२२

द्वाविंशः सर्गः २२

श्रीवसिष्ठ उवाच ।

अथवा रघुवंशाख्यनभःपूर्णनिशाकर ।
बलिवद्बुद्धिभेदेन ज्ञानमासादयामलम् ॥ १ ॥

बल्याख्यानमुपक्रम्य पातालमिह वर्ण्यते ।
बलेश्च राज्यं निर्वेदान्मेरुशृङ्गे विचारणा ॥ १ ॥

इदानीं पद्माक्षकोशं त्रिजगदिति विवेकोदये त्रैलोक्यैश्वर्यस्याप्यल्पत्वं
यदुक्तं तदुपपादनाय बल्याख्यानं वक्तुकामो वसिष्ठो भूमिकां रचयति

  • अथवेति । बुद्धिभेदेन अकस्माद्विचारोदयेन ॥ १ ॥

श्रीराम उवाच ।

भगवन्सर्वधर्मज्ञ त्वत्प्रसादान्मया हृदि ।
प्राप्तं प्राप्तव्यमखिलं विश्रान्तं चामले पदे ॥ २ ॥

प्राप्तव्यमखिलं सर्वात्मकं ब्रह्म हृदि प्राप्तं तस्मिन्नेवामले पदे
विश्रान्तं च ॥ २ ॥

शरदीवाम्बरादभ्रमदभ्रं मम चेतसः ।
विभो व्यपगतं सर्वं तृष्णाख्यं तन्महातमः ॥ ३ ॥

अदभ्रमनल्पं तृष्णाख्यं तत्प्रसिद्धं महातमो मम चेतसः
सकाशादपगतम् ॥ ३ ॥

अमृतापूरितः खस्थः शीतलात्मा महाद्युतिः ।
तिष्ठाम्यानन्दवानन्तः सायं पूर्ण इवोडुराट् ॥ ४ ॥

अमृतापूरित इत्यादिविशेषणानि स्वस्य उडुराजस्य च साधारणानि ॥ ४ ॥

अशेषसंशयाम्भोदशरत्समय किन्त्वहम् ।
तृप्तिमेषां न गच्छामि वचसां वदतस्तव ॥ ५ ॥

अशेषाणां संशयलक्षणानामम्भोदानां शरत्समय इव निवारक इति
गुरुसम्बोधनम् । वदतस्तव एषां वचसां श्रवणविषये तृप्तिं
अलम्बुद्धिं न गच्छामि ॥ ५ ॥

बलेर्विज्ञानसम्प्राप्तिं पुनर्मद्बोधवृद्धये ।
विभो कथय खिद्यन्ते सन्तो नावनतं प्रति ॥ ६ ॥

विज्ञानस्य सम्प्राप्तिं प्राप्तिप्रकारम् । अवनतं प्रणामोपनतं शिष्यं प्रति
उपदेशने इति शेषः ॥ ६ ॥

श्रीवसिष्ठ उवाच ।

शृणु राघव ते वक्ष्ये बलेर्वृत्तान्तमुत्तमम् ।
श्रुतेन येन तं तत्त्वबोधं प्राप्स्यसि शाश्वतम् ॥ ७ ॥

तं तादृशं तत्त्वबोधं विचारपूर्वकतत्त्वावधारणम् । शाश्वतं
नित्यात्मलाभफलम् । शाश्वतं नित्यं तत्त्वभूतमात्मस्वरूपबोधमिति वा ॥
७ ॥

अस्त्यस्मिञ्जगतः कोशे कस्मिंश्चिद्दिङ्निकुञ्जके ।
पातालमिति विख्यातो लोको भूमेरधः स्थितः ॥ ८ ॥

जगतः कोशे ब्रह्माण्डे । दिग्लक्षणे निकुञ्जके अल्पे कुञ्जे ॥ ८ ॥

क्षीरोदार्णवजाताभिर्दिरधाभिरमृतांशुभिः ।
क्वचिद्दानवकन्याभिर्भाति निर्विवरान्तरः ॥ ९ ॥

