३१

एकत्रिंशः सर्गः ३१

श्रीवसिष्ठ उवाच ।

अथ दुःखपरीतात्मा हरिणा हतदानवे ।
प्रह्रादश्चिन्तयामास मौनी पातालकोटरे ॥ १ ॥

हरिविक्रमचिन्तात्र स्वजनक्षेमचिन्तनम् ।
प्रह्रादस्य हरेर्भक्त्या तद्भावश्चोपवर्ण्यते ॥ १ ॥

हता दानवा यस्मिंस्तथाविधे पातालकोटरे ॥ १ ॥

को न्वस्माकमुपायः स्याद्य एवेहासुराङ्कुरः ।
तीक्ष्णाग्रो जायते तं तं भुङ्क्ते शाखामृगो हरिः ॥ २ ॥

उपैतीत्युपायः सहायः । तीक्ष्णाग्रः सम्पत्पल्लवोद्गमक्षमो य
एषासुरवृक्षाणामङ्कुरप्रायस्तेजस्वी जायते तं तं भुङ्क्ते । हरिपदस्य
शाखामृगपदेन
व्याख्यानमङ्कुरविनाशकत्वोपपादनार्थमधिक्षेपार्तह् च ॥ २ ॥

न कदाचन पाताले दैत्या दोर्दण्डशालिनः ।
स्थिरा बभूवुरुद्भिन्नाः पद्मा इव हिमाचले ॥ ३ ॥

उद्भिन्ना अङ्कुरिता वीर्यविकसिता वा ॥ ३ ॥

उत्पत्त्योत्पत्त्य नश्यन्ति भासुराकारघर्घराः ।
क्षीणप्रस्फुरितारम्भास्तरङ्गा इव वारिधेः ॥ ४ ॥

नश्यन्त्यसुरा इत्यनुषज्यते ॥ ४ ॥

सबाह्याभ्यन्तरं कष्टं समग्रालोकहारिणः ।
रिपवः प्रौढिमायाता अपूर्वतिमिरभ्रमाः ॥ ५ ॥

कष्टमिति खेदे । आलोक्यन्त इत्यालोका बाह्यराज्यादिसम्पदः । आभ्यन्तरा
उत्साहहर्षप्रसादसुखविश्रान्त्यादिसम्पदश्च त एव आलोकाः प्रकाशास्तेषां
हारिणोऽपहरणशीलाः । अत एव अपूर्वस्तिमिरभ्रमो येषु तथाविधा रिपवो देवाः
प्रौढिमुत्कर्षम् ॥ ५ ॥

तमःप्रपूर्णहृदयाः सङ्कुचत्पत्रसम्पदः ।
सुहृदः खेदमायान्ति निशीथकमलाकराः ॥ ६ ॥

तमसा कश्मलान्धकारेण प्रपूर्णहृदयाः सङ्कुचन्त्यः पत्रस्थानीयाः
सम्पदो येषां तथाविधाः सुहृल्लक्षणा निशीथकमलाकराः खेदमायान्ति
॥ ६ ॥

तातस्य मलिनैर्नूनं पादपीठोपमर्दकैः ।
सुरैर्विषय आक्रान्तो मृगैरिव महावनम् ॥ ७ ॥

मलिनैर्द्वेषकलुषैस्तातस्य प्रणामकाले पादपीठोपमर्दकैः सुरैर्विषयो
देश आक्रान्तो नूनमिति वितर्के । महावनं सिंहवनम् ॥ ७ ॥

निरुद्यमा गतश्रीका दीनाः प्रकटिताशयाः ।
बान्धवा न विराजन्ते पद्माः प्लुष्टदला इव ॥ ८ ॥

प्रकटिताशयाः ख्यापितहार्ददुःखाः । प्लुष्टदला ग्रीष्मदग्धपत्राः ॥ ८ ॥

स्फुरन्त्यसुरवीराणां गृहेष्वविरतानिलैः ।
धूसरा भस्मनीहारा धूपधूमभरा इव ॥ ९ ॥

अविरतैरनिलैरुत्पातघातैः कीर्यमाणा भस्मलक्षणा नीहाराः
प्राक्तनधूपधूमभरा इव स्फुरन्ति ॥ ९ ॥

