चतुर्विंशः सर्गः २४
बलिरुवाच ।
केनोपायेन बलवान्स तात परिजीयते ।
कोऽसावतिमहावीर्यः सर्वं प्रकथयाशु मे ॥ १ ॥
इद दुर्मन्त्रिणस्तस्य जयोपायः प्रकिर्त्यते ।
राजसन्दर्शनोपायवैराग्यादिसमन्वितः ॥ १ ॥
प्रश्नः स्पष्टः ॥ १ ॥
विरोचन उवाच ।
मन्त्रिणस्तस्य तनय नित्याजेयस्थितेरपि ।
शृणु वच्मि सुसाधत्वं येनासौ परिजीयते ॥ २ ॥
सुसाधत्वं सुखजयोपायमिति यावत् ॥ २ ॥
पुत्र युक्त्या गृहीतोऽसौ क्षणादायाति वश्यताम् ।
युक्तिं विना दहत्येष आशीविष इवोद्धतः ॥ ३ ॥
बालवल्लालयित्वैनं युक्त्या नियमयन्ति ये ।
राजानं तं समालोक्य पदमासादयन्ति ते ॥ ४ ॥
लालयित्वा अल्पविषयप्रदानेन मुहुर्विषयदोषख्यापनेन च वञ्चयित्वा । युक्त्या
राजयोगाख्यया । पदं राजपदम् ॥ ४ ॥
दृष्टे तस्मिन्महीपाले स मन्त्री वशमेति च ।
तस्मिंश्च मन्त्रिण्याक्रान्ते स राजा दृश्यते पुनः ॥ ५ ॥
पुनःशब्दो वाक्यालङ्कारार्थः ॥ ५ ॥
यावन्न दृष्टो राजासौ तावन्मन्त्री न जीयते ।
मन्त्री च यावन्न जितस्तावद्राजा न दृश्यते ॥ ६ ॥
राजन्यदृष्टे दुर्मन्त्री स दुःखाय फलत्यति ।
मन्त्रिण्यनिर्जिते राजा सोऽत्यन्तं यात्यदृश्यताम् ॥ ७ ॥
अति दुःखाय रागद्वेषादीन्फलति ॥ ७ ॥
अभ्यासेनोभयं तस्मात्सममेव समारभेत् ।
राजसन्दर्शनं तस्य मन्त्रिणश्च पराजयम् ॥ ८ ॥
सन्दर्शनपराजयशब्दौ तत्तदुपायपरौ ॥ ८ ॥
पौरुषेण प्रयत्नेन स्वभ्यासेन शनैःशनैः ।
द्वयं सम्पाद्य यत्नेन देशमाप्नोषि तं शुभम् ॥ ९ ॥
द्वयं राजसन्दर्शनं मन्त्रिपराजयं च ॥ ९ ॥
त्वमभ्यासे फलीभूते तं देशमभिगच्छसि ।
यदि दैत्येन्द्र तद्भूयो मनागपि न शोचसि ॥ १० ॥
फलीभूते सफलीभूते ज्ञानफलात्मना परिणते वा ॥ १० ॥
संशान्तसकलायासा नित्यप्रमुदिताशयाः ।
साधवस्तत्र तिष्ठन्ति प्रशान्ताशेषसंशयाः ॥ ११ ॥
तत्र के तिष्ठन्ति तानाह - संशान्तेति । निवृत्तसर्वानर्था
निरतिशयनित्यानन्दपूर्णाश्च ये साधवस्ते तत्र तिष्ठन्तीत्यर्थः ॥ ११ ॥
शृणु कः पुत्र देशोऽसौ सर्वं प्रकटयामि ते ।
देशनाम्ना मयोक्तस्ते मोक्षः सकलदुःखहा ॥ १२ ॥
इदानीं गूढोक्तिं विवरीतुमाह - शृण्विति ॥ १२ ॥
राजा तु तत्र भगवानात्मा सर्वपदातिगः ।
तेन मन्त्री कृतः प्राज्ञो मनो नाम महामते ॥ १३ ॥
सर्वाणि मानुषानन्दादिहैरण्यगर्भानन्दान्तपदान्यतीत्य गच्छतीति
सर्वपदातिगः सर्ववाढ्यनसागोचरश्च । प्राज्ञः सर्वप्रज्ञासमष्टिरूपः
