पञ्चविंशः सर्गः २५
बलिरुवाच ।
एतन्मे कथितं पूर्वं पित्रा चारुविचारिणा ।
इदानीं संस्मृतं दिष्ट्या सम्प्रबोधमहं गतः ॥ १ ॥
इह भूयो बलेरन्तर्विवेकेन्दुशुभोदयः ।
सन्देहशान्तये शुक्रचिन्तेच्छातोऽनुवर्ण्यते ॥ १ ॥
अवान्तराख्यानमुपसंहृत्य प्रकृते योजयति - एतदिति ॥ १ ॥
अद्येयं मम सञ्जाता भोगान्प्रत्यरतिः स्फुटम् ।
दिष्ट्या शमसुखं स्वच्छं विशाम्यमृतशीतलम् ॥ २ ॥
पुनरापूरयन्नाशां पुनरप्याहरन्धनम् ।
पुनरावर्जयन्कातां खिन्नोऽस्मि विभवस्थितौ ॥ ३ ॥
पुनरिति वीसितम् । पुनःपुनरित्यर्थः । आवर्जयन् प्रार्थनादिना अनुकूलयन् ।
विभवस्थितौ सम्पत्परिपालनविषये खिन्नः सन्तप्तोऽस्मि ॥ ३ ॥
अहो नु खलु रम्येयं शमभूः शीतलान्तरा ।
सर्वा एव शमं यान्ति सुखदुःखदृशः शमे ॥ ४ ॥
शमे शान्तिगुणे । सर्वा एव सुखदुःखदृशः समं नाशं यान्ति ॥ ४ ॥
शाम्यामि परिनिर्वामि सुखमासे शमे [मुद्रितपुस्तकेषु प्रायः समे
इत्येव पाठो लभ्यते स त्वसङ्गत इत्यन्यादर्शगतः शमे इत्ययं
पाठः टीकाकृदनुमत्यादृतः] स्थितः ।
अयमन्तः प्रहृष्यामि चन्द्रबिम्ब इवार्पितः ॥ ५ ॥
शमे स्थितः प्रतिष्ठितोऽहं शाम्यामीति सर्वतापोपशमोक्तिः । चन्द्रबिम्बेऽर्पित
इव परिनिर्वामीति चित्तस्य निरतिशयसुखपारवश्योक्तिः । सुखमास इति
तद्धेतुसुखात्मना स्थित्युक्तिः । अन्तरिति सर्वत्र सम्बाध्यते । अयं
प्रहृष्यामीति हर्षलिङ्गपुलकाद्यतिशयोक्तिः ॥ ५ ॥
उत्ताण्डवन्मनोरंहःप्रोषितोरुशरीरकम् ।
अनारतपरिक्षोभं हा दुःखं विभवार्जनम् ॥ ६ ॥
उत्ताण्डवशब्दात् सर्वप्रातिपदिकेभ्य आचारे क्विब्वक्तव्यः इति क्विपि लटः
शत्रादेशः । भोगोत्कण्ठया उत्ताण्डवतो मनसो रंहोभिः प्रोषितं दग्धं
देशभ्रमणशीलं वा उरु प्रधानं शरीरं उरु शरीरं वा यस्मिन् अत
एवानारतपरिक्षोभं विभवार्जनं दुःखमेव । हा इति खेदे ॥ ६ ॥
अङ्गमङ्गेन सम्पीड्य मांसं मांसेन च स्त्रियः ।
पुराहमभवं प्रीतो यत्तन्मोहविजृम्भितम् ॥ ७ ॥
इदानीं तत्फलस्त्र्यादिभोगस्वरूपमप्यसारतया विविच्य परिशोचति -
अङ्गमित्यादिना ॥ ७ ॥
दृष्टान्तदृष्टयो दृष्टा भुक्तं भोक्तव्यमक्षतम् ।
आक्रान्तमखिलं भूतं जातं किमिव शोभनम् ॥ ८ ॥
सर्वेषां विभवानां दृष्टान्तभूतमहाविभवदृष्टयः स्वेन दृष्टाः
। अक्षतं परैरव्याहतं भोक्तव्यं राज्यभोगादि भुक्तम् । अखिलं भूतं
प्राणिजातमाक्रान्तं स्वसामर्थ्येन नामितमिति यावत् । तथापि किमिव शोभनं
शाश्वतसुखं जातम् । अनादौ संसारे सर्वेषामपि कदाचिदेवं
वैभवसम्भवात्स्वस्यापि पूर्ववच्छतशो दुर्दशासहस्रस्याग्नेऽपि
सम्भावितत्वाच्च न किञ्चिच्छोभनमित्यर्थः ॥ ८ ॥
पुनस्तान्येव तान्येव तत्रेहान्यत्र वापि च ।
इतश्चेतश्च वस्तूनि नापूर्वं नाम किञ्चन ॥ ९ ॥
अभिनवचमत्कारान्तरादर्शनाच्चर्वितचर्वणप्रायत्वाच्च
नैहिकामुष्मिकभोगानां सारतास्तीत्याह - पुनरिति । तत्र स्वर्गादौ । इह भुवि
। अन्यत्र नागलोकादौ ॥ ९ ॥
सर्वमेव परित्यज्य परिहृत्य धिया स्वयम् ।
स्वस्थ एवावतिष्ठेऽहं पूर्णात्पूर्ण इवात्मनि ॥ १० ॥