क्षीरोदार्णवे क्षीरसमुद्रे जाताभिः । दानवानामर्णवोदरेऽपि निवासप्रसिद्धेः ।
अत एव तत्रोत्पन्नस्यामृतस्यांशुभिरवयवैर्दिग्धाभिरुपचिताभिरिव
रम्याभिः । निर्विवरान्तरः पूर्ण इति यावत् ॥ ९ ॥

जिह्वागणोद्दामरवैर्विलोलरसनायुगैः ।
क्वचिद्भोगिभिरापूर्णः सहस्रशतमस्तकैः ॥ १० ॥

द्व्यादिद्विसहस्रान्तसङ्ख्याकैर्जिह्वागणैरितरापेक्षया द्विगुणं
व्याकरणच्छन्दः शास्त्रादिव्याख्यानादुद्दामरवैः । अत एव
विलोलरसनायुगैः । भोगिभिः शेषादिभिः ॥ १० ॥

देहाद्रिवलिताशेषविश्वोद्धरणघस्मरैः ।
क्वचिद्दनुसुतैर्व्याप्तश्चलद्भिरिव मेरुभिः ॥ ११ ॥

देहाद्रिभिर्वलितं व्याप्तमशेषं जगद्येषां तथाविधैर्विश्वोद्धरणस्य
धर्मस्य यज्ञहविषो वा घस्मरैर्बलाद्भक्षकैः । कर्मधारयः ॥ ११ ॥

कुम्भकूटाग्रविश्रान्तवसुधामण्डलोदरैः ।
क्वचिद्दिग्दन्तिभ्रिदन्तद्रुमाद्रिभिरुपाश्रितः ॥ १२ ॥

कुम्भलक्षणानां कूटानां शिखराणामग्रेषु विश्रान्तं
वसुधामण्डलस्योदरं मध्यं येषाम् ।
उदरग्रहणादधोजम्बूद्वीपप्रान्तेष्वेव दिक्षु
मध्यतनमण्डपस्तम्भवद्दिग्गजानां भूमिधारणे निवेश इति गम्यते । अत
एव जम्बूद्वीपभुवं खनद्भिः सगरपुत्रैः प्रतिदिशं दिग्गजा दृष्टा इति
पूर्वरामायणेऽप्युक्तम् । दन्तलक्षणानां द्रुमाणामद्रिभिः
पर्वतवदाश्रयभूतैः ॥ १२ ॥

महाकटकटाशब्दत्रस्तभूतपरम्परैः ।
क्वचिद्दुर्गन्धभूताभैरधोनारकमण्डलैः ॥ १३ ॥

दुर्गन्ध इति भूतानां नारकि प्राणिनां आभाः स्वकर्मैकृताः प्रतिभासा
यत्र । अधः सर्वाधः । तत्र हि पुराणेषु नरकाः प्रसिद्धाः ॥ १३ ॥

आभूतलमभिप्रोतसप्तपातालमण्डलैः ।
क्वचिद्रत्नाकरैर्व्याप्तः पातालैर्विवरैरिव ॥ १४ ॥

क्वचित् अधस्तननारकप्रदेशमारभ्य आभूतलं
उपरितनास्मदीयभूतलपर्यन्तं सप्तापूपप्रोतलोहशलाकावत्
प्रोतसप्तपातालमण्डलैः रत्नानामाकरभूतैर्मेर्वादिगिरिपादैर्व्याप्तः ।
क्वचिच्च विवरैरिव सङ्कुचितप्रायैः पातालैः पातालावयवैर्व्याप्तः ॥ १४ ॥

सुरासुरशिरःसुप्तपादाम्भोरुहपांसुना ।
क्वचिद्भगवता तेन कपिलेन पवित्रितः ॥ १५ ॥

सुराणामसुराणां च शिरःसु सुप्ता इव विश्रान्ताः पादाम्भोरुहपांसवो
यस्य तथाविधेन । त्रैलोक्यवन्दितेनेति यावत् ॥ १५ ॥

