त्रयस्त्रिंशः सर्गः ३३
श्रीवसिष्ठ उवाच ।
गर्जन्तमतिसंरब्धं सुरलोकमथारिहा ।
उवाच माधवो वाक्यं शिखिवृन्दमिवाम्बुदः ॥ १ ॥
हरिभक्त्यात्र दैत्यस्य विवेकादिगुणोदयः ।
हरिं प्रसन्नं दृष्ट्वाग्रे स्तवश्चैवोपवर्ण्यते ॥ १ ॥
अनुचितदर्शनादतिसंरब्धं कुपितमत एव गर्जन्तं प्रागुक्तप्रकारेण
उच्चैराक्रुश्य पृच्छन्तं सुरलोकमथ माधव उवाचेत्यन्वयः ॥ १ ॥
श्रीभगवानुवाच ।
विबुधा मा विषण्णाः स्थ प्रह्रादो भक्तिमानिति ।
पाश्चात्यं जन्म तस्येदं मोक्षार्होऽसावरिन्दमः ॥ २ ॥
स्वत एव बलिनो दैत्यास्त्वद्भक्त्याप्युपस्कृता बलवत्तरा भविष्यन्ति कुतो न
विषादस्तत्राह - मोक्षार्ह इति । यतो मोक्षार्हस्ततो न वस्तुच्छं राज्यसुखं
स वाञ्छतीत्यर्थः ॥ २ ॥
अत उत्तरमेतेन गर्भता दनुजन्मना ।
न कर्तव्या प्रदग्धेन बीजेनेवाङ्कुरक्रिया ॥ ३ ॥
एतेन दनुजन्मना अतोऽस्माज्जन्मन उत्तरकालं गर्भता मातृगर्भे वसतिर्न
कर्तव्या ॥ ३ ॥
गुणवान्निर्गुणो जात इत्यनर्थक्रमं विदुः ।
निर्गुणो गुणवाञ्जात इत्याहुः सिद्धिदं क्रमम् ॥ ४ ॥
देवैरुक्तं तस्य भगवद्भक्त्यनौचित्यदोषं परिहरति - गुणवानिति ।
जातश्चेति [चेदिति इत्यपि पाठः] शेषः । अनर्थक्रमं
अनर्थपर्यवसितं पुरुषार्थविघातकं च क्रमं विदुः आहुश्च विद्वांसः ॥
४ ॥
आत्मीयानि विचित्राणि भुवनान्यमरोत्तमाः ।
प्रयात नासुखायैषा प्रह्रादी गुणितेह वः ॥ ५ ॥
प्राह्लादी प्रह्रादसम्बन्धिनी मद्भक्त्यादिगुणिता वः असुखाय न ॥ ५ ॥
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा विबुधांस्तत्र क्षीरोदार्णववीचिषु ।
अन्तर्धानं ययौ देवस्तटतापिच्छगुच्छवत् ॥ ६ ॥
तटोत्पन्नतापिच्छस्य नीलं गुच्छं यथा उन्नतासु वीचिषु
व्यवधानादन्तर्धानं याति तद्वत् ॥ ६ ॥
सोऽपि सम्पूजितहरिः सुरौघो व्रजदम्बरम् ।
पुनर्मन्दरनिर्धूतात्कणजालमिवार्णवात् ॥ ७ ॥
पूर्वमम्बरादर्णवे पतितं कणजालं
मन्दरनिर्धूतादर्णवात्पुनरम्बरमिव ॥ ७ ॥
प्रह्रादं प्रति गीर्वाणास्ततः स्निग्धत्वमाययुः ।
महान्तो यत्र नोद्विग्नास्तत्र विश्वासवन्मनः ॥ ८ ॥
स्निग्धत्वं सौहृदम् । यत्र यस्मिन्पुरुषे विषये वा महान्तः स्वपूज्याः
पित्राचार्यादयो नोद्विग्नास्तत्र तस्मिन्बालामामपि मनो
विश्वासवत्प्रसिद्धमित्यर्थः ॥ ८ ॥
प्रत्यहं पूजयामास देवदेवं जनार्दनम् ।
मनसा कर्मणा वाचा प्रह्रादो भक्तिमानिति ॥ ९ ॥
अथ पूजापरस्यास्य समवर्धन्त कालतः ।
विवेकानन्दवैराग्यविभवप्रमुखा गुणाः ॥ १० ॥
आनन्दो यथाप्राप्तेन सन्तोषः ॥ १० ॥
नाभ्यनन्ददसौ भोगपूगं शुष्कमिव द्रुमम् ।
न चारमत कान्तासु मृगो लोकमहीष्विव ॥ ११ ॥
लोकमहीषु जनाकीर्णभूमिष्विव ॥ ११ ॥
न रेमे लोकचर्यासु शास्त्रार्थकथनादृते ।
