२१

एकविंशः सर्गः २१

श्रीवसिष्ठ उवाच ।

एवं प्रबोधितस्तेन तदा पुण्येन पावनः ।
प्रबोधमाप प्राकाश्यं प्रभात इव भूतलम् ॥ १ ॥

तृष्णापाशक्षयो मोक्षो ह्याशया चित्तवृत्तयः ।
निराशस्यात्मपूर्णस्य स्वतो मुक्तिरितीर्यते ॥ १ ॥

प्रबोधं परिनिष्ठितमात्मनिश्चयम् ॥ १ ॥

उभावपि ततः सिद्धौ ज्ञानविज्ञानपारगौ ।
विचेरतुर्वने तस्मिन्यावदिच्छमनिन्दितौ ॥ २ ॥

यावदिच्छं प्रारब्धक्षयपर्यन्तमिति यावत् ॥ २ ॥

ततः कदाचित्कालेन निर्वाणपदमागतौ ।
तौ विदेहौ गतस्नेहौ दीपाविव शमं गतौ ॥ ३ ॥

गतस्नेहौ क्षीणतैलौ ॥ ३ ॥

एवं प्राग्भुक्तदेहानामनन्ता जनबन्धुता ।
आः कैः किं गृह्यते ताभ्यः किं वा सन्त्यज्यतेऽनघ ॥ ४ ॥

उक्तमाख्यानमुपसंहृत्य प्रकृते योजयति - एवमिति । जनबन्धुता
सुहृज्जनबन्धुसमूहः । आः इति विस्मये निपातः । गृह्यते शोच्यत्वेनोपादीयते
॥ ४ ॥

तस्मादासामनन्तानां तृष्णानां रघुनन्दन ।
उपायस्त्याग एवैको न नाम परिपालनम् ॥ ५ ॥

आसां सर्वशोकादिमूलभूतानां प्रतिविषयमनन्तानाम् । परिपालनं
विषयसम्पादनैरभिवर्धनम् ॥ ५ ॥

चिन्तनेनैधते चिन्ता त्विन्धनेनेव पावकः ।
नश्यत्यचिन्ततेनैव विनेन्धनमिवानलः ॥ ६ ॥

विषयाचिन्तनमेव तत्परित्याग इत्याशयेनाह - चिन्तनेनेति । एधते वर्धते ॥ ६

ध्येयत्यागरथारूढः करुणोदारया दृशा ।
लोकमालोकयन्दीनमातिष्ठोत्तिष्ठ राघव ॥ ७ ॥

ध्येयत्यागः प्राग्वर्णितध्येयवासनात्यागः । करुणा सर्वभूतानुकम्पा ।
आतिष्ठ अनुतिष्ठ । प्रकृतव्यवहारमिति शेषः ॥ ७ ॥

एषा ब्रह्मी स्थितिः स्वच्छा निष्कामा विगतामया ।
एनां प्राप्य महाबाहो विमूढोऽपि न मुह्यति ॥ ८ ॥

विमूढो व्यवहारेष्वचतुरोऽपि न मुह्यति ॥ ८ ॥

एकं विवेकं सुहृदमेकां प्रौढसखीं धियम् ।
आदाय विहरन्नेवं सङ्कटेषु न मुह्यति ॥ ९ ॥

विवेकलक्षणं सुहृदं मित्रम् । धियं परमार्थबोधलक्षणां
प्रियसखीम् ॥ ९ ॥

विनिवारितसर्वार्थादपहस्तितबान्धवात् ।
न स्वधैर्यादृते कश्चिदभ्युद्धरति सङ्कटात् ॥ १० ॥

विनिवारिताः परित्यक्ताः सर्वे अर्था धनानि येन । अपहस्तिता
अन्तःस्नेहविच्छेदादपहस्तिता हस्तेन ककुदि प्रणोद्य निरस्ता इव बान्धवा येन ।
अभ्युद्धरति सङ्कटादुन्नयति स्वमिति शेषः ॥ १० ॥