आसुरीसम्भृतानन्तपूजनक्रीडनैषिणा ।
क्वचिद्भगवता तेन हाटकेशेन पालितः ॥ १६ ॥

आसुरीभिरसुरस्त्रीभिः सेनाभिर्वा सम्भृतैरनन्तैर्बहुविधोपकरणैः
पूजनानि क्रीडनानि च एष्टुमभिलषितुं शीलं यस्य तथाविधेन हाटकेशेन
स्वर्णलिङ्गात्मना पुराणेषु प्रसिद्धेन शिवेन ॥ १६ ॥

तस्मिन्नसुरदोस्तम्भधार्यमाणमहाभरे ।
बभूव दानवो राजा विरोचनसुतो बलिः ॥ १७ ॥

तस्मिन् पाताललोके । असुराणां दोस्तम्भैर्धार्यमाणो महान् भरो राज्यभारो
[राज्यभार इत्यग्रिगं पदं क्वचिन्न लभ्यते] यत्र ॥ १७ ॥

साक्रन्देन समं सर्वैः सुरविद्याधरोरगैः ।
पादसंवाहनं यस्य सुरराजेन वाञ्छितम् ॥ १८ ॥

तस्य पराक्रममाह - साक्रन्देनेति । आक्रन्दो रोदनं तत्सहितेन ।
वाञ्छितं बलादिति शेषः ॥ १८ ॥

कोशस्त्रैलोक्यरत्नानां पाता सर्वशरीरिणाम् ।
धर्ता भुवनधर्तृणां यस्य पालयिता हरिः ॥ १९ ॥

कुतस्तस्येदृशं सामर्थ्यं तत्राह - कोश इति । त्रैलोक्यलक्षणानां
रत्नानां कोश इव स्वोदरे रक्षिता । भुवनधर्तॄणां त्रैलोक्यपालकानां
इन्द्रमनुशेषादीनां धर्ता आधारभूतः । यस्य बलेः ॥ १९ ॥

ऐरावणस्य संशोषं यन्नाम्ना कटभित्तयः ।
केकयेवाहिहृन्नाड्यो जग्मुराजग्मुरार्तताम् ॥ २० ॥

ऐरावणस्यैरावतस्य । कटभित्तयः गण्डस्थलानि । बहुवचनं सप्तानां
मदस्थानानामुपलक्षणार्थम् । यन्नाम्ना श्रुतेनेति शेषः । केकया
मयूरवाअण्या अहीनां हृन्नाड्यो हृदयशिरा इव शोषं जग्मुरार्ततां
भयस्विन्नतां चाजग्मुः ॥ २० ॥

प्रतापोग्रोष्मभिर्यस्य कल्पकाल इवाब्धयः ।
ययुः शोषोन्मुखाः सप्त सप्ततां कुपिताकृतेः ॥ २१ ॥

कुपिताकृतेर्यस्य प्रतापस्य उग्रैर्दुःसहैरूष्मभिरुष्णस्पर्शैः सप्त
महाब्धयः शोषोन्मुखाः सन्तः कल्पकाल इव गर्तसङ्ख्यामात्रेण सप्ततां
ययुर्न जलादिपूरसङ्ख्ययेत्यर्थः ॥ २१ ॥

यदध्वराग्र्यधूमाभ्रराजयो वलिताब्धयः ।
ब्रह्माण्डकोटरस्यास्य सदा कवचतां ययुः ॥ २२ ॥

अध्वराग्र्याः अश्वमेधास्तदीयधूमप्रभवा अभ्रपङ्क्तयः । जलपानाय
वलिता अब्धयो याभिः । कोटरपदेन तत्स्थाः प्राणिनो गृह्यन्ते । वृष्ट्या
जगत्पालनहेतुत्वादावरकत्वाच्च कवचतां वर्मताम् ॥ २२ ॥