॥ १३ ॥
मनोनिष्ठतया विश्वमिदं परिणतिं गतम् ।
घटत्वेनेव मृत्पिण्डो धूमोऽम्बुदतयैव च ॥ १४ ॥
मनोनिष्ठतया मनसि वासनात्मकसूक्ष्मभावेन स्थितयेत्यर्थः । परिणतिः
स्थौल्यम् । घटत्वेन घटभावेन । मृत्पिण्डः पिण्डान्तर्गतमृद्भागः ॥
१४ ॥
तस्मिञ्जिते जितं सर्वं सर्वमासादितं भवेत् ।
दुर्जयं तद्विजानीयाद्युक्त्यैव परिजीयते ॥ १५ ॥
जेतव्यं सर्वं जितमासादयितव्यं सर्वमासादितं भवेदित्यर्थः ॥ १५ ॥
बलिरुवाच ।
या युक्तिर्भगवंस्तस्य चित्तस्याक्रमणे स्फुटम् ।
तां मे कथय तत्तावद्यथा जेष्यामि दारुणम् ॥ १६ ॥
आक्रमणे आस्कन्दने । जये इति यावत् ॥ १६ ॥
विरोचन उवाच ।
विषयान्प्रति भोः पुत्र सर्वानेव हि सर्वथा ।
अनास्था परमा ह्येषा सा युक्तिर्मनसो जये ॥ १७ ॥
अनास्था अस्पृहा । युक्तिरुपायः ॥ १७ ॥
एषैव परमा युक्तिरनयैव महामदः ।
स्वमनोमत्तमातङ्गो द्रागित्येवावदम्यते ॥ १८ ॥
द्रागित्येव झटित्येव । अवदम्यते अवमत्य दम्यते । मुक्तिमिच्छसि चेत्तात
विषयान्विषवत्त्यज इत्यभियुक्तोक्तेः ॥ १८ ॥
एषा ह्यत्यन्तदुष्प्रापा सुप्रापा च महामते ।
अनभ्यस्तातिदुष्प्रापा स्वभ्यस्ता प्राप्यते सुखम् ॥ १९ ॥
इषा युक्तिः ॥ १९ ॥
क्रमादभ्यस्यमानैषा विषयारतिरात्मज ।
सर्वतः स्फुटतामेति सेकसिक्ता लता यथा ॥ २० ॥
विषयेष्वरतिर्विरक्तिः । स्फुटतां शान्त्यादिविटपविस्तारव्यक्तताम् ॥ २० ॥
नासाद्यते ह्यनभ्यस्ता काङ्क्षतापि शठात्मना ।
पुत्र शालिरिवाव्युप्ता तस्मादेनां समाहर ॥ २१ ॥
शठात्मना भोगलुब्धमनसा । अव्युप्ता सुक्षेत्रेष्वनुप्ता । समाहर अभ्यासेन
स्थिरीकुरु ॥ २१ ॥
तावद्भ्रमन्ति दुःखेषु संसारावटवासिनः ।
विरतिं विषयेष्वेते यावन्नायान्ति देहिनः ॥ २२ ॥
विरतिं वैराग्यम् ॥ २२ ॥
अभ्यासेन विना कश्चिन्नाप्नोति विषयारतिम् ।
अप्यत्यन्तबलो देही देशान्तरमिवागतिः ॥ २३ ॥
अगतिर्गमनशून्यः ॥ २३ ॥
ध्येयत्यागमतोऽजस्रं ध्यायता देहधारिणा ।
भोगेष्वरतिरभ्यासाद्वृद्धिं नेया लता यथा ॥ २४ ॥
ध्येयत्यागं प्रागुक्तजीवन्मुक्तिहेतुध्येयवासनात्यागम् । ध्यायता वाञ्छता
॥ २४ ॥
पुरुषार्थादृते पुत्र नेह सम्प्राप्यते शुभम् ।
क्रियाफलं परिप्राप्तुं हर्षामर्षविवर्जितम् ॥ २५ ॥
नाकस्मात्सर्वे विषयास्त्युक्तुं शक्याः किन्तु क्रमेणैकैकं विषयं चिरं
