२७

सप्तविंशः सर्गः २७

श्रीवसिष्ठ उवाच ।

सुरासुरसभाज्येष्ठे तस्मिन्भृगुसुते गते ।
मनसा चिन्तयामास बलिर्बुद्धिमतां वरः ॥ १ ॥

शुक्रोपदिष्टमार्गेण सर्वं विमृशतो बलेः ।
चित्पूर्णानन्दविश्रान्त्या चिरं स्थितिरिहोच्यते ॥ १ ॥

सुरासुरसभासु ज्येष्ठे प्रशस्यतमे । ज्यचेति प्रशस्यशब्दस्येष्ठनि
ज्यादेशः ॥ १ ॥

युक्तमुक्तं भगवता चिदेवेदं जगत्त्रयम् ।
चिदहं चिदिमे लोकाश्चिदाशाश्चिदियं क्रिया ॥ २ ॥

यच्चिन्तयामास तदाह - युक्तमित्यादिना ॥ २ ॥

सबाह्याभ्यन्तरं सर्वं चिदेव परमार्थतः ।
अस्ति चिद्व्यतिरेकेण नेह किञ्चन कुत्रचित् ॥ ३ ॥

अयमादित्य इत्यर्को न चिता यदि चेत्यते ।
तदर्कतमसोर्भेदः क इहेवोपलभ्यते ॥ ४ ॥

युक्ततामुपपादयति - अयमादित्य इत्यादिना । चेत्यते सञ्ज्ञायते ।
तमोघटदीपादिव्यावृत्ततया [व्यावृत्तता इत्यपि क्वचित्] यदि न
प्रकाश्यत इत्यर्थः । भेदो व्यावृत्तिर्विच्छित्तिवैधर्म्यं च । इवशब्दो
वाक्यालङ्कारार्थः ॥ ४ ॥

इयं भूरिति भूरेषा चिता यदि न चेत्यते ।
भूमेः किं नाम भूमित्वं तद्भव्ये भव्यतां गतम् ॥ ५ ॥

भूमित्वं जलादिव्यावृत्तरूपं किम् । एवमग्रेऽपि सर्वत्र । भव्यतां
निरूढतां गतं प्राप्तम् ॥ ५ ॥

इमा दिशो दिश इति चेत्यन्ते न चिता यदि ।
तत्किं नाम दिशां दिक्त्वं शैलानां चापि काद्रिता ॥ ६ ॥

शैलेष्वपि इमे शैला इति यदि न चेत्यन्ते इत्यर्थाद्गम्यते ॥ ६ ॥

इदं जगज्जगदिति चिता यदि न चेत्यते ।
तत्किं जगत्त्वं जगतो नभस्त्वं नभसोऽथ किम् ॥ ७ ॥

जगत् क्रियावन्मूर्तद्रव्यं नभस्त्वमूर्तम् ॥ ७ ॥

कायोऽयं पर्वताकारश्चिता यदि न चेत्यते ।
तत्किं नाम शरीरत्वं शरीरस्य शरीरिणाम् ॥ ८ ॥

भूतेषूक्त्वा भौतिकेष्वाह - काय इति । पर्वताकारः । स्थूल इति यावत् ॥ ८ ॥

चिदिन्द्रियाणि चित्कायश्चिन्मनश्चित्तदेषणा ।
चिदन्तश्चिद्बहिश्चित्खं चिद्भावाश्चिद्भवस्थितिः ॥ ९ ॥

खं शून्यमसत् । भावास्तद्विलक्षणाः सन्तः ।
भवस्थितिस्तदुभयसंवलनात्कादाचित्कीसत्ता ॥ ९ ॥

चितैवैनमहं सर्वं स्पर्शनैषणपूर्वकम् ।
करोमि मात्रासंस्पर्शं शरीरेण न किञ्चन ॥ १० ॥

स्पर्शनैषणं भोगेच्छा तत्पूर्वकं मात्राणां शब्दादिविषयाणां
संस्पर्शं भोगम् । शरीरेणेति । अचेतनस्य भोक्तृत्वायोगादिति भावः ॥ १० ॥

