एकोनत्रिंशः सर्गः २९
श्रीवसिष्ठ उवाच ।
अथ वर्षसहस्रेण दिव्येनासुरपुङ्गवः [सत्तम इति पाठः] ।
देवदुन्दुभिनिर्घोषैर्बुबुधे भगवान्बलिः ॥ १ ॥
जीवन्मुक्तस्य राज्यश्रीः पाताले रोधनं बलेः ।
रामाय बलिवत्पूर्णस्थितिश्चात्रोपदिश्यते ॥ १ ॥
वर्षसहस्रेणेति समाधेर्वर्ष सहस्रेणात्यन्तसंयोगादपवर्गे तृतीया ॥ १ ॥
बलौ प्रबुद्धे तद्बालं विरेजे नगरं तदा ।
वैरिञ्च इव सूर्यौघ उदिते कमलाकरः ॥ २ ॥
बलेरिदं बालं नगरं वैर्ञ्चे विरिञ्चेरायतनभूतगगने सूर्यौघे
सूर्यकिरणप्रवाहे उदिते सति कमलाकरः पद्माकर इव विकासश्रीमानित्यर्थः ।
सर्गौघे सर्वौघे इति पाठयोस्तु सर्व पदार्थजातं सर्गं वा ओघयति
समर्थयतीति व्युत्पत्त्या सूर्य एव ग्राह्यस्तस्मिन्नुदिते सतीतर्थः । ओघृ
सामर्थ्ये इति धातोर्ण्यन्तात्कर्मण्यण् ॥ २ ॥
बलिः प्रबुद्ध एवासौ यावन्नायान्ति दानवाः ।
तावत्सञ्चिन्तयामास समाधिसदने क्षणम् ॥ ३ ॥
समाधिसदने प्रागुक्तसमाधिस्थाने ॥ ३ ॥
अहो नु रम्या पदवी शीतला पारमार्थिकी ।
अहमस्यां क्षणं स्थित्वा परां विश्रान्तिमागतः ॥ ४ ॥
समाधिसुखमग्नस्य दिव्यवर्षसहस्रमपि क्षणवद्गतमिति क्षणं
स्थित्वेत्युक्तिः ॥ ४ ॥
तदेतामेव पदवीमवलम्ब्य करोम्यहम् ।
भवतीहोपभुक्ताभिः किं मे बाह्यविभूतिभिः ॥ ५ ॥
करोमि विश्रान्तिमिति शेषः । बाह्यविभूतिभिरुपभुक्ताभिर्मे किं भवति । न
किञ्चिदीदृशं विश्रान्तिसुखमित्यर्थः ॥ ५ ॥
ऐन्दवेष्वपि बिम्बेषु न तथानन्दवीचयः ।
तोषयन्ति यथान्तर्मे संसिद्धिभवभूतयः ॥ ६ ॥
तदेवाह - ऐन्दवेष्विति । संसिद्धिः समाधिपरिपाकस्तद्भवा भूतय
आनन्दाः । एकस्मिन्नेव इयत्तया अपरिच्छेद्यत्वाद्बहुत्वकल्पनया बहुवचनम् ॥
६ ॥
इति भूयोऽपि विश्रान्त्यै कुर्वाणं गलितं मनः ।
बलिमावारयामासुर्दैत्याश्चन्द्रमिवाम्बुदाः ॥ ७ ॥
आवारयामासुरागत्य परिवव्रुः ॥ ७ ॥
तानालोक्य पुनर्दध्यौ तत्प्रणामाकुलेक्षणः ।
तैः कुलाचलसङ्काशैः परिवीतवपुस्त्विदम् ॥ ८ ॥
पुनःशब्दः पूर्वसमाधिसङ्कल्पपरावृत्तिद्योतनार्थः ॥ ८ ॥
चितः क्षीणविकल्पस्य किमुपादेयमस्ति मे ।
मनस्तदभिपातित्वाद्याति तद्रसतामलम् ॥ ९ ॥
उपादेयबुद्ध्या हि बाह्यार्थदर्शने मनस्तदभिपातित्वात्तद्रागितालक्षणं
मलं याति न दर्शनमात्रेणेत्यर्थः ॥ ९ ॥
मोक्षमिच्छाम्यहं कस्माद्बद्धः केनास्मि वै पुरा ।
अबद्धो मोक्षमिच्छामि केयं बालविडम्बना ॥ १० ॥
ननु मोक्षेच्छया समाध्यवलम्बनियमोऽस्तु तत्राह - मोक्षमिति । ज्ञानेन
त्रैकालिके अविद्यातत्कार्यबाधे सति बन्धस्यैवादर्शनादिति भावः । बालानां