त्यक्त्वा सकृत्सकृत्कदाचित्सेवमानः क्रमात्सर्व वैराग्यपरिपाके त्यजेत् तत्र
च पुरुषप्रयत्नदार्ढ्ये
पुनर्हर्षामर्षलौल्यप्रसङ्गवारकमावश्यकमित्याशयेनाह -
पुरुषार्थादिति । पुरुषार्थः पुरुषप्रयत्नस्तस्मादृते हर्षामर्षविवर्जितं
क्रियाफलं परिप्राप्तुमनुकूलं शुभं साधनं न सम्प्राप्यते ॥ २५ ॥
दैवमित्युच्यते लोके न दैवं देहवत्क्वचित् ।
अवश्यं भवितव्याख्या स्वेहया [१] नियतिश्च या ॥ २६ ॥
ननु दैवादेव तत्प्राप्तिः किं न स्यात्तत्राह - दैवमिति । स्वा स्वीया या
नियतिप्रयुक्ता शुभाशुभक्रिया सैव नरैर्मानुषदृष्टिभिर्दैवशब्देनोच्यते
न इतरैर्दिव्यशास्त्रीयदृष्टिमद्भिरिति परेणान्वयः ॥ २६ ॥
उच्यते दैवशब्देन सा नरैरेव नेतरैः ।
यद्यस्येह यदा यत्र सम्पन्नं समतां गतम् ॥ २७ ॥
ननु विनापि प्रयत्नं दैवादेव केषाञ्चिद्धर्षामर्षोपशमो दृश्यते
तत्कथं तत्राह - यदिति । हर्षामर्षहेतुकर्मक्षये सति यदेव
हर्षामर्षविनाशाय सम्पन्नं तदेव जनैर्दैवमिति कथ्यत इत्यर्थः ॥ २७ ॥
हर्षामर्षविनाशाय तद्दैवमिति कथ्यते ।
दैवं नियतिरूपं च पौरुषेणोपजीयते ॥ २८ ॥
अस्तु त्वदुक्तमेव दैवं किं ततस्तत्राह - दैवमिति । मदुक्तं नियतिरूपं
दैवं तु वैराग्यदार्ढ्याभ्यासादिपौरुषेण उपसमीपे अल्पकालेनैव जीयते
मरुभूमितत्त्वज्ञानविलासेन मृगतृष्णाभ्रम इवेत्यर्थः ॥ २८ ॥
सम्यग्ज्ञानविलासेन मृगतृष्णाभ्रमो यथा ।
यथा सङ्कल्प्यते यद्यत्पौरुषेण तथैव तत् ॥ २९ ॥
ननु यदि दैवाख्या नियतिः पौरुषाख्यया तया जीयते तर्हि तस्याः
फलनियमाभावादनियतत्वप्रसङ्ग इति चेदिष्टापत्तिः । सर्वेषु
मनःसङ्कल्पजेष्वसति बाधके प्रमाणैः फलवत्तया गृहीतत्वे फलवत्त
सुखप्रदमित्येव नियमाभ्युपगमादित्याह - यथेति ॥ २९ ॥
फलवत्तागृहीतत्वे फलवत्तासुखप्रदम् ।
कर्ता नो मन एवेह यत्कल्पयति तत्तथा ॥ ३० ॥
नचैवमनियतित्वप्रसङ्गः मनसा कर्त्रा ईदृशनियमस्यैव
कल्पनान्नियतित्वव्यवहारसिद्धेरित्याशयेनाह - कर्तेति । कर्ता जीवो नः
अस्माकं मते मन एव ॥ ३० ॥
नियतिं यादृशीमेतत्सङ्कल्पयति सा तथा ।
नियतानियतान्कांश्चिदर्थाननियतानपि ॥ ३१ ॥
नियतिं यादृशीमेतत्सङ्कल्पयतीत्येतदुपपादयति - नियतानियतानिति ।
उत्सर्गतः फलनियतानपवादविषयेष्वनियतान् व्यावहारिकानर्थाननियतान्
अत्यन्तं फलानियतान् प्रातिभासिकानपि करोतीति परेणान्वयः ॥ ३१ ॥
करोति चित्तं तेनैतच्चित्तं नियतियोजकम् ।
