३४

चतुस्त्रिंशः सर्गः ३४

श्रीभगवानुवाच ।

वरं गुणनिधे दैत्यकुलचूडामहामणे ।
गृहाणाभिमतं भूयो जन्म दुःखोपशान्तये ॥ १ ॥

हरेर्वरादिह प्राप्य प्रह्रादः सुविचारणाम् ।
निरस्यानात्मवर्गं स्वमपश्यच्चित्सदद्वयम् ॥ १ ॥

हे दैत्यकुलचूडामहामणे त्वं वरं गृहाण ॥ १ ॥

प्रह्राद उवाच ।

सर्वसङ्कल्पफलद सर्वलोकान्तरस्थित ।
यदुदारतमं वेत्सि तदेवादिश मे विभो ॥ २ ॥

सर्वेषां लोकानां प्राणिनामन्तरे हृदये स्थित । उदारतमं
सर्वकार्पण्यनिवारकमिति यावत् । आदिश आज्ञापयेति विनयोक्त्यां याचनम् ॥ २ ॥

श्रीभगवानुवाच ।

सर्वसम्भ्रमसंशान्त्यै परमाय फलाय च ।
ब्रह्मविश्रान्तिपर्यन्तो विचारोऽस्तु तवानघ ॥ ३ ॥

एवं प्रार्थितो विष्णुः
स्वविचारोत्पन्नब्रह्मात्मतत्त्वसाक्षात्कारविश्रान्तिमन्तरेण
नात्यन्तिककार्पण्यनिवृत्तिरिति मन्यमानस्तदनुरूपं वरं दिशति - सर्वेति
। सर्वसम्भ्रमसंशान्तिरात्यन्तिकानर्थनिवृत्तिः । परमं फलं
निरतिशयानन्दावाप्तिः ॥ ३ ॥

श्रीवसिष्ठ उवाच ।

इत्युक्त्वा दितिपुत्रेन्द्रं विष्णुरन्तरधीयत ।
कृतघर्घरनिर्ह्रादस्तरङ्गस्तोयधेरिव ॥ ४ ॥

विष्णावन्तर्हिते देवे पूजायां कुसुमाञ्जलिम् ।
पाश्चात्यं दानवस्त्यक्त्वा मणिरत्नपरिष्कृतम् ॥ ५ ॥

पद्मासनस्थोऽतिमुदा ह्य्पविश्य वरासने ।
स्तोत्रपाठविधावन्तश्चिन्तयामास चेतसा ॥ ६ ॥

वरासने उपविश्य पद्मासनस्थः संस्तोत्रपाठविधानकाले
अन्तर्वक्ष्यमाणप्रकारेण चिन्तयामास ॥ ६ ॥

विचारवानेव भवान्भवत्विति भवारिणा ।
देवेनोक्तोऽस्मि तेनान्तः करोम्यात्मविचारणम् ॥ ७ ॥

भवः संसारस्तदरिणा तन्निवारकेण । तेन हेतुना ॥ ७ ॥

किमहं नाम तावत्स्यां योऽस्मिन्भुवनडम्बरे ।
वच्मि गच्छामि तिष्ठामि प्रयत्नेनाहरामि च ॥ ८ ॥

तत्र सर्वस्य दृश्यस्यात्मार्थत्वादात्मन एव प्राधान्यं निश्चित्य स एवास्मिन्
कः स्यादिति विचारयति - किमहमित्यादिना । प्रयत्नेन सर्वोद्योगेन । आहरामि
विषयानुपभुञ्जे ॥ ८ ॥

जगत्तावदिदं नाहं सवृक्षतृणपर्वतम् ।
यद्बाह्यमलमत्यन्तं तत्स्यां कथमहं किल ॥ ९ ॥

तत्र देहाद्बाह्यं तावन्नात्मेत्याह - जगदिति ॥ ९ ॥

असन्नभ्युदितो मूकः पवनैः स्फुरितः क्षणम् ।
कालेनाल्पेन विलयी देहो नाहमचेतनः ॥ १० ॥

देहोऽपि नाहमित्याह - असन्निति । मूकोऽनभिज्ञत्वादेव वक्तुमसमर्थः ।
पवनैः प्राणवायुभिः क्षणं स्वसञ्चारक्षणे स्फुरितः सञ्चलितः ॥ १० ॥

जडया कर्णशष्कुल्या कल्प्यमानः क्षणक्षयी ।
शून्याकृतिः शून्यभवः शब्दो नाहमचेतनः ॥ ११ ॥

एवं शब्दादिविषया अपि नात्मेत्याह - जडयेत्यादिना । जडया अचिद्रूपया
कल्प्यामानस्तारो मन्द्रः पदं वाक्यमित्यादिभेदैः समर्थ्यमानः ।
क्षयित्वादेव शून्याकृतिः । शून्यादाकाशाद्भवतीति भवः । यद्यप्याकाशो
न शून्यस्वभावस्तथाप्यात्मसत्तातः पृथक्करणे निःस्वरूप इति
शून्यत्वोक्तिः ॥ ११ ॥

त्वचा क्षणविनाशिन्या प्राप्यमप्राप्यमप्यथ ।
चित्प्रसादोपलब्धात्मस्पर्शनं नास्म्यचेतनम् ॥ १२ ॥

प्राप्यमप्राप्यमपि कदाचित्प्राप्यम् । स्पर्शनं उष्णत्वादि । न
नित्यप्राप्तस्वभाव आत्मा भवितुमर्हतीति भावः ॥ १२ ॥

बद्धात्मा जिह्वया तुच्छो लोलया लोलसत्तया ।
स्वल्पस्पन्दो द्रव्यनिष्ठो रसो नाहमचेतनः ॥ १३ ॥

लोलसत्तया अनित्यया लोलया चलया जिह्वया बद्धात्मा सम्बद्धस्वभावो
रसनेन्द्रियाधीनसिद्धिक इति यावत् । स्वल्पो जिह्वाग्रात्कण्ठपर्यन्तः स्पन्द
आस्वादप्रसरो यस्य ॥ १३ ॥

दृश्यदर्शनयोर्लीनं क्षयिक्षणविनाशिनोः ।
केवले द्रष्टरि क्षीणं रूपं नाहमचेतनम् ॥ १४ ॥

दृश्ये द्रव्ये दर्शने चक्षुषि च लीनं तदुभयाधीनसिद्धिकमिति यावत् ।
क्षणविनाशिनोरनित्ययोः । केवले द्रष्टरि उपभोगजननेन क्षीणमुपक्षीणम् ॥
१४ ॥