हृतद्वारकपाटासु दैत्यान्तःपुरभित्तिषु ।
प्रभा मरकतस्येव जाता नवयवाङ्कुराः ॥ १० ॥

प्राङ्मरकतस्य प्रभा इव साम्प्रतं यवानां नवाङ्कुरा जाताः ॥ १० ॥

त्रिलोकीनाभिनलिनीमत्तेभा दानवा अपि ।
देववद्दैन्यमायाताः किमसाध्यमहो विधेः ॥ ११ ॥

त्रिलोक्या नाभिनलिनी मेरुस्तदुपमर्दे मत्तेभभूता अपि दानवाः प्राग्देवा इव
दैन्यमायाताः । किमित्याक्षेपे । असाध्यं नास्तीत्यर्थः ॥ ११ ॥

मनाक्चलति पर्णेऽपि दृष्टारिभयभीतयः ।
वध्वस्त्रस्यन्ति विध्वस्ता मृग्यो ग्रामगता इव ॥ १२ ॥

वध्वो दैत्यसीमन्तिन्यस्त्रस्यन्ति उद्विजन्ति ॥ १२ ॥

आसुरीकर्णपूरार्थं फुल्ला रत्नगुलुच्छकाः ।
नरसिंहकरालूनाः स्थाणुतामागता द्रुमाः ॥ १३ ॥

रत्नमया गुलुच्छकाः स्तबका येषां तथाविधा द्रुमा दिव्यवृक्षाः ॥ १३ ॥

दिव्याम्बरलतापत्रा रत्नस्तबकदन्तुराः ।
पुनरारोपितास्तत्र नन्दने कल्पपादपाः ॥ १४ ॥

दिव्यान्यम्बराणि येषु तथाविधा लताः शाखाः पत्राणि च येषाम् ।
रत्नस्तबकैर्दन्तुराः । दन्त उन्नत उरच् । पुनरित्यनेन पूर्वं तत आनीता इति
गम्यते ॥ १४ ॥

पुरा त्वमरबन्दीनामसुरैः संस्तुतं मुखम् ।
अद्य त्वसुरबन्दीनां सुरैरालोकितं मुखम् ॥ १५ ॥

बन्दीनां बन्दीकृतस्त्रीणाम् । संस्तुतं सप्रशंसं दृष्टम् ॥ १५ ॥

मन्ये दानमहानद्यः सुरेभकटभित्तिषु ।
प्रवृत्तास्ता भविष्यन्ति शैलसानुष्विवापगाः ॥ १६ ॥

दानानि मदधारास्तल्लक्षणा महानद्यः । मन्ये इति वितर्के ॥ १६ ॥

अस्माकमिभगण्डेषु दानदाहविभूतयः ।
लसन्ति मरुखण्डेषु संशुष्केष्विव धूलयः ॥ १७ ॥

दानस्य मदस्य दाहस्तत्प्रयुक्ता विभूतयो भस्मानि ॥ १७ ॥

विकासिसितमन्दारमकरन्दारुणानिलाः ।
ते मेरुशिखरैस्तुल्या दैत्या दुर्लभतां गताः ॥ १८ ॥

विकासिनां सितमन्दाराणां सपरागैर्मकरन्दैररुणा रञ्जिता
अङ्गस्पर्शिनोऽनिला येषाम् । अत एव मेरुशिखरैस्तुल्याः ॥ १८ ॥

सुरगन्धर्वसुन्दर्यो दानवान्तःपुरोचिताः ।
अद्य मेरौ स्थितिं याता मञ्जर्य इव पादपे ॥ १९ ॥

कष्टं तात पुरन्ध्रीणां शुष्काम्बुरुहनीरसाः ।
विलासाः सुरनारीभिर्भत्र्स्यन्ते लास्यलीलया ॥ २० ॥

लास्यलीलया नृत्येषु विडम्बनलीलया ॥ २० ॥

पूर्वं यैरेव मत्तातश्चामरैरुपवीजितः ।
सहस्रनयनः स्वर्गे कष्टं तैरेव वीज्यते ॥ २१ ॥

इयमस्माकमप्यापदागता दैन्यदायिनी ।
तस्यैकस्य प्रसादेन दुष्पौरुषगतेर्हरेः ॥ २२ ॥

अस्माकं महाप्रभावाणामपि दुःखा पौरुषगतिः पराक्रमस्मरणमपि
यस्य ॥ २२ ॥

तद्दोर्वनघनच्छायालब्धविश्रान्तयः सुराः ।
न कदाचन तप्यन्ते हिमाद्रेरिव सानवः ॥ २३ ॥