नियत्यां नियतं कुर्वन्कदाचित्स्वार्थनामिकाम् ॥ ३२ ॥
तेन हेतुना एतच्चित्तं स्वसङ्कल्पितार्थानुसारेण फलनियतेरपि
योजकमुपपादकमित्यर्थः । अत एवार्थस्य पारमार्थिकत्वे तद्विषयबोधस्य
नियतफलत्वमेव न दैववत्कर्मवद्वा अनियतफलत्वमित्याशयेनाह -
नियत्यामिति । अयं चित्तात्मा जीवः कदाचिन्मोक्षाधिकृतजन्मनि नियत्यां
नित्यनियतैकस्वभावे परमात्मनि स्वार्थनामिकां
प्रत्यक्परमार्थगोचरसाक्षात्कारनामिकां नियतिं समानाकारवृत्तिधारां
निर्विकल्पकसमाधिमिति यावत् । कुर्वन्नस्मिन् जगत्कोशे व्योम्नि मारुत इव
असङ्गः स्फुरति स्वस्वभावे प्रकाशत इत्यर्थः ॥ ३२ ॥
स्फुरत्यस्मिञ्जगत्कोशे जीवो व्योम्नीव मारुतः ।
नियत्या विहितं कुर्वन्कदाचिन्नियतिं चरः ॥ ३३ ॥
कदाचिद्व्युत्थानकाले नियत्याशास्त्रलक्षणया विहितं स्वस्वाश्रमोचितं कर्म
कुर्वन् सञ्ज्ञार्थमज्ञजनबोधनार्थमेते याज्ञिकाः शिष्टाः
सदाचारप्रवर्तका इत्यादिना लोके रूढः प्रख्यातो नियतिशब्दो यस्य
तथाविधः सन्स्फुरति । यथा सानुर्गिरिप्रस्थः स्वयमचलस्वभावोऽपि
पवनवेगाच्चलत्सु वृक्षेषु चल इव स्थिरेषु च स्थिर इव स्फुरति तद्वदित्यर्थः ॥
३३ ॥
सञ्ज्ञार्थं रूढनियतिशब्दः स्फुरति सानुवत् ।
तस्माद्यावन्मनस्तावन्न दैवं नियतिर्न च ॥ ३४ ॥
अतस्त्वयापि यावज्जीवं चरमोक्तचरितद्वयमवलम्ब्यतामित्याह - तस्मादिति ॥
३४ ॥
मनस्यस्तङ्गते साधो यद्भवत्यस्तु तत्तथा ।
जीवो हि पुरुषो जातः पौरुषेण स यद्यथा ॥ ३५ ॥
तदुत्तरं किं भविष्यति तत्राह - मनसीति । पुरुषो जातः
कर्मज्ञानाधिकारिशरीरं प्राप्तः सन्यद्यथा सङ्कल्पयति तत्तथा भवतीति
स्वायत्ते सङ्कल्पे पौरुषेण वैराग्यादिसाधनानि सम्पाद्य
परमपुरुषार्थात्मकब्रह्मात्मभाव एव सङ्कल्पनीयो न संसार्यात्मभाव
इत्याशयेनाह - पुरुषार्थादृते इत्यादिना ॥ ३५ ॥
सङ्कल्पयति लोकेऽस्मिंस्तत्तथा तस्य नान्यथा ।
पुरुषार्थादृते पुत्र न किञ्चिदिह विद्यते ॥ ३६ ॥
परं पौरुषमाश्रित्य भोगेष्वरतिमाहरेत् ।
न भोगेष्वरतिर्यावज्जायते भवनाशनी ॥ ३७ ॥
न परा निर्वृतिस्तावत्प्राप्यते जयदायिनी ।
विषयेषु रतिर्यावत्स्थिता सम्मोहकारिणी ॥ ३८ ॥
यावद्विषयेषु रतिरस्ति तावद्विलोलान्दोलनस्थितिर्भोगलक्षणैर्भोगिभरैः
सर्पभारैः प्रोता ग्रथिता अत एव दुःखदा कदाशालक्षणा भवदशादोला