नासयाप्यन्धजडया क्षयिण्या परिकल्पितः ।
पेलवोऽनियताकारो गन्धो नाहमचेतनः ॥ १५ ॥

अन्धवज्जडया अप्रकाशया । नासया घ्राणेन्द्रियेण । कालेनान्यथा
परिणामादनियताकारः ॥ १५ ॥

निर्ममोऽमननः शान्तो गतपञ्चेन्द्रियभ्रमः ।
शुद्धचेतन एवाहं कलाकलनवर्जितः ॥ १६ ॥

शब्दाविषयाणामनात्मत्ववचनं वचनादानादीनामपि समानं सत्सर्वत्र
त्रिपुटीनां न्यायसाम्यादनात्मत्वोपलक्षणम् ।
तेनाहङ्कारमनोबुद्धिचित्तत्रिपुट्या अप्यनात्मत्वेन निरासे
शुद्धचिन्मात्रमेवात्मा परिशिष्ट इत्याशयेनाह - निर्मम इति ॥ १६ ॥

चेत्यवर्जितचिन्मात्रमहमेषोऽवभासकः ।
सबाह्याभ्यन्तरव्यापी निष्कलामलसन्मयः ॥ १७ ॥

चेतनपदेन चेतनावतो जडाशस्यापि ग्रहणं माभूदिति तत्परिशोधायाह ##-

अनेन चेतनेनेमे सर्वे घटपटादयः ।
सूर्यान्ता अवभास्यन्ते दीपेनोत्तमतेजसा ॥ १८ ॥

इत्थं त्वम्पदार्थ परिशुद्धं विचार्य तन्मुखेनैव तत्पदार्थमपि
परिशोध्यावधारयितुमुपक्रमते - अनेनेत्यादिना ।
अन्यनिरपेक्षत्वादुत्तमतेजसा चेतनेन दीपेन ॥ १८ ॥

आ इदानीं स्मृतं सत्यमेतत्तदखिलं मया ।
निर्विकल्पचिदाभास एष आत्मास्मि सर्वगः ॥ १९ ॥

निर्विकल्पो वियदादिविकल्पशून्यश्चिल्लक्षण आभासः प्रकाश एष आत्मास्मीति
अनात्येश्वरनिरासः ॥ १९ ॥

अनेनैताः स्फुरन्तीह विचित्रेन्द्रियवृत्तयः [पङ्क्तय इत्यपि
पाठः] ।
तेजसान्तःप्रकाशेन यथाग्निकणपङ्क्तयः ॥ २० ॥

अग्निभूता अङ्गारकणपङ्क्तयो यथेत्यर्थः ॥ २० ॥

अनेनैताः स्फुरन्तीह [स्फुररितः इति पाठः]
विचित्रेन्द्रियपङ्क्तयः ।
सर्वगेन निदाघेन यथा मरुमरीचिकाः ॥ २१ ॥

अनेनैतत्पदार्थानां वस्तुत्वं प्रतिपाद्यते ।
शुक्लादिगुणवत्त्वं स्वं प्रदीपेनेव वाससाम् ॥ २२ ॥

सर्वपदार्थानां स्फूर्तिरिव सत्ताप्येतदधीनैवेत्याह - अनेनेति ।
सत्तोपपादने प्रदीपदृष्टान्तः स्फूर्तिसत्तयोरभेदद्योतनार्थः ॥ २२ ॥

असावेव हि भूतानां सर्वेषामेव जाग्रताम् ।
सर्वानुभविताभूमिरात्मा मुकुरवत्स्थितः ॥ २३ ॥

जाग्रतां सचेतसामिति यावत् । सर्वासामनुभव एषामस्तीत्यनुभविनो
देहेन्द्रियमनोबुद्ध्यादयस्तद्भावानां अनुभवितानामनुभवानां भूमिः
परं विश्रान्तिस्थानम् । यथा मुकुरः सर्ववस्तुप्रतिबिम्बविश्रान्तिभूस्तद्वत् ॥
२३ ॥

तस्यैकस्याविकल्पस्य चिद्दीपस्य प्रसादतः ।
उष्णोऽर्कः शिशिरश्चन्द्रो घनोऽद्रिर्विद्रुतं पयः ॥ २४ ॥

पदार्थानां स्वभाववैचित्र्याण्यप्येतदधीनसिद्धिकानीत्याह - तस्येति ।
घनः कठिनः । विद्रुतं द्रवम् [दुतम् इति पाठः] ॥ २४ ॥

सातत्येनानुभूतानां सर्वेषां च जगत्स्थितौ ।
एतत्कारणमाद्यं तत्कारणं नास्य विद्यते ॥ २५ ॥

सातत्येन आकाशाद्वायुर्वायो रग्निरग्नेरापः इत्यादिक्रमेण श्रुतिप्रत्यक्षादिना
अनुभूतानां सर्वेषां पदार्थानां जगति उत्पत्त्यादिव्यवस्थितौ एतदाद्यं
कारणम् । तनोतीति तत् सद्रूपेण सर्वकार्यव्यापकम् ॥ २५ ॥

सातत्येनानुभूतानां पदार्थानामनेन तत् ।
पदार्थत्वमुदेत्युच्चैः प्रतापेनेव तप्तता ॥ २६ ॥

तत् प्रसिद्धं वियदादिपदार्थत्वम् । प्रतापेन ग्रीष्मार्कतापेन
भूम्यादेस्तप्ततेव ॥ २६ ॥

अनाकारात्कारणाच्च सर्वकारणकारणात् ।
एतस्मादिदमुत्पन्नं जगच्छैत्यं हिमादिव ॥ २७ ॥

परमार्थतोऽनाकारात्कारणत्वाद्याकारशून्यात् अविद्यया कारणभूताच्च
सर्वेषां ब्रह्मादिकारणानां कारणादेतस्मात्प्रत्यग्रूपद्ब्रह्मण इदं
जगदुत्पन्नम् ॥ २७ ॥

ब्रह्मविष्ण्विन्द्ररुद्राणां कारणानां जगत्स्थितौ ।
एतत्कारणमाद्यं तत्कारणं नास्य विद्यते ॥ २८ ॥

सर्वकारणकारणादित्येतद्विवृणोति - ब्रह्मविष्ण्विति ॥ २८ ॥

चिच्चेत्यद्रष्टृदृश्यादिनामभिर्वर्जितात्मने ।
स्वयं सकृद्विभाताय मह्यमस्मै नमो नमः ॥ २९ ॥

