२८

अष्टाविंशः सर्गः २८

श्रीवसिष्ठ उवाच ।

अथ ते दानवास्तत्र बलेरनुचरास्तदा ।
तद्गेहं स्फाटिकं सौधमुच्चैरारुरुहुः क्षणात् ॥ १ ॥

निश्चेष्टं बलिमालोक्य विषण्णैर्दानवैः स्मृतः ।
शुक्रस्तत्स्थितिमाख्याय तेषां शोकमिहाहरत् ॥ १ ॥

तस्य बलेर्गेहं आश्रयभूतं सौधम् ॥ १ ॥

डिम्भाद्या मन्त्रिणो धीराः सामन्ताः कुमुदादयः ।
सुराद्याश्चैव राजानो वृत्ताद्या बलहारिणः ॥ २ ॥

अनुचरानेव नामभिरुद्दिशति - डिम्भाद्या इत्यादिना ॥ २ ॥

हयग्रीवादयः सैन्याश्चाक्राजाद्याश्च [चक्रेत्यपि पाठः]
बान्धवाः ।
लडुकाद्याश्च सुहृदो बल्लूकाद्याश्च लालकाः ॥ ३ ॥

कुबेरयमशक्राद्या उपायनकराः सुराः ।
यक्षविद्याधरा नागाः सेवावसरकाङ्क्षिणः ॥ ४ ॥

रम्भातिलोत्तमाद्याश्च चामरिण्यो वराङ्गनाः ।
सागराः सरितः शैला दिशश्च विदिशस्तथा ॥ ५ ॥

दिशो विदिशश्च दिगधिदेवतास्तात्वधिकृता जनाश्च ॥ ५ ॥

सेवार्थमाययुस्तस्य तं प्रदेशं तदा बलेः ।
अन्ये च बहवः सिद्धास्त्रैलोक्यओदरवासिनः ॥ ६ ॥

सिद्धाः देवयोनिविशेषाः ॥ ६ ॥

ध्यानमौनसमाधिस्थं चित्रार्पितमिवाचलम् ।
नमत्किरीटावलयो ददृशुर्बलिमादृताः ॥ ७ ॥

शिरोनमनान्नमन्त्यः किरीटावलयो येषाम् । आदृताः सादराः ॥ ७ ॥

तं दृष्ट्वा कृतकर्तव्यप्रणामास्ते महासुराः ।
विषादविस्मयानन्दभयमन्थरतां ययुः ॥ ८ ॥

कृतः अवश्यकर्तव्यः प्रणामो यैः । सुहृदो विषादमन्थरताम् उदासीना
विस्मयमन्थरताम् तत्त्वविदस्त्वानन्दमन्थरताम्
अनभिज्ञोपजीविनस्तूभयमन्थरतां ययुः । अथवा
प्राणसंशयाद्विषादमन्थरताम् सुखप्रसाददर्शनाद्विस्मयमन्थरताम्
रोमाञ्चाद्यानन्दलिङ्गदर्शनादानन्दमन्थरताम् चिरमनुत्थाने
त्राणादर्शनाद्भयमन्थरतां ययुरित्यर्थः ॥ ८ ॥

मन्त्रिणः प्रविचार्यात्र किं प्राप्तमिति दानवाः ।
भार्गवं चिन्तयामासुर्गुरुं सर्वविदांवरम् ॥ ९ ॥

चिन्तनानन्तरं दैत्या भार्गवं भास्वरं वपुः ।
ददृशुः कल्पितं प्राप्तं गन्धर्वनगरं यथा ॥ १० ॥

कल्पितं सप्तर्षिसभागतेनैव भार्गवेण योगबलाद्बलिसौधदेशे प्राप्तात्वेन
कल्पितम् ॥ १० ॥

पूज्यमानोऽसुरगणैर्निविष्टो गुरुविष्टरे ।
ददर्श ध्यानमौनस्थं भार्गवो दानवेश्वरम् ॥ ११ ॥

विश्रम्य स क्षणमिव प्रेमवानवलोक्य च ।
बलिं विचारयन्दृष्ट्वा परिक्षीणभवभ्रमम् ॥ १२ ॥

इवशब्दो विश्रान्तेरपि कल्पितत्वद्योतनार्थः ॥ १२ ॥

देहरश्मिशतैर्दत्तदीप्तिभिः क्षीरसागरम् ।
क्षिपन्निव सभामाह हसन्वाक्यमिदं गुरुः ॥ १३ ॥