न जायते रतिस्तस्य दृश्ये स्थल इवाब्जिनी ॥ १२ ॥
लोकचर्यासु अशास्त्रीयलोकवृत्तेषु । दृश्ये दर्शनार्हे समाजोत्सवादिकौतुके ॥
१२ ॥
न विशश्राम चेतोऽस्य भोगरोगानुरञ्जने ।
मुक्ताफलमसंश्लिष्ठं मुक्ताफल इवामले ॥ १३ ॥
भोगरूपाणां रोगाणां विषयापथ्यसेवनेनानुकूलाचरणे ।
असंश्लिष्टमग्रथितमच्छिद्रितं वा ॥ १३ ॥
त्यक्तभोगादिकलनं विश्रान्तिमनुपागतम् ।
चेतः केवलमस्यासीद्दोलायामिव योजितम् ॥ १४ ॥
कथं तर्हि चेत आसीत्तदाह - त्यक्तेति । दोलायां योजितमिव
नैकतरभागविश्रान्तमन्तरालालम्बीत्यर्थः ॥ १४ ॥
प्राह्लादीं तां स्थितिं विष्णुर्देवः क्षीरोदमन्दिरात् ।
विवेद सर्वगतया धिया परमकान्तया ॥ १५ ॥
परमकान्तया शुद्धसत्त्वात्मिकया धिया ज्ञानशक्त्या विवेद विदितवान् ॥ १५ ॥
अथ पातालमार्गेण विष्णुराह्लादिताग्रतः ।
पूजादेवगृहं तस्य प्रह्रादस्य समाययौ ॥ १६ ॥
आह्लादिता भक्ताह्लादकर्ता । एतस्यैवानन्दत्यान्यानि भूतानि मात्रामुपजीवन्ति इति
श्रुतेः सर्वानन्दकर्ता वा । पूजादेवगृहं गत्वा प्रह्रादस्य अग्रतः
समाययौ ॥ १६ ॥
विज्ञायाभ्यागतं देवं पूजया द्विगुणेद्धया ।
दैत्येन्द्रः पुण्डरीकाक्षमादरात्पर्यपूजयत् ॥ १७ ॥
द्विगुणेनोपकरणोपचारेण इद्धया दीप्तया ॥ १७ ॥
पूजागृहगतं देवं प्रत्यक्षावस्थितं हरिम् ।
प्रह्रादः परमप्रीतो गिरा तुष्टाव पुष्टया ॥ १८ ॥
पुष्टया हर्षोपचितया ॥ १८ ॥
प्रह्राद उवाच ।
त्रिभुवनभवनाभिरामकोशं
सकलकलङ्कहरं परं प्रकाशम् ।
अशरणशरणं शरण्यमीशं
हरिमजमच्युतमीश्वरं प्रपद्ये ॥ १९ ॥
त्रिभुवनस्य यद्भवनं सुरक्षितस्थितिस्तदनुकूलमभिरामं कोशगृहम् ।
स्वान्तःस्थितत्रिभुवनस्य स्वेनैव पालनात् । सकलस्य बाह्याभ्यन्तरस्य
कलङ्कस्य तमसः हरं अपहर्तारम् । परं
सूर्यचन्द्राग्निवाक्करणप्रकाशेभ्योऽप्युत्कृष्टं स्वयञ्ज्योतिः प्रकाशम् । न
विद्यतेऽन्यच्छरणं येषां ते अशरणास्तेषां शरणं रक्षकम् ।
अविनाशित्वाच्छरण्यं शरणार्हम् । ईशं सर्वशक्तिसम्पन्नम् । अत एव रजसा
अजं सत्त्वेनाच्युतं तमसा चेश्वरं सर्वदुःखहरत्वाद्धरिं त्वां प्रपद्ये
इत्यर्थः ॥ १९ ॥
कुवलयदलनीलसन्निकाशं
शरदमलाम्बरकोटरोपमानम् ।
भ्रमरतिमिरकज्जलाञ्जनाभं
सरसिजचक्रगदाधरं प्रपद्ये ॥ २० ॥
कुवलयदलेनोत्पलेन नीलमणिना च सन्निकाशं समानकान्तिम् ॥ २० ॥
विमलमलिकलापकोमलाङ्गं
सितदलपङ्कजकुड्मलाभशङ्खम् ।
श्रुतिरणितविरञ्चिचञ्चरीकं
स्वहृदयपद्मदलाश्रयं प्रपद्ये ॥ २१ ॥
अलिकलापमिव कोमलानि सुन्दराण्यङ्गानि यस्य । सितदलपङ्कजस्य
पुण्डरीकस्य कुड्मलमिव आभातीति सितदलपङ्कजकुड्मलाभः शङ्खो यस्य
। श्रुतय एव रणितानि गुञ्जारवा यस्य तथाविधो विरिञ्चिनामा चञ्चरीको
नाभिपद्मे भृङ्गो यस्य । स्वानां स्वभक्तानां