सकृद्विभाताय नित्यस्वप्रकाशाय ॥ २९ ॥

एतस्मिन्सर्वभूतानि निर्विकल्पचिदात्मनि ।
गुणभूतानि भूतेशे तिष्ठन्ति विविशन्ति च ॥ ३० ॥

कारणत्वात्सर्गहेतुत्ववत्स्थितिप्रलयहेतुत्वमप्यस्यैवेत्याह - एतस्मिन्निति ।
गुणभूतात्प्रधानभूतानि गुणवदपृथक्सत्ताकानि वा विविशन्ति प्रविशन्ति ।
तथाच यतो वा इमानि भूतानि जायन्ते इत्यादिश्रुत्युक्तब्रह्मलक्षणस्यास्मिन्नेव
समन्वयः इत्यर्थः ॥ ३० ॥

यत्किलानेन कलितं चेतनेनातरात्मना ।
तत्तद्भवति सर्वत्र नेतरत्सदपि स्थितम् ॥ ३१ ॥

कारणे सूक्ष्मरूपेण स्थितमिदानीं सद्वर्तमानमपि यदनेनेश्वरेण
चेतनेनान्तरात्मनोत्तरक्षणेऽस्त्विति कलितं सङ्कल्पितं तत्तद्भवत्युत्तरक्षणे
नेतरदित्यर्थः ॥ ३१ ॥

यच्चिता कलितं किञ्चित्तदाप्नोति निजं पदम् ।
यच्चिताकलितं नेह तत्सदप्यन्तमागतम् ॥ ३२ ॥

कलितं स्वीयसत्तास्फुर्तिप्रदानेनोज्जीवितम् । निजं घटोऽस्तीत्यादिव्यवहारपदम् ।
अन्तमसत्त्वलक्षणं नाशमागतं प्राप्तम् ॥ ३२ ॥

इमे घटपटाकाराः पदार्थशतपङ्क्तयः ।
जागत्यो विपुलादर्शे ह्यस्मिन्व्योमनि बिम्बिताः ॥ ३३ ॥

एतद्वृद्धं वृद्धतरे क्षयि क्षयिणि जायते ।
पदार्थे सदसच्चापि प्रतिबिम्बार्कवत्स्थितम् ॥ ३४ ॥

एवं वृद्ध्यादिभावविकारा अप्येतस्मिन्नेवाध्यस्ता इत्याह - एतदिति । यथा
प्रतिबिम्बार्के क्षयवृद्धी तद्रूपेण स्थिते बिम्बे एवाध्यस्ते अन्यवृत्तितयेव
विभाव्येते तद्वदित्यर्थः ॥ ३४ ॥

अदृश्यं सर्वभूतानां प्राप्यं गलितचेतसाम् ।
एतत्तद्दृश्यते सद्भिः परं व्योमातिनिर्मलम् ॥ ३५ ॥

सर्वेषां भूतानामज्ञानाम् । गलितचेतसां दृश्यमिति वक्तव्ये
प्राप्यमित्युक्तिर्दर्शनप्राप्त्योर्भेदाभावद्योतनायेत्याशयेन व्याचष्टे -
एतत्तदिति ॥ ३५ ॥

इयमभ्युदयं याति नानादृश्यसुमञ्जरी ।
आचारचञ्चरीकाढ्या एतस्मात्कारणद्रुमात् ॥ ३६ ॥

ये तु कारणस्यैकदेशे परिणामो जगदिति कल्पयन्ति तेषां कल्पनाप्यस्मिन्नेव
नान्यत्रेत्याशयेनाह - इयमिति द्वाभ्याम् ॥ ३६ ॥

अस्मादियमुदेत्युच्चैः संसाररचनाचला ।
विचित्रतरुगुल्माढ्या शैलादिव वनावली ॥ ३७ ॥

सर्वेषामविभिन्नोऽसौ त्रैलोक्योदरवर्तिनाम् ।
ब्रह्मादीनां तृणान्तानां चिदात्मा सम्प्रकाशकः ॥ ३८ ॥

अस्मिन्नेव कल्पनेति कुतो ज्ञातमिति चेदेतदभिन्नस्फूर्तिकत्वाज्जगत इत्याह -
सर्वेषामिति ॥ ३८ ॥

एकोऽसावहमाद्यन्तरहितः सर्वगाकृतिः ।
चराचराणां भूतानामन्तः स्वानुभवः स्थितः ॥ ३९ ॥

अस्य तस्य ममेमानि स्थावराणि चराणि च ।
परिसङ्ख्यादिहीनानि शरीराणि बहूनि च ॥ ४० ॥

परिच्छिद्य सङ्ख्यागणना व्यक्तीयत्ता । आदिपदाद्देशेयत्ताकालेयत्ते गृह्येते ॥
४० ॥

एकोऽसावनुभूत्यात्मा स्वानुभूतिवशात्स्वयम् ।
सर्वदृग्द्रष्टृदृश्यत्वात्सहस्रकरलोचनः ॥ ४१ ॥

स्वानुभूतिवशात्स्वात्मनि क्रियाविरोधेनानुभूत्यन्तरा
घटनात्स्वप्रकाशानुभूत्यात्मायमित्यर्थः । परप्रकाशनेऽप्यस्य
सङ्कोचाभावेन सर्वदृग्द्रष्टृदृश्यासाक्षितया भास्या यस्य
तथाविधत्वात्प्रतिशरीरमात्मभेदासिद्धावयमेव सर्वेषां करलोचनैः
सहस्रकरलोचन इत्यर्थः ॥ ४१ ॥

एषोऽसावहमाकाशे सूर्यदेहेन चारुणा ।
विहरामीतरेणापि वायुदेहेन वायुना ॥ ४२ ॥

सर्वात्मभावं स्वस्य प्रत्येकमाह - एषोऽसाविति । एष
प्रत्यक्षोऽसावीश्वरभूतोऽहं सूर्यभूतः सन्सूयदेहेन विहरामि । एवं
वायुना वायुदेहेन ॥ ४२ ॥

ममैतद्वपुरानीलं शङ्खचक्रगदाधरम् ।
सर्वसौभाग्यसीमान्तं ह्यस्मिञ्जगति वल्गति ॥ ४३ ॥

वल्गति व्यवहरति ॥ ४३ ॥

अहमस्मिन्समुद्भूतः पद्मासनगतः सदा ।
निर्विकल्पसमाधिस्थः परां निर्वृतिमागतः ॥ ४४ ॥

