द्वात्रिंशः सर्गः ३२
श्रीवसिष्ठ उवाच ।
प्रह्राद इति सञ्चिन्त्य कृत्वा नारायणीं तनुम् ।
पुनः सञ्चिन्तयामास पूजार्थमसुरद्विषः ॥ १ ॥
विष्णोर्मानसपूजात्र बाह्यपूजाऽसुरैः सह ।
श्रुत्वा विस्मितदेवानां हरेः पृच्छा च वर्ण्यते ॥ १ ॥
स्वतनुं भावनया नारायणीं नारायणात्मिकां कृत्वा ॥ १ ॥
वपुषो वैष्णवादस्मान्मा भून्मूर्तिः परावरा ।
अयं प्राणप्रवाहेण बहिर्विष्णुः स्थितोऽपरः ॥ २ ॥
अस्मान्मया परिकल्पितात्त्रिविधाद्वैष्णवाद्वपुषोऽन्या परा समष्टिरूपा अवरा
व्यष्टिदेवतारूपा वा मा भूत् किन्त्वयमेव मद्रूपो
विष्णुर्हृदयात्प्राणप्रवाहेण पुष्पाञ्जलिभावनया बहिरावाहितः सन्
यावत्पूजाकालमपर इव स्थितः कल्प्यत इत्यर्थः ॥ २ ॥
वैनतेयसमारूढः स्फुरच्छक्तिचतुष्टयः ।
शङ्खचक्रगदापाणिः श्यामलाङ्गश्चतुर्भुजः ॥ ३ ॥
स कीदृशस्तमाह - वैनतेयेति द्वाभ्याम् । स्फुरत्
क्रियाज्ञानेच्छानुग्रहाख्यं शक्तिचतुष्टयं यस्य ॥ ३ ॥
चन्द्रार्कनयनः श्रीमान्कान्तनन्दकनन्दनः ।
पद्मपाणिर्विशालाक्षः शार्ङ्गधन्वा महाद्युतिः ॥ ४ ॥
कान्तेन नन्दकेन खड्गेन नन्दनः स्वजनान्दनः ॥ ४ ॥
तदेनं पूजयाम्याशु परिवारसमन्वितम् ।
सपर्यया मनोमय्या सर्वसम्भाररम्यया ॥ ५ ॥
परिवारैः सङ्कर्षणप्रद्युम्नादिव्यूहैः पार्षदैश्च समन्वितम् ॥ ५ ॥
तत एनं महादेवं पूजयिष्याम्यहं पुनः ।
पूजया बाह्यसम्भोगमहत्या बहुरत्नया ॥ ६ ॥
महादेवं पूज्यं देवं स्वकुलदेवशिवाभिन्नं वा । बाह्यैः सम्भोगैः
सम्भारैर्महत्या विस्तृतया ॥ ६ ॥
प्रह्राद इति सञ्चिन्त्य सम्भारभरभारिणा ।
मनसा पूजयामास माधवं कमलाधवम् ॥ ७ ॥
कमला लक्ष्मीस्तस्या धवं पतिम् ॥ ७ ॥
रत्नौघपात्रपटलैश्चन्दनादिविलेपनैः ।
धूपैर्दीपैर्विचित्रैश्च नानाविभवभूषणैः ॥ ८ ॥
रत्नौघखचितानां पात्राणां पटलैः प्रान्तैरभिषेचनैरिति शेषः ।
नानाविभवैर्भूषणैरलङ्कारैः ॥ ८ ॥
मन्दारमालावलनैर्हेमाब्जपटलोत्करैः ।
कल्पवृक्षलतागुच्छै रत्नस्तबकमण्डलैः ॥ ९ ॥
पल्लवैर्दिव्यवृक्षाणां नानाकुसुमदामभिः ।
किङ्किरातैर्बकैः कुन्दैश्चम्पकैरसितोत्पलैः ॥ १० ॥
किं किरातादयो यथायोगं पुष्पजातिभेदा बोध्याः ॥ १० ॥
कह्लारैः कुमुदैः काशैः खर्जूरैश्चूतकिंशुकैः ।
अशोकैर्मदनैर्बिल्वैः कर्णिकारैः किरातकैः ॥ ११ ॥