प्रेङ्खोलिका वैराग्यश्रवणसमाध्याद्यभ्यासेन विना कदाचन कदापि न
निवर्तते नावरितुं शक्येति परेण सहान्वयः ॥ ३८ ॥
तावद्भवदशादोला विलोलान्दोलनस्थितिः ।
अभ्यासेन विना पुत्र न कदाचन दुःखदा ॥ ३९ ॥
भोगभोगिभरप्रोता कदाशा विनिवर्तते ॥ ४० ॥
बलिरुवाच ।
भोगेष्वरतिरेवान्तः कथं सर्वासुरेश्वर ।
स्थितिमायाति जीवस्य दीर्घजीवितदायिनी ॥ ४१ ॥
दीर्घजीवितं नित्यात्मभावेन स्थितिः ॥ ४१ ॥
विरोचन उवाच ।
आत्मावलोकनलता फलिनी फलति स्फुटम् ।
जीवस्य भोगेष्वरतिं शरदीव महालता ॥ ४२ ॥
फलिनी मोक्षफलवती भोगेष्वरतिं वैराग्यमवान्तरफलं फलति । यथा
द्राक्षादिमहालता शरदि शलाटुं फलति तद्वत् ॥ ४२ ॥
आत्मावलोकनेनैषा विषयारतिरुत्तमा ।
हृदये स्थितिमायाति श्रीरिवाम्भोजकोटरे ॥ ४३ ॥
श्रीर्लक्ष्मीः । अम्भोजकोटरे पद्मगर्भे ॥ ४३ ॥
तस्मात्प्रज्ञानिकाषेण विचारेणातिचारुणा ।
देवमालोकयेद्भोगाद्रतिं चावहरेत्समम् ॥ ४४ ॥
प्रज्ञामणेर्निकाषेण शाणस्थानीयेन विचारेण । समं तुल्यकालम् ॥ ४४ ॥
चित्तस्य भोगैर्द्वौ भागौ शास्त्रेणैकं प्रपूरयेत् ।
गुरुशुश्रूषया चैकमव्युत्पन्नस्य सत्क्रमे ॥ ४५ ॥
तत्र चित्तपरिपाकभेदानुसारेण भूमिकाभेदान् विवक्षुः
प्रथमभूमिकामाह - चित्तस्येति । भोगैर्देहमात्रोपायैर्द्वौ दिनस्य
कालभागौ शास्त्रेण श्रवणेन । अव्युत्पन्नस्य चित्तस्य सत्क्रमे सन्मार्गारम्भे
शास्त्रोक्तक्रमे इति वा ॥ ४५ ॥
किञ्चिद्व्युत्पत्तियुक्तस्य भागं भोगैः प्रपूरयेत् ।
गुरुशुश्रूषया भागौ भागं शास्त्रार्थचिन्तया ॥ ४६ ॥
तज्जये तदुत्तरभूमिकामाह - किञ्चिदिति । आत्मज्ञाने लब्धचमत्कारस्येति
यावत् । अत एव भोगेष्वनास्थोदयाद्भागन्यूनतापत्तिः । गुरुशुश्रूषायां च
भागान्तरवृद्धिः । चिरं गुरुसन्निधाने सत्यवसरे गुरुषु
स्वसन्देहप्रश्नसम्भवादिति भावः ॥ ४६ ॥
व्युत्पत्तिमनुयातस्य पूरयेच्चेतसोऽन्वहम् ।
द्वौ भागौ शास्त्रवैराग्यैर्द्वौ ध्यानगुरुपूजया ॥ ४७ ॥
तज्जये तदुत्तरभूमिकामाह - व्युत्पत्तिमिति । रत्नतत्त्ववच्चिरपरीक्षणेन
तत्त्वतोऽवधारणं व्युत्पत्तिस्तामनुयातस्य चेतसो द्वौ भागौ शास्त्रवैराग्यैः
समुच्चितैः पूरयेत् । द्वौ तु ध्यानैर्गुरुपूजनेन च क्रमात्पूरयेत् ॥ ४७ ॥
साधुतामागतो जीवो योग्यो ज्ञानकथाक्रमे ।
निर्मलाकृतिरादत्ते पट उत्तमरञ्जनाम् ॥ ४८ ॥
चतुर्विधेऽपि क्रमे शुद्धचित्त एवाधिकारी नान्य इत्याह - साधुतामिति । पटो