अहं त्रिनेत्रयाऽकृत्या गौरीवक्राब्जषट्पदः ।
सर्गान्ते संहरामीदं कूर्मोऽङ्गपटलं यथा ॥ ४५ ॥

आकृत्या मूर्त्या ॥ ४५ ॥

अहमिन्द्रेण रूपेण त्रिलोकीमखिलामिमाम् ।
पालयामि क्रमप्राप्तां मठिकामिव तापसः ॥ ४६ ॥

क्रमप्राप्तां मन्वन्तरक्रमप्राप्ताम् ॥ ४६ ॥

स्त्रीपुमानहमेवैतत्कुमारो ह्यहमित्यपि ।
जीर्णोऽहं देहधारित्वाज्जातोऽहं विश्वतोमुखः ॥ ४७ ॥

त्वं स्त्री त्वं पुमानसि त्वं कुमार उत वा कुमारी । त्वं जीर्णो दण्डेन वञ्चसि
त्वं जातो भवसि विश्वतोमुखः इति श्रुतिं स्वात्मनि स्वानुभवेन संवादयति

  • स्त्रीति ॥ ४७ ॥

अहं तृणलतागुल्मजालं रसतया स्थितः ।
उत्थापयामि चिद्भूमेः कूपोऽन्तरलतामिव ॥ ४८ ॥

रसतया जीवसारतया जलतया च । कूपो जीर्णकूपः ॥ ४८ ॥

स्वलीलार्थमिदं चारु जगदाडम्बरं ततम् ।
मयाभिजातबालेन पङ्कक्रीडनकं यथा ॥ ४९ ॥

अभिजातेन क्रीडनकनिर्माणकुशलेन बालेन ॥ ४९ ॥

मयेदमाप्यते सर्वं सत्ता मां प्राप्य गच्छति ।
मत्परित्यक्तमेतच्च सदप्येव न किञ्चन ॥ ५० ॥

आप्यते कारणभावेन व्याप्यते । कार्यस्य च सत्ताप्रविलयेन मां प्राप्य
गच्छति तिरोभवति । मया स्वतत्त्वदर्शनेन
परित्यक्तमेतज्जगज्जिवन्मुक्तव्यवहारे सदपि न किञ्चन ॥ ५० ॥

मयि स्फारे चिदादर्शे प्रतिबिम्बं यदागतम् ।
तदस्ति नेतरद्यस्मान्मत्तोअण्यन्नेह विद्यते ॥ ५१ ॥

कुसुमेष्वहमामोदः पुष्पपत्रेष्वहं छविः ।
छविष्वहं रूपकला रूपेष्वनुभवोऽप्यहम् ॥ ५२ ॥

इदानीमीश्वरभूतस्य स्वस्य विभूतिविस्तरमुपभोगेनुभवान्तरमाह -
कुसुमेष्विति ॥ ५२ ॥

यद्यत्किञ्चिदिदं दृश्यं जगत्स्थावरजङ्गमम् ।
सर्वसङ्कल्परहितं तच्चित्तत्त्वमहं परम् ॥ ५३ ॥

दृश्यं दर्शनार्ह स्थावरं जङ्गमं वा विभूतिमच्छ्रीमदूर्जितं वा
तस्य सर्वस्योत्कर्षनिमित्तं चिदात्मतत्त्वं अहमेव किं
सङ्कल्पादिदूषितजीवरूपेण नेत्याह - सर्वसङ्कल्परहितमिति । अत एव परम् ॥
५३ ॥

आद्या रसमयी शक्ती रसौघो विस्तृतो यया ।
सा यथा दारुकुड्येषु तथाहं सर्ववस्तुषु ॥ ५४ ॥

रसमयी आद्या शक्तिः रसतन्मात्रा यथा सागरनदी सरःकूपादिरसौघो
जलौघः सन् विस्तृतः सैव जलभूता शक्तिर्दारुषु वृक्षेषु
शाखापल्लवाद्युद्भवनिमित्ततया कुड्येषु च
तृणयवाङ्कुराद्युद्भवनिमित्ततया प्रसृता तथाहं सर्ववस्तुषु
तत्तत्कार्योद्भवनिमित्ततया प्रसृत इत्यर्थः ॥ ५४ ॥

परमां तामहं सर्वपदार्थान्तरवर्तिताम् ।
उपेत्य संविद्वैचित्र्यं प्रतनोमि स्वयेच्छया ॥ ५५ ॥

स्वसृष्टकार्यान्तरानुप्रवेशेन जीवसंविद्वैचित्र्येऽपि स्वयमेव हेतुरित्याह ##-

घृतं यथान्तः पयसो रसशक्तिर्यथा जले ।
चिच्छक्तिः सर्वभावेषु तथान्तरहमास्थितः ॥ ५६ ॥

इदं जगत्त्रिकालस्थं चिति मध्ये च संस्थितम् ।
चेत्योपचाररहितं वस्तुजातमिवावनौ ॥ ५७ ॥

चेत्योपचारश्चेत्यप्रथा तद्रहितं जडमिति यावत् । त्रिकालस्थमतीतं
वर्तमानं भविष्यच्चेदं जगत् चिति चिद्रूपे मयि मध्ये एकांशे व्यवस्थितम् ।
यथा तृणकाष्ठलोष्ठादिवस्तुजातमवनौ तद्वत् ॥ ५७ ॥

भरिताशेषदिक्कुक्षिस्त्यक्तसङ्कोचविभ्रमः ।
सर्वस्थः सर्वकर्ता च विराट् सम्राडहं स्थितः ॥ ५८ ॥

विविधो व्यष्टिभेदेन राजत इति विराट् । सम्यक्समष्टिभावेन राजत इति सम्राट् ।
अथवा विशेषेण राजान्तरेभ्यो राजत इति विराट् । सम्राट् सर्वेषां
राज्ञामाज्ञापयिता ॥ ५८ ॥

अपूर्वमनिबद्धेन्द्रमशस्त्रदलितामरम् ।
अप्रार्थितं मे सम्प्राप्तं जगद्राज्यमिदं ततम् ॥ ५९ ॥

इन्द्राधिकराज्याप्राप्तेः कथं सम्राट्त्वं तत्राह - अपूर्वमिति ॥ ५९ ॥

अहो नु विततात्मास्मि न माम्यप्यात्मनात्मनि ।
कल्पान्तपवनाधूत एकार्णव इवार्णवे ॥ ६० ॥

न मामि कुसूले धान्यमिव समावेशं न प्राप्नोमि । अर्णवे
प्राक्तनार्णवपरिमाणे ॥ ६० ॥

नात्मन्यन्तमवाप्नोमि स्वस्थेऽन्तः स्वदिते स्वयम् ।
क्षीरवारिनिधौ पङ्गुः सरीसृप इव स्फुरन् ॥ ६१ ॥