कदम्बैर्बकुलैर्निम्बैः सिन्दुवारैः सयूथकैः ।
पारिभद्रैर्गुग्गुलीभिर्बिन्दुकैः पुष्पकोत्करैः ॥ १२ ॥
प्रियङ्गुपटलैः पाटैः पाटलैर्धातुपाटलैः ।
आम्रैराम्रातकैर्गव्यैर्हरीतकबिभीतकैः ॥ १३ ॥
शालतालतमालानां लताकुसुमपल्लवैः ।
कोमलैः कलिकाजालैः सहकारैः सकुङ्कुमैः ॥ १४ ॥
सकुङ्कुमैः काश्मीरद्रवाक्तैः ॥ १४ ॥
केतकैः शतपत्रैश्च तथैलामञ्जरीगणैः ।
सर्वसौन्दर्यसम्मानैः स्वयमात्मार्पणैरपि ॥ १५ ॥
सर्वैर्धूपदीपनैवेद्यताम्बूलदर्पणच्छत्रचामरनीराजनपुष्पाञलिप्रदक्ष्
इणानमस्कारादिभिः सौन्दर्ययुक्तैः सम्मानैरुपचारैः ॥ १५ ॥
हरिं परमया भक्त्या जगद्विभवभव्यया ।
मनसा पूजयामास प्रह्रादोऽन्तःपुरे पतिम् ॥ १६ ॥
जगति ये ये विभवाः प्रसिद्धास्तैस्तैरुपकरणीकृतैर्भव्यया भक्त्या पतिं
जगत्पतिं स्वस्वामिनं वा ॥ १६ ॥
अथ देवगृहे तस्मिन्बाह्यार्थैः परिपूर्णया ।
पूजया पूजयामास दानवेशो जनार्दनम् ॥ १७ ॥
अथ मानसपूजानन्तरम् । तस्मिन्नन्तःपुरे स्थिते देवगृहे ॥ १७ ॥
बहिर्द्रव्यैरनेनैव क्रमेण परमेश्वरम् ।
पुनःपुनः पूजयित्वा तुष्टिमान्दानवोऽभवत् ॥ १८ ॥
अनेन मानसपूजोक्तेनैव क्रमेण ॥ १८ ॥
ततस्ततः प्रभृत्येव प्रह्रादः परमेश्वरम् ।
तथैव [तयैव इत्यपि क्वचित्] प्रत्यहं भक्त्या पूजयामास
पूर्णया ॥ १९ ॥
अथ तस्मिन्पुरे दैत्यास्ततः प्रभृति वैष्णवाः ।
सर्व एवाभवन्भव्या राजा ह्याचारकारणम् ॥ २० ॥
राजा हीति । राज्ञि धर्मिणि धर्मिष्ठाः पापे पापाः समे समाः ।
तद्धर्ममनुवर्तन्ते यथा राजा तथा प्रजाः ॥ इति न्यायादित्यर्थः ॥ २० ॥
जगाम वार्ता गगनं देवलोकमथारिहन् ।
विष्णोर्द्वेषं परित्यज्य भक्ता दैत्याः स्थिता इति ॥ २१ ॥
वार्ता जगाम चारमुखादित्यर्थाद्गम्यते ॥ २१ ॥
देवा विस्मयमाजग्मुः शक्राद्याः समरुद्गणाः ।
गृहीता वैष्णवी भक्तिर्दैत्यैः किमिति राघव ॥ २२ ॥
किं कस्माद्गृहीतेति ॥ २२ ॥
क्षीरोदे भोगिभोगस्थं बिबुधा विस्मयाकुलाः ।
जग्मुरम्बरमुत्सृज्य हरिमाहवशालिनम् ॥ २३ ॥
अम्बरं अमरावतीम् ॥ २३ ॥
तत्रैनं दैत्यवृत्तान्तं कथयामासुरस्य ते ।
पप्रच्छुश्चैनमासीनमपूर्वाश्चर्यविस्मयम् ॥ २४ ॥
अस्य अस्मै हरये । एनं हरिम् ॥ २४ ॥
विबुधा ऊचुः ।
किमेतद्भगवन्दैत्या विरुद्धा ये सदैव ते ।