तप्यन्ते वयमिव सन्तप्यन्ते ॥ २३ ॥

शौरिशौर्याग्रशिखरसंश्रयेणाश्रितश्रियः ।
अस्मान्समुपरुन्धन्ति शुनः शाखामृगा इव ॥ २४ ॥

शौरेर्हरेः शौर्य पराक्रमस्तदेव गिरेस्तरोर्वा शिखरस्याग्रमग्रशिखरं
तत्संश्रयेण आश्रितश्रियः प्राप्तसम्पदो देवा गिरितरुशिखरसंश्रयाः
शाखामृगा मर्कटा शुनः कुक्कुरानिवास्मान्वलवतोऽपि समुपरुन्धन्ति
पाताले नियच्छन्ति ॥ २४ ॥

तेनासुरपुरन्ध्रीणां नित्यं मण्डनमण्डने ।
मुखपद्मे स्थितं बाष्पमञ्जिनीनां हिमं यथा ॥ २५ ॥

मण्डनानामलङ्काराणामपि मण्डनभूते मुखपद्मे बाष्पमस्रं तेन
शौरिशौर्येण हेतुना नित्यं स्थितम् । अब्जिनीनां मुखभूते पद्मे
हिममवश्यायबिन्दुर्यथा यद्वदित्यर्थः ॥ २५ ॥

शीर्णभिन्नलुठद्भित्तिर्जगज्जरठमण्डपः ।
अयं नीलमणिस्तम्भैस्तद्भुजैरेव धार्यते ॥ २६ ॥

अर्थादसुरविक्रमैः शीर्णो विदारितोऽत एव लुठद्भित्तिर्जगल्लक्षणो
जरठमण्डपो जीर्णालयो नीलमणिस्तम्भप्रायैस्तस्य शौरेर्भुजैरेव धार्यते
अवष्टभ्यते ॥ २६ ॥

स धर्ता सुरसैन्यस्य मज्जतो विपदर्णवे ।
क्षीरोदोदरमग्नस्य मन्दरस्येव कच्छपः ॥ २७ ॥

कच्छपः कच्छपावतारः स इव स शौरिर्धर्ता धारयिता ॥ २७ ॥

एते तातादयः सर्वे तेनैवासुरसत्तमाः ।
पातिताः क्षुब्धकल्पान्तवातेनेव कुलाचलाः ॥ २८ ॥

स एक एव संहारकर्मक्षमभुजानलः ।
सुरसार्थगुरुः श्रीमान्विषमो मधुसूदनः ॥ २९ ॥

विषम आक्रमितुमशक्य इति यावत् ॥ २९ ॥

दैत्यदोर्दण्डपरशोस्तस्य वीर्येण वीर्यवान् ।
दानवान्बाधते शक्रो बालकानिव मर्कटः ॥ ३० ॥

दैत्यदोर्दण्डखण्डने परशुभूतस्य । यथा महामर्कटवीर्येण
वीर्यवान्मर्कटो बालकान्बाधते तद्वत् ॥ ३० ॥

दुर्जयः पुण्डरीकाक्षः प्रविमुक्तायुधोऽपि सन् ।
नासौ शस्त्रास्त्रविच्छेदैर्वज्रसारो विदीर्यते ॥ ३१ ॥

शस्त्रास्त्रकृतैर्विच्छेदैः खण्डनैः । वज्रादपि सारो दृढतरः ॥ ३१ ॥

अभ्यस्ता बहवस्तेन मिथः प्रेरितपर्वताः ।
भीमाः समरसंरम्भाः सममस्मत्पितामहैः ॥ ३२ ॥

प्रेरिताः क्षिप्ताः पर्वता यत्र तथाविधाः समरसंरम्भा
युद्धकौशलविशेषा अस्मत्पितामहैः सह युद्ध्वा अभ्यस्ताः शिक्षिता
इत्युत्प्रेक्षा ॥ ३२ ॥

तासु तास्वतिघोरासु विततास्वतिराजिषु [अरिराजिषु इति पाठो युक्तः] ।
यो न भीत इदानीं स भयमेष्यति का कथा ॥ ३३ ॥

भयमेष्यति इति का कथा कः प्रसङ्ग इत्यर्थः ॥ ३३ ॥

उपायमेकमेवेमं हरेराक्रमणे स्फुटम् ।
मन्ये तद्व्यतिरेकेण विद्यते न प्रतिक्रिया ॥ ३४ ॥