अन्तः स्वयं स्वदिते स्वेनैव निरतिशयानन्दात्मना स्वदमाने । पङ्गुः
कुण्ठितगतिः सरीसृपः सर्पः स्फुरन् सञ्चरन् ॥ ६१ ॥

स्वल्पेयं मठिका ब्राह्मी जगन्नाम्नी सुसङ्कटा ।
गजो बिल्व इव स्वाङ्गे न माति विपुलं वपुः ॥ ६२ ॥

ब्राह्मी मठिका ब्रह्माण्डः । सुसङ्कटा सङ्कुचितगर्भा । विपुलं विस्तृतं
वपुर्मत्स्वरूपं न माति न समाविशति ॥ ६२ ॥

विरिञ्चिभवनात्पारे तत्त्वान्तेऽप्याहरत्पदम् ।
प्रसरत्येव मे रूपमद्यापि न निवर्तते ॥ ६३ ॥

उत्तरोत्तरदशगुणपार्थिवाद्यावरणावृताद्ब्रह्माण्डलक्षणाद्विरिञ्चिभव
नात्पारेपरतश्चतुर्विंशतिसङ्ख्यानां
साङ्ख्यवैष्णवादितन्त्रप्रसिद्धानां षट्त्रिंशत्सङ्ख्यानां
शैवपाशुपताभिमतानां वा तत्त्वनामन्तेऽपि पदमाहरत् क्रममाणमिति
यावत् । मे रूपं प्रसरत्येवेति वास्तवस्यैव विस्तारस्य प्रसारत्वेन कल्पना ॥ ६३ ॥

अयं नामाहमित्यन्तः कुतो निरवलम्बना ।
अपर्यन्ताकृतेरेषा किलासीत्स्वल्पता मम ॥ ६४ ॥

अयं देहादिरहमिति कल्पना कुत आसीदियन्तं कालमित्यर्थः ॥ ६४ ॥

भवानयमयं चाहमिति मिथ्यैव विभ्रमः ।
को देहः कोऽप्यदेहो वा को मृतः कश्च जीवति ॥ ६५ ॥

देहस्यैवाप्रसिद्धावदेहोऽपि कः । वन्ध्यापुत्रस्येव तद्धन्तुरप्यप्रसिद्धेः ।
एवं को मृतः प्राणस्यैवाप्रसिद्धौ कस्तेन वियुक्तः । कश्च जीवति प्राणान्
धारयति ॥ ६५ ॥

वराकाः पेलवधियो बभूवुर्मे पितामहाः ।
ये साम्राज्यमिदं त्यक्त्वा रेमिरे भवभूमिषु ॥ ६६ ॥

मिथ्या साम्राज्यासक्तान्स्वपितामहादीनिदानीमनुशोचति - वराका इति ।
पेलवधियः क्षुद्रधिय इति यावत् ॥ ६६ ॥

क्वेयं किल महादृष्टिर्भरिता ब्रह्मबृंहिता ।
क्व सरीसृपभीमाशा भीमा राज्यविभूतिभिः [विभूतयः इति
पाठश्चेत्साधु] ॥ ६७ ॥

सरीसृपाः सर्पा इव भीमाभिराशाभिर्मीमाः ॥ ६७ ॥

अनन्तानन्दसम्भोगा परोपशमशालिनी ।
शुद्धेयं चिन्मयी दृष्टिर्जयत्यखिलदृष्टिषु ॥ ६८ ॥

सर्वभावान्तरस्थाय चेत्यमुक्तचिदात्मने ।
प्रत्यक्चेतनरूपाय मह्यमेव नमो नमः ॥ ६९ ॥

जयाम्यहमजो जातो जीर्णसंसारसंसृतिः ।
प्राप्तप्राप्यो महात्मायं जीवामि च जयामि च ॥ ७० ॥

यतोऽहं चिरभुक्तमन्नमिव जीर्णा संसारसंसृतिर्येन तथाविधः सन् अजो
जातः अतो जयामि सर्वतो जेतव्यजयफलं सर्वानर्थनिवृत्तिं प्राप्तोऽस्मि । किञ्च
प्राप्तानि प्राप्तव्यानि सर्वाणि सुखानि येन तथाविधः सन् जीवामि जीवितसाफल्यं
प्राप्तोऽस्मि । अत एव जयामि सर्वोत्कर्षेण वर्ते चेत्यर्थः ॥ ७० ॥

इदमुत्तमसाम्राज्यं बोधं सन्त्यज्य शाश्वतम् ।
न रमेऽहमरम्यासु राज्यदुःखविभूतिषु ॥ ७१ ॥

दारुवारिदृषन्मात्रे लुलितो यो धरातले ।
धिग्वराकमनात्मज्ञं तं कुदानवकीटकम् ॥ ७२ ॥

वनदुर्गे दारुणि जलदुर्गे वारिगिरिदुर्गे च दृषदः मिन्वन्तीति मात्राः विपत्सु
शरणं यत्र तथाविधे धरातले भूतले स्वामित्वाभिमानेन यो लुलितो लोलतां
गतस्तं कुदानवलक्षणं कीटकम् । कीटकेष्वपि दारुकीटकानां
दारुभिर्दुर्गभूतैर्वारिकीटकानां वारिणा
दृषत्सन्धिगतवृश्चिकादिकीटकानां दृषद्भिश्च त्राणदर्शनात्स्वतः
स्वत्राणशक्तेस्तुल्यत्वादित्यर्थः ॥ ७२ ॥

अविद्यैकात्मभिर्द्रव्यैरविद्यामयमङ्गकम् ।
अज्ञेन सन्तर्पयता किं नाम गुरुणा कृतम् ॥ ७३ ॥

कार्यकारणयोरभेदादविद्यैकात्मकैः । द्रव्यैरन्नपानादिविषयैः । गुरुणा
पित्रा ॥ ७३ ॥

वर्षाणि कतिचित्प्राप्य जगच्छ्रीमठिकामिमाम् ।
किं नाम प्रापदुचितं हिरण्यकशिपुः किल ॥ ७४ ॥

जगत्त्रैलोक्यं तल्लक्षणां श्रीयुक्तां मठिकाम् । उचितं काश्यपे कुले
जन्मनोनुरूपं परमपुरुषार्थम् ॥ ७४ ॥