किमनेन शरीरेण काष्ठलोष्टसमेन मे ।
अशेषजगदेकात्मा चिदहं चेतनात्मकः ॥ ११ ॥

यदि शरीरेण न किञ्चन तर्हि शरीराभिमानो वृथैवेति त्याज्य एवेत्याह -
किमनेनेति । तत्त्यागे निरुपाधिचितां
भेदकाभावात्सर्वचिदैकात्म्यसिद्धिरपरोलाभ इत्याशयेनाह - अशेषेति ।
चेतनात्मक इति । चेतना चित् तदात्मकत्वस्य सर्वत्राविशेषादिति
हेतुप्रदर्शनार्थम् ॥ ११ ॥

अहं चिदम्बरे भानावहं चिद्भूतपञ्जरे ।
सुरासुरेषु चिदहं स्थावरेषु चरेषु च ॥ १२ ॥

अम्बरे आकाशे । भानौ सूर्यादितेजसि । भूतपञ्जरे अवशिष्टभूतत्रये ।
सुरासुरादिस्थावरजङ्गमदेहेषु च । या चित्सा अहमेव सैवाहमिति वार्थः ॥ १२ ॥

चिदस्तीह द्वितीया हि कल्पनैव न विद्यते ।
द्वित्वस्यासम्भवाल्लोके कः शत्रुः कश्च वासुहृत् ॥ १३ ॥

एवं सर्वचिदैक्ये भेदप्रत्ययानां पृथगनवशेषाद्व्याघाताच्च
द्वित्वस्यासम्भवाच्छत्रुमित्रादिकल्पनापि दूरनिरस्तेत्याह - चिदस्तीति ॥ १३ ॥

बलिनाम्नः शरीरस्य च्छिन्ने शिरसि भासुरे ।
चितः किं तद्भवेच्छिन्नं सर्वलोकावपूरणात् ॥ १४ ॥

अस्तु वा देहादिद्वैतं तथाप्यसङ्गपूर्णचिन्मात्ररूपस्य मम न तत्क्षत्या
कापि क्षतिरस्तीत्याह - बलिनाम्न इति ॥ १४ ॥

चिता सञ्चेतितो द्वेषो द्वेषो भवति नान्यथा ।
तस्माद्द्वेषादयः सर्वे भावाभावाश्चिदात्मकाः ॥ १५ ॥

अस्तु वा तच्चित एव च्छिन्नं तथापि च्छेद्यच्छेदनादिभावाभावानां
तद्गोचररागद्वेषादीनां च चिदधीनकल्पनत्वेन चिदव्यतिरेकान्न चित्प्रतिकूलं
किञ्चिदापन्नमित्याशयेनाह - चितेति ॥ १५ ॥

न चितो व्यतिरेकेण प्रविचार्यापि किञ्चन ।
आसाद्यते किल स्फारादस्मात्त्रिभुवनोदरात् ॥ १६ ॥

न द्वेषोऽस्ति न रागोऽस्ति न मनो नास्य वृत्तयः ।
चिन्मात्रस्यातिशुद्धस्य विकल्पकलना कुतः ॥ १७ ॥

चिदहं सर्वगो व्यापी नित्यानन्दमयात्मकः ।
विकल्पकलनातीतो द्वितीयांशविवर्जितः ॥ १८ ॥

प्रतिकूलाप्रसिद्धौ चितो नित्यानुकूलप्रथमानतालक्षणा आनन्दात्मना स्वत एव
परिशिष्यत इत्याशयेन नित्यानन्दमयात्मक इत्युक्तिः ॥ १८ ॥

चितश्चिदिति यन्नाम निर्नामाया न नाम तत् ।
शब्दात्मिकैषा चिच्छक्तिः परिस्फुरति सर्वगा ॥ १९ ॥

जगद्रूपनामकल्पनावच्चितः स्वनामकल्पनापि स्वविवर्त एवेत्याह - चित इति ।
सर्वगा सर्वनामरूपकल्पनाधिष्ठानचिच्छक्तिरेव स्वनामशब्दात्मिकेव
परिस्फुरतीत्यर्थः ॥ १९ ॥