मूर्खाणां विडम्बना चेष्टानुकृतिः ॥ १० ॥
न बन्धोस्ति न मोक्षोस्ति मौर्ख्यं मे क्षयमागतम् ।
किं मे ध्यानविलासेन किं वा ध्यानेन मे भवेत् ॥ ११ ॥
ध्यानाध्यानभ्रमौ त्यक्त्वा पुंस्त्वं स्वमवलोकयत् ।
यदायाति तदायातु न मे वृद्धिर्न वा क्षयः ॥ १२ ॥
स्वं प्रत्यग्रूपं पुंस्त्वमात्मतत्त्वं दृक्स्वभावादेव
बहिरप्यौदासीन्येनावलोकयत्सद्यद्वस्तु प्रति आयाति तदायातु स्फुरतु नाम
नैतावता मेऽज्ञानामिव देहादितादात्म्याध्यासात्तद्वृद्धिक्षयप्रयुक्तौ
वृद्धिक्षयौ स्तो येनानर्थः स्यादित्यर्थः । अयं श्लोकः क्वचिदेवास्ति न
सर्वत्र ॥ १२ ॥
न ध्यानं नापि वाऽध्यानं न भोगान्नाप्यभोगिताम् [नाथ भोगिता
इति पाठः] ।
अभिवाञ्छामि तिष्ठामि सममेव गतज्वरः ॥ १३ ॥
न मे वाञ्छा परे तत्त्वे न मे वाञ्छा जगत्स्थितौ ।
न मे ध्यानदशाकार्यं [अत्र ध्यानदृशा कार्य इति साधु] न
कार्यं विभवेन मे ॥ १४ ॥
नाहं मृतो न जीवामि न सन्नासन्न सन्मयः ।
नेदं मे नैव चान्यन्मे नमो मह्यमहं बृहत् ॥ १५ ॥
देहसम्बन्धाभावान्न मृतः । प्राणसम्बन्धाभावान्न जीवामि ।
सन्मूर्तः । सन्मयस्तद्विकारः । इदं देहभुवनादि ।
अन्यद्देहान्तरभुवनान्तरादि ॥ १५ ॥
इदमस्तु जगद्राज्यं तिष्ठाम्यत्र तु संस्थितः ।
नेह वास्तु जगद्राज्यं तिष्ठाम्यात्मनि शीतलः ॥ १६ ॥
किं मे ध्यानदृशा कार्यं किं राज्यविभवश्रिया ।
यदायाति तदायातु नाहं किञ्चन मे क्वचित् ॥ १७ ॥
न किञ्चिदपि कर्तव्यं यदि नाम मयाधुना ।
तत्कस्मान्न करोमीदं किञ्चित्प्रकृतकर्म वै ॥ १८ ॥
कर्तव्यं कर्तृत्वास्थया निर्वर्तनीयम् । तत्तर्हि किञ्चित् अनास्थितचेष्टासाध्यं
प्रकृतं कर्म राज्यपरिपालनं किं कुतो न करोमि ॥ १८ ॥
इति निर्णीय पूर्णात्मा बलिर्ज्ञानवतां वरः ।
दैत्यानालोकयामास पद्मानीव दिवाकरः ॥ १९ ॥
दृष्टिपातविभागेन सर्वेषां दनुजन्मनाम् ।
शिरःप्रणामाञ्जग्राह पुष्पामोदानिवानिलः ॥ २० ॥
दृष्टिपातानां विभागेन तत्तदुचितवैचित्र्येण ॥ २० ॥
अथ वैरोचनिस्तत्र ध्येयत्यागमयात्मना ।
मनसा सकलान्येव राजकार्याणि संव्यघात् ॥ २१ ॥
ध्येयो वासनात्यागः प्राग्वर्णितस्तन्मयात्मना तद्विलासप्रचुरेण ॥ २१ ॥
द्विजान्देवान्गुरूंश्चैव पूजयामास पूजया ।
सम्मानयामास सुहृद्बन्धुसामन्तसज्जनान् ॥ २२ ॥
पूजा पाद्यार्घ्यादि उचितदानसम्भावनादिसत्कारः सम्माननमिति भेदः ॥ २२
॥
अर्थेनापूरयामास भूत्यानर्थिगणांस्तथा ।
ललना लालयामास विचित्रविभवार्पणैः ॥ २३ ॥