वैराग्येणाथ शास्त्रेण महत्त्वादिगुणैरपि ।
यत्नेनापद्विघातार्थं स्वयमेवोन्नयेन्मनः ॥ ११ ॥

उन्नयेत् उत्कर्षं नयेत् विषयगर्तादुद्धरेद्वा ॥ ११ ॥

न तत्त्रिभुवनैश्वर्यान्न कोशाद्रत्नधारिणः ।
फलमासाद्यते चित्ताद्यन्महत्त्वोपबृंहितात् ॥ १२ ॥

तत् सर्वदुःखप्रशमनोपलक्षितनिरतिशयानन्दलाभलक्षणं फलम् ।
महत्त्वं तुच्छविषयानभिलाषस्तेनोपवृंहितादुपचितात् ॥ १२ ॥

तदेतस्मिञ्जगत्कुक्षौ पातोत्पातनदोलनैः ।
पतन्ति पुरुषा ये वै मनस्तेषां गतज्वरम् ॥ १३ ॥

पाता अधोगतयः उत्पतनान्यूर्ध्वगतयः दोलनानि मर्त्यलोकेष्वेव
जन्मपरम्परया भ्रमणानि च तैस्तन्निमित्तभूतैर्विषयाभिलाषैर्ये पतन्ति
तेषां मनः सदैव गतज्वरं प्राप्तसन्तापमेव न
कदाचिद्विश्राम्यतीत्यर्थः । अथवा पूर्वश्लोकान्नेत्यनुवर्त्य ये न पतन्ति तेषां
मनोगतज्वरं निःसन्तापमिति व्याख्येयम् । पुनन्ति यतन्ते इति वा पाठे
पातयन्त्युत्पातयन्ति च ये विषयरागास्ते पातोत्पातनास्तेभ्यो दोलनैरुत्क्षेपणैः
प्रत्याहारोपायैरात्मनि स्थैर्यापादनेन ये मनः पुनन्ति यतन्ते वा तेषां
मनोगतज्वरं शान्तत्रिविधतापं भवतीति व्याख्येयम् ॥ १३ ॥

पूर्णे मनसि सम्पूर्णं जगत्सर्वं सुधाद्रवैः ।
उपानद्गूढपादस्य ननु चर्मास्तृतैव भूः ॥ १४ ॥

ननु सन्तापहेतुष्वाध्यात्मिकाधिदैविकाधिभौतिकेषु
रोगवर्षातपचोरसर्पादिषु सत्सु कथं मनःप्रशान्तिमात्रेण
सर्वतापनिवृत्तिस्तत्राह - पूर्णे इति । त्रिविधा अपि सन्तापा मनोदोषमूला एव
। मनसि विशुद्धब्रह्मामृतरसपूर्णे सति सर्वं जगदानन्दपूर्णमेव भाति
। यथा मृदुलोपानद्भ्यां संवृतचरणस्य कुशकण्टकादिसङ्कुलापि
सर्वा भूर्मृदुलतरचर्मास्तृतैव भाति तद्वदित्यर्थः ॥ १४ ॥

वैराग्यात्पूर्णतामेति मनो नाशावशानुगम् ।
आशया रिक्ततामेति शरदेव सरोमलम् ॥ १५ ॥

न आशावशानुगमिति च्छेदः । रिक्ततां शुष्कार्णवोदरकल्पताम् । सरोमलं
भिन्नतडागपङ्कः । सरोजलम् इति वा पाठः ॥ १५ ॥

हृदयं शून्यतामेति प्रकटीकृतकोटरम् ।
अगस्तिपीतार्णववदाशाविवशचेतसाम् ॥ १६ ॥

रिक्ततामेतीत्येतद्दृष्टान्तेन विवृणोति - हृदयमिति । कोटरस्य
प्रकटीकरणपत्रान्तर्गतलोभदैन्यादिदोषाणां ग्राहभुजङ्गादीनां च
स्फुटं प्रकाशनम् ॥ १६ ॥