निर्मलाकृतिः सम्यक्परिशुद्धसंस्थान एवोत्तमां
कुसुम्भकिंशुकादिरञ्जनामादत्ते न मलिन इत्यर्थः ॥ ४८ ॥
शनैः शनैर्लालनीयं युक्तिभिः पावनोक्तिभिः ।
शास्त्रार्थपरिणामेन पालयेच्चित्तबालकम् ॥ ४९ ॥
ईषन्मलिनस्य तर्हि कथं तत्राह - शनैरिति ।
युक्तिभिर्दुःखान्वयव्यतिरेकप्रदर्शनैः पावनोक्तिभिः
श्रुतिस्मृतिगुरूक्तिभिः शास्त्रार्थे चित्तस्य परिणामश्चिरपरिशीलनेन
शर्करामलकवन्मधुरैकरस्य परिणतिस्तेन ॥ ४९ ॥
परे परिणतं ज्ञाने शिथिलीभूतदुर्ग्रहम् ।
ज्योत्स्नाऽहीनस्फटिकवच्चेतः शीतं विराजते ॥ ५० ॥
शिथिलीभूतो दुर्ग्रहो बाह्यमलिनजडाकारग्रहणं यस्य । ज्योत्स्नया अहीनेन
अपृथग्भूतेन स्फटिकेन तुल्यं चित्प्रकाशसमरसमिति यावत् । लीनेति पाठे
स्पष्टम् । शीतं निस्तापम् ॥ ५० ॥
प्रज्ञया परया ऋज्व्या भोगानामीश्वरस्य च ।
सममेवाथ देहस्य रूपमाश्ववलोकयेत् ॥ ५१ ॥
कीदृशी परे परिणतिस्तां दर्शयति - प्रज्ञयेति । ऋज्व्या
गलितभेदवैषम्यकौटिल्यया परया ब्रह्माकारया प्रज्ञया भोगानां
करणकर्मभावव्युत्पत्तिभिरिन्द्रियविषयतद्वृत्तीनामीश्वरस्य तत्स्वामिनो
जीवस्य अथ देहस्य भोगायतनस्य च समं तुल्यं
सच्चिदानन्दाद्वयैकरसमधिष्ठानब्रह्मस्वरूपमेवावलोकयेत् समं
तुल्यकालमेवाधिष्ठानरूपमवलोकयेदिति वा ॥ ५१ ॥
प्रज्ञाविचारवशतः सममेव सदा सुत ।
आत्मावलोकनं तृष्णासन्त्यागं च समाहरेत् ॥ ५२ ॥
विचारफलतृष्णासन्त्यागोऽप्यात्यन्तिकस्तदैव भवतीत्याशयेनाह -
प्रज्ञेति ॥ ५२ ॥
परदृष्टौ वितृष्णत्वं तृष्णाभावे च दृक्परा ।
एते मिथः स्थिते दृष्टी तेजोदीपदशे यथा ॥ ५३ ॥
विचारफलं पुरुषापराधनिवृत्तिर्ज्ञानफलं मूलाविद्यानिवृत्तिश्च न
पृथक्सिद्ध्यत इत्याह - परदृष्टाविति । यथा वह्नेस्तेजोदशा
प्रभावस्था दीपदशा दीपाकारावस्था च तिमिरतैलोभयनिवर्तिके मिथः
अन्योन्ययौगपद्येन स्थिते तद्वदित्यर्थः ॥ ५३ ॥
भोगपूगे गतास्वादे दृष्टे देवे परावरे ।
परे ब्रह्मणि विश्रान्तिरनन्तोदेति शाश्वती ॥ ५४ ॥
आस्वाद्यत इत्यास्वादो रसः । गतरस इत्यर्थः ॥ ५४ ॥
विषयाकलितानन्दमनन्तोदेति निर्वृतिः ।
न कदाचन जीवानामात्मविश्रवणादृते ॥ ५५ ॥
भोगास्वादलम्पटानां तु नात्मानन्दप्राप्तिरस्तीत्याह - विषयेति ।
विषयेष्वेव आकलितः सारतया गृहीत आनन्दो यस्मिन्कर्मणि तथा आस्वादयतां
