावाप्तिं च
वदन्नुपसंहरति - दुरुत्तरा इति । प्रभवनानि नानायोनिजन्मपरम्पराः
दीर्घा दोषाः कामलोभमोहादयस्तत्प्रदाः समाश्चिरकालैकरूपदुःखाः
विषमाः प्रतिक्षणविचित्रदुःखा महापदः क्षयं गताः । चिदद्वयो
महेश्वरः पूर्णानन्दात्मा समधिगतः प्राप्तः । तत्कुतः । यतः अन्तरे
प्रत्यगात्मन्यचित्त्वमज्ञानजाड्यं ज्ञानेनापगतं बाधितमित्यर्थः ॥ ८८ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे ब्रह्मात्मचिन्ता [१] नाम
पञ्चत्रिंशः सर्गः ॥ ३५ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
ब्रह्मात्मचिन्ता [ब्रह्मतात्मलाभचिन्ता इति पाठः] नाम
पञ्चविंशः सर्गः ॥ ३५ ॥