यस्य चित्ततरौ स्फारे तृष्णाचपलमर्कटी ।
न वल्गति महत्तस्य राजते हृद्वनं ततम् ॥ १७ ॥

स्फारे धर्मज्ञानवैराग्यशान्तिदान्त्यादिपुष्पफलपल्लवादिसमृद्धे
चित्ततरौ मनोवृक्षे । हृवनं मनोबुद्धिरहङ्कारश्चित्तमिति
चतुर्विधवृक्षघटितमन्तःकरणवनम् ॥ १७ ॥

पद्माक्षकोशं त्रिजगद्गोष्पदं योजनव्रजम् ।
निमेषार्धं महाकल्पः स्पृहारहितचेतसाम् ॥ १८ ॥

निःस्पृहं प्रशंसति - पद्माक्षेत्यादिना । त्रिजगत्त्रैलोक्यमपि
पद्मबीजकोशवदल्पमिति यावत् । अपरिच्छिन्नब्रह्मसुखदृशा
ब्रह्माण्डान्तर्गतसुखलवानामल्पतरत्वात् । एवं नित्यसर्वगतब्रह्मदृशा
देशकालपरिच्छिन्नाधिपत्यादिविभवोऽप्यल्प एवेत्याशयेनाह - गोष्पदमिति
॥ १८ ॥

शीतता सा न शीतांशोर्न हिमाचलकन्दरे ।
न रम्भाचन्दनावल्यां निःस्पृहेषु मनःसु या ॥ १९ ॥

शीतता निस्तापाह्लादः । रम्भाः कदल्यश्चन्दनतरवश्च तदावल्यां तद्वने
यथायोग्यं तत्संश्लेषे वा ॥ १९ ॥

न तथा भाति पूर्णेन्दुर्न पूर्णः क्षीरसागरः ।
न लक्ष्मीवदनं कान्तं स्पृहाहीनं यथा मनः ॥ २० ॥

यथाब्दलेखा शशिनं सुधालेपं मषी यथा ।
दूषयत्येवमेवान्तर्नरमाशापिशाचिका ॥ २१ ॥

अब्दलेखा मेघराजिः । मषी कज्जलद्रवः । दूषयति मलिनयति ॥ २१ ॥

आशाख्याश्चित्तवृक्षस्य शाखाः स्थगितदिक्तटाः ।
तासु च्छिन्नास्वरूपत्वं याति चित्तमहाद्रुमः ॥ २२ ॥

स्थगितदिक्तटा आच्छादितदिगन्ताः । अरूपत्वं ब्रह्मतां स्थाणुतां च ॥ २२ ॥

छिन्नतृष्णामहाशाखे चित्तस्थाणौ स्थितिं गते ।
एकरूपतया धैर्यं प्रयाति शतशाखताम् ॥ २३ ॥

निरोधककुवृक्षे च्छिन्ने तदधः प्ररूढः सद्वृक्ष इव पश्चाद्धैर्यं
शतशाखतां प्रयाति । वर्धत यावत् ॥ २३ ॥

अनस्तमितधैर्येण तेन चित्ते क्षयं गते ।
तत्पदं प्राप्यते राम यत्र नाशो न विद्यते ॥ २४ ॥

अस्तु धैर्याभिवृद्धिः किं ततस्तत्राह - अनस्तमितेति । अनस्तमितधैर्येण
अभिवृद्धवैराग्यजितेन्द्रियत्वद्वन्द्वसहिष्णुत्वादिधैर्यवता पुरुषेण ॥ २४ ॥

एतासां चित्तवृत्तीनामाशानामुत्तमाशयः ।
न ददासि प्ररोहं चेत्तद्भयं नास्ति राघव ॥ २५ ॥

प्ररोहं पुनः प्ररोहावकाशं न ददासि चेत्तत्तर्हि जन्मादिभयं
नास्तीत्यर्थः ॥ २५ ॥

चित्तं वृत्तिविहीनं ते यदा यातमचित्तताम् ।
तदा मोक्षमयीमन्तः सत्तामाप्नोषि तां तताम् ॥ २६ ॥