अनास्वाद्येदमानन्दं जगद्राज्यशतान्यपि ।
समास्वादयता नेह किञ्चिदास्वादितं भवेत् ॥ ७५ ॥

अयमात्मैवानन्द इदमानन्दस्तम् । इदं जडदुःखरूपमपि
देहेन्द्रियविषयाद्यानन्दयति आनन्दरूपतयानुभावयतीति वा इदमानन्दस्तम् ॥
७५ ॥

न किञ्चिद्येन सम्प्राप्तं तेनेदं परमामृतम् ।
सम्प्राप्यान्तः प्रपूर्णेन सर्वं प्राप्तमखण्डितम् ॥ ७६ ॥

एकसम्प्राप्त्यैव विनैव विषयं सर्वविषयसुखप्राप्तिमाह - न किञ्चिदिति ।
अखण्डितं निरन्तरम् ॥ ७६ ॥

त्यक्त्वा पदमिदं मूर्खो मितमेति न पण्डितः ।
उष्ट्रो हि त्यक्तसुलतः कण्टकं याति नेतरः ॥ ७७ ॥

त्यक्ता सुलता फलभरानतद्राक्षादिवल्ली येन तथाविधः सन् ॥ ७७ ॥

परां दृष्टिमिमां त्यक्त्वा दग्धराज्ये रमेत कः ।
कस्त्यक्त्वेक्षुरसं प्राज्ञः कटु निम्बपयः पिबेत् ॥ ७८ ॥

निम्बपयः पिचुमन्दपत्ररसम् ॥ ७८ ॥

मूर्खा एव हि ते सर्वे बभूवुर्मे पितामहाः ।
इमां दृष्टिं परित्यज्य रेमिरे राज्यसङ्कटे ॥ ७९ ॥

रेमिरे ये इति शेषः ॥ ७९ ॥

क्व फुल्लानन्दनस्थल्यः क्व दग्धमरुभूमयः ।
क्वेमा बोधदृशः शान्ताः क्व भोगेष्वात्मबुद्धयः ॥ ८० ॥

भोगेषु भोगायतनदेहादिषु ॥ ८० ॥

न किञ्चिदपि त्रैलोक्ये यद्राज्यमपि वाञ्छते ।
सर्वमस्त्येव चित्तत्त्वे तत्कस्मान्नानुभूयते ॥ ८१ ॥

न किञ्चिदपि सुखमिति शेषः । राज्यमपि प्राप्येति शेषः ॥ ८१ ॥

चिता सर्वस्थया स्वस्थसमया निर्विकारया ।
सर्वया सर्वदा सर्वं सर्वतः साधु लभ्यते ॥ ८२ ॥

सर्वं सुखं तत्साधनं च ॥ ८२ ॥

भासिनी तैजसी शक्तिरमृतप्राप्तिरैन्दवी ।
ब्राह्मी महत्ता महती शाक्री त्रैलोक्यराजता ॥ ८३ ॥

तत्कुतस्तत्राह - भासिनीत्यादिना । यतः भासिन्यादयस्तत्तत्सुखनिमित्ता
विचित्राः शक्तयः परया चिता क्रियन्ते इत्यष्टमेनान्वयः । ब्राह्मी
हैरण्यगर्भी । महत्ता मान्यता । महती सर्वोत्कृष्टा ॥ ८३ ॥

परमा पूर्णता शार्वी जयलक्ष्मीश्च वैष्णवी ।
मानसी शीघ्रगतिता बलवत्ता च वायवी ॥ ८४ ॥

शर्वः शिवस्तत्सम्बन्धिनी परमा पूर्णता
निरतिशयज्ञानैश्वर्यानन्दशक्तिसम्पूर्णता ॥ ८४ ॥

आग्नेयी दाहकलना पायसी रसनिर्वृतिः ।
मौनी महातपःसिद्धिर्विद्या बार्हस्पती तथा ॥ ८५ ॥

पायसी जलसम्बन्धिनी रसनिर्वृत्तिराप्यायकता । मौनी
भृग्वादिमुनिसम्बन्धिनी विद्या वाक्पतिता ॥ ८५ ॥

वैमानिकी व्योमगतिः स्थिरता चापि पार्वती ।
गम्भीरताथ सामुद्री मैरवी च महोन्नतिः ॥ ८६ ॥

शमश्रीः सौगती सौम्या मादिरी मदलोलता ।
माधवी पुष्पमयता वार्षिकी [शारदी घनसस्यतेति पाठः]
घनशब्दिता ॥ ८७ ॥

सौगती सुगतराद्धान्तसिद्धा शमश्रीः शून्यतालक्षण सर्वोपप्लवशान्तिः ।
अथवा शोभना गतिः सुगतिर्ब्रह्मसाक्षात्कारस्तत्सम्बन्धिनी शमश्रीः
सर्वानर्थनिर्वापणशक्तिः ॥ ८७ ॥

याक्षी च मायामयता नाभसी निष्कलङ्कता ।
शीततापि च तौषारी नैदाघी तापतप्तता ॥ ८८ ॥

मायामयता मायाप्रचुरता । निष्कलङ्कता निर्लेपता ॥ ८८ ॥

एताश्चान्यास्तथा बव्ह्यो देशकालक्रियात्मिकाः ।
नानाकारविकारोत्थास्त्रिकालोदरसंस्थिताः ॥ ८९ ॥

त्रिकालोदरसंस्थिता अतीता अनागता वर्तमानाश्चेत्यर्थः ॥ ८९ ॥

विचित्राः शक्तयः स्वस्थसमया निर्विकारया ।
चिता क्रियन्ते परया कलाकलनयुक्तया ॥ ९० ॥

स्वस्थया स्वभावादप्रच्युतया अत एव समया एकरूपया । निर्विकारया
वास्तवविकारशून्यया चिता । कलाकलनं तच्छक्तिकार्यानुसन्धानं
तद्युक्तया ॥ ९० ॥

विकल्पहीना चित्सर्वा पदार्थशतदृष्टिषु ।
सममेवाभिपतति प्रभा प्राभाकरी यथा ॥ ९१ ॥

ननु विचित्राणामर्थानां विचित्रप्रथादर्शनात्कथं चितः समता तत्राह -
विकल्पेति । सर्वासर्ववृत्तिप्रविष्टापि चित्तवृत्तिगतैर्विकल्पवैचित्र्यैर्लिप्यते ।
यथा प्राभाकरी प्रभा न वृत्तिकृतैः स्थाणुपुरुषादिविकल्पैस्तद्वदित्यर्थः
॥ ९१ ॥