यस्य दृष्टिदृढाघातनुन्नाधारकुलाचलाः ।
विनमन्ति दिशः सर्वा लताः फलनता इव ॥ २३ ॥

दृष्ट्या दृढाघातस्तिर्यक्प्रेक्षणं तेन नुन्ना भूम्याधारकुलाचला
यासां तथाविधा दिशः । भूमेर्नमने दिशामधःप्रदेशे
दर्शनान्नमनोत्प्रेक्षा ॥ २३ ॥

लीलाविजितनिःशेषभुवनाभोगभूषणः ।
दशकोटीः स वर्षाणि दैत्यो राज्यं चकार ह ॥ २४ ॥

लीलया विजिता अशेषाणां भुवनाभोगानां लोकसंस्थानां भूषणभूता
इन्द्रादयो येन ॥ २४ ॥

अथ गच्छत्स्वनल्पेषु युगेष्वावर्तवृत्तिषु ।
सुरासुरमहौघेषु प्रोत्पतत्सु पतत्सु च ॥ २५ ॥

आवर्तवृत्तिषु जलावर्तसदृशस्वभावेषु ॥ २५ ॥

अजस्रमतिभुक्तेषु त्रैलोक्योदारवृत्तिषु ।
भोगेष्वभजदुद्वेगं बलिर्दानवनायकः ॥ २६ ॥

त्रैलोक्येऽप्युदारवृत्तिषूत्कृष्टस्थितिषु भोगेषु भुक्तेषु सत्सु विषयभूतेषु च
उद्वेगं वैरस्यमभजत् ॥ २६ ॥

मेरुशृङ्गशिखारत्नकृतवातायनस्थितः ।
एकदा चिन्तयामास स्वयं संसारसंस्थितिम् ॥ २७ ॥

मेरुशृङ्गस्य शिखायामग्रभागे रत्नकृतहर्म्यवातायने स्थित
उपविष्टः सन् ॥ २७ ॥

कियन्तमिदमक्षुण्णशक्तिनैव मयाधुना ।
साम्राज्यमिह कर्तव्यं विहर्तव्यं जगत्त्रये ॥ २८ ॥

न क्षुण्णा परैरकुण्ठिता शक्तिर्यस्य अथाविधेन मया ॥ २८ ॥

महता मम राष्ट्रेण त्रैलोक्याद्भुतकारिणा ।
किं वा भवति भुक्तेन भूरिभोगातिहारिणा ॥ २९ ॥

राष्ट्रेण भुक्तेन किं वा भवति । भूरिभिर्भोगैरितिशयेन हारिणा मनोहारिणा
॥ २९ ॥

आपातमात्रमधुरमावश्यकपरिक्षयम् ।
भोगोपभोगमात्रं मे किं नामेदं सुखावहम् ॥ ३० ॥

भोगोपभोगमात्रं कृत्स्नोपभोगः । पुरुषार्थान्तरव्यावृत्तये वा
मात्रशब्दः ॥ ३० ॥

पुनर्दिनैककलनाशर्वरीसंस्थितिः पुनः ।
पुनस्तान्येव कर्माणि लज्जायै नच तुष्टये ॥ ३१ ॥

तान्येव स्नानभोजनशयनादीनि । नाभिनवं किञ्चित्कर्म सुखं वस्तीत्यर्थः ।
अतो महतां पुरो लाम्पट्यं लज्जायै नतु तुष्टये ॥ ३१ ॥

पुनरालिङ्ग्यते कान्ता पुनरेव च भुज्यते ।
सेयं शिशुजनक्रीडा लज्जायै महतामिह ॥ ३२ ॥

उक्तमेव स्फुटयति - पुनरित्यादिना ॥ ३२ ॥

तमेव भुक्तविरसं व्यापारौघं पुनःपुनः ।
दिवसे दिवसे कुर्वन्प्राज्ञः कस्मान्न लज्जते ॥ ३३ ॥

पुनर्दिनं पुना रात्रिः पुनः कार्यप्रम्पराः ।
पुनःपुनरहं मन्ये प्राज्ञस्येयं विडम्बना ॥ ३४ ॥

