त्रिंशः सर्गः ३०
श्रीवसिष्ठ उवाच ।
अथेमं परमं राम विज्ञानाभिगमे क्रमम् ।
शृणु दैत्येश्वरः सिद्धः प्रह्रादः स्वात्मना यथा ॥ १ ॥
हिरण्यकशिपोर्वीर्यं प्रह्रादादिसुतोद्भवः ।
नृसिंहेन वधः शोकादौर्घ्वन्दहिकमुच्यते ॥ १ ॥
इत्थं केवलं
काकतालीयन्यायप्रवृत्तात्स्वविचाराच्छास्त्राचार्योपदेशानुगृहीताच्च
ज्ञानोदयक्रमो निरूपितः ।
इदानीमुपासितेश्वरानुग्रहजन्याद्विचाराज्ज्ञानोदयप्रकारं वर्णयितुं
प्रह्रादोपाख्यानमाचिख्यासुर्वसिष्ठस्तच्छ्रवणे राममवधापयति -
अथेति । विज्ञानस्याभिगमे आभिमुख्येन प्राप्तौ । निष्प्रत्यूहप्राप्ताविति यावत् ।
तथाच भगवतैवोक्तम् जरामरणमोक्षाय मामाश्रित्य यतन्ति ये । ते ब्रह्म
तद्विदुः कृत्स्नम् इति ॥ १ ॥
आसीत्पातालकुहरे विद्रावितसुरासुरः ।
हिरण्यकशिपुर्नाम नारायणपराक्रमः ॥ २ ॥
नारायणस्य पराक्रम इवेत्यर्थे पूर्वपदं लक्षणया वर्तते । उष्ट्रमुखः
खरमुख इत्यत्रोष्ट्रशब्दस्तन्मुखसदृशार्थ इवेति बोध्यम् ।
इवार्थवृत्तिमध्यमपदलोपी वा बहुव्रीहिः ॥ २ ॥
आक्रान्तभुवनाभोगः स जहार हरेर्जगत् ।
षट्पदस्य बृहत्पत्रं राजहम्स इवाम्बुजम् ॥ ३ ॥
नारायणपराक्रमत्वोपपादकं विशेषणमाक्रान्तभुवनाभोग इति ।
भुवनपदेन त्रीण्यपि भुवनानि गृह्यन्ते । स
हिरण्यकशिपुर्हरेरिन्द्रादाच्छिद्य जगत्त्रिभुवनैश्वर्यं जहार । षट्पदस्य
रात्रौ गृहभूतं प्रातर्विकासेन बृहत्पत्रमम्बुजं राजहम्स इव
सुरासुरशब्दस्तत्तदधिपतिपरः ॥ ३ ॥
चकार जगतां राज्यं समाक्रान्तसुरासरः ।
दन्ती निरस्तहंसौधो नलिन्यामलिनामिव ॥ ४ ॥
नलिन्यां अलिनां भ्रमराणां राज्यं निरस्तहंसौघो
दन्तीवेत्युपमानुरोधाज्जगदुद्द्वेजकता गम्यते ॥ ४ ॥
अथासावसुराधीशः कुर्वंस्त्रिभुवनेशताम् ।
कालेन सुषुवे पुत्रानङ्कुरानिव माधवः ॥ ५ ॥
माधवो वसन्तकालः ॥ ५ ॥
तेऽवर्धन्ताचिरेणैव तेजस्यूर्जितबालकाः ।
दशार्कांशुशतानीव व्योमाक्रान्तिविलासिनः ॥ ६ ॥
तेजस्यूर्जिता वयसा बालकाः । दश दशसङ्ख्याकानि अर्कस्यांशुशतानीव ।
व्योमा क्रान्तिराकाशव्याप्तिः सुरलोकाक्रमणं च तया विलासिनः ॥ ६ ॥
प्रह्रादनामा बलवान्प्रधानात्मा बभूव ह ।
तेषां मध्ये महार्हाणां मणीनामिव कौस्तुभः ॥ ७ ॥
तेषां मध्ये प्रह्रादनामा प्रधानात्मा युवराजो बभूव । हेत्यैतिह्ये ॥ ७ ॥
तेनाराजत पुत्रेण हिरण्यकशिपुर्भृशम् ।
सर्वसौन्दर्ययुक्तेन वसन्तेनेव वत्सरः ॥ ८ ॥
अथ पुत्रसहायोऽसौ बलकोशसमन्वितः ।
आजगाम मदं दैत्यस्त्रिगण्डगलितेभवत् ॥ ९ ॥
त्रीणि गण्डोपलक्षितमुखाश्रितानि गलितानि मदधारा यस्य तथाविधो य