इत्यसौ ववृधे तस्मिन्राज्ये सकलशासने ।
यज्ञं प्रति बभूवाथ मतिरस्य कदाचन ॥ २४ ॥
असौ बलिः सकलानां देवासुरादीनां शासने आज्ञापनविषये राज्ये ववृधे ।
राज्याङ्गाद्यभिवृद्धिं प्रापेत्यर्थः । अथ कदाचन यज्ञं प्रति अस्य
मतिरिच्छा बभूव ॥ २४ ॥
तर्पिताशेषभुवनं देवर्षिगणपूजितम् ।
सह शुक्रादिभिर्मुख्यैः स चकार महामखम् ॥ २५ ॥
महामखं अश्वमेघम् ॥ २५ ॥
बलिर्भोगभरस्यार्थी नेति निर्णीय माधवः ।
बलेरीहितसिद्ध्यर्थं सिद्धिदस्तन्मखं ययौ ॥ २६ ॥
भोगैककृपणायेदं जगज्जङ्गलखण्डकम् ।
दातुं शोच्याय शक्राय वयोज्येष्ठाय कार्यवित् ॥ २७ ॥
भोगे एकस्मिन्नेव आसक्तत्वात्कृपणाय अत एव शोच्याय ।
कार्यमवश्यकर्तव्यं शक्रसुकृतफलप्रदानं वेत्तीति कार्यवित्
भिक्षणचातुर्यविद्वा ॥ २७ ॥
क्रममाणो बलेनात्र वञ्चयित्वा बलिं हरिः ।
बबन्ध पातालतले भूगेह इह वानरम् ॥ २८ ॥
बलेन मायाबलेन क्रममाणस्त्रीन् लोकानिति शेषः ॥ २८ ॥
अद्यासौ संस्थितो राम पुनरिन्द्रत्वहेतुना ।
जीवन्मुक्तवपुः स्वस्थो नित्यं ध्यानविषण्णधीः ॥ २९ ॥
अद्य अद्यापि । असौ बलिः पाताले पुनरिन्द्रत्वहेतुना प्रारब्धेनोपलक्षित इति शेषः
। स्थितः । ध्याने निर्विकल्पसमाधौ विषण्णा गलिता धीर्यस्य ॥ २९ ॥
पातालकुहरे तिष्ठञ्जीवन्मुक्तगतिर्बलिः ।
आपदं सम्पदं दृष्ट्या समयैव स पश्यति ॥ ३० ॥
नास्तमेति न चोदेति तत्प्रज्ञा सुखदुःखयोः ।
समा स्थिरकरा चित्रलेख्या सूर्यावलिर्यथा ॥ ३१ ॥
समा उदयास्तमयरहिता । स्थिराः करा मरीचयो यस्याः । चित्रस्य लेखनं
चित्रलेख्या तत्सम्बन्धिनी सूर्यावलिः सूर्यमण्डलं यथा तथेत्यर्थः ॥ ३१ ॥
आविर्भावतिरोभावसहस्राणीह जीवताम् ।
तन्मनाश्चिरमालोक्य भीमेषु विरतिं गतम् ॥ ३२ ॥
जीवतां जीवनास्थावतां भोगलम्पटानां बिभवानां जन्मादीनां
चाविर्भावतिरोभावसहस्राणि चिरमालोक्य तस्य बलेर्मनो विरतिं वैराग्यं
गतम् ॥ ३२ ॥
दशकोटीश्च वर्षाणामनुशास्य जगत्त्रयम् ।
अन्ते विरक्ततां प्राप्तमुपशान्तं बलेर्मनः ॥ ३३ ॥
ऊहापोहसहस्राणि भावाभावशतानि च ।
बलिना परिदृष्टानि क्व समाश्वासमेत्यसौ ॥ ३४ ॥
सुखदुःखयोरूहापोहयोरागमापाययोः सहस्राणि । भावाभावयोः
सम्पद्विपदोः शतानि च । सहस्रशतशब्दावसङ्ख्येयपरौ ॥ ३४ ॥
भोगाभिलाषं सन्त्यज्य बलिः सम्पूर्णमानसः ।
आत्मारामस्थितो नित्यं मध्ये पातालकोटरे ॥ ३५ ॥
सप्तपातालानां मध्यभूते रसातलाख्ये पातालकोटरे यावद्विपत्क्षयं
स्थितः ॥ ३५ ॥
पुनरेतेन बलिना जगदिन्द्रतयाखिलम् ।
अनुशास्यमिदं राम बहून्वर्षगणानिह ॥ ३६ ॥