प्राज्ञस्य दृश्या इयं विडम्बना पुनःपुनः
कृतानुकरणमिवोपहासहेतुरित्यर्थः ॥ ३४ ॥

ऊर्मितां पुनरासाद्य पुनरेति निरूर्मिताम् ।
यथा जलं तथैवायं तां तामेति क्रियां जनः ॥ ३५ ॥

व्यर्थकृतानुकरणे दृष्टान्तमाह - ऊर्मितामिति ॥ ३५ ॥

उन्मत्तचेष्टिताकारा पुनःपुनरियं क्रिया ।
जनं हासयते प्राज्ञं बाललीलोपमा मुहुः ॥ ३६ ॥

कृतयाप्यनया नित्यं क्रियया कृतकार्यया ।
कोऽर्थः स्यात्तदृशो येन पुनः कर्म न विद्यते ॥ ३७ ॥

येन लब्धेन पुनः कर्म न विद्यते कृतकृत्यता स्यात्तादृशोऽर्थः कः स्यात्
॥ ३७ ॥

कियन्तमथवा कालमिदमाडम्बरं महत् ।
इहास्माभिरनुष्ठेयं किं तावत्समवाप्यते ॥ ३८ ॥

महदाडम्बरं दृष्टादृष्टार्थकर्मजातम् ॥ ३८ ॥

अनन्तेयं शिशुक्रीडा वस्तुशून्यैव वस्तुतः ।
आवृत्त्या क्रियते व्यर्थमनर्थप्रसरार्थिभिः ॥ ३९ ॥

अनन्ता प्रवाहानन्ता । उत्पन्नप्रध्वंसस्वभावत्वात् । वस्तुतः परमार्थतो
वस्तुशून्यैव इयं शिशुक्रीडा अनर्थप्रसरो
दुःखपरम्पराप्राप्तिस्तदर्थिभिः क्रियते ॥ ३९ ॥

फलमेकं महोदारं नेह पश्यामि किञ्चन ।
कार्यमस्तीतरत्प्राप्ते यस्मिन्नाम न किञ्चन ॥ ४० ॥

यस्मिन्प्राप्ते सति इतरन्न किञ्चन कार्य कर्तव्यमस्ति तादृशं फलं
पुरुषार्थमिह न किञ्चन पश्यामि ॥ ४० ॥

भोगादृते किमन्यत्स्यात्तद्भव्यमविनाशि यत् ।
एवं सञ्चिन्तयाम्याशु दध्यौ मत्वेत्यसौ बलिः ॥ ४१ ॥

भोगात् क्षणिकतुच्छविषयसुखादृतेऽन्यद्यदविनाशि नित्यं तद्भव्यं
सुखं किं स्यादेवं सञ्चिन्तयामीति मत्वा असौ बलिराशु दध्यावित्यन्वयः ॥
४१ ॥

अथाभ्युवाचासुरराडाः संस्मृतमिति क्षणात् ।
स्वात्मन्येव मनस्यर्थं सभ्रूभङ्गं विमर्शयन् ॥ ४२ ॥

ध्यानेन संस्कारोद्बोधात्सविमर्शां
प्राक्स्वपृष्ठपित्रुपदेशक्रमस्मृतिं दर्शयति - अथेति । अथ
क्षणादात्मनि स्वस्मिन्नेव उवाच । आः इति स्मरणद्योतको निपातः । किमुवाच
तदाह - संस्मृतं सम्यङ्मया स्मृतमिति स्मृतार्थं मनस्येव
विमर्शयन्विमृशन् । प्रेषणाध्यारोपाण्णिच् ॥ ४२ ॥

पुरा किलेह भगवान्पृष्टोऽभूत्स विरोचनः ।
पिता मयात्मतत्त्वज्ञो दृष्टलोकपरावरः ॥ ४३ ॥

स्मृतमर्थे क्रमेणाह - पुरा किलेत्यादिना ॥ ४३ ॥

यथा सकलदुःखानां सुखानां च महामते ।
यत्र सर्वे भ्रमाः शान्ताः कोऽसौ सीमान्त उच्यते ॥ ४४ ॥