क्षिपन् प्रसारय निन्दन्वा । सभां तत्स्थान्दैत्यान्
हसन्ननभिज्ञताख्यापनायोपहसन् ॥ १३ ॥

अतिमात्रमिदं दैत्याः स्वविचारणयैव यत् ।
सम्प्राप्तविमलावासः सिद्धोऽयं भगवान्बलिः ॥ १४ ॥

हे दैत्याः अयं बलिः स्वविचारणयैव सम्प्राप्तो विमल आवासः
सर्वाधिष्ठानं ब्रह्म येन तथाविध इति यत्तदतिमात्रम् । अतिशयोऽस्य
सुखविश्रान्तेरित्यर्थः ॥ १४ ॥

अयं तदेवमेवेह तिष्ठन्दानवसत्तमाः ।
स्वात्मनि स्थितिमाप्नोतु पदं पश्यत्वनामयम् ॥ १५ ॥

तत्तस्मादयमेव समाहितस्तिष्ठन् निरतिशयानन्दे स्वात्मनि स्थितिं
चिरावस्थानमाप्नोतु ॥ १५ ॥

श्रान्तो विश्राममायातः क्षीणचित्तभवभ्रमः ।
शान्तसंसारनीहारो वाचनीयो न दानवाः ॥ १६ ॥

न वाचनीयो न सम्भाषणीयः तूष्णीमाध्वमिति यावत् ॥ १६ ॥

स्व एवालोक एतेन सम्प्राप्तोऽज्ञानसङ्कटे ।
शान्तेऽत्र सम्भ्रमे सौरो दिनेनेव करोत्करः ॥ १७ ॥

अत्र भुवि रात्र्यन्धकारनिद्रादिसम्भ्रमे शान्ते सति दिनेन दिवसेन सौरः
करोत्करः किरणसमूह इव । एतेन बलिना अज्ञानसङ्कटे शान्ते सति स्व
एवालोकः सम्प्राप्तः ॥ १७ ॥

स्वयमेव हि कालेन प्रबोधमयमेष्यति ।
बीजकोशात्स्वसंवित्त्या सुप्तमूर्तिरिवाङ्कुरः ॥ १८ ॥

बीजकोशाद्बीजपुटात् स्वसंवित्त्या मूर्च्छितावस्थाप्रच्युत्या ।
अङ्कुराहम्भावप्रबोधेनेति यावत् ॥ १८ ॥

कुरुध्वं स्वामिकार्याणि सर्वे दानवनायकाः ।
बलिर्वर्षसहस्रेण समाधेर्बोधमेष्यति ॥ १९ ॥

स्वामिकार्याणि राज्यतन्त्राणि ॥ १९ ॥

इत्युक्ता गुरुणा तत्र हर्षामर्षविषादजाम् ।
दैत्याश्चिन्तां जहुः शुष्कां मञ्जरीमिव पादपाः ॥ २० ॥

दैत्यग्रहणं देवानामप्युपलक्षणम् । अत एव दुर्हृदो हर्षजां
द्विषोऽमर्षजां सुहृदुपजीविनश्च विषादजां चिन्तां जहुः ॥ २० ॥

वैरोचनिसभासंस्थां विधाय प्राग्व्यवस्थया ।
स्वव्यापारपरास्तस्थुः सर्व एवासुरास्ततः ॥ २१ ॥

प्राग्व्यवस्थया पूर्वकॢप्तराज्यतन्त्रव्यवहारक्रमेण ॥ २१ ॥

नरा मही महिपतयो रसातलं
ग्रहा नभस्त्रिदशगणास्त्रिविष्टपम् ।
दिशोऽद्रयो [अस्मिन्पद्ये छन्दोभेदः] दिक्पतयश्च कन्दरा-
न्वनेचरा गगनचराश्च खं ययुः ॥ २२ ॥

आगन्तुका नरनागादयस्तदा किं चक्रुस्तदाह - नरा इति । ययुरिति सर्वत्र
सम्बध्यते । अद्रयः कुलाचलाधिदेवता दिक्पतयो दिक्पालाश्च स्वाः स्वा दिशो
ययुः । वनेचरा ऋक्षवानरादियूथपतयः किष्किन्धादिकन्दरान् ययुः ।
गगनचरा गरुडसम्पातिजटायुप्रभृतयः ॥ २२ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे बलिसमाधानवर्णनं नामाष्टाविंशः
सर्गः ॥ २८ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
बलिसमाधानवर्णनं नामाष्टाविंशः सर्गः ॥ २८ ॥