षड्विंशः सर्गः २६
श्रीवसिष्ठ उवाच ।
इति सञ्चिन्त्य बलवान्बलिरामीलितेक्षणः ।
दध्यौ कमलपत्राक्षं शुक्रमाकाशमन्दिरम् ॥ १ ॥
स्मृत्या यातस्य शुक्रस्य सङ्क्षेपेण बलिं प्रति ।
तत्त्वसारोपदेशोऽथ नभोगतिरिहेर्यते ॥ १ ॥
आकाशो ब्रह्माकाश एव मन्दिरं विश्रान्तिस्थानं यय तम् ॥ १ ॥
सर्वस्थं चिन्तयानं तु नित्यध्यानोऽथ भार्गवः ।
चेतःस्थं ज्ञातवान् शिष्यं बलिं गुर्वर्थिनं पुरे ॥ २ ॥
अथ नित्यध्यानोऽभीक्ष्णं ध्यानपरो भार्गवः
सर्वान्तरब्रह्मरूपत्वात्सर्वस्थं स्वं चिन्तयानं स्वचेतःस्थं बलिं
शिष्यं गुर्वर्थिनं तत्त्वजिज्ञासया स्वदर्शनेच्छुं ज्ञातवानित्यन्वयः ॥ २ ॥
अथ सर्वगतानन्तचिदात्मा भार्गवः प्रभुः ।
आनिनाय स देहं स्वं रत्नवातायनं बलेः ॥ ३ ॥
अथ स भार्गवः स्वं देहं बलेः रत्नवातायनं रत्नगवाक्षस्थानं प्रति
आनिनाय । स्वयमाजगामेति यावत् ॥ ३ ॥
गुरुदेहप्रभाजालपरिमृष्टतनुर्बलिः ।
बुबुधे प्रातरर्कांशुसम्बोधितमिवाम्बुजम् ॥ ४ ॥
परिमृष्टतनुः संस्पृष्टशरीरः । सम्बोधितं विकासितम् ॥ ४ ॥
तत्र रत्नार्घ्यदानेन मन्दारकुसुमोत्करैः ।
पादाभिवन्दनैरेनं पूजयामास भार्गवम् ॥ ५ ॥
रत्नार्घ्यपरिपूर्णाङ्गं कृतमन्दारशेखरम् ।
महार्हासनविश्रान्तमथोवाच गुरुं बलिः ॥ ६ ॥
बलिरुवाच ।
भगवंस्त्वत्प्रसादोत्था प्रतिभेयं पुरस्तव ।
नियोजयति मां वक्तुं कार्यं कर्तुमिवार्कभाः ॥ ७ ॥
प्रतिभा नवनवोन्मेषशालिनी बुद्धिः यथा प्रातरुदिता अर्कभा ब्राह्मणादीन्
सन्ध्यावन्दनादिकार्यं कर्तुं सन्निधानमात्रेण नियोजयति तद्वत् ॥ ७ ॥
भोगान्प्रति विरक्तोऽस्मि महासम्मोहदायिनः ।
तत्तत्त्वं ज्ञातुमिच्छामि महासम्मोहहारि यत् ॥ ८ ॥
यत्स्वज्ञानमात्रेण महासम्मोहहारि तत्तादृशं तत्त्वम् ॥ ८ ॥
कियन्मात्रमिदं भोगजालं किम्मयमेव वा ।
कोऽहं कस्त्वं किमेते वा लोका इति वदाशु मे ॥ ९ ॥
कियती मात्रा उत्कर्षावधिर्यस्य तत् । भोगजालं विषयसुखम् । किम्मयं
किम्प्रकृतिकमिति भोगतत्त्वप्रश्नः । कोऽहं कस्त्वमिति भोक्तृतत्त्वप्रश्नः ।
किमेते लोका इति भोग्यतत्त्वप्रश्नः । लोक्यन्ते इति लोका इति व्युत्पत्तेः ॥ ९ ॥
शुक्र उवाच ।
बहुनात्र किमुक्तेन खं गन्तुं यत्नवानहम् ।
सर्वदानवराजेन्द्र सारं सङ्क्षेपतः शृणु ॥ १० ॥
भोक्रादित्रिपुटीभेदस्यैकस्यां चिति कल्पितत्वात्सङ्क्षेपतस्तदुपदेशेनैव
प्रश्नत्रयस्याप्युत्तरं सुवचमित्याशयं द्योतयन्नाह - बहुनेति । खं
आकाशमार्गम् । सारं प्रश्नत्रयसारम् ॥ १० ॥