आक्रमणे वशीकरणे । प्रतिक्रिया तत्कृत पीडाप्रतीकारः ॥ ३४ ॥

सर्वात्मना सर्वधिया सर्वसंरम्भरंहसा ।
स एव शरणं देवो गतिरस्तीह नान्यथा ॥ ३५ ॥

कुतो न विद्यते तत्राह - सर्वात्मनेति । इह जगति सर्वात्मना
सर्ववस्तुस्वभावेन सर्वधिया सर्वबुद्धिभेदेन सर्वसंरम्भरंहसा
सर्वक्रियोद्योगेन च शरणार्थिनां स एव शरणं नान्यथा गतिरस्तीत्यर्थः ॥
३५ ॥

न तस्मादधिकः कश्चिदस्ति लोकत्रयान्तरे ।
प्रलयस्थितिसर्गाणां हरिः कारणतां गतः ॥ ३६ ॥

नन्वन्ये शरणं किं न स्युस्तत्राह - नेति ॥ ३६ ॥

अस्मान्निमेषादारभ्य नारायणमजं सदा ।
सम्प्रपन्नोऽस्मि सर्वत्र नारायणमयो ह्यहम् ॥ ३७ ॥

इति निश्चित्य सर्वभावेन तत्प्रतिपत्तिं सङ्कल्पयति - अस्मादिति । किं
देशकालवस्तुभेदेन प्रपद्यसे नेत्याह - सर्वत्रेति ।
सर्वदेशकालवस्तुष्वहं नारायणमयः ॥ ३७ ॥

नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ।
नापैति मम हृत्कोशादाकाशादिव मारुतः ॥ ३८ ॥

निरन्तरतत्प्रतिपत्तिधारणानुस्मरणजपसाधनं श्रौतं
तन्मन्त्रमनुस्मृत्य निरन्तरं तज्जपं सङ्कल्पयति - नमो नारायणायेति
। सप्रणवोऽयं शुचेः शुद्धे देशादावेव जपार्हो न निरन्तरमिति
निष्प्रणवोपादानम् । हृत्कोशादित्युक्तिर्मानसजपमुख्यताद्योतनार्था ॥ ३८ ॥

हरिराशा हरिर्व्योम हरिरुर्वी हरिर्जगत् ।
अहं हरिरमेयात्मा जातो विष्णुमयो ह्यहम् ॥ ३९ ॥

सर्वत्र नारायणमयो ह्यहमित्युक्तं विशदयति - हरिरिति । आशा दिशः ।
विष्णुमयो भावनेन विष्णुप्रायः । स्त्रीमयो जाल्म
इतिवद्भावनाकृततद्भावलक्षणे प्राचुर्ये मयट् ॥ ३९ ॥

अविष्णुः पूजयन्विष्णुं न पूजाफलभाग्भवेत् ।
विष्णुर्भूत्वा यजेद्विष्णुमयं विष्णुरहं स्थितः ॥ ४० ॥

किमर्थमेवम् कल्पयसि तत्राह - अविष्णुरिति । नाविष्णुः पूजयेद्विष्णुं
नाशिवः पूजयेच्छिवम् इति विध्यनुरोधादित्यर्थः ॥ ४० ॥

हरिः प्रह्रादनामा यो मत्तो नान्यो हरिः पृथक् ।
इति निश्चयवानन्तर्व्यापकोऽहं च सर्वतः ॥ ४१ ॥

यो हरिः स एव प्रह्रादनामा । नान्योऽतोऽस्ति द्रष्टा इत्यादिश्रुतेः । मत्तः
प्रतीचश्चान्यो हरिः पृथक् आत्मान्तरभृतो नास्ति ॥ ४१ ॥

अनन्तमिदमाकाशमापूर्य विनतासुतः ।
कनकाङ्गो ममाङ्गानामयमासनतां गतः ॥ ४२ ॥

इदानीं हरेर्वाहनायुधामरणशरीरादीनि स्वात्मनः कल्पयति -
अनन्तमित्यादिना । आपूर्य स्थित इति शेषः । कनकमिवाङ्गं यस्य स्वर्णवर्ण
इत्यर्थः ॥ ४२ ॥