अनुशास्यं स्वामिभावेन आज्ञाप्यं भविष्यतीत्यर्थः ॥ ३६ ॥
न तस्येन्द्रपदप्राप्त्या तुष्टिः समुपजायते ।
न तस्य स्वपदभ्रंशादुद्वेग उपजायते ॥ ३७ ॥
समः सर्वेषु भावेषु सर्वदैवोदिताशयः ।
सम्प्राप्तमाहरन्स्वस्थ आकाश इव तिष्ठति ॥ ३८ ॥
उदिताशयः सन्तुष्टचित्तः । सम्प्राप्तं
प्रारब्धोपनीतमाहरन्नुपभुञ्जानः ॥ ३८ ॥
बलेर्विज्ञानसम्प्राप्तिरेषा ते कथिता मया ।
एतां दृष्टिमवष्टभ्य त्वमप्यभ्युदितो भव ॥ ३९ ॥
बलिचरित्रमुपसंहृत्य रामायोपदिशति - बलेरित्यादिना । अभ्युदितो
जीवन्मुक्त्यभ्युदयवान् ॥ ३९ ॥
बलिवत्प्रविवेकेन नित्योऽहमिति निश्चयात् ।
पदमासादयाद्वैतं पौरुषेणैव राघव ॥ ४० ॥
प्रविवेकेन स्वविचारेण ॥ ४० ॥
द्वे चाष्टौ चैव वर्षाणां कोटीर्भुक्त्वा जगत्त्रयम् ।
अन्ते वैरस्यमापन्नो बलिरप्यसरोत्तमः ॥ ४१ ॥
द्वे चाष्टौ च । दशकोटीरिति यावत् ॥ ४१ ॥
तस्मादवश्यवैरस्यं भोगभारमरिन्दम ।
सन्त्यज्य सत्यमानन्दमवैरस्यं पदं व्रज ॥ ४२ ॥
अवश्यं वैरस्यं दुःखपर्यवसानं यस्य । अवैरस्यं निर्दुःखम् ॥ ४२ ॥
इमा दृश्यदृशो राम नानाकारविकारदाः ।
नेह कान्ततया ज्ञेया दूराच्छैलशिला इव ॥ ४३ ॥
कान्ततया रम्यतया । तत्र दूरस्थाः पर्वता रम्याः इति प्रसिद्धं
दृष्टान्तमाह - दूरादिति ॥ ४३ ॥
धावमानमिहामुत्र लुठितं लोकवृत्तिषु ।
संस्थापय निबद्ध्यैतच्चेतो हृदयकोटरे ॥ ४४ ॥
इह ऐहिकभोगेषु अमुत्र पारलौकिकभोगेषु धावमानम् । लोकवृत्तिषु
पामरचेष्टासु लुठितं प्रवृत्तम् ॥ ४४ ॥
चिदादित्यो भवानेव सर्वत्र जगति स्थितः ।
कः परस्ते क आत्मीयः परिस्खलसि किं मुधा ॥ ४५ ॥
ननु शत्रुमित्रयोः कथं समदृष्टिः स्यात्तत्राह - चिदादित्य इति । आदित्य
इव सर्वावभासिका चित् चिदादित्यः । तथाच त्वमेव शत्रुदेहादावपि प्रकाशक
आत्मेति न वैषम्ये हेतुरस्तीति भावः ॥ ४५ ॥
त्वमनन्तो महाबाहो त्वमाद्यः पुरुषोत्तमः ।
त्वं पदार्थशताकारैः परिस्फूर्जसि चिद्वपुः ॥ ४६ ॥
ननु जीवस्य मम कथमीश्वरात्मसमदर्शनं तत्राह - त्वमिति ।
जडवैषम्यमप्यानन्त्येनैव नाशङ्क्यमित्याशयेनाह - त्वं
पदार्थशताकारैरिति ॥ ४६ ॥
त्वयि सर्वमिदं प्रोतं जगत्स्थावरजङ्गमम् ।
बोधे नित्योदिते शुद्धे सूत्रे मणिगणा यथा ॥ ४७ ॥
तत्सम्भावनार्थमाह - त्वयीति ॥ ४७ ॥
न जायसे न म्रियसे त्वमजः पुरुषो विराट् ।
चिच्छुद्धा जन्ममरणभ्रान्तयो मा भवन्तु ते ॥ ४८ ॥
कालकृतवैषम्याण्यपि परिहर्तुमाह - न जायसे इति ॥ ४८ ॥
समस्तजन्मरोगाणां प्रविचार्य बलाबलम् ।
