२३

त्रयोविंशः सर्गः २३

विरोचन उवाच ।

अस्ति पुत्रातिविततो देशो विपुलकोटरः ।
त्रैलोक्यानां सहस्राणि यत्र मान्ति बहून्यपि ॥ १ ॥

वक्तुं चित्तजयं राजमन्त्र्युपाख्यानमुच्यते ।
तत्रात्र मन्त्रिणो वीर्यमप्रतिद्वन्द्वमूर्जितम् ॥ १ ॥

चित्तं वृत्तिविहीनं ते यदा यातमचित्तताम् । तदा मोक्षमयीमन्तः
सत्तामाप्नोषि तां तताम् । इति मोक्षस्य चित्तजयाधीनत्वमुक्तं चित्तजये च
आत्यन्तिक आशात्याग उपाय उक्तः स चात्मदर्शनमन्तरेण न सिद्ध्यति । विषया
विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ॥
इति भगवद्वचनात् । आत्मदर्शनं च मनोजयमन्तरेण न
सिद्ध्यतीत्यन्योन्याश्रयतापन्नमिदमशक्यमेवेत्याशङ्कां परिहर्तुं
साधनद्वययौगपद्याभ्यासाद्युपायभेदं वक्तुं बल्युपाख्यानान्तराले
राजमन्त्र्युपाख्यानं विरोचनमुखेन प्रस्तौति - अस्ति पुत्रेत्यादिना । देशो
मोक्षाख्यः ॥ १ ॥
यत्र नाम्भोदयो नापि सागरा वा न चाद्रयः ।
न वनानि न तीर्थानि न नद्यो न सरांसि च ॥ २ ॥

न मही नापि चाकाशं न द्यौर्न पवनादयः ।
न चन्द्रार्कौ न लोकेशा न देवा नच दानवाः ॥ ३ ॥

न भूतयक्षरक्षांसि न गुल्मा न वनश्रियः ।
न काष्ठतृणभूतानि स्थावराणि चराणि च ॥ ४ ॥

नापो न ज्वलनो नाशा नोर्ध्वं नाधो न विष्टपम् ।
न लोको नातपो नाहं न हरीन्द्रहरादयः ॥ ५ ॥

एक एवास्मि सुमहांस्तत्र राजा महाद्युतिः ।
सर्वकृत्सर्वगः सर्वः स च तूष्णीं व्यवस्थितः ॥ ६ ॥

राजा आत्मा । तूष्णीं व्यवस्थितः । कूटस्थ इति यावत् ॥ ६ ॥

तेन सङ्कल्पितो मन्त्री सर्वसन्मन्त्रणोन्मुखः ।
अघटं घटयत्याशु घटं विघटयत्यलम् ॥ ७ ॥

मन्त्री मनः । अघटमत्यन्तानुपपन्नमप्यात्मनः संसारित्वं घटयति ।
घटं घटमानमपि पूर्णानदेकरसत्वं विघटयति नास्ति न
भातीत्यपलापयति ॥ ७ ॥

भोक्तुं न किञ्चिच्छक्नोति न च जानाति किञ्चन ।
राजार्थं केवलं सर्वं करोत्यज्ञोऽपि सन्सदा ॥ ८ ॥

अज्ञोऽपि जडोऽपि सन् ॥ ८ ॥

स एव सर्वकार्यैककर्ता तस्य महीपतेः ।
राजा केवलमेकान्ते स्वस्थ एवावतिष्ठते ॥ ९ ॥

एकान्ते अद्वितीयस्वभावे ॥ ९ ॥

बलिरुवाच ।

आधिव्याधिविनिर्मुक्तः कः स देशो महामते ।
कथमासाद्यते चापि केन वाधिगतः प्रभो ॥ १० ॥

बलिप्रश्ना निगदव्याख्याताः ॥ १० ॥

कः स तादृग्विधो मन्त्री राजा चापि महाबलः ।
हेलालूनजगज्जालैर्योऽस्माभिरपि नो जितः ॥ ११ ॥

अपूर्वमेतदाख्यानं ममामरभयपद ।
कथयापनयास्माकं हृद्व्योम्नः संशयाम्बुदम् ॥ १२ ॥

कथया अस्माभिस्तदजये निमित्तकथनेन ॥ १२ ॥

विरोचन उवाच ।

स तत्र मन्त्री बलवान्देवासुरगणैः सुत ।
समेतैर्लक्षगुणितैरपि नाक्रम्यते मनाक् ॥ १३ ॥

तत्रादावन्ते पृष्टं तदजये निमित्तमेव विस्तरेणाह - स तत्रेत्यादिना ।
मनाक् ईषदपि ॥ १३ ॥

नासौ सहस्रनयनो न यमो न धनेश्वरः ।
नामरो नासुरो वापि यदि पुत्रक जीयते ॥ १४ ॥

स मन्त्री किं द्वितीय इन्द्र उत यम उत कुबेर उत कश्चिदमरोऽसुरो वा
महानुभावो यतो जेतुमशक्यो नेत्याह - नासाविति । यदि सहस्राक्षादिः
कश्चित्स्यात्तर्हि त्वया जीयत एवेत्यर्थः ॥ १४ ॥