करशाखैकविश्रान्तसर्वहेतिविहङ्गमाः ।
नखांशुमञ्जरीकीर्णा महामरकतद्रुमाः ॥ ४३ ॥

कराणां शाखास्वङ्गेषु एकविश्रान्ता नित्यविश्रान्ताः सर्वे
हेतयश्चक्रगदानन्दकाद्यायुधलक्षणा विहङ्गमाः पक्षिणो येषाम् ।
नखकान्तिलक्षणमञ्जरीभिः कीर्णा अत एव महामरकतद्रुमभूताः ।
मृदुमन्दारदामदिग्धे अंसमण्डले मूलप्रदेशौ येषाम् ।
समुद्रमथनकाले मन्दरेणाघृष्टकेयूरा मम हरेश्चत्वार एते बाहव इति
द्वयोरन्वयः ॥ ४३ ॥

इमे ते मृदुमन्दारदामदिग्धांसमण्डलाः ।
मन्दराघृष्टकेयूराश्चत्वारो मम बाहवः ॥ ४४ ॥

चलच्छशिकलापूरचारुचामरधारिणी ।
इयं मे पार्श्वगा लक्ष्मीः क्षीरोदकुहरोत्थिता ॥ ४५ ॥

हेलाविलुब्धभुवना त्रैलोक्यतरुमञ्जरी ।
इयं मे पाश्वगा कीर्तिरचलामलभासिनी ॥ ४६ ॥

हेलया अयत्नेनैव विलुब्धानि विलोभितानि श्रवणसस्पृहीकृतानि भुवनानि
तत्स्था जना यया । अत एव त्रैलोक्यलक्षणतरोर्मञ्जरीव विराजमाना हरेः
कीर्तिर्मूर्तिमती मे पार्श्वगा वर्तते ॥ ४६ ॥

अनारतजगज्जालनवनिर्माणकारिणी [जरज्जाल इत्यपि पाठः] ।
इयं मे पार्श्वगा माया स्वेन्द्रजालविलासिनी ॥ ४७ ॥

पार्श्वगा पार्श्वान्तरे स्थिता जयानाम्नी लक्ष्मीसखी ॥ ४७ ॥

इयं सा हेलयाक्रान्तत्रैलोक्यतरुखण्डिका ।
जया स्फुरति मे पार्श्वे लता कल्पतरोरिव ॥ ४८ ॥

इमौ मे नित्यशीतोष्णौ देवौ शीतांशुभास्करौ ।
प्रकटीकृतसंसारौ मुखमध्ये विलोचने ॥ ४९ ॥

ममेयमुत्पलश्यामा पीनाम्भोधरसुन्दरी ।
श्यामीकृतककुप्चक्रा देहदीप्तिर्विसर्पिणी ॥ ५० ॥

देहदीप्तिः शरीरकान्तिः ॥ ५० ॥

अयं मम करे शङ्खः पाञ्चजन्यः स्फुरद्ध्वनिः ।
मूर्तं खमिव शब्दात्मा क्षीरोद इव संस्थितः ॥ ५१ ॥

क्षीरोद इव शुभ्र इति शेषः ॥ ५१ ॥

अयं मे कर्णिकाकोशनिलीनब्रह्मषट्पदः ।
पद्मः करतले श्रीमान्स्वनाडीकुहरोद्भवः ॥ ५२ ॥

स्वस्य नाडीकुहरं नाभिस्तदुद्भवः । तथाच नाभिपद्ममेव कदाचित्करेण
धार्यते कदाचिन्नाभाविति गम्यते ॥ ५२ ॥

इयं मे रत्नचित्राङ्गी सुमेरुशिखरोपमा ।
हेमाङ्गदा गदा गुर्वी दैत्यदानवमर्दिनी ॥ ५३ ॥

हेमाङ्गदा हेमपिनद्धा गदा ॥ ५३ ॥

अयं मे भास्कराकार [भास्वराकार इति पाठः] उद्यदंशुः
सुदर्शनः ।
ज्वालाजटिलपर्यन्तपरिपाटलदिक्तटः ॥ ५४ ॥

परितः पाटलवर्णानि दिक्तटानि यस्मात् । अनेनासुररुधिराक्तता गम्यते ॥ ५४ ॥

अयं मे केतुमद्वह्निसुन्दरो ज्वलितोऽसितः ।
कुठारो दैत्यवृक्षाणां नन्दयन्नन्दकः स्थितः ॥ ५५ ॥

केतुमान् धूमरेखावान्वह्निरिव सुन्दरः । अत एवासितः । दैत्यवृक्षाणां
कुठार इव च्छेत्ता । देवान् नन्दयन् नन्दको भगवत्खड्गः ॥ ५५ ॥