चिदिहास्ति हि चिन्मात्रमिदं चिन्मयमेव च ।
चित्त्वं चिदहमेते च लोकाश्चिदिति सङ्ग्रहः ॥ ११ ॥
इह जगति चिदस्ति । हिशब्दस्तत्सिद्धेरन्यनिरपेक्षत्वप्रसिद्धिद्योतनाय । अत इदं
चिद्दृश्यं चिदधीनसिद्धिकं भोगजातं चिदेव मात्रा उत्कर्षावधिर्यस्य
तथाविधम् । यतो वाचो निवर्तन्ते इति श्रुत्या पूर्णचित एव
सर्वानन्दोत्कर्षावधित्वोक्तेः । चित्येव भेदवैचित्र्याध्यासाच्चिन्मयमेव च
एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति इति श्रुतेः । एवं
तत्त्वमस्यहं ब्रह्मास्मि एष ब्रह्मैष इन्द्रः नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति
श्रोता इत्यादिश्रुतिशतेभ्यस्त्वमहमादिभोक्तृतत्त्वमपि चिन्मात्रमेवेत्याह ##-
तत्सत्तास्फूर्त्योश्चिदधीनत्वात् ब्रह्मैवेदं विश्वमिदं वरिष्ठं
इत्यादिश्रुतेश्चेत्याशयेनाह - एते चेति ॥ ११ ॥
भव्योऽसि चेत्तदेतस्मात्सर्वमाप्नोषि निश्चयात् ।
नो चेत्तद्बह्वपि प्रोक्तं त्वयि भस्मनि हूयते ॥ १२ ॥
भवतीति भव्यः श्रद्दधानो विवेकी ॥ १२ ॥
चिच्चेत्यकलनाबन्धस्तन्मुक्तिर्मुक्तिरुच्यते ।
चिदचेत्याखिलात्मेति सर्वसिद्धान्तसङ्ग्रहः ॥ १३ ॥
चितश्चेत्याकारकलनैव बन्धः अचेत्या चेत्याकारनिर्मुक्ता । अखिलात्मा
पूर्णात्मा ॥ १३ ॥
एनं निश्चयमादाय विलोकयसि हेलया ।
स्वयमेवात्मनात्मानमनन्तं पदमाप्स्यसि ॥ १४ ॥
विलोकयसि चेदिति शेषः । आत्मनां अखण्डाकारवृत्त्या रूढप्रतीचा ॥ १४ ॥
खं व्रजाम्यहमत्रैव मुनयः सप्त सङ्गताः ।
केनापि सुरकार्येण वस्तव्यं तत्र वै मया ॥ १५ ॥
खं देवलोकः । वस्तव्यं अवश्यं सन्निधातव्यम् । भावे तव्यः ॥ १५ ॥
राजन्यावदयं देहस्तावन्मुक्तधियामपि ।
यथाप्राप्तक्रियात्यागो रोचते न स्वभावतः ॥ १६ ॥
ननु मुक्तधियः कृतकृत्यस्य तव तत्र अगमने का क्षतिस्तत्राह -
राजन्निति ॥ १६ ॥
इति कथितवताथ भार्गवेण
स्फुटजलराशिपथा महाजवेन ।
प्लुतमलिशबले नभोन्तराले
तरलतरङ्गवदाकुले ग्रहौघैः ॥ १७ ॥
अथ इति कथितवता भार्गवेण ग्रहौघैराकुले अत एव पुष्परेणुव्याप्तोऽलिरिव
शबले किर्मीरे नभोन्तराले स्फुटेन जलराशेर्मेघस्य समुद्रस्य च पथा
उपरिमार्गेण तरलतरङ्गवन्महाजवेन प्लुतं उड्डीनम् । भावे क्तः ॥ १७ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे बल्युपदेशयोगो नाम षड्विंशः सर्गः ॥
२६ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
बल्युपदेशयोगो नाम षड्विंशः सर्गः ॥ २६ ॥