इभस्तद्वत् । यद्यपि सप्त मदस्थानानि प्रसिद्धानि तथापि
प्राधान्यात्त्रिण्युपात्तानि । उक्तस्त्रिगण्डगलितो यो गजः षष्टिहायनः
इत्यभियुक्तवचनात् षष्टिहायने भवदिति वा ॥ ९ ॥
तत्तापाक्रान्तितापेन त्रिजगन्ति विकासिना ।
कल्पान्तसूर्यगणवन्नवयैव करश्रिया ॥ १० ॥
विकासिना विजृम्भमाणेन । आक्रान्तिरास्कन्दनं तत्प्रयुक्तेन तापेन पीडनेन ।
नवया तरुणया नित्याभिनवया च करश्रिया किरणकान्त्या
करग्रहणप्रयुक्तसम्पदा च ॥ १० ॥
अखिद्यन्तास्य तेनाथ सूर्येन्दुप्रमुखाः सुराः ।
दुर्विलासविलोलस्य बालस्येव स्वबन्धवः ॥ ११ ॥
तेन आक्रान्तितापेन ॥ ११ ॥
प्रार्थयाञ्चक्रिरेऽथाजं दैत्येन्द्रेभपतेर्वधे ।
न क्षमन्ते महान्तोपि पौनःपुन्येन दुष्क्रियाम् ॥ १२ ॥
पौनःपुन्येन पुनःपुनर्भावेन कृतां दुष्क्रियामपराधम् ॥ १२ ॥
ततः प्रलयपर्यस्तजगद्घर्घरजृम्भितम् ।
दिग्दन्तिदशनप्रख्यनखवज्रादिजृम्भितम् ॥ १३ ॥
ततस्तदनन्तरं माधवः प्रलयपर्यस्तेत्यादि विशेषणविशिष्टं नारसिंहं
वपुः कृत्वा महासुरं हिरण्यकशिपुं अहन् इति सप्तमेन सम्बन्धः । प्रलये
पर्यस्तं जगदिव घर्घरं ध्वनत् जृम्भितं गात्रविनमनं यस्य तत् ।
दिग्दन्तिदशनप्रख्यैर्नखैर्वज्रादिभिरिव जृम्भितं यत्र ॥ १३ ॥
स्थिरविद्युल्लताजालभासुरद्विजमण्डलम् ।
दशदिक्कोटरोद्भ्रान्तज्वलज्ज्वलनकुण्डलम् ॥ १४ ॥
स्थिराण्यवञ्चलानि विद्युल्लताजालानीव भासुराणि द्विजानां दन्तानां
मण्डलानि यस्य । दिक्श्रोत्रकत्वाद्दशसु दिक्कोटरेषूद्भ्रान्तज्वलज्ज्वलनाः
कुण्डलानीव यस्य ॥ १४ ॥
समस्तकुलशैलेन्द्रपिण्डपीठोद्भटोदरम् ।
दोर्द्रुमाधूतनिर्धूतस्फुरद्ब्रह्माण्डखर्परम् ॥ १५ ॥
समस्तानां कुलशैलेन्द्राणां पिण्डपीठं
पिण्डाकारसंस्थानमिवोद्भटं भीषणमुदर यस्य । दोर्द्रुमाणामाधूतैः
परिवर्तनैर्निर्धूतमत एव स्फुरत्सञ्चलद्विदीर्यमाणं ब्रह्माण्डखर्परं
यस्य ॥ १५ ॥
वदनोदरनिष्क्रान्तवातोत्सारितपर्वतम् ।
त्रिजगद्दहनोद्युक्तकोपकल्पाग्निगर्वितम् ॥ १६ ॥
वदनेन उदरान्निष्क्रान्तैः श्वासवातैरुत्सारिताः पर्वता यस्य ॥ १६ ॥
सटाविकटपीनांसस्पन्दप्रेरितभास्करम् ।
रोमकूपलसद्वह्निपुञ्जापिञ्जरपर्वतम् ॥ १७ ॥
कुलाचलमहाकुड्यघटनोद्भटदिक्तटम् ।
सर्वावयवनिष्क्रान्तपट्टिशप्रासतोमरम् ॥ १८ ॥
कुलाचलैरुत्खातैर्महाकुड्यस्थ घटनायां रचनायामिव उद्भटानि
उद्युक्तानि दिक्तटानि यत्र । सर्वावयवेभ्यो निष्क्रान्तानि
पट्टिशप्रासतोमराण्यायुधविशेषा यस्य ॥ १८ ॥
नारसिंहं वपुः कृत्वा माधवोऽहृन्महासुरम् ।
लसत्कटकटारावं तुरङ्गममिव द्विपः ॥ १९ ॥