इदं मे शरधाराणां पुष्करावर्तकोपमम् ।
शार्ङ्गं धनुरहीन्द्राभमिन्द्रकार्मुकसुन्दरम् ॥ ५६ ॥

इन्द्रकार्मुकमिव सुन्दरं नानामणिचित्रम् ॥ ५६ ॥

इमान्यहमनन्तानि जगन्ति जठरे चिरम् ।
बिभर्मि जातनष्टानि वर्तमानान्यनेकशः ॥ ५७ ॥

साम्प्रतं जातानि चिरनष्टानि चिरजातवर्तमानानि च ।
भविष्यतामप्युपलक्षणमेतत् ॥ ५७ ॥

इमौ मही मे चरणाविदं मे गगनं शिरः ।
इदं वपुर्मे त्रिजगदिमे मे कुक्षयो दिशः ॥ ५८ ॥

इदानीं हरेर्विराड्रूपमपि स्वस्यैवेत्याह - इमाविति । मही मे इमौ
चरणावित्यन्वयः । कुक्षय इति बहुत्वं दिग्बहुत्वाददितिः पाशानितिवत् ॥ ५८ ॥

साक्षादयमहं विष्णुर्नीलमेघोदरद्युतिः ।
सुपर्णपर्वतारूढः शङ्खचक्रगदाधरः ॥ ५९ ॥

एते मत्तः पलायन्ते समग्रा दुष्टचेतसः ।
तार्णास्तरलसञ्चाराः पवनादिव राशयः ॥ ६० ॥

तार्णा राशयः शुष्कतृणराशयः ॥ ६० ॥

अयं नीलोत्पलश्यामः पीतवासा गदाधरः ।
लक्ष्मीवान्गरुडारूढः स्वयमेवाहमच्युतः ॥ ६१ ॥

को मामेति विरुद्धात्मा त्रैलोक्यदहनक्षमम् ।
स्वनाशाय ततः क्षुब्धं कालाग्निं शलभो यथा ॥ ६२ ॥

विरुद्धात्मा द्विषन् एति युद्धायागच्छति । य आगच्छति स यतः
स्वनाशायैवागच्छति नान्यत्तदागमनफलमित्यर्थः ॥ ६२ ॥

इमे मे तैजसीं सृष्टिं ममाग्रस्थाः सुरासुराः ।
न शक्नुवन्ति संरोद्धुं चक्षुर्मन्दाः प्रभा इव ॥ ६३ ॥

तैजसीं सृष्टिं तेजोज्वालाप्रसरं संरोद्धुं प्रशमयितुं सोढुं वा ॥ ६३ ॥

इमं मामीश्वरं विष्णुं ब्रह्मेन्द्राग्निहरादयः ।
स्तुवन्त्यनन्तया वाचा बहुवक्रसमुत्थया ॥ ६४ ॥

अयं विजृम्भितैश्वर्यो जातोऽहमजिताकृतिः ।
सर्वद्वन्द्वपदातीतो महिम्ना परमेण हि ॥ ६५ ॥

अजितो विष्णुस्तदाकृतिः परमेण महिम्ना प्रभावेण परमार्थस्वभावेन च ।
एष नित्यो महिमा इति श्रुतेः ॥ ६५ ॥

त्रिभुवनभवनोदरैकमूर्ति
प्रसभविभिन्नसमस्तदुष्टसत्त्वम् ।
घनगिरितृणकाननान्तरस्थं
सकलभयापहरं वपुः प्रणौमि ॥ ६६ ॥

त्रिभुवनभवनमुदरे यस्य तथाविधैका मूर्तिर्यस्य तत् । घना मेघाः
गिरयस्तृणानि काननानि चेत्येतदादि सर्ववन्तूनामान्तरे अधिष्ठानभावे
स्थितं अत एव तत्त्वतः साक्षात्कारमात्रेण सकलभयापहरं वैष्णवं
वपुर्विराड्रूपं देवतारूपं परब्रह्मात्मकं चाहमेवेति मां
प्रणौमीत्यर्थः ॥ ६६ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षो
उपशमप्रकरणे प्रह्रादनिर्वाणे नारायणीकरणं नामैकत्रिंशः
सर्गः ॥ ३१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
नारायणीकरणं नामैकत्रिंशः सर्गः ॥ ३१ ॥