सर्वाशाकोशविश्रान्तां पदार्थपटलीं महीम् ।
कालत्रयेहाकलितां यथानुभवति क्षणात् ॥ ९२ ॥

दिक्कालभेदप्रयुक्तमपि वैषम्यमस्या नास्तीत्याह - सर्वाशेति । महीं
वह्वीम् । अनुभवति प्रकाशयति सौरी प्रभा यथा तथा चिदपि चेतति प्रथयतीति
परेणान्वयः ॥ ९२ ॥

तथा समस्तसंसारबृहद्दृश्यदशाश्रियम् ।
कालत्रयस्थाममला चिच्चेतति तदात्मिका ॥ ९३ ॥

तुल्यकालपरामृष्टा त्रिकालकलनाशता ।
अनन्तभुवनाभोगा परिपूर्णैव शुद्धचित् ॥ ९४ ॥

देशकालभेदाश्च स्वाप्रदेशकालदैर्घ्ये इवाभिन्नकालयैव चिता भास्यन्त
इत्याह - तुल्यकालेति । तुल्यशब्दोऽभिन्नपरः । तथा च परिपूर्णा अखण्डैव
शुद्धचिदभिन्नकालपरामृष्टैव सती अतीतादित्रिकालकलनाशतभिन्नेव
प्रत्यक्षानुमित्युपमित्याद्यनन्तमानमेयपुरुषभेदभिन्नाभोगेव च
भातीत्यर्थः ॥ ९४ ॥

परामृष्टत्रिकालाया दृष्टानन्तदृशश्चितः ।
समतापरपर्याया पूर्णतैवावशिष्यते ॥ ९५ ॥

अत एव कालभेदे वृत्तिभेदेऽपि च तत्साक्षिण्याश्चितो न भेद इति पूर्णतैवेत्याह

  • परामृष्टेति ॥ ९५ ॥

तुल्यकालावबुद्धेन स्वादुना कटुनापि चित् ।
समेन समतामेति मधुनिम्बानुभूतिवत् ॥ ९६ ॥

अत एव मधुरद्वयस्य तिक्तद्वयस्य वा युगपदास्वादे विषयभेदेऽपि
नानुभूतिभेद इति विषयादिभेदो न चिद्भेदप्रयोजक इत्याह - तुल्यकालेति ।
समेन तुल्यरसेन स्वादुना मधुरद्वयेन । तत्र
मधुनिम्बाद्येकैकानुभूतिवदिति चिदभेदे दृष्टान्तः ॥ ९६ ॥

त्यक्तसङ्कल्पकलया सूक्ष्मया चिद्व्यवस्थया ।
सर्वभावानुगतया सत्ताद्वैतैकरूपया ॥ ९७ ॥

घटपटादिविचित्रा पदार्थश्रीरपि त्यक्तपरस्परव्यावर्तकभेदसङ्कल्पकलया
सूक्ष्मया सत्ताद्वैतैकरूपया चिद्व्यवस्थया तुल्यकालमनुभूयमाना
साम्येनैवानुभूयते न भेदवैषम्येणेति न विषयादिभेदश्चिद्भेदक इति
द्वयोरर्थः ॥ ९७ ॥

विचित्रापि पदार्थश्रीरन्योन्यवलितान्तरा ।
तुल्यकालानुभवना साम्येनैवानुभूयते ॥ ९८ ॥

भावेनाभावमाश्रित्य भावस्त्यजति दुःखताम् ।
प्रेक्ष्य भावमभावेन भावस्त्यजति दुष्टताम् ॥ ९९ ॥

भेदसङ्कल्पकलात्यागे उपायमाह - भावेनेति । भावेन चित्तेन
वाचारम्भणश्रुत्या नेतिनेत्यादिश्रुत्या आचार्योपदेशस्वविचारादिना च
दृश्यजातस्याभावमाश्रित्य स चित्तरूपो भावो दुःखतां
शोकमोहादिपरिणामं सद्यस्त्यजति । तथापि रागादिसंस्कारदुष्टतया
कालान्तरे पुनः शोकाद्युद्भवः स्यादतः
सर्वदृश्यप्रतिषेधलक्षणेनाभावेन भावं
परमार्थसदद्वैतानन्दस्वभावमात्मानं प्रेक्ष्य स चित्तलक्षणो भावो
रागादिदुष्टतामपि जहाति । रसोऽप्यस्य परं दृष्ट्वा निवर्तते इति
भगवद्वचनात् । अतो बीजाभावाद्भेदसङ्कल्पकलात्यागः सिद्ध इत्यर्थः ॥ ९९ ॥

कालत्रयमपश्यन्त्या हीनायाश्चेत्यबन्धनैः ।
चितश्चेत्यमुपेक्षिण्याः समतैवावशिष्यते ॥ १०० ॥

उक्तमर्थं भङ्ग्यन्तरेणोपपादयति - कालत्रयमिति । वर्तमानं चेत्यं
दृश्यं उपेक्षिण्या अतीतचेत्यवासनाबन्धनैर्हीनायाश्चेत्याधारं
कालत्रयमप्यपश्यन्त्याश्चितो न भाव्यपि चेत्ययोगः सम्भाव्यत इति समतैव
परिशिष्यत इत्यर्थः ॥ १०० ॥

याति वाचामगम्यत्वादसत्तामिव शाश्वतीम् ।
नैरात्म्यसिद्धान्तदशामुपयातेव तिष्ठति ॥ १०१ ॥

उपयातेवेति । वस्तुतस्तु नोपयाता यतस्तिष्ठति सतोऽसत्त्वायोगादिति भावः ॥ १०१ ॥

भवत्यात्मा तथा ब्रह्म न किञ्चिच्चाखिलं च वा ।
परमोपशमेऽलीना मोक्षनाम्ना परोच्यते ॥ १०२ ॥

यस्तिष्ठति स शास्त्रीयव्यवहारे प्रत्यक्त्वादात्मा भवति तथा बृहत्त्वाद्ब्रह्म
भवति । परमार्थदृशा तु वाचां प्रवृत्त्यभावान्न किञ्चित् । यदि च
प्रवृत्तिनिमित्तकल्पनया शब्दप्रवृत्तिरुच्येत तदा
सङ्कोचकारणभावात्सर्वप्रवृत्तिनिमित्तकल्पनादखिलं च । यतो वाचो
निवर्तन्ते अप्राप्य मनसा सह तस्मात्तत्सर्वमभवत् इति च श्रुतौ द्वेधापि
निरूपणादिति भावः । सर्वदृश्यानां परमोपशमे सति तदवधित्वादलीना
परा समता मोक्षनाम्नोच्यत इत्यर्थः ॥ १०२ ॥