पूर्णात्स्वरूपाद्बोधतः प्राप्तात्पूर्ण इवेत्यपूर्णताभ्रान्तिनिरास एव
नापूर्वपूर्णताप्राप्तिरस्तीति द्योतनाय । अथवा पूर्णाच्चन्द्रान्निमित्तात्पूर्णः
क्षीराब्धिरिवेत्यर्थः ॥ १० ॥
पाताले भूतले स्वर्गे स्त्रियो रत्नोपलादयः ।
सारं तदपि तुच्छेन कालेनाशु निगीर्यते ॥ ११ ॥
यदपि भोग्यमज्ञदृष्ट्या सारत्वेन गृहीतं तदपि नश्वरत्वाद्दुःखाय
पर्यवसितं तद्दृशाप्यसारमेवेत्याशयेनाह - पाताल इति ॥ ११ ॥
एतावन्तमहं कालं भृशं बालोऽभवं पुरा ।
यः कुर्वन्द्वेषममरैस्तुच्छया जगदिच्छया ॥ १२ ॥
तुच्छया जगदाधिपत्येच्छया अमरैः सह द्वेषं कुर्वन्नहं मृशं बालो
मूर्ख एवाभवमित्यर्थः ॥ १२ ॥
मनोनिर्माणमात्रेण जगन्नाम्ना महाधिना ।
त्यक्तेनानेन कोऽर्थः स्यात्को नु रागो महात्मनः ॥ १३ ॥
जगन्नाम्ना जगदाधिपत्यनाम्ना महता आधिना मानसदुःखेन अत्यक्तेनेति
[पूर्वार्धेन मिलितोच्चारणात्] च्छेदः । अर्थः पुरुषार्थः स्यात् ।
अनुरागे हि सति तत्र पुरुषार्थताबुद्धिः स एव नास्तीत्याह - क इति ॥ १३ ॥
कष्टं चिरतरं कालमनर्थोऽर्थधिया मया ।
अज्ञानमदमत्तेन कालेन स्वेन सेवितः ॥ १४ ॥
कालेन स्वमृत्युभूतेन स्वेनैव मया अनर्थः अर्थधिया सेवित इत्यर्थः ॥ १४ ॥
तरत्तरलतृष्णेन किमिवास्मिञ्जगत्त्रयम् ।
मया न कृतमज्ञेन पश्चात्तापाभिवृद्धये ॥ १५ ॥
एतया तदलं मेऽस्तु तुच्छया पूर्वचिन्तया ।
पौरुषं याति साफल्यं वर्तमानचिकित्सया ॥ १६ ॥
अथवा किं मम गतशोकेन साम्प्रतिकमोहचिकित्सया
पुरुषजन्मसाफल्योपायं चिन्तयामीत्याह - एतयेति ॥ १६ ॥
अद्यापरिमिताकारकारणैकतयात्मनि ।
सर्वतः सुखमभ्येति रसायनमिवार्णवे ॥ १७ ॥
अपरिमिताकारं अपरिच्छिन्नस्वरूपं यत्कारणं ब्रह्म तदेकतया
तदभेदस्थित्या आत्मनि सर्वतः पूर्णं सुखमर्णवे क्षीरसमुद्रे
रसायनममृतमथनेनेव यथा सर्वतः अभ्येत्याविर्भवति तथा अद्य
औशनसं शुक्रं पृच्छामीति परेणान्वयः ॥ १७ ॥
कोऽयं तावदहं किं स्यादात्मेत्यात्मावलोकनम् ।
पृच्छाम्यौशनसं नाथं नूनमज्ञानशान्तये ॥ १८ ॥
अयं प्रपञ्चः कः । अहं अहम्प्रत्ययवेद्यं जीवतत्त्वं किम् । इत्यात्मा
अवलोक्यते येन तदात्मावलोकनमुपायं नाथं
कुलगुरुत्वात्कुलस्येश्वरमुशनसमेवौशनसं पृच्छामि प्रक्ष्यामि ॥ १८ ॥
सञ्चिन्तयामि परमेश्वरमाशु शुक्र-
मुद्यत्प्रसादमथ तेन गिरोपदिष्टे ।
तिष्ठाम्यनन्तविभवे स्वयमात्मनात्म-
न्यक्षीणमर्थमुपदेशगिरः फलन्ति ॥ १९ ॥
अहं परमेश्वरं योगसिद्धत्वात्सर्वकामेश्वरम् । स्वाश्रितेष्वाशु
उद्यत्प्रसादं शुक्रं सञ्चिन्तयामि । तेन शुक्रेण गिरा उपदिष्टे अनन्तविभवे
आत्मनि स्वयमात्मनैव तिष्ठामि स्थास्यापि । वर्तमानसामीप्ये लट् ।
तत्रावस्थाने केन हेतुना तवाश्वासस्तत्राह - अक्षीणमिति । यतो
महतामुपदेशगिरोऽक्षीणमक्षयमर्थं फलन्ति न
कदाचिद्विफलीभवन्तीत्यर्थः ॥ १९ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० उपशमप्रकरणे
बलिचिन्तासिद्धान्तयोगोपदेशो नाम पञ्चविंशः सर्गः ॥ २५ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
बालचिन्तासिद्धान्तयोगोपदेशो नाम पञ्चविंशः सर्गः ॥ २५ ॥