तत्रासिमुसलप्रासवज्रचक्रगदादयः ।
हेतयः कुण्ठतां यान्ति दृषदीवोत्पलाहतिः ॥ १५ ॥

किं मम आयुधानि भटा वा न सन्ति सन्तु नाम नासौ तद्विषय इत्याह -
तत्रेति ॥ १५ ॥

गम्योऽसौ नास्त्रशस्त्राणां न भटोद्भवकर्मणाम् ।
तेन देवासुराः सर्वे सर्वदैव वशीकृताः ॥ १६ ॥

प्रत्युत त्वदादयस्तेनैव जिता इत्याह - तेनेति ॥ १६ ॥

अविष्णुनापि तेनेह हिरण्याक्षादयोऽसुराः ।
पातिताः कल्पवातेन मेरुकल्पद्रुमा इव ॥ १७ ॥

अस्मत्पूर्वजादयोऽपि तेनैव वशीकृत्य विष्णुना घातिता इत्याशयेनाह -
अविष्णुनापीति । कल्पवातेन प्रलयवायुना ॥ १७ ॥

नारायणादयो देवा अपि सर्वावबोधिनः ।
तेनाक्रम्य यथाकाममवटेषु निवेशिताः ॥ १८ ॥

सर्वेषामवबोधिनो विवेकोपदेष्टारोऽपि तेनैव
भृगुशापादिनिमित्तापादनेनाक्रम्य वशीकृत्य । अवटेषु गर्भश्वभ्रेषु ॥
१८ ॥

तत्प्रसादेन साटोपं पञ्चमात्रशरः स्मरः ।
त्रैलोक्यमिदमाक्रम्य सम्राडिव विवल्गति ॥ १९ ॥

स्मरः कामः पञ्चमात्रशरोऽपि तत्प्रसादेनेदं त्रैलोक्यमाक्रम्य जित्वा
विवल्गति विजृम्भते ॥ १९ ॥

सुरासुरौघगृह्योऽपि गुणहीनोऽपि दुर्मतिः ।
दुराकृतिरपि क्रोधस्तत्प्रसादेन जृम्भते ॥ २० ॥

सुरासुरौघा गृह्या अस्वैरिणो येन । पदास्वैरिबाह्यापक्ष्येषु च इति क्यप् ॥ २० ॥

देवासुरसहस्राणां सङ्गरो यः पुनः पुनः ।
तदेतत्क्रीडनं तस्य मन्त्रिणो मन्त्रशालिनः ॥ २१ ॥

स मन्त्री केवलं पुत्र तेनैव प्रभुणा यदि ।
जीयते तत्सुजेयोऽसावन्यथा त्वचलोपमः ॥ २२ ॥

प्रभुणा आत्मना । यदि जीयते तत्तदा सुजेयो जय्यः ॥ २२ ॥

तस्यैव तत्प्रभोः काले जेतुं तं मन्त्रिणं निजम् ।
इच्छा सञ्जायते तेन जीयतेऽसावयत्नतः ॥ २३ ॥

काले बहुतरसुकृतपरिपाकाद्विवेकोदयकाले । अयत्नतो ज्ञानमात्रतः ॥ २३ ॥

त्रैलोक्यबलिनां मल्लमुच्छ्वासितजगत्त्रयम् ।
जेतुं चेदस्ति ते शक्तिस्तत्पराक्रमवानसि ॥ २४ ॥

त्रैलोक्ये यावन्तो बलिनस्तेषां मल्लं बलेन जेतारम् । उच्छ्वासितं
म्रियमाणजन्तुवदूर्ध्वश्वसनशीलं कृतं जगत्त्रयं येन । तत्तर्हि ॥ २४ ॥

तस्मिन्नभ्युदिते सूर्ये त्रैलोक्यकमलाकराः ।
इमे विकासमायान्ति विलीयन्तेऽस्तमागते ॥ २५ ॥

तस्य न सर्वजयशक्तिमात्रं किन्तु त्रैलोक्यजननादिशक्तिरप्यस्तीत्याह -
तस्मिन्निति । तस्मिन् सूर्ये इति व्यस्तरूपकम् ॥ २५ ॥

तमेवमेकया बुद्ध्या व्यामोहपरिहीनया ।
यदि जेतुं समर्थोऽसि धीरस्तदसि सुव्रत ॥ २६ ॥

एकया निश्चितया एकाग्रया च । तत्तर्हि धीरोऽसि ॥ २६ ॥

तस्मिञ्जिते जिता लोका भविष्यन्त्यजिता अपि ।
अजिते त्वजिता एते चिरकालजिता अपि ॥ २७ ॥

तस्मादनन्तसिद्ध्यर्थं शाश्वताय सुखाय च ।
तज्जये यत्नमातिष्ठ कष्टयापि हि चेष्टया ॥ २८ ॥

अनन्ता याः सिद्धयस्तदर्थम् । अन्तो मृत्युस्तदभावोऽनन्तं
मृत्युजयस्तत्सिद्ध्यर्थं च । कष्टया श्रमसाध्ययापि सर्वत्यागादिचेष्टया
॥ २८ ॥

ससुरदनुजनागयक्षसङ्घं
सनरमहोरगकिन्नरं समेतम् ।
त्रिजगदपि वशीकृतं समन्ता-
दतिबलिना ननु हेलयैव तेन ॥ २९ ॥

पुनस्तत्प्रभावमेवोक्तमनूद्योपसंहरति - ससुरेति । नागा दिग्गजाः ।
महोरगाः शेषादयः ॥ २९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे विरोचनवचनं नाम त्रयोविंशः सर्गः
॥ २३ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
विरोचनवचनं नाम त्रयोविंशः सर्गः ॥ २३ ॥