तृष्णामुत्सृज्य भोगानां भोक्तैव भव केवलम् ॥ ४९ ॥
तृष्णावृद्धौ जन्मादिरोगाणां प्राबल्यं तृष्णापक्षये च तेषां
दौर्बल्यमित्यन्वयव्यतिरेकाभ्यां परीक्ष्येत्यर्थः । भोगानां
तृष्णामुत्सृज्य भोक्ता भोगसाक्षिचिन्मात्रमेव भव ॥ ४९ ॥
त्वयि स्थिते जगन्नाथे चिदादित्ये सदोदिते ।
इदमाभासते सर्वं संसारस्वप्नमण्डनम् ॥ ५० ॥
त्वदीयचिद्बलादेव जगत्सिद्धमित्याह - त्वयीति ॥ ५० ॥
मा विषादं कृथा व्यर्थं सुखदुःखैषणा न ते ।
शुद्धचित्तोऽसि सर्वात्मा सर्ववस्त्ववभासकः ॥ ५१ ॥
शुद्धचित्तः प्रबुद्धचित्तः ॥ ५१ ॥
पूर्वमिष्टमनिष्टं त्वमनिष्टं चेष्टमित्यपि ।
परिकल्प्य तदभ्यासात्तत्ततोऽपि परित्यज ॥ ५२ ॥
यद्यशुद्धचित्तोऽसि तथापि तच्छुद्धये क्रमादुपायं शृण्वित्याह -
पूर्वमिति । यद्यदिष्टं मनःप्रियं तदनिष्टमनर्थसाधनं
यच्चानिष्टमप्रियं मनसस्तपःक्लेशेन्द्रियसंयमप्राणायामादि
तत्सर्वमिष्टमावश्यकं ममेति प्रथमं परिकल्प्य
सप्तमभूमिकापरिपाकपर्यन्तं तदभ्यासात्तज्जये सति तत् तां कल्पनामपि
ततः परित्यजेत्यर्थः ॥ ५२ ॥
इष्टानिष्टदृशोस्त्यागे समतोदेति शाश्वती ।
तया हृदयवर्तिन्या पुनर्जन्तुर्न जायते ॥ ५३ ॥
तत्त्यागफलमाह - इष्टेति । हृदयवर्तिन्या अभ्यासाद्धृदये
स्थिरीकृतया ॥ ५३ ॥
येषु येषु प्रदेशेषु मनो मज्जति बालवत् ।
तेभ्यस्तेभ्यः समाहृत्य तद्धि तत्त्वे नियोजयेत् ॥ ५४ ॥
तत्त्वे तत्तदधिष्ठानचिन्मात्रे । तथाच भगवताप्युक्तम् यतो यतो निश्चरति
मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ इति ॥ ५४ ॥
एवमभ्यागताभ्यासं मनोमत्तमतङ्गजम् ।
निबध्य सर्वभावेन परं श्रेयोऽधिगम्यते ॥ ५५ ॥
सर्वभावेन सर्वप्रयत्नेन सर्वात्मभावेन च । निबध्य निरुध्य ॥ ५५ ॥
मा शरीरयथार्थज्ञैर्मिथ्यादृष्टिहताशयैः ।
धूर्तैः सङ्कल्पविक्रीतैर्विमूढैः समतां व्रज ॥ ५६ ॥
शरीर मेव यथार्थं परमार्थ इति ये जानन्ति तैः । भोगसङ्कल्पेभ्यो
विक्रीतैरिव तत्परवशैः ॥ ५६ ॥
अकिञ्चनात्स्वनिर्णीतौ लम्बमानात्परोक्तिषु ।
न मौर्ख्यादधिको लोके कश्चिदस्तीह दुःखदः ॥ ५७ ॥
पराधीनप्रज्ञानां स्वयंविचारासमर्थानां मौर्ख्यमेव महाननर्थ
इत्याह - अकिञ्चनादिति । स्वस्यात्मतत्त्वस्य निर्णीतौ निर्णयविषये अकिञ्चनात्
विवेकवैराग्याद्युपायदरिद्रात् । परेषां प्रतारकाणां मूर्खाणां चोक्तिषु
अन्धगोलाङ्गलन्यायेनावलम्बमानात् ॥ ५७ ॥
त्वमेतदविवेकाब्भ्रमुदितं हृदयाम्बरे ।
विवेकपवनेनाशु दूरं नय महामते ॥ ५८ ॥
एतन्मौर्ख्यलक्षणमविवेकाब्भरणादविवेकाब्भ्रम् ॥ ५८ ॥