दृश्यदर्शननिर्मुक्तकेवलामलरूपवान् ।
नित्योदितो निराभासो द्रष्टास्मि परमेश्वरः ॥ २० ॥

एवं च कोऽहमिति प्रश्नोत्तरमपि स्वयमेव मयावगतमित्याह - दृश्येति ॥
२० ॥

कल्पनाविकलाकारः कालकान्तकलामयः ।
आभासमात्रमुदितो नित्याभासविवर्जितः ॥ २१ ॥

ईदृशे भारूपैकस्वरूपे अस्मिन्मयि नित्यस्वात्मावभासविवर्जितः के जले
अलकान्ते केशाग्रे वा प्रतिबिम्बितचन्द्रकलाप्रायः शुक्लपक्षकाले
उपचयात्कान्ताः कला यस्य चन्द्रस्य तत्प्रायो वा स्वकल्पनारूपो विकलाकारः
परिच्छिन्नजीवभावो य उदितः स आभासमात्रं भ्रान्तिरेव न वास्तव इत्यर्थः ॥
२१ ॥

भारूपैकस्वरूपेऽस्मिन्स्वरूपेण जयाम्यहम् ।
चेत्यरञ्जनरिक्ताय विमुक्ताय महात्मने ॥ २२ ॥

अत एव तं जीवभावं चरमसाक्षात्कारवृत्तीद्धेन स्वरूपेणैवाहं
जयाम्यभिभवामि । जितजीवभावः स्वात्मैव परमेश्वर इति तं नमस्यति -
चेत्येत्यादिना ॥ २२ ॥

प्रत्यक्चेतनरूपाय स्वरूपाय नमोऽस्तु ते ।
चितये चेत्यमुक्ताय युक्त्या युक्ताय योग्यया ॥ २३ ॥

योग्यया युक्त्या प्रत्यक्परागभेदान्वययोग्येनाखण्डाभेदेन युक्ताय
साक्षात्कारयोग्यया मनननिदिध्यासनयुक्त्या युक्तायेति वा मह्यं
प्रत्यग्रूपाय ते ब्रह्मणे नमोऽस्तु ॥ २३ ॥

सर्वावभासदीपाय [रूपाय इति पाठः] मह्यमेव नमोऽस्तु ते ।
चेत्यनिर्मुक्तचिद्रूपं विष्वग्विश्वावपूरकम् ॥ २४ ॥

संशान्तसर्वसंवेद्यं सच्चिन्मात्रमहं महत् ।
आकाशवदनन्तोऽहमप्यणोरणुराततः ॥ २५ ॥

नासादयन्ति मामेताः सुखदुःखदशा दृशः ।
संवेदनमसंवेद्यमचेत्यं चेतनं ततम् ॥ २६ ॥

वर्तमानविषये संवेदनमसंवेद्यं अतीतानागतविषये अचेत्यं चेतनम् ।
उभयत्र चाक्षुषादिवृत्तीनां स्मृत्यादिवृत्तीनां च व्यावृत्तये
असंवेद्यमचेत्यमिति च विशेषणे ॥ २६ ॥

न शक्ता मां परिच्छेत्तुं भावाभावा जगद्गताः ।
अथ चैते जगद्भावाः परिच्छिन्दन्तु मामिमम् ॥ २७ ॥

परिच्छेत्तुं देशतः कालतो वस्तुतो वा इयत्त्वे व्यवस्थापयितुं न शक्ताः ।
भावाभावयोः प्रत्युत साक्षिपरिच्छेद्यत्वादिति भावः । यदि ब्रूया न
वयमियत्त्वे व्यवस्थापनं परिच्छेदं ब्रूमः किन्तु तत्त्वावधारणं
तदनुकूलाश्च प्रमाणादयो जगद्भवास्तत्त्वतः परिच्छिन्दन्त्येवात्मानमिति
तत्राह - अथ चेति । प्रकारान्तरद्योतनार्थोऽथशब्दः ॥ २७ ॥