जीवानां कदाचन कदापि न निर्वृतिर्निरतिशयानन्दो नास्ति ॥ ५५ ॥
यज्ञदानतपस्तीर्थसेवाभिर्जायते सुखम् ।
न तपोभिर्न दानेन न तीर्थैरपि जायते ॥ ५६ ॥
आत्मावलोकनेनैषा विषयारतिरुत्तमा । हृदये स्थितिमायातीति यदुक्तं तत्केचिन्न
मृष्यन्ति यज्ञादिभिरेव चित्तशुद्ध्या विषयारतिसम्भवादिति तान्प्रत्याह ##-
विरतिर्जायत इति परेणान्वयः ॥ ५६ ॥
भोगेषु विरतिर्जन्तोः स्वभावालोकनादृते ।
कयाचिदपि नो युक्त्या बुद्धिरात्मावलोकने ॥ ५७ ॥
एवं भोगवैराग्याभ्यासपुरुषप्रयत्नं विना केनाप्युपायान्तरेण
आत्मावलोकनेऽपि बुद्धिर्न प्रवर्तत इत्याह - कयाचिदिति ॥ ५७ ॥
स्वप्रयत्नादृते पुंसः श्रेयसे सम्प्रवर्तते ।
भोगसन्त्यागसम्प्राप्तपरमार्थादृते सुत ॥ ५८ ॥
न ब्रहपदविश्रान्तिसुखमासाद्यते परम् ।
आब्रह्मस्तम्बपर्यन्ते जगत्यस्मिन्न कुत्रचित् ॥ ५९ ॥
तद्वदाश्वस्यते भाते परमे कारणे यथा ।
पौरुषं यत्नमाश्रित्य दैवं कृत्वा सुदूरतः ॥ ६० ॥
आश्वस्यते विश्रम्यते । भाते स्वात्मतया अभिव्यक्ते परमे कारणे परमात्मनि ॥
६० ॥
भोगान्विगर्हयेत्प्राज्ञः श्रेयोद्वारदृढार्गलान् ।
प्रौढायां भोगगर्हायां विचार उपजायते ॥ ६१ ॥
विचारः सदसद्विवेकः ॥ ६१ ॥
वृद्धायां प्रावृषि श्रीमाञ्शरत्काल इवामलः ।
विचारो भोगगर्हातो विचाराद्भोगगर्हणम् ॥ ६२ ॥
वृद्धायां सस्याद्यभिवृद्धियुक्तायाम् । शाल्यादिफलसम्पदा श्रीमान् ।
तयोरप्यन्योन्याधीना अभिवृद्धिरिति युगपद्वर्धनीयतेत्याह - विचार इति ॥
६२ ॥
अन्योन्यमेते पूर्येते समुद्रजलदाविव ।
भोगगर्हाविचारश्च स्वात्मालोकश्च शाश्वतः ॥ ६३ ॥
यथा समुद्रेण रश्मिद्वारा जलदाः पूर्यन्ते जलदैश्च वृष्टिद्वारा
समुद्रस्तद्वत् । इदानीं त्रयाणां युगपद्वर्धनीयतामाहा - भोगगर्हेति ।
आत्मालोक आत्मदर्शनम् ॥ ६३ ॥
अन्योन्यं साधयन्त्यर्थं सुस्निग्धाः सुहृदो यथा ।
पूर्वं दैवमनादृत्य पौरुषेण प्रयत्नतः ॥ ६४ ॥
दन्तैर्दन्तान्प्रसम्पीड्य भोगेष्वरतिमाहरेत् ।
देशाचाराविरुद्धेन बान्धवैकमतेन च ॥ ६५ ॥
प्रथमं भोगारतिरेव महता प्रयत्नेनावश्यं साध्येत्याह - दन्तैरिति ।
तदर्थमुपायमाह - देशेति । तत्तद्वर्णविहितप्रतिग्रहाद्युपायेषु
देशबन्धुजनसम्मत एव परिग्राह्यो नान्य इत्याशयः ॥ ६५ ॥
पौरुषेण क्रमेणादौ धनानि समुपार्जयेत् ।
धनैरभ्याहरेद्भव्यान्सुजनान्गुणशालिनः ॥ ६६ ॥