ततां पूर्णाम् ॥ २६ ॥

चित्तकौशिकपक्षिण्या तृष्णया क्षुब्धयान्तरे ।
अमङ्गलानि विस्तारमलमायान्ति राघव ॥ २७ ॥

चित्ते प्रविष्टया कौशिकपक्षिण्या उलूक्या । यदा कदाचिद्गृहेऽपि उलूकी प्रविष्टा
चेन्मृत्युदारिद्र्योपप्लवाद्यमङ्गलानि भवन्तीति ज्योतिःशास्त्रादौ प्रसिद्धम् ।
सा चेद्देहान्तश्चित्ते निरन्तरं प्रविश्य सर्वव्यवहारेषु क्षुब्धा तिष्ठति तदा
तया अमङ्गलानि सर्वाण्येव अलं विस्तारमायान्तीति किं वाच्यमिति भावः ॥ २७ ॥

चिन्तनं वृत्तिरित्युक्तं वर्तते चित्तमाशया ।
चित्तवृत्तिमतो ह्याशां त्यक्त्वा निश्चित्ततां व्रज ॥ २८ ॥

ननु आशात्यागमात्रेण कथं चित्तोपशमः
सङ्कल्पविचिकित्साधृत्यधृत्यादिवृत्त्यन्तरैरपि तत्प्ररोहस्य
दुर्वारत्वादित्याशङ्कां सर्ववृत्तीनामाशामूलताप्रदर्शनेन परिहरति ##-
चाक्षुषादिवृत्तिप्रसक्तिरस्तीति चिन्तनमेव तदा चित्तस्य वृत्तिः परिशिष्यत इति
प्रागुक्तम् । चिन्तने च चित्तमाशयैव प्रवर्तते । आशास्यानामेव विषयाणां
चिन्तनदर्शनात् । सङ्कल्पादिवृत्तीनां च चिन्तितार्थविषयतया
चिन्तापूर्वकत्वाच्चिन्तामूलभूतामाशाख्यां चित्तवृत्तिं त्यक्त्वा निश्चित्ततां
व्रजेत्यर्थः ॥ २८ ॥

यो यया वर्तते वृत्त्या स तयैव विना क्षयी ।
अतश्चित्तोपशान्त्यर्थं तद्वृत्तिं प्रक्षयं नय ॥ २९ ॥

ज्वालौष्ण्यक्षये वह्नेरिव वृत्तिक्षये मनस उपशमः सिद्ध्यतीत्याह - यो
ययेति । तयैव विना तद्वृत्तेरात्यन्तिकनिरोधेन क्षयी अपक्षयक्रमेण नश्यति ॥
२९ ॥

प्रशमितसकलैषणो महात्म-
नभव भवबन्धमपास्य मुक्तचित्तः ।
मनसि निगडरज्जवः कदाशाः
परिगलितासु च तासु को न मुक्तः ॥ ३० ॥

उक्तमर्थं सङ्गृह्योपसंहरति - प्रशमितेति । हे महात्मन त्वं
प्रशमितपुत्रवित्तलोकादिसकलैषणः सन् भवबन्धमाशाख्यमपास्य
मुक्तचित्तो जीवन्मुक्तो भव । यतः कुत्सिता आशा मनसि विद्यमाना आत्मनो
निगडरज्जवो निगडवद्रज्जुवच्च बन्धनहेतवः । तासु परिगलितासु सतीषु को न
मुक्तः । सर्वोऽपि जन्तुर्मुच्यत एवेत्यर्थः ॥ ३० ॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे०
मोक्षोपायेषूपशमप्रकरणे तृष्णाविचिकित्सायोगोत्पत्तिर्नामैकविंशः
सर्गः ॥ २१ ॥

इति श्रीवासिष्ठमहारामायणतात्पर्यप्रकाशे उपशमप्रकरणे
तृष्णाविचिकित्सायोगोत्पत्तिर्नामैकविंशः सर्गः ॥ २१ ॥