सङ्कल्पकलिता त्वेषा मन्दाभासतया जगत् ।
न सम्यक्पश्यतीदं चिद्दृष्टिः पटलिनी यथा ॥ १०३ ॥

इत्थं भेदसङ्कल्पकलनात्यागः सोपायो वर्णितः । इदानीं सङ्कल्पकलने चितो
मान्द्यप्रसरक्रममाह - सङ्कल्पे इत्यादिना ।
जगत्सम्यक्पारमार्थिकरूपेण न पश्यति । पटलिनी पटलावरणवती ॥ १०३ ॥

ईहानीहामयैरन्तर्या चिदावलिता मलैः ।
सा हि नोड्डयितुं शक्ता पाशबद्धेव पक्षिणी ॥ १०४ ॥

ईहानीहामयैरिष्टानिष्टसङ्कल्पनरूपैर्मलैः उड्डयितुं सर्वनभो व्याप्तुं
नभसा गन्तुं च ॥ १०४ ॥

सङ्कल्पकलनेनैव ये केचन जना इमे ।
पतिता मोहजालेषु विनेत्रा इव पक्षिणः ॥ १०५ ॥

सङ्कल्पजालवलितैर्विषयावटपातिभिः ।
पदवी गतबाधेयं न दृष्टा मत्पितामहैः ॥ १०६ ॥

इयं गतबाधा निर्दुःखा अपरिच्छिन्नात्मपदवी न दृष्टा ॥ १०६ ॥

दिनैः कतिपयैरेव स्फुरिता धरणीतले ।
वराकास्तेन ते नष्टा मशकाः कुहरेष्विव ॥ १०७ ॥

तेन आत्मपदव्यदर्शनेन । ते मत्पितामहाः ॥ १०७ ॥

यद्यज्ञास्यन्निमे तत्त्वं भोगदुःखार्थिनस्तदा ।
भावाभावान्धकूपेषु नापतिप्यन्हताशयाः ॥ १०८ ॥

हताशया दुर्बुद्धयः । इमे मत्पितामहा यदि आत्मतत्त्वमज्ञास्यंस्तदा
नापतिष्यन् । हेतुहेतुमत्त्वे लिङ्निमित्ते क्रियातिपत्तौ ऌङ् ॥ १०८ ॥

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन जन्तवः ।
धराविवरमग्नानां कीटानां समतां गताः ॥ १०९ ॥

द्वन्द्वमोहेन सुखदुःखशीतोष्णाद्यर्जनप्रतीकाराभिनिवेशेन ॥ १०९ ॥

ईहितानीहिताकाराः कलनामृगतृष्णिकाः ।
सत्यावबोधमेघेन यस्य शान्ताः स जीवति ॥ ११० ॥

सत्यावबोधमेघेन द्वन्द्वतापोपशान्त्या शान्ताः । स जीवति सार्थकजीवन इति
यावत् ॥ ११० ॥

कुतः किलास्याः शुद्धाया अविच्छिन्नामलाकृतेः ।
चन्द्रिकाया रुचः कोष्णाः कलङ्काः कलनाश्चितः ॥ १११ ॥

सत्यावबोधमात्रेण कथं तच्छान्तिरिति चेदसत्त्वदेवेत्याह - कुत इति ।
कोष्णा मन्दोष्णाः । कलङ्काः श्यामिकाः ॥ १११ ॥

आत्मनेऽस्तु [आत्मने तु नमो इति पाठः] नमो
मह्यमविच्छिन्नचिदात्मने ।
लोकालोकमणे देव चिरेणाधिगतोऽस्यहो ॥ ११२ ॥

इदानीमखण्डवाक्यार्थं साक्षात्कृत्य
तद्भावेऽवस्थितमात्मानमतिदुर्लभमधिगतं प्रणयान्नमस्यति -
आत्मने इति । लोकस्यालोको ज्ञानप्रकाशस्तन्निमित्तभूतमणे । चिरेणेति ।
तथाचोक्तं स्वाराज्यसिद्धौ अपि भूपरमाणुभूरिसङ्ख्येष्वपयातेषु
चतुर्मुखेष्वलब्धात् । अपदुःखनिरन्तसौख्यसिन्धोर्न च लाभोऽस्ति परो
निजात्मलाभात् ॥ इति ॥ ११२ ॥

परामृष्टोऽसि लब्धोऽसि प्रोदितोऽसि चिराय च ।
उद्धृतोसि विकल्पेभ्यो योसि सोसि नमोस्तु ते ॥ ११३ ॥

प्रोदितः स्वीयपरमार्थरूपेणाभिव्यक्तः ॥ ११३ ॥

मह्यं तुभ्यमनन्ताय मह्यं तुभ्यं शिवात्मने ।
नमो देवाधिदेवाय पराय परमात्मने ॥ ११४ ॥

प्रथमे मह्यन्तुभ्यमिति पदे परस्परविशेषणेन शोधनार्थे । अत
एवानन्ताय । द्वितीये तु अखण्डैकरसतालक्षणः वाक्यार्थलाभार्थे । अत एव
शिवात्मने देवानां ब्रह्मादीनां सर्वेन्द्रियप्राणमनसां चधिदेवाय
अधिष्ठाय प्रकाशकाय ॥ ११४ ॥

गतघनपरिपूर्णमिन्दुबिम्बं
गतकलनावरणं स्वमेव रूपम् ।
स्ववपुषि मुदिते स्वयं स्वसंस्थं
स्वयमुदितं स्ववशं स्वयं नमामि ॥ ११५ ॥

गतघनं निरस्तमेघावरणं परिपूर्णमिन्दुबिम्बमिवेति शेषः । स्ववपुषि
स्वात्मनि मुदिते आनन्दैकरसे स्वयमनन्याधारतया स्वेन पारमार्थिकरूपेण
संस्थं विश्रान्तम् । निराधारमिति यावत् । स्वयमुदितं स्वप्रकाशं
स्ववशं स्वाधीनस्वानन्दं स्वयमनन्योऽहं नमामि ।
सर्वोत्कर्षेणानुसन्दधे इत्यर्थः ॥ ११५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये
मोक्षोपायेषूपशमप्रकरणे प्रह्रादात्मोपदेशयोगो नाम
चतुस्त्रिंशः सर्गः ॥ ३४ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
प्रह्रादात्मोपदेशयोगो नाम चतुस्त्रिंशः सर्गः ॥ ३४ ॥