हृदयपद्मदलान्याश्रय आधारो यस्य तम् ॥ २१ ॥
सितनखगणतारकावकीर्णं
स्मितधवलाननपीवरेन्दुबिम्बम् ।
हृदयमणिमरीचिजालगङ्गं
हरिशरदम्बरमाततं प्रपद्ये ॥ २२ ॥
हरिलक्षणं शरदम्बरं शरत्कालाकाशं प्रपद्ये ।
शरदम्बरत्वोपपादनाय विशिनष्टि - सितनखेत्यादि । स्मितेन
धवलमाननलक्षणं पीवरं पूर्णमिन्दुबिम्बं यस्य । हृदयमणिः
कौस्तुभस्तन्मरीचिजालान्येव गङ्गा मन्दाकिनी यत्र ॥ २२ ॥
अविरलकृतसृष्टिसर्वलीनं
सततमजातमवर्धनं विशालम् ।
गुणशतजरठाभिजातदेहं
तरुदलशायिनमर्भकं प्रपद्ये ॥ २३ ॥
अविरला निबिडा कृता सृष्टिः सर्वाप्यसम्बाधं लीना निविष्टा यस्मिन् । स्वयं
तु सततमजातमनुत्पन्नमत एवाऽवर्धनं वृद्ध्यादिविकारशून्यम् । कथं
तस्य देहित्वं तत्राह - गुणेति ।
सत्त्वादिमायागुणप्रयुक्तैर्गुणशतैरनन्तकल्याणगुणैर्जरठोऽतिचिरन्तनोऽभिज्
आतः सुन्दरो देहो यस्य तथाविधम् । प्रलयकाले वटतरुदले शायिनमर्भकं
प्रपद्ये इत्यर्थः ॥ २३ ॥
नवविकसितपद्मरेणुगौरं
स्फुटकमलावपुषा विभूषिताङ्गम् ।
दिनशमसमयारुणाङ्गरागं
कनकनिभाम्बरसुन्दरं प्रपद्ये ॥ २४ ॥
नवविकसितस्य नाभिपद्मस्य रेणुभिर्गौरं पीतमर्थादुदरदेशे । स्फुटेन
प्रकाशमानेन कमलाया लक्ष्म्या वपुषा विभूषितमङ्गं वक्षो वामोरुर्वा
यस्य । दिनशमसमयः सायङ्काल इवारुणो रक्तचनदनकाश्मीराद्यङ्गरागो
यस्य ॥ २४ ॥
दितिसुतनलिनीतुषारपातं
सुरनलिनीसततोदितार्कबिम्बम् ।
कमलजनलिनीजलावपूरं
हृदि नलिनीनिलयं विभुं प्रपद्ये ॥ २५ ॥
कमलजो ब्रह्मा तन्नलिन्या जलेनावपूर्यत इति जलावपूरस्तडागस्तद्रूपम् ।
हृदि प्रसिद्धा नलिनी हृत्पद्ममिति यावत् ॥ २५ ॥
त्रिभुवननलिनीसितारविन्दं
तिमिरसमानविमोहदीपमग्र्यम् ।
स्फुटतरमजडं चिदात्मतत्त्वं
जगदखिलार्तिहरं हरिं प्रपद्ये ॥ २६ ॥
त्रिभुवननलिन्याः सिते अरविन्दे करे यस्य सूर्यस्य तथाभूतम् । अत एव
तिमिरसमानस्य विमोहस्य दीपम् । अग्र्यं श्रेष्ठम् । किं भौतिकप्रकाशोऽसौ
नेत्याह - स्फुटतरमिति । स्फुटतरं नित्यस्वप्रकाशमत एवाजडं
चिद्रूपमात्मतत्त्वमत एव साक्षात्कारमात्रेण जगतां
जगद्गतजीवानामखिलार्तिहरम् ॥ २६ ॥
श्रीवसिष्ठ उवाच ।
इति गुणबहुलाभिर्वाग्भिरभ्यर्चितोऽसौ
हरिरसुरविनाशः श्रीनिषण्णांसदेशः ।
जलद इव मयूरं प्रीतिमान्प्रीयमाणं
कुवलयदलनीलः प्रत्युवाचासुरेन्द्रम् ॥ २७ ॥
इति उक्तप्रकाराभिर्गुणैर्बहुलाभिः स्तुतिवाग्भिरभ्यर्चितः । श्रिया निषण्ण
आलिङ्गित्ॐऽसदेशो यस्य तथाविधो हरिर्जलदो मयूरमिव असुरेन्द्रं प्रह्रादं
प्रत्युवाच ॥ २७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे नारायणागमनं नाम त्रयस्त्रिंशः
सर्गः ॥ ३३ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
नारायणागमनं नाम त्रयस्त्रिंशः सर्गः ॥ ३३ ॥