आत्मनैव प्रयत्नेन यावदात्मावलोकने ।
न कृतोऽनुग्रहस्तावन्न विचारोदयो भवेत् ॥ ५९ ॥
मौर्ख्यनिरासहेतुर्विचारः स च
बहुजन्मसञ्चितसुकृतपरिपाकजादात्मानुग्रहादेव भवतीत्याह -
आत्मनैवेति । प्रयत्नेन श्रवणवैराग्यादिपुरुषप्रयत्नेन ॥ ५९ ॥
वेदवेदान्तशास्त्रार्थतर्कदृष्टिभिरप्ययम् ।
नात्मा प्रकटतामेति यावन्न स्वमवेक्षितम् ॥ ६० ॥
सत्यपि वैराग्यविचारश्रवणादौ
बहिर्मुखदृष्टेर्ज्ञानानुदयात्प्रत्यग्दृष्टिरप्यावश्यकीत्याशयेनाह ##-
प्रत्यग्दृशां विमोक्षाय विबन्धाय पराग्दृशाम् ॥ इति ॥ ६० ॥
त्वमात्मन्यात्मना राम प्रसादे समवस्थितः ।
प्राप्तोऽसि विततं बोधं मद्वचस्येव बुध्यसे ॥ ६१ ॥
तर्हि प्रत्यग्दृष्टिरेवैका ज्ञानायास्तु किं गुरूपदेशेनेत्याशङ्क्याह -
मद्वचस्येवेति । मदुपदेशे सत्येवेत्यर्थः । बलवदपि शिक्षितानामात्मन्य
प्रत्ययं चेतः इतिन्यायाद्गुरुशास्त्रोक्तिसंवादे सत्येव स्वप्रत्यये
विश्वासादसन्दिग्धबोधसिद्धिरिति द्योतनायैवकारः ॥ ६१ ॥
विकल्पांशविहीनस्य त्वयैषा चिद्विवस्वतः ।
गृहीता वितता व्याप्तिर्मदुक्त्या परमात्मनः ॥ ६२ ॥
अमुमेवार्थं स्पष्टमाह - विकल्पेति ।
सन्देहादिचित्तविकल्पैरविषयीकृतस्येत्यर्थः । वितता
व्याप्तिस्त्रेधाप्यपरिच्छिन्नता ॥ ६२ ॥
विलीनसर्वसङ्कल्पः शान्तसन्देहविभ्रमः ।
क्षीणकौतुकनीहारो जातोऽसि विगतज्वरः ॥ ६३ ॥
कौतुकं बाह्यार्थचमत्कारकुतूहलमात्मतत्त्वजिज्ञासाकुतूहलं च स एव
नीहारोऽवश्यायः ॥ ६३ ॥
यदुपगच्छसि पासि निहंसि वा
पिबसि विस्मयसे च विवर्धसे ।
तदपि तेन तदास्तु यदा मुने
विगतबोधकलङ्कविशङ्कितः ॥ ६४ ॥
हे मुने मननशील राम त्वं यदा विगतो बोधस्य बोधैकरस्यात्मतत्त्वस्य
कलङ्क आवरणं विशङ्कितं विक्षेपश्च यस्य तथाविधो भविष्यसि तदा ते
यदप्राप्तं ज्ञानं तत्साधनं च विचारगुरुशास्त्रोपदेशाद्युपगच्छसि
मोक्षार्थं स्वीकरोषि यच्च विवेकवैराग्यादि पासि यत्नेन रक्षै
यच्चालस्यप्रमादादिदोषजातं निहंसि यत्नेन जयसि यच्च
समाधिसुखामृतं पिबसि यच्चोत्तरोत्तरभूमिकाधिरोहणेन विस्मयसे यच्च
सप्तमभूमिकाविश्रान्त्या पूर्वपूर्वावस्थाधिकसुखोत्कर्षाद्विवर्धसे तदपि
तदा नास्तु किन्तु ब्रह्मैव यथास्थितं तिष्ठेत्यर्थः ॥ ६४ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उपशमप्रकरणे
बलेर्विज्ञानप्राप्तिर्नामैकोनत्रिंशः सर्गः ॥ २९ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
बलेर्विज्ञानप्राप्तिर्नामैकोनत्रिंशः सर्गः ॥ २९ ॥