किं पृष्टस्तदाह - यथेत्यादिना । यथेति तत्प्रकारोपक्रमार्थः ।
सकलदुःखानां सांसारिकसुखानां च परिहारप्राप्न्युपायगोचराः सर्वे
व्यवहारभ्रमा यत्र शान्ता असौ संसारसीम्नोऽन्तोऽवधिः कः उच्यते
प्राज्ञैरित्यर्थः ॥ ४४ ॥

क्वोपशान्तो मनोमोहः क्वातीताः सकलैषणाः ।
विरामरहितं कुत्र तात विश्रमणं चिरम् ॥ ४५ ॥

विरामः पुनरावृत्तिस्तद्रहितं विश्रमणं विश्रान्तिः ॥ ४५ ॥

किं प्राप्तेह समस्तेभ्यः प्राप्येऽस्मिंस्तृप्तिमान्पुमान् ।
किं दृष्ट्वा दर्शनं भूयो न तातोपकरोत्यलम् ॥ ४६ ॥

पुमान् किं सुखं प्राप्ता प्राप्तवान् सन्नस्मिन्नेव देहे समस्तेभ्यो
ब्रह्मलोकान्तविषयेभ्यः प्राप्ये सुखे या तृप्तिराशापरिपूर्तिस्तद्वान् स्यादिति
शेषः । नोपकरोति फलान्तरेण । एकविज्ञानेन सर्वविज्ञानं सिद्ध्यतीत्यर्थः ॥
४६ ॥

अत्यन्तबहवोऽप्येते भोगा हि न सुखावहाः ।
क्षोभयन्ति मनो मोहे पातयन्ति सतामपि ॥ ४७ ॥

कुतस्ते तज्जिज्ञासा तत्राह - अत्यन्तेति । कुतो न सुखावहास्तत्राह -
क्षोभयन्तीति ॥ ४७ ॥

तत्ताताविहतानन्दसुन्दरं किञ्चिदेव मे ।
तादृक्कथय यत्रस्थश्चिरं विश्रान्तिमेम्यहम् ॥ ४८ ॥

इत्याकर्ण्य पुरा निशाकरकरस्पर्धालुगुच्छस्खल-
त्पुष्पापूरकृतावगुण्ठनपदस्योक्तं तले तेन मे ।
पित्रा स्वर्गहृतस्य सागरतरोः संरोपितस्याजिरे
स्फाराकाररसायनासवसमं सम्मोहशान्त्यै वचः ॥

पुरा पूर्वकाले निशाकरस्य चन्द्रस्य करैः किरणैः सह
सौन्दर्यामृतरसपूर्णत्वादिगुणाधिक्यात्स्पर्धालुभ्यो गुच्छेभ्यः
पुष्पफलस्तबकेभ्यः स्खलतां पुष्पाणां फलानां चापूरेण समूहेन
कृतमवगुण्ठनं यस्य तथाविधं पदं मूलस्थानं यस्य तथाविधस्य
स्वर्गात् हृतस्य बलादानीतस्य अजिरे स्वाङ्गणे संरोपितस्य सागरतरोः
क्षीरसमुद्रोत्पन्नस्य कल्पवृक्षस्य तले उपविष्टेन मे मम पित्रा विरोचनेन इति
प्रागुक्तप्रकारं प्रश्नमाकर्ण्य तस्य कल्पतरोः स्फाराकारै
रसायनलक्षणैरासवैर्मकरन्दैः समं तुल्यं सुरभि मधुरं
जरामरणदुःखनिवारणं चेति यावत् । वचः सम्मोहशान्त्यै
मदीयाज्ञानभ्रमनिवारणाय यदुक्तं तन्मया स्मृतमित्यर्थः ॥ ४९ ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे विरोचनस्मरणं नाम द्वाविंशः सर्गः
॥ २२ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
विरोचनस्मरणं नाम द्वाविंशः सर्गः ॥ २२ ॥