तथाविधं नारसिंहं वपुः कृत्वेत्यर्थः । अहन् हतवान् । हन्तेर्लङि तिप इति
लोपे हल्ङ्यादिलोपः । लसत्कटकटारावमिति क्रियाविशेषणम् । तेन विदार्याहन्निति
गम्यते । तुरङ्गमस्यापि द्विपेन विदारणं युद्धेषु प्रसिद्धम् ॥ १९ ॥
पौरमासुरमुद्वान्तैर्ददाहेक्षणवह्निभिः ।
स सर्वभूतकल्पान्ते जगज्जालमिवानलः ॥ २० ॥
आसुरं पौरं पुरवास्तव्यसर्वजन्तुं पुरोपकरणं च ।
ईक्षणवह्निभिर्नेत्रानलैः ॥ २० ॥
नृसिंहमारुते तस्मिन्भृशं क्षोभमुपागते ।
विस्फूर्जितघनास्फोटैरेकार्णव इवाकुले ॥ २१ ॥
विस्फूर्जितसदृशैर्घनैरास्फोटैर्बाहुध्वनिभिः । प्रलयपक्षे घनानां
संवर्तमेघानामास्फोटैर्गर्जितैः । एकार्णवे जलप्रलये ॥ २१ ॥
दुद्रुवुर्दानवौघास्ते दिग्ज्वलन्मशका इव ।
उपाययुरदृश्यत्वं दीपा इव गतत्विषः ॥ २२ ॥
दिक्षु ज्वलन्तो मशका इव ॥ २२ ॥
अथ विद्रुतदैत्येन्द्रं दग्धान्तःपुरमण्डलम् ।
बभूव पातालतलं कल्पक्षुण्णजगत्समम् ॥ २३ ॥
कल्पेन प्रल्यकालेन क्षुण्णं चूर्णितं यज्जगत्तत्समम् ॥ २३ ॥
अकालकल्पान्तविधौ हत्वा दैत्यं शनैर्विभौ ।
क्वापि याते समाश्वस्तसुरसंरम्भपूजिते ॥ २४ ॥
अकाले कल्पान्तविधानसदृशे युद्धे दैत्यं हिरण्यकशिपुं हत्वा
समाश्वस्तैः सुरैः संरम्भेण आदरनिर्भरेण पूजिते विभौ नृसिंहे क्वापि
वाचामगोचरे स्वपदे याते सति ॥ २४ ॥
मृतशिष्टा दनुसुताः प्रह्रादपरिपालिताः ।
दग्धं तं देशमाजग्मुः सरः शुष्कमिवाण्डजाः ॥ २५ ॥
अण्डजाः पक्षिणः ॥ २५ ॥
तत्र कालोचितां कृत्वा स्वनाशपरिदेवनाम् ।
और्ध्वदेहिकसत्कारं चक्रुः प्रेतेषु बन्धुषु ॥ २६ ॥
स्वानां बान्धवानां नाशप्रयुक्तां परिदेवनां विलापम् ॥ २६ ॥
हतबन्धुजनं प्लुष्टबन्धुबान्धवमण्डलम् ।
शनैराश्वासयामासुर्मृतशिष्टं स्वकं जनम् ॥ २७ ॥
प्लुष्टं दग्धं सप्राणं बन्धूनां तद्बान्धवानां च मण्डलं
समूहम् ॥ २७ ॥
चित्रार्पितोपमदुराकृतयो निरीहा
दीनाशया हि महताम्बुरुहोपमानाः ।
शोकोपतप्तमनसोऽसुरनायकास्ते
दग्धद्रुमा इव निरस्तविकारमासन् ॥ २८ ॥
निरीहाश्चिन्तया निश्चेष्टाः अत एव चित्रार्पितोपमाः दुःखिता आकृतयो येषां ते
प्रह्रादादयोऽसुरनायका दग्धा दग्धपत्रशाखा द्रुमा इव निरस्तविकारं
निश्चेष्टं आसन् । स्थाणूनां वायुना चलनाभावः प्रसिद्धः ॥ २८ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मो० उपशमप्रकरणे
प्रह्रादविश्रान्तौ हिरण्यकशिपुवधो नाम त्रिंशः सर्गः ॥ ३० ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
हिरण्यकशिपुवधो नाम त्रिंशत्तमः सर्गः ॥ ३० ॥