यथाभिमतमेवैते मत्तो न व्यतिरेकिणः ।
यदि [मयि इत्यपि क्वचिल्लभ्यते] स्वभावभूतेन वस्तुना वस्तु नीयते
॥ २८ ॥

एवं परिच्छेदनं मम यथाभिमतं सम्मतमेव । यतस्ते
मत्स्वरूपपरिच्छेदमात्रेण मत्तो न व्यतिरेकिणो मदेकपरिशेषाः । अहमेव
सम्पद्यन्त इत्यर्थः । एवम्भूतैश्च परिच्छेदे वामहस्तगतस्य धनस्य
दक्षिणहस्तेन नयने हरणे परावृत्य दाने वा हस्तद्वयाभिन्नस्य
देहात्मकस्य देवदत्तस्य यथा न धनक्षतिस्तद्वन्न काचित्क्षतिरित्याह -
यदीति ॥ २८ ॥

ह्रियते दीयते वापि तत्किं कस्य किल क्षतम् ।
सर्वदा सर्वमेवाहं सर्वकृत्सर्वसङ्गतः ॥ २९ ॥

वस्तुतस्तु तत्त्वबोधात्पूर्वमपि जगत्स्वयमेवेति प्रागपि न किञ्चिदुदितं क्षतं
वेत्याशयेनाह - सर्वदेति ॥ २९ ॥

चेत्यमस्म्यहमेवैतन्न किञ्चिदपि चोदितम् ।
किं सङ्कल्पविकल्पाभ्यां चितं चिदियमेकिका ॥ ३० ॥

अहमेकिका चित् चिद्भूतस्य च मम सङ्कल्पविकल्पाभ्यां किं
चितमुपचितमपचितं वा ॥ ३० ॥

सङ्क्षोभयाम्यहं तावच्छाम्याम्यात्मनि पावने ।
इति सञ्चिन्तयन्नेव बलिः परमकोविदः ॥ ३१ ॥

अज्ञानात्सङ्क्षोभयामि तत्त्वबोधाच्च शाम्यामि इति सञ्चिन्तयन्बलिः
ॐकारात्स्थूलसूक्ष्मसङ्क्षोभाभ्यां तद्बीजाज्ञानेन च संवलितं चैतन्यं
बोधयदकारादिमात्रात्रयं विहाय परमर्धमात्रार्थं तुरीयं भावयन्
स्वात्मतयानुभवंस्तत्र समाहितः स्थितः ॥ ३१ ॥

ॐकारादर्धमात्रार्थं भावयन्मौनमास्थितः ।
संशान्तसर्वसङ्कल्पः प्रशान्तकलनागणः ॥ ३२ ॥

निःशङ्कमपि दूरास्तचेत्यचिन्तकचिन्तनः ।
ध्यातृध्येयध्यानहीनो निर्मलः शान्तवासनः ॥ ३३ ॥

दूरे अस्तानि चेत्यचिन्तकचिन्तनानि येन । त्रिपुटीमात्रत्यागोपलक्षणमेतत् । तत्र
हेतुः - ध्यात्रिति ॥ ३४ ॥

बभूवावातदीपाभो बलिः प्राप्तमहापदः ।
उपशान्तमनास्तत्र रत्नवातायने बलिः ।
अवसद्बहुकालं स समुत्कीर्ण इवोपले ॥ ३४ ॥

उपले समुत्कीर्णः टङ्कच्छेदनिष्पादितः पुरुष इव ॥ ३४ ॥

प्रशमितैषणया परिपूर्णया
मननदोषदशोज्झितयैतया ।
बलिरराजत निर्मलसत्तया
विघनमच्छतयेव शरन्नभः ॥ ३५ ॥

बलिः प्रशमितैषणया अत एव परिपूर्णया अत एव
विषयमननदोषदशाभिरुज्झितया एतया निर्मलब्रह्मभावप्राप्तिलक्षणया
सत्तया विघनं गतमेघं शरन्नभ इव अराजत ॥ ३५ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मो०
उपशमप्रकरणे बलिविश्रान्तिर्नाम सप्तविंशः सर्गः २७ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
बलिविश्रान्तिर्नाम सप्तविंशतितमः सर्गः ॥ २७ ॥