ते हि तन्मयतां याता मायेयमिति भाव्यते ॥ २५ ॥
ते विरुद्धास्त्वां द्विषन्त इति यावत् । तन्मयतां त्वन्मयताम् ॥ २५ ॥
क्व किलात्यन्तदुर्वृत्ता दानवा दलिताद्रयः ।
क्व पाश्चात्यमहाजन्मलभ्या भक्तिर्जनार्दने ॥ २६ ॥
द्वेषाद्दलिताः अद्रयस्त्वद्भक्तदेवमुन्यावासा यैः ॥ २६ ॥
प्राकृतो गुणवाञ्जात इत्येषा भगवन्कथा ।
अकालपुष्पमालेव सुखायोद्वेजनाय च ॥ २७ ॥
प्राकृतः पामरः । एषा कथा । औत्पातिकी अकाल पुष्पमालेव ॥ २७ ॥
नोपपन्नं हि यद्यत्र तत्र तत्र विराजते ।
मध्ये काचकलापस्य महामूल्यो मणिर्यथा ॥ २८ ॥
न उपपन्नं युक्तम् ॥ २८ ॥
यो यो यादृग्गुणो जन्तुः स तामेवैति संस्थितिम् ।
सदृशेष्वप्यजेषु श्वा न मध्ये रमते क्वचित् ॥ २९ ॥
ननु कश्यपवंश्यत्वाद्युष्मत्सदृशा एव ते इति चेद्गुणवैषम्यान्नेत्याशये
नाहुः - यो य इति । तामसस्तामसीं राजसो राजसीं सात्त्विकस्तु सात्त्विकीं
संस्थितिमेतीति युक्तमित्यर्थः ॥ २९ ॥
न तथा दुःखयन्त्यङ्गे मज्जन्त्यो वज्रसूचयः ।
वैसादृश्येन सम्बद्धा यथैता वस्तुदृष्टयः ॥ ३० ॥
वैसादृश्येन अनौचित्येन । तथाच हरिणोक्तम् - शशी दिवसधूसरो
गलितयौवना कामिनी सरो विगतवारिजं मुखमनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतिः सज्जनो नृपाङ्गणगतः खलो मनसि
सप्त शल्यानि मे ॥ इति ॥ ३० ॥
यद्यत्र क्रमसम्प्राप्तमुपपन्नमनिन्दितम् ।
तदेव राजते तत्र जलेऽम्भोजं नतु स्थले ॥ ३१ ॥
क्रमो योग्यता तया सम्प्राप्तम् ॥ ३१ ॥
क्वाधमः प्राकृतारम्भो हीनकर्मरतिः सदा ।
वराको दानवो [दानवस्तुच्छजातिः इति क्वचित्पाठः]
हीनजातिर्भक्तिः क्व वैष्णवी ॥ ३२ ॥
हीनजातिस्तामसयोनिः ॥ ३२ ॥
कमलिनी परुषोषरभूगता
सुखयतीह यथा न दुराश्रया ।
दितिसुतोऽपि हि माधवभक्तिमा-
निति कथा न तथेश सुखाय नः ॥ ३३ ॥
कमलिनी परुषायां तप्तायामूषरभुवि गता इति कथा यथा श्रोतॄन्न
सुखयति तथा हे ईश दितेः सुतः सन्ततिरपि माधवे भक्तिमानिति । दुराश्रया
अधमाश्रयविषया कथापि नः तथैव न सुखायेत्यर्थः ॥ ३३ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे विवुधवाक्यं नाम द्वात्रिंशः सर्गः ॥
३२ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
विबुधवाक्यं नाम द्वात्रिंशः सर्गः ॥ ३२ ॥