पौरुषेण तत्तद्वर्णोत्पन्नपुरुषोचितेन प्रतिग्रहादिक्रमेण । अभ्याहरेत् ।
आराध्य वशीकुर्यादिति यावत् ॥ ६६ ॥
प्रवर्तते समासङ्गात्तेषां भोगविगर्हणा ।
ततो विचारस्तदनु ज्ञानं शास्त्रार्थसङ्ग्रहः ॥ ६७ ॥
तदनु विचारानन्तरं ज्ञानं विचारितवाक्यार्थज्ञानं तदनु
गतिसामान्यन्यायालोचनाच्छास्त्रार्थसङ्ग्रहः सर्वश्रुतीनामद्वितीये
ब्रह्मणे तात्पर्यनिर्णयो भवतीत्यर्थः ॥ ६७ ॥
ततः क्रमेण परमपदप्राप्तिः प्रजायते ।
यदा तूपरते काले विषयेभ्यो विरम्यसे ॥ ६८ ॥
ततो मनननिदिध्यासनक्रमेण भूमिकारोहणक्रमेण वा इत्थं साम्प्रतं
विषयविरामेण परमपदप्राप्त्युपाय उक्तः ।
विषयांस्त्यक्तुमसमर्थश्चेद्यौवनकाले उपरते सति यदा विषयेभ्यो विरम्यसे
तदैव विचारवशतः परमं पदमेष्यसि नाधुनेत्यर्थः ॥ ६८ ॥
तदा विचारवशतः परमं पदमेष्यसि ।
सम्यक्प्राप्स्यसि विश्रान्तिमात्मन्यत्यन्तपावने ॥ ६९ ॥
एवं विषयोपरमावश्यकत्वे सतीदानीमेवोपरमस्ते युक्त इत्याशयेनाह -
सम्यगिति ॥ ६९ ॥
न पुनः कल्पनापङ्के दुःखाय निपतिष्यसि ।
स्थितापि नास्था ते शुद्ध नमस्तेऽस्तु सदाशिव ॥ ७० ॥
हे शुद्ध ते तव । भोगस्थानस्थितापि यया कालान्तरप्रतीक्षा स्यादतस्त्वं
सदाशिव एव अतस्ते साम्प्रतमेव ब्रह्मभूताय नमोऽस्त्वित्यनुचितोऽपि
पुत्रदृशा नमस्कारो ब्रह्मदृष्ट्या कृतः ॥ ७० ॥
देशक्रमेण धनमल्पविगर्हणेन
तेनाङ्ग साधुजनमर्जय मानपूर्वम् ।
तत्सङ्गमोत्थविषयाद्यवहेलनेन
सम्यग्विचारविभवेन तवात्मलाभः ॥ ७१ ॥
उक्तमर्थं सङ्क्षिप्योपसंहरति - देशेति । देशाचाराविरुद्धक्रमेण
धनं अर्जयेति शेषः । तेन धनेन अल्पस्य तुच्छतरस्य भोगस्य विगर्हणेन ।
भोगार्थं धनव्ययमकृत्वेति यावत् । साधुजनं ब्रह्मविज्जनं
प्रणिपातसेवान्नाच्छादनादिसन्मानपूर्वकं अर्जय । शास्त्रपूर्वमिति पाठे तु
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् इति
शास्त्रोक्तरीत्येत्यर्थः । ततः सत्सङ्गमोत्थेन विषयतद्रागद्वेषाद्यवहेलनेन
साधनचतुष्टयसम्पत्त्या प्रवृत्तेन सम्यगध्यात्मशास्त्रविचारस्य
विभवेन ते तव आत्मलाभो विस्मृतकण्ठचामीकरलाभवद्भविष्यतीत्यर्थः ॥
७१ ॥
इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे चित्तविचिकित्सायोगोपदेशो नाम चतुर्विंशः
सर्गः ॥ २४ ॥
इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
चित्तविचिकित्सायोगो नाम चतुर्विंशः सर